श्रीशुक उवाच
त एवं शंसतो धर्म वचः पत्युरचेतसः ।
नैवागृह्णन भयत्रस्ताः पलायनपरा नृपः ॥१॥
विशीर्यमाणां पृतनामासुरीमसुरर्षभः ।
कालानुकुलैस्त्रिदर्शैः काल्यमानामनाथवतः ॥२॥
दृष्टवातप्यत संकृद्ध इन्द्रशत्रुरमर्षितः ।
तान्निवार्यौजसा राजन निर्भत्स्यैदमुवाच ह ॥३॥
किं व उच्चरितैर्मातुर्धावद्भिः पृष्ठतो हतैः ।
न हि भीतवधः श्लाघ्यो न स्वर्ग्यः शुरमानिनाम ॥४॥
यदि वः प्रधने श्रद्धा सारं वा क्षुल्लका हृदि ।
अग्रे तिष्ठत मात्रं मे न चेद ग्राम्यसुखे स्पृहा ॥५॥
एवं सुरगणान क्रुद्धो भीषयन वपुषा रिपुन ।
व्यनदत सुमहाप्राणो येन लोका विचेतसः ॥६॥
तेन देवगणाः सर्वे वृत्रविस्फोटनेन वै ।
निपेतुर्मुर्च्छिता भुमौ यथैवाशनिना हताः ॥७॥
ममर्द पदभ्यां सुरसैन्यामतुरं निमीलिताक्षं रणरंगदुर्मदः ।
गां कम्पयन्नुद्यतशुल ओजसा नालं वनं युथपतिर्यथोन्मदः ॥८॥
विलोक्य तं वज्रधरोऽत्यमर्षितः स्वशत्रवेऽभिद्रवते महागदाम ।
चिक्षेप तामापततीं सुदुःसहां जग्राह वामेन करेण लीलया ॥९॥
स इन्द्रशत्रुः कुपितो भृशं तया महेन्द्रवाहं गदयोग्रविक्रमः ।
जघान कुम्भस्थल उन्नदनु मृधे तत्कर्म सर्वे समपुजयन्नृप ॥१०॥
ऐरावतो वृत्रगदाभिमृष्टो विघूर्नितोऽद्रिः कुलिशाहतो यथा ।
अपासरद भिन्नमुखः सहेन्द्रो मुत्र्चंन्नसॄक सप्तधनुर्भृशार्तः ॥११॥
न सन्नवाहाय विषण्णचेतसे प्रायुंगक्त भुयः स गदां महात्मा ।
इन्द्रोऽमृतस्यन्दिकराभिमर्शवीतव्यथः क्षतवाहोऽवतस्थे ॥१२॥
स तं नृपेन्द्राहवकाम्ययां रिपुं वज्रायुधं भ्रातृहणं विलोक्य ।
स्मरंश्च तत्कर्म नृशंसमहः शोकेन मोहेन हसत्र्जगाद ॥१३॥
वृत्र उवाच
दिष्ट्या भावान मे समवस्थितो रिपु र्यो ब्रह्माहा गुरुह्या भ्रातृहा च ।
दिष्ट्याऽनृणोऽद्याहमसत्तम त्वया मच्छूलनिर्भिन्नदृषदधृदाचिरात ॥१४॥
योनोऽग्रजस्यात्मविदो द्विजातेर्गुरोरपापस्य च दीक्षितस्य ।
विश्रभ्य खडगेन शिरांस्यवृश्चत पशोरिवाकरुणः स्वर्गकामः ॥१५॥
ह्रीश्रीदयाकीर्तिभिरुज्झिंत त्वां स्वकार्मणा पुरुषादैश्च गर्ह्याम ।
कृच्छ्रेण मच्छूलविभिन्नदेह मस्पृष्टवह्निं समदन्ति गृध्राः ॥१६॥
अन्येऽनु ये त्वेह नृशंसमज्ञा ये ह्युद्यतास्त्राः प्रहरन्ति मह्याम ।
तैर्भुतनाथान सगणान निशातत्रिशुलनिर्भ८इन्नगलैर्यजामि ॥१७॥
अथो हरे मे कुलिशेन वीर हर्ता प्रमर्थ्यैव शिरो यदीह ।
तत्रानृणो भुतबलिं विधाय मनस्विनां पादरजः प्रपत्स्ये ॥१८॥
सुरेश कस्मान्न हिनोषि वज्रं पुरः स्थिते वैरिणि मय्यमोघम ।
मां संशयिष्ठा न गदेव वज्रं स्यान्निष्कलं कृपनार्थेण यात्र्चा ॥१९॥
नन्वेष वज्रस्तव शक्र तेजसा हरेर्दीचेस्तपसा च तेजितः ।
तेनैव शत्रुं जहि विष्णुयन्त्रितो यतो हरिर्विजयः श्रीर्गुणास्ततः ॥२०॥
अहं समाधाय मनो यथाऽऽह संकर्षणस्तच्चरणारविन्दे ।
त्वद्वज्ररंहोलुलितग्रम्यपाशो गतिं मुनेर्याम्यपविद्धलोकः ॥२१॥
पुंसां किलैकान्तधियां स्वकानां याः सम्पदो दिवि भुमौ रसायाम ।
न राति यदु द्वेष उद्वेग आधि र्मदः कलिव्यानं संप्रयासः ॥२२॥
त्रैवर्गिकायासविघातमस्मतपतिर्विधत्ते पुरुषस्य शक्र ।
ततोऽनुमेयो भगवत्प्रसादो यो दुर्लभोऽकित्र्चनगोचरोऽन्यैः ॥२३॥
अहं हरे तव पादैकमुलदासानुदासो भवितास्मि भुयः ।
मनः स्मरेतासुपतेर्गुणास्तें गृणीत वाक कर्म करोतु कायः ॥२४॥
न नाकपृष्ठं न च पारमेष्ठ्यं न सार्वभौमं न रसधिपत्यम ।
न योगसिद्धीरपुनर्भवं वा समत्र्जस त्वा विरहय्य कांक्षे ॥२५॥
अजातपक्षा इव मातरं खगाः स्तन्यं यतह वत्सतराः क्षुधार्ताः ।
प्रियं प्रियेव व्युषितं विषण्णा मनोऽरविन्दाक्ष दिदृक्षते त्वाम ॥२६॥
ममोत्तमश्लोकजनेषु सख्यं संसरचक्रे भ्रमतः स्वकर्मभिः ।
त्वन्माययाऽऽत्मात्मजदारगेहे ष्वासक्तचित्तस्य न नाथ भुयात ॥२७॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे वृत्रस्येन्द्रोपदेशो नामैकादशोऽध्यायः ॥११॥