राजोवाच
व्रतं पुंसवनं ब्रह्मान भवता यदुदीरितम ।
तस्य वेदितुमिच्छमि येन विष्णुः प्रसीदति ॥१॥
श्रीशुक उवाच
शुक्ले मार्गशिरे पक्षे योषिद्भर्तुरनुज्ञया ।
आरभेत व्रतामिदं सार्वकामिकमादितः ॥२॥
निशम्य मरुतां जन्मक ब्राह्मणाननुमन्त्र्य च ।
स्नात्वा शुक्लदती शुक्ले वसीताअलंकृम्बरे ।
पुजयेत्प्रातराशात्प्रागभगवन्तं श्रिया सह ॥३॥
अलं ते निरपेक्षाय पुर्णकाम नमोऽस्तु ते ।
महाविभुतिपतये नमः सकलसिद्धये ॥४॥
यथा त्व कृपया भुत्या तेजसा महिनौजसा ।
जुष्ट ईश गुणौः सर्वैस्ततोऽसि भगवान प्रभुः ॥५॥
विष्णुपत्नि महामाये महापुरुषलक्षणे ।
प्रीयेथा मे महाभागे लोकमातर्नमोऽस्तु ते ॥६॥
ॐ नमो भगवते महापुरुषाय महानुभावाय
महविभुइतिपतये सह महाविभुउतिभिर्बलिमुप
हरणीति । अनेनाहरहर्मन्त्रेण विष्णोरावाहनार्घ्य
पाद्योपस्पर्शनस्नानवसौपवीतविभुषणगन्धपुष्प
धुपदीपोपहाराद्युपचाराश्च समाहित उपाहरेत ॥७॥
हविःशेषं तु जुहुयादनले द्वदशाहुतीः ।
ॐ नमो भगवते महापुरुषाय महा विभुतिपतये स्वाहेति ॥८॥
श्रियं विष्णुं च वरदावाशिषां प्रभावावुर्भौ ।
भक्त्या सम्पुजयेन्नित्यं यदीच्छेत्सर्वसम्पदः ॥९॥
प्रणमेद्दण्डवद्भुमौ भक्तिप्रह्नेण चेतसा ।
दशवारं जपेन्मन्त्रं ततः स्त्रोत्रमुदीरयेत ॥१०॥
युवां तु विश्वस्य विभु जगतः कारणं परम ।
इयं हि प्रकृतिः सुक्ष्मा मायाशक्तिर्दुरत्यया ॥११॥
तस्या अधीश्वरः साक्षात्त्वमेव पुरुषः परः ।
त्वं सर्वयज्ञ इज्येजं क्रियेयं फलभुग्भवन ॥१२॥
गूणव्यक्तिरियं देवी व्यत्र्जको गुणभुग्भवान ।
त्व हि सर्वशरीर्यात्मा श्रीः शरीरेन्द्रियाशया ।
नमरुपे भगवती प्रत्ययस्तमपाश्रयः ॥१३॥
यथा युवां त्रिलोकस्य वरदौ परमेष्ठिनौ ।
तथा म उत्तमश्लोक सन्तु सत्या महशिषः ॥१४॥
इत्यभिष्टुय वरदं श्रीनिवासं श्रिया सह ।
तन्निः सार्योपहरणं दत्वाऽचमनमर्चयेत ॥१५॥
ततः स्तुवीत स्तोत्रेण भक्तिप्रह्नेण चेतसा ।
यज्ञोच्छिष्टमवघ्राय पुनरभ्यर्चयेद्धरिम ॥१६॥
पतिं च परया भक्त्या महापुरुषचेतसा ।
प्रियैस्तैस्तैरुपनमेत प्रेमशीलःस्वयं पतिः ।
बिभृयात सर्वकर्माणि पत्न्या उच्चवनानि च ॥१७॥
कुतमेकतरेणापि दम्पत्योरुभयोरपि ।
पन्त्यां कुर्यादनर्हायां पतिरेतत समाहितः ॥१८॥
विष्णोर्व्रतमिदं बिभ्रन्न विहन्यात कथत्र्चन ।
विप्रान स्त्रियो वीरवतीः स्रग्गन्धबलिमन्दनैः ।
अर्चैदहरहर्भक्त्यां देवं नियममास्थितः ॥१९॥
उद्वास्य देव स्वे धाम्रि तन्निवेदिमग्रतः ।
अद्यादात्मविशुद्धध्यर्थं सर्वकामर्द्धये तथा ॥२०॥
एतेन पुजाविधिना मासान द्वादश हयनम ।
नीत्वाथोपचरेत्साध्वी कार्तिके चरमेऽहनि ॥२१॥
श्वोभुतेऽप उपस्पृश्य कृष्णमभ्यच्य पुर्ववत ।
पयः श्रृतेन जहुयाच्चरुणा सह सर्पिषा ।
पाकयज्ञविधानेन द्वादशैवाहुतीः पतिः ॥२२॥
आशिषः शिरसऽऽदाय द्विजैः प्रीतैः समीरिताः ।
प्रणम्य शिर्सा भक्त्या भुत्र्जीत तदनुज्ञया ॥२३॥
आचार्यमग्रतः कृत्वा वाग्यतः सह बन्धुभिः ।
दद्यापन्त्यै चरोः शेषं सुप्रजस्त्वं सुसौभगम ॥२४॥
एतच्चरित्वा विधिवदव्रतं विभो रभीप्सितार्थं लभते पुमानिह ।
स्त्री त्वेतदास्थाय लभेत सौभगं श्रियं प्रजां जीवपतिं यशो गृहम ॥२५॥
कन्या च विन्देत समग्रलक्षणं वरं त्ववीरा हतकीश्किषा गतिम ।
मृतप्रजा जीवसुता धनेश्वरी सुदुर्भगा सुभगा रुपमग्रद्यम ॥२६॥
विन्देद विरुपा विरुजा विमुच्यते य आमयावीन्द्रियकल्पदेहम ।
एतत्पठन्नभ्युदये च कर्मण्यनन्ततृप्तिः पितृदेवतानाम ॥२७॥
तुष्टाः प्रयच्छन्ति समस्तकामान होमावसाने हुतभुक श्रीर्हरिश्च ।
राजनं महन्तरुतां जन्म पुण्यं दितेर्व्रतं चाभिहितं महत्ते ॥२८॥
इति श्रीमद्भागवते महापुराणे वैयासिक्यामष्टादशसाहस्रयां पारमसंह्यां संहितायां षष्ठस्कन्धे पुसंसवनव्रतकथनं नामैकोनविंशोऽध्यायः ॥१९॥
॥ इति षष्ठः स्कन्धः समाप्तः ॥
॥ हरिः ॐ तत्सत ॥