षष्ठः स्कन्धः - अथ चतुर्थोऽ‍ध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


राजोवाच

देवासुरनृणां सर्गो नागाणां मृगपक्षिणाम ।

सामसिकस्त्वया प्रोक्तो यस्तु स्वायम्भुवेऽन्तरे ॥१॥

तस्यै व्याअमिच्छमि ज्ञातुं ते भगवन यथा ।

अनुसर्गं यया शक्त्या ससर्ज भगवान परः ॥२॥

सुत उवाच

इति सम्प्रश्नामाकर्ण्य राजर्षेर्बादरायणिः ।

प्रतिनन्द्य महायोगी जगाद मुनिसत्तमाः ॥३॥

श्रीशुक उवाच

यदा प्रचेतसः पुत्रा दश प्राचीनबर्हिषः ।

अन्तः समुद्रादुन्मग्रा ददृशुर्गां द्रुमैर्वृताम ॥४॥

द्रुमेभ्यः क्रुध्यमानास्ते तपोदिपितमन्यवः ।

मुखतो वायुमग्निं च स्सृजुस्तद्दिधक्षया ॥५॥

ताभ्यां निर्दहृमानांस्तानुपलभ्य कुरुद्वह ।

राजोवाच महान सोमी मन्युं प्रशमयन्निव ॥६॥

माद्रुमेभ्यो महाभाग दीनेभ्यो द्रोग्धमर्हथ ।

विवर्धयिषवो युयं प्रजानां पतयः स्मृताः ॥७॥

अहो प्रजापतिपतिर्भगवान हरिरव्ययः ।

वनस्पतीनोषधीश्च ससर्जोर्जामिषं विभुः ॥८॥

अन्नं चराणामचरा ह्यापदाः पादचारिणाम ।

अहस्ता हस्तयुक्तानां द्विपदां च चतुष्पदः ॥९॥

युयं च पित्रान्वादिष्टा देवदेवेन चानघाः ।

प्रजासर्गाय हि कथं वृक्षान निर्दग्धुमर्हथ ॥१०॥

आतिष्ठात सतां मार्गं कोपं यच्छत दीपितम ।

पित्रा पित्रामहेनापि ज्युष्टं वः प्रतितामहैः ॥११॥

तोकांना पितरौ बन्धु दृशः पक्षम स्त्रिया पति ।

पतिः प्रजांना भिक्षुणां गृहाज्ञानाम बुधः सुहृत ॥१२॥

अन्तर्देहेषु भुतानामात्माऽऽस्ते हरिरीश्वरः ।

सर्व तद्भिष्णयमीक्षध्वमेवं वस्तोषितो ह्यासौ ॥१३॥

यः समुप्ततितं देह आकाशान्मन्युमुल्बणम ।

आत्माजिज्ञासया यच्छेत स गुनानतिवर्तते ॥१४॥

अलं दग्धैर्द्रुमैर्दीनैः खिलानां शिवमस्तु वः ।

वाक्षीं ह्योषां वरा कन्या पत्‍नीत्वे प्रतिगृहाताम ॥१५॥

इत्यामन्त्र्य वरारोहां कन्यामाप्सरसीं नृप ।

सोमो राजा ययौ दत्त्वा ते धर्मेणोपयेमिरे ॥१६॥

तेभ्यस्तस्यां समभवद्दभः प्राचेतसः किल ।

यस्य प्रजाविसर्गेण लोका आपुरितास्त्रयः ॥१७॥

यथा ससर्ज भुतानि दक्षो दुहितृवत्सलः ।

रेतसा मनसा चैव तन्ममावहितः श्रृणु ॥१८॥

मनसओइवासृजत्पुर्व प्रजापतिरिमाः प्रजाः ।

देवासुरमनुष्यादीन्नभः स्थलजलौकसः ॥१९॥

तमबृंहितमालोक्य प्रजासर्गं प्रजापतिः ।

विन्ध्यपादानुपव्रज्य सोऽचरद दुष्करं तपः ॥२०॥

तत्राघमर्षणं नाम तीर्थं पापहरं परम ।

उपस्पृश्यानुसवनं तपसातोषयद्धरिम ॥२१॥

अस्तौषीद्धंसगुह्नेन भगवन्तमधोक्षजम ।

तुभ्यं तदभिधास्यामि कस्यातुष्यद यतो हरिः ॥२२॥

प्रजापतिरुवाच

नमः परायवितथानुभुतये गुणत्रयाभासनिमित्तबन्धवे ।

अदृष्टधाम्रे गुणतत्वबुद्धिभिर्निवृत्तमानाय दधे स्वयम्भुवे ॥२३॥

नयस्य संख्यं पुरुषोऽवैति सख्युः सखावसन सवंसतः पुरेऽस्मिन ।

गुणो यथा गुणिनो व्यक्तदृष्टेस्तस्मै महेशाय नमस्करोमि ॥२४॥

देहोऽसवोऽ‍क्षा मनवो भुतमात्रा नात्मानमन्यं च विदुः परं यत ।

सर्वं पुमान वेद गुणांश्च तज्ज्ञो न वेद सर्वज्ञमन्तमीडे ॥२५॥

यदोपरामो मनसो नामरुप रुपस्य दृष्टस्मृतिसम्प्रमोषत ।

य ईयते केवलया स्वयंस्थया हंसाय तस्मै शुचिसद्यने नमः ॥२६॥

मनीषिणोऽन्तर्हृदि संनिवेशितं स्वशक्तिभिर्नवभिश्च त्रिवृद्धिः ।

वह्रिं यथा दारुणि पांचदश्यं मनीषया निष्कर्षन्ति गुढम ॥२७॥

स वै ममाशेशविशेषमाया निषेधनिर्वाणसुखनुभुतिः ।

