श्रीशुक उवाच
ततः प्राचेतसोऽसिक्न्यामनुनीतः स्वयम्भुवाः ।
षष्टिं सजंनयामास दुहितृः पितृवत्सलाः ॥१॥
दश धर्माय कयेन्दोर्द्विष्टत्रिणव दत्तवान ।
भुतानिंगिर कृशाश्वेभ्यो द्वे द्वे ताक्ष्याय चापराः ॥२॥
नामधेयान्यमुषां त्वं सपत्यांना च मे श्रृणु ।
यांसा प्रसुतिप्रसवैर्लोका आपुरितास्त्रयः ॥३॥
भान्युर्लम्बा ककुब्जामिर्विश्वा साध्या मरुत्वती ।
वसुर्मुहुता संकल्पा धर्मपत्न्यः सुतान श्रृणु ॥४॥
भानोस्तु देवऋषभ इंन्द्रसेनस्तते नृप ।
विद्योत आसील्लम्बायास्ततश्च स्तनयित्नाः ॥५॥
ककुभः संकटस्तस्य किकटस्तनयो यतः ।
भुवो द्रुगाणि जामेयः स्वर्गो नन्दिस्ततोऽभवत ॥६॥
विश्वेदेवास्तु विश्वाया अप्रयांस्तान प्रचक्षते ।
साध्यो गणस्तु साध्याय अर्थसिद्धिस्तु तत्सुतः ॥७॥
मरुत्वंश्च जयन्तश्च मरुत्वत्यां बभुवतुः ।
जयन्तो वासुदेवांश उपेन्द्र इति यं विदुः ॥८॥
मौहुर्तिका देवगणा मुहुर्त्याश्च जज्ञिरे ।
ये वै फलं प्रयच्छन्ति भुतांना स्वस्वकालजम ॥९॥
सकंल्पायाश्च संकल्पः कामः संकल्पजः स्मृतः ।
वसवोऽष्टौ वसोः पुत्रास्तेषा नामानि मे श्रुणु ॥१०॥
द्रोण प्राणो ध्रुवोऽर्क्रोऽग्र्निर्दोषो वसुर्विभावसुः ।
द्रोणस्याभिमतेः पन्त्या हर्षशोकभयादयः ॥११॥
प्राणस्योर्जस्वती भार्या सह आयुः पुरोजवः ।
ध्रुवस्य भार्या धरणिरसुत विविधाः पुरः ॥१२॥
अर्कस्य वासना भार्या पुत्रास्तर्षादयः स्मृताः ।
अग्नेर्भायां वसोर्धारा पुत्रा द्रविणकादयः ॥१३॥
स्कन्दश्च कृत्तिकापुत्रो ये विशाखादययास्ततः ।
दोषस्य शर्वरीपुत्रः शिशुमरो हरेः कलाः ॥१४॥
वसोरागिंरसी पुत्रो विश्वकर्माकृतिपतिः ।
ततो मनुश्चाक्षुषोऽभुद विश्वे साध्या मनोः सुताः ॥१५॥
विभावसोरसुतोषा व्युष्टं रोचिषमातपम ।
पंचयामोऽथ भुतानि येन जाग्रति कर्मसु ॥१६॥
सरुपासुत भुतस्य भार्या रुद्राश्च कोटिशः ।
रैवतोऽजो भवो भीमो वाम उग्रो वृषाकपिः ॥१७॥
अजैकपादहिर्बुध्न्यो बहुरुपो महानिति ।
रुद्रस्य पार्षदाश्चान्ये घोरा भ्तविनायकाः ॥१८॥
प्रजापतेरंगिरसः स्वधा पत्नी पितृनथः ।
अथर्वांगिरसं वेद पुत्रत्वे चाकरोत सती ॥१९॥
कृशाश्वोऽर्चिषि भार्यायां धूम्रकेशमजीजनत ।
धिषणायां वेदशिरो देवलं वयुनं मनुम ॥२०॥
तार्क्ष्यस्य विनता कद्रुः पतंगी यामिनीति च ।
पंतगयसुत पतगान यामिनी शलभानथः ॥२१॥
सुपर्णासुत गरुडं साक्षाद यज्ञेशवाहनमः ।
सुर्यसुतमनुरुं च कद्रुर्नागननेकशः ॥२२॥
कृत्तिकादिनि नक्षत्राणीन्दो पन्त्यस्तु भारत ।
दक्षशपात सोऽनपत्यस्तासु यक्षग्रहार्दितः ॥२३॥
