श्रीशुक उवाच
एवं ते भगवददूता यमदुताभिभाषितम ।
उपाधार्याथ तान राजन प्रत्याहुर्नयकोविदाः ॥१॥
विष्णुदुता ऊचुः
अहो कष्टं धर्मदृशामधर्मः स्पृशते सभाम ।
यत्रादण्डयेष्वपापेषु दण्डो यैर्ध्रियते वृथा ॥२॥
प्रजांनां पितरो ये च शास्तारः साधवाः समाः ।
यदि स्यात्तेषु वैषम्यं कं यान्ति शरणं प्रजाः ॥३॥
यद्यदाचरति श्रेयानितरस्तत्तदीहते ।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥४॥
यस्याकें शिरं आधाय लोकः स्वपिति निर्वृतः ।
स्वयं धर्ममधर्म वा न हि वेद यथा पशुः ॥५॥
स कथं न्यर्पितात्मानं कृतमैत्रमचेतनम ।
विश्रम्भणीयो भुताणां सघुणो द्रोगधुमर्हति ॥६॥
अयं हि कृतनिर्वेशो जन्मकोट्यंहसामपि ।
यद व्याजहार विवशो नाम स्वस्त्ययनं हरेः ॥७॥
एतेनैव ह्याघोनोऽस्य कृतं स्यादघनिष्कृतम ।
यदा नारायणायेचि जगाद चतुरक्षरम ॥८॥
स्तेनः सुरापो मित्रध्रुग्ब्रह्याहा गुरुतल्पगः ।
स्त्रीराजपितृगोहन्ता ये अ पाताकिनोऽपरे ॥९॥
सर्वेषमप्यघवतामिदमेव सुनिष्कृतम ।
नामव्याहरणं विष्णोर्यतस्ताद्विषया मतिः ॥१०॥
न निष्कृतैरिरुदितैर्ब्रह्यावदिभि स्तथा विशुद्धत्यघवान व्रतादिभिः ।
यथा हरेर्नामपदैरुदाहृतै स्तदुत्तमशोल्कगुणोपलम्भकम ॥११॥
नैकन्तिकं तद्भि कृतेऽपि निष्कृते मनः पुनर्धावति चेदसप्तथे ।
तत्कर्मनिर्हारमभीप्सतां हरे र्गुनानुवादः खलु सत्त्वभावनः ॥१२॥
अथैनं मापनयत कूताशेषानिष्कृतम ।
यदसौ भगवन्नाम म्रियमाणः समग्रहीत ॥१३॥
साकेंत्यं पारिहास्यं वा स्तोभं हेलनमेव वा ।
वैक्कुण्ठनामग्रहणमशोषाघहरं विदुः ॥१४॥
पतितः स्खलितो भग्नः सन्दष्टस्तप्त आहतः ।
हरिरित्यवशेनाह पुमान्नार्हति यातनाम ॥१५॥
गुरुणां च लघुनां च गुरुणि च लघुनि च ।
प्रायश्चित्तानि पापांना ज्ञात्वोत्कनि महर्षिभिः ॥१६॥
तैस्तन्यघानि पुयन्ते तपोदानजपदिभिः ।
नाधर्मजं तदधृदयं तदपीशांघ्रिसेवया ॥१७॥
अज्ञानादथवा ज्ञानादुत्तमश्लोकानाथ यत ।
संकींर्तितमघं पुंसो दहेदेधो यथानलः ॥१८॥
यथागदं वीर्यतममुपयुक्तं यदृच्छया ।
अजानतोऽप्यात्मगुणं कुर्यात्मन्त्रोऽप्युदाहृतः ॥१९॥
श्रीशुक उवाच
त एवं सुविनिर्णीय धर्म भागवतं नृप ।
तं याम्पपाशान्निर्मुच्य विप्रं मृत्योरमुमुचन ॥२०॥
इति प्रत्युदित याम्या दुता यात्वा यमान्तिके ।
यमराज्ञे यथा सर्व माचचक्षुररिंदम ॥२१॥
द्विजः पाशाद्विनिर्मुक्तो गतभीः प्रकृतिं गतः ।
ववन्दे शिरसा विष्णोः किंकरान दर्शनोत्सवः ॥२२॥
तं विवक्षुमभिप्रेत्य महापुरुषकिंकराः ।
सहसा पश्यतस्तस्य तत्रान्तर्दधिरेऽनघ ॥२३॥
अजामिलोऽप्यथाकर्ण्य दुतांनां यमकृष्णयोः ।
धर्मं भागवतं शुद्धं त्रैविद्यं च गुणाश्रयम ॥२४॥
भक्तिमान भगवत्याशु माहत्म्यश्रवणाद्धरेः ।
अनुतापो महानासीत्स्मरतोऽशुबह्मात्मनः ॥२५॥
अहो मे परमं कष्ट मभुदविजितात्मनः ।
येन विप्लवितं ब्रह्म वृषल्यां जायताऽऽत्मुना ॥२६॥
धिडमां विगर्हितं सद्भिर्दष्कृतं कुलकज्जलम ।
हित्वा बालं सतीं योऽहं सुरापामासतीमगाम ॥२७॥
वृद्धाव्नाथौ पितरौ नान्यवन्धु तपस्विनौ ।
अहो मयाधुना त्यक्तावकृतज्ञेन नीचवत ॥२८॥
सोऽहं व्यक्तं परिष्यमि नरके भृशदारुणे ।
धर्मघ्राः कामिनो यत्र विन्दन्ति यमयातनाः ॥२९॥
किमिदं स्वप्न आहोस्वित साक्षात द्रुष्ट मिहाद्बतम ।
क्व याता अद्य ते यो मां व्यकर्षन पाशपाणयः ॥३०॥
अथ ते क्व गताः सिद्धाश्चत्वारश्चारुदर्शनाः ।
व्यमोचयनीयमानं बदध्वा पाशैरधो भुवः ॥३१॥
अधापि मे दुर्भगस्य विबुधोत्तमदर्शने ।
भवितव्यं मंगलेन येनात्मा मे प्रसादति ॥३२॥
अन्यथा म्रियमाणस्य नाशुचेर्वृषलीपतेः ।
वैकुण्ठनामग्रहणं जिह्ला वक्तुमिहार्हति ॥३३॥
क्व चहं कितवः पापो ब्रह्माघ्रो निरपत्रपः ।
क्व च नारायणेत्येतद्भगवन्नाम मंगलमः ॥३४॥
सोऽहंतथा यतिष्यामि यतचित्तेन्द्रियानिलः ।
यथा न भुय आत्मानमध्ये तमसि मज्जले ॥३५॥
विमुच्य तमिमं बन्धमविद्याकामकर्मजम ।
सर्वभुतसुहृच्छन्तो मैत्रः करुन आत्मवान ॥३६॥
मोचये ग्रस्तमात्मानं योषिन्मय्याऽऽत्ममायया ।
विक्रीडितो ययैवाहं क्रीडामृग इवाधमः ॥३७॥
ममाहमिति देहादौ हित्वाऽमिथ्यार्थधीर्मतिम ।
धास्ये मनो भगवति शुद्धं तत्कीर्तनादिभिः ॥३८॥
श्रीशुक उवाच
इति जातसुनिर्वेदः क्षणसंगेन साधुषु ।
गंगाद्वारमुपेयाय मुक्तसर्वानुबन्धनः ॥३९॥
स तस्मिन देवसदन आसीनो योगमाश्रितः ।
प्रत्याहृतेन्द्रियग्रामो युयोज मन आत्मनि ॥४०॥
ततो गुणेभ्य आत्मानं वियुज्यात्मसमाधिना ।
युयुजे भगवद्भाम्नि ब्रह्माण्यनुभात्मनि ॥४१॥
यर्ह्यापारतधीस्तस्मिन्नद्राक्षीप्तुरुषान पुरः ।
उपलभ्योपलब्धान प्रग्ववन्दे शिरसा द्विजः ॥४२॥
हित्वा कलेवरं तीर्थे गंगायां दर्शनादनु ।
सद्यः स्वरुपं जग्रुहें भगवत्पाश्ववर्तिनाम ॥४३॥
साकं विहायसा विप्रो महापुरुषकिकंरैः ।
हैमं विमानमारुह्य ययौ यत्र श्रियः पतिः ॥४४॥
एवं स विप्लावितसर्वधर्मा
दास्याः पतिः पतितोगर्ह्याकर्मणा ।
निपात्यमानो निरये हतव्रतः
सद्यो विमुक्तो भगवन्नाम गृह्नन ॥४५॥
नातः परं कर्मनिबन्धकृन्तनं मुमुक्षतां तीर्थपदानुकीर्तनात ।
न यत्पुनः कर्मसु सज्जते मनो रजस्तमोभ्यां कलिलं ततोऽन्यथा ॥४६॥
य एवं परमं गुह्यामितिहासमघापहम ।
श्रृणुयाच्छ्रद्धया युक्तो यश्च भक्त्त्यानुकीरर्तयेत ॥४७॥
न वै स नरकं याति नेक्षितो यमकिंकरैः ।
यद्यप्यमंगलो मत्यौ विष्णुलोके महीयते ॥४८॥
म्रियमोणो हरेर्नाम गृणन पुत्रोपचारितम ।
अजामिलोऽप्यगद्धाम किंपुनः श्रद्धया गृणनु ॥४९॥
इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां षष्ठस्कन्धेऽजामिलोपाख्याने द्वितीयॊऽध्यायः ॥२॥