ऋषिरुवाच
एवं जिहासुर्नृप देहमार्जौ मृत्युं वरं विजयान्मन्यमानः ।
शुलं प्रगृह्याभ्यपतत सुरेन्द्रं यथा महापुरुषं कैटभोऽप्सु ॥१॥
ततो युगान्ताग्र्निकठोरजिह्ल माविध्य शुलं तरसासुरेन्द्रः ।
क्षिप्त्वा महेन्द्राय विनद्य वीरो हतोऽसि पापेति रुषा जगाद ॥२॥
ख आपतत तद विचलद ग्रहोल्कवन्निरिक्ष्य दुष्प्रेक्षयमजातविक्लवः ।
वज्रेण वर्ज्री शतपर्वणाच्छिनद भुजं च तस्योरगराजभोगम ॥३॥
छिन्नैकबाहुः परिघेण वृत्रः संरब्ध आसाद्य गृहितवज्रम ।
हनौ तताडेन्द्रमथामरेभं वज्रं च हस्तान्न्यपतन्मघोनः ॥४॥
वृत्रस्य कर्मातिमहाद्भुतं तत सुरसुराश्र्चारणसिद्धसंघाः ।
अपुजयंस्तत प्रुउहुतसंकट निरिक्ष्य हा हेति विचुक्रुशर्भृशम ॥५॥
इन्द्रो न वज्रं जगृहे विलज्जित श्च्युतं स्वहस्तादरिसन्निधौ पुनः ।
तमाह वृत्रो हर आत्तवज्रो जहि स्वशत्रुं न विषादकालः ॥६॥
युयुत्सतां कुत्रचिदातायिनां जयः सदैकत्र न वै परात्मनाम ।
विनैकम्पुत्पत्तिकलयस्थितीश्वरं सर्वज्ञमाद्यं पुरुषं सनातनम ॥७॥
लोकाः सपाला यस्येमे श्वसन्ति विवशा वशे ।
द्विजा इव शिचा बद्धाः स काल इह कारणम ॥८॥
ओजः सहो बलं प्राणममृतं मृत्युमेव च ।
तमज्ञाय जनो हेतुमात्मानं मन्यते जडम ॥९॥
यथा दारुंमयी नारी यथा यन्त्रमयो मृगः ।
एवं भुतानि मघवन्नेशतन्त्राणि विद्धिः भोः ॥१०॥
पुरुषः प्रकृतिर्व्यक्तमात्मा भुतेन्द्रियाशयाः ।
शक्नुवन्त्यस्य सर्गादौ न विना यदनुग्रहात ॥११॥
अविद्वानेवमात्मानं मन्यतेऽनीशमीश्वरम ।
भुतैः सृजाति भुतानि ग्रसते तानि तैः स्वयम ॥१२॥
आयुः श्रीःकीर्तिरैश्वर्यमाशिषः पुरुषस्य याः ।
भवन्त्येव हि तत्काले यथाऽनिश्चोर्विपर्ययाः ॥१३॥
तस्मादकीर्तियशसोर्जयापजययोरपि ।
समः स्यात सुखदुःखाभ्यां मृत्युजीवितयोस्तथा ॥१४॥
सत्त्वं रजस्तम इति प्रकृतेर्नात्मनो गुणाः ।
तत्र साक्षिणमात्मानं यो वेद न स बध्यते ॥१५॥
पश्य मां निर्जितं शक्र वृक्णायधभुजं मृधे ।
घटमानं यथाशक्तिं तव प्राणजिहीर्षय़ा ॥१६॥
प्राणग्लाहोऽय्हं समर इष्वक्षो वाहनासनः ।
अत्र न ज्ञायतेऽमुष्य जयोऽमुष्य पराजयः ॥१७॥
श्रीशुक उवाच
इन्द्रो वृत्रवचःश्रुत्वा गतालीकमपुजयत ।
गृहीतवज्रः प्रहसंस्तमाह गतिविस्मयः ॥१८॥
इन्द्र उवाच
अहो दानव सिद्धोऽसि यस्य ते मतिरिदृशी ।
भक्तः सर्वात्मनाऽऽत्मानं सृह्दं जगदीश्वरम ॥१९॥
भवानतार्षीन्मायां वै वैष्णवीं जनमोहिनीम ।
यद विहायासुरं भावं महापुरुषतां गतः ॥२०॥
खल्विदं महदाश्चर्यं यद रजः प्रकृतेस्तव ।
वासुदेव भगवति सत्त्वात्मनि दृढा मतिः ॥२१॥
यस्य भक्ति र्भगवति हरौ निःश्रेयसेश्वरे ।
विक्रिडतोऽमृताम्भोधौ किं क्षुदैः खातकोदकैः ॥२२॥
श्रीशुक उवाच
इति ब्रुवनावन्योन्यं धर्मजिज्ञासया नृप ।
युयुधाते महावीर्याविन्द्रवृत्रौ युधाम्पती ॥२३॥
आविध्य परिघं वृत्रः कार्ष्यायसमरिन्दमः ।
इन्द्राय प्राहिणोद घोरं वामहस्तेन मारिष ॥२४॥
स तु वृत्रस्य परिघं करं च करभोपमम ।
चिच्छेदं युगपद देवो वज्रेण शतपर्वण ॥२५॥
दोर्भ्यामुत्कृत्तमुलाभ्यां बभौ रक्तस्रवोऽसुरः ।
छिन्नपक्षो यथा गोत्रः खाद भ्रष्टो वज्रिणा हतः ॥२६॥
कृत्वाधरां हनुं भुमौ दैत्यो दिव्युत्तरांहनुमं ।
नभोगम्भीरवक्त्रेण लेलीहोल्बणजिह्नया ॥२७॥
दंष्ट्राभिः कालकल्पाभिर्ग्रिसन्निव जगत्त्रयम ।
अतिमात्रमहाकाय आक्षिपंस्तरसा गिरीन ॥२८॥
गिरिराट पांचचारिव पादभ्यां निर्जरयन महिम ।
जग्रास स समासाद्य वज्रिणं सहवाहनम ॥२९॥
महाप्राणो महावीर्यो महासर्प इव द्विपम ।
वृत्रग्रस्तं तमालक्ष्य सप्रजापतयः सुराः ।
हा कष्टमिति निर्विण्णाश्चुक्रुशुः समहर्षयः ॥३०॥
निगीर्णोऽप्यसुरेन्द्रेण न ममारोदरं गतः ।
महापुरुषस्न्नद्धो योगमायाबलेन च ॥३१॥
भित्वा वज्रेण तत्कृक्षिं निष्क्रम्य बलभिद विभुः ।
उच्चकर्त शिरं शत्रोर्गिरिश्रुंगमिवौजसा ॥३२॥
वज्रस्तु तत्कन्धरमाशुवेगःकृन्तन समन्तात परिवर्तमानः ।
न्यपातयत तावदगर्गणेन यो ज्योतिषामयने वार्त्रहत्ये ॥३३॥
तदा च खे दुन्दुभयो विनेदु र्गन्धर्वसिद्धाः समहर्षिसंघाः ।
वार्त्रघ्नलिगैस्तमभिष्टुवाना मन्त्रैर्मुदा कुसुमैदभ्यवर्षन ॥३४॥
वृत्रस्य देहान्निष्क्रान्तमात्मज्योतिररिन्दम ।
पश्यतां सर्वलोकानामलोकं समपद्यत ॥३५॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे वृत्रवधो नाम द्वादशोऽध्यायः ॥१२॥