तृतीयस्कन्धपरिच्छेदः - नवमदशकम्

श्रीनारायणके दूसरे रूप भगवान् ‍ श्रीकृष्णकी इस ग्रंथमे स्तुति की गयी है ।


स्थितः स कमलोद्भवस्तव हि नाभिपङ्केरुहे

कृतस्सिवदिदमम्बुधावुदितामित्यनालोकयन्।

तदीक्षणकुतूहलात् प्रतिदिशं विवृत्तानन -

श्र्चतुर्वदनतामगाद्विकसदष्टदृष्ट्यम्बुजाम् ॥१॥

महार्णवविघूर्णितं कमलमेव तत्केवलं

विलोक्य तदुपाश्र्चयं तव तनुं तु नालोकयन् ।

क एष कमलोदरे महति निस्सहायो ह्यहं

कुतस्स्विदिदमम्बुजं समजनीति चिन्तामगात् ॥२॥

अमुष्य हि सरोरुहः किमपि कारणं सम्भवेदिति स्म कृतानिश्र्चयः स खलु नालरन्ध्राध्वना ।

स्वयोगबलविद्यया समवरूढवान् प्रौढधी -

स्वत्वदीयमतिमोहनं न तु कलेवरं दृष्टवान् ॥३॥

ततः सकलनालिकाविवरमार्गगो मार्गयन्

प्रयस्य शतवत्सरं किमपि नैव संदुष्टवान् ।

निवृत्त्य कमलोदरे सुखनिषण्ण एकाग्रधीः

समाधिबलमादधे भवदनुग्रहैकाग्रही ॥४॥

शतेन परिवत्सरैर्दृढसमाधिबन्धोल्लसत् -

प्रबोधविशदीकृतः स खलु पद्मिनीसम्भवः ।

अदृष्टचरमद्भुतं तव हि रूपमन्तर्दृशा

व्यचष्ट परितुष्टधीर्भुजगभोगभागाश्रयम् ॥५॥

किरीटमकुटोल्लसत्कटकहारकेयूरयुङ् -

मणिस्फुरितमेखलं सुपरिवीतपीताम्बरम् ।

कलायकुसुमप्रभं गलतलोल्लसत्कौस्तुभं

वपुस्तदयि भावये कमलजन्मने दर्शितम् ॥६॥

श्रुतिप्रकरदर्शितप्रचुरवैभव श्रीपते

हरे जय जय प्रभो पदमुपैषि दिष्ट्या दृशोः ।

कुरुष्व धियमाशु मे भुवननिर्मितौ कर्मठा -

मिति द्रुहिणवर्णितस्वगुणबृंहिमा पाहि माम् ॥७॥

लभस्व भुवनत्