पुनह प्रसद्यां तं सोमः कला लेभे क्षये दिताः ।
श्रुणु नामानि लोकानां मातृणां शंकराणि च ॥२४॥
अथ कश्यपपत्नीनां यत्प्रसुतमिदं जगत ।
अदितिर्दितिर्दनुः काष्ठा अरिष्टा सुरसा इला ॥२५॥
मुनिः क्रोधावशा ताम्रा सुरभिः सरमा तिमिः ।
तिमेर्यादोगणा आसन श्वापदाः सरमासुताः ॥२६॥
सुरभेर्महिषा गावो ये चान्ये द्विशफा नृप ।
ताम्रायाः श्येनगृधाद्या मुनेरप्सरसां गणाः ॥२७॥
दन्दशुकाद्यः सर्पा राजन क्रोधवशात्मजाः ।
इलाया भुरुहाः सर्वे यातुधानाश्च सौरसाः ॥२८॥
अरिष्टायाश्च गन्धर्वाः काष्ठाया द्विशफेतराः ।
सुता दनोरेकषष्टिस्तेषां प्राधानिकान श्रुणुः ॥२९॥
द्विमुर्धा शम्बरोऽरिष्टो हयग्रीवो विभावसुः ।
अयोमुखः शंखकुशिराः स्वर्भानुः कपिलोऽरुणः ॥३०॥
पुलोम वृषपर्वा च एकचक्रोऽनुतापनः ।
धुम्रकेशो विरुपाक्षो विप्रचित्तिक्षि दुर्जयः ॥३१॥
स्वर्भानोः सुप्रंभां कन्यामुवाह नमुचिः किलः ।
वृषपर्वणस्तु शर्मिष्ठा ययातिर्नाहुषो बली ॥३२॥
वैश्वानसुता याश्च चतस्रश्चारुदर्शनाः ।
उपदानवी हयशिरा पुलोमा कालका तथा ॥३३॥
उपदानवीं हिरण्याक्षः क्रतुर्हयाशिरां नृपः ।
पुलोमां कालकां च द्वे वैश्वानसुते तु कः ॥३४॥
उपयेमेऽथ भगवान कश्यपो ब्रह्माचोदितः ।
पौलोमाः कालकेयाश्च दानवा युद्धशालिनः ॥३५॥
तयोः षष्टिसहस्राणि यज्ञघ्रांस्ते पितृः पिता ।
जघान स्वर्गतो राजन्नके इंन्द्रपिर्यकंरः ॥३६॥
विप्रचित्तै सिंहिकायां शतं चैकमजीजनत ।
रहुज्येष्ठं केतुशतं ग्रहत्व य उपागतः ॥३७॥
अथातः श्रुयतां वंशो योऽदितेरनुपुर्वशः ।
यत्र नारायणो देवः स्वांशेनावतरद विभुः ॥३८॥
विवस्वानर्यमा पुषा त्वष्टाथ सविता भगः ।
धाता विधाता वरुणो मित्रः शक्र उरुक्रमः ॥३९॥
विवस्वतः श्राद्धदेवं संज्ञासुयत वै मनुम ।
मिथुन च महाभागा यमं देवं यमीं तथा ।
सैव भुत्वाथ वडवा नासत्यौ सुषुवे भुवि ॥४०॥
छाया शनैश्वरं लेभे सर्वार्णि च मनुं ततः ।
कन्यां च तपतीं या वै वव्रे संवरण पतिम ॥४१॥
अर्यम्णो , मातृकां पत्नी तयोश्चर्षणयाः सुताः ।
यत्र वै मानुषी जातिर्ब्रह्माणा चोपकल्पिता ॥४२॥
पुषानपत्यः पिष्टादो भग्नदन्तोऽभवत पुरा ।
योऽसौ दक्षाय कुपितं जहास विवृतद्विजः ॥४३॥
त्वष्टदैत्यानुजा भार्या रचना नाम कन्याका ।
संनिवेशस्तयोर्जज्ञे विश्वरुपश्च वीर्यवान ॥४४॥
तं वव्रिरे सुरगणा स्वस्त्रीयं द्विषतामपि ।
विमतेने परित्यक्ता गुरुणाऽऽगिंरसेन यत ॥४५॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायं षष्ठस्कन्धे षष्ठोऽध्यायः ॥६॥