स सर्वनामा स च विश्वरुपः प्रसीदत्तमनिरुक्तात्मशक्तिः ॥२८॥

यद्यन्निरुक्तं वचसा निरुपितं धियाक्षभिर्वा मनसा वोत यस्य ।

मा भुत स्वरुपं गुणरुपं हि वत्तत स वै गुणापायविसर्गलक्षणः ॥२९॥

यस्मिन यतो येन च यस्य यस्मै यद जो यथा कुरुते कार्यते च ।

परावरेषां परमं प्राक प्रसिद्धं तद ब्रह्मा तद्धेतुरनन्यदेकम ॥३०॥

यच्छक्तयो वदतां वादिनां वै विवादसंवादभुवो भवन्ति ।

कुर्वन्ति चैषां मुहुरात्ममोहं तस्मै नमोऽनन्तगुणाय भूम्रे ॥३१॥

अस्त्तीति नस्तीति च वसुनिष्ठयेरेकस्थयोर्भिन्नविरुद्धर्धर्मयोः ।

अवेक्षितं कित्र्चन योगसांख्ययोः समं परं ह्यानुकुलं बृहत्तत ॥३२॥

योऽनुग्रहार्थं भजतां पादमुलमनामरुपो भगवाननन्तः ।

नामानि रुपाणि च जन्मकर्मभि र्भेजे स मह्यां परमः प्रसीदतु ॥३३॥

यः प्राकृतैर्ज्ञानपथैनानां यथाशयं देहगतो विभाति ।

यथानिलः पार्थिवमाश्रितो गुणं स ईश्वरो मे कुरुतान्मनोरथम ॥३४॥

श्रीशुक उवाच

इति स्तुतः संस्तृवतः स तस्मिन्नघमर्षण ।

आविरासीत करुश्रेष्ठ भगवान भक्तवत्सलः ॥३५॥

कृतपादः सुपर्णासे प्रलम्बाष्टमहाभुजः ।

चक्रशंखसिचर्मेषुधनुः पाशगदाधरः ॥३६॥

पीतवासा घनश्यामः प्रसन्नवदनेक्षणः ।

वनमालानिवीतांगो लसच्छ्रीवत्सकौस्तुभः ॥३७॥

महाकिरीटकटकः स्फुरन्मकरकुण्डलः ।

कात्र्चगुंलियवलयनुपुरांगदभुषितः ॥३८॥

त्रैलोक्यमोहनं रुपं बिभ्रतं त्रिभुवनेश्वरः ।

वृतो नारदनन्दाद्यैः पार्षदेः सुरयुथपैः ॥३९॥

स्तुयमानोऽनुगायद्भिः सिद्धगन्धर्वचारणैः ।

रुपं तन्महदाश्चर्यं विचक्ष्यागतसाध्वसः ॥४०॥

ननाम दण्डवद भुमौ प्रहृष्टात्मा प्रजापतिः ।

न किंचनोदीरयितुमशकत तीव्रया मुदा ।

आपुरितमनोद्वारैर्ह्रदिन्य इव निर्झरैः ॥४१॥

तं तथावनतं भक्तं प्रजाकामं प्रजापतिम ।

चित्तज्ञः सर्वभुतानामिदमाह जनार्दनः ॥४२॥

श्रीभगवानुवाच

प्राचेतस ते प्रजानाथ यत्तेऽस्योदुबृहणंतपः ।

यच्छ्रद्धया मत्परया मयि भावं परं गतः ॥४३॥

प्रीतोऽहं ते प्रजानाथ यत्तेऽस्योदबृहणं तपः ।

ममैष कामो भुतांनां यदौ भुयासुर्विभुतयः ॥४४॥

ब्रह्मा भवो भवन्तश्च मनवो विबुधेश्वराः ।

विभुतयोमम ह्योता भुतानां भुतिहेतवः ॥४५॥

तपो मे हृदयं ब्रह्मास्तनुर्विद्या क्रियाऽऽकृतिः ।

अंगनिक क्रतवो जाता धर्म आत्मसवः सुराः ॥४६॥

अहमेवासमेवाग्रे नान्यत किज्चांन्तरं बहिः ।

संज्ञानमात्रमव्यक्तं प्रसुत्पमिव विश्वतः ॥४७॥

मय्यनन्तगुणेऽनन्ते गुणतो गुणविग्रहः ।

यदाऽऽसीत तत एवाद्यः स्वयम्भूः समभुदजः ॥४८॥

स वै यदा महादेवो मम वीर्योपंबृहितः ।

मेने खिलमिवात्मानमुद्यतः सर्गकर्मणि ॥४९॥

अथ मेऽभिहितो देवस्तोऽतप्यत दारुणम ।

नव विश्वसृजो युष्मान येनादावसृजद्विभुः ॥५०॥

एषा पंचजनस्यांग दुहिता वै प्रजापतेः ।

आसिक्री नाम पत्‍नीत्वे प्रजेश प्रतिगृहाताम ॥५१॥

मिथुनव्यवासयधर्मस्त्वं प्रजासर्गमिमं पुनः ।

मिथुनव्यवायधर्मिण्यां भुरिशो भावयिष्यसि ॥५२॥

त्वत्तोऽधस्तात प्रजाः सर्वा मिथुनीभुय मायया ।

मदीयया भविष्यन्ति हरिष्यन्ति च मे बलिम ॥५३॥

श्रीशुक उवाच

इत्युक्त्वा मिषतस्तस्य भगवान विश्वभावनः ।

स्वप्रोपलब्धार्थ इव तत्रैवान्तर्दधे हरिः ॥५४॥

इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां षष्ठस्कन्धें चतुर्थोऽध्यायः ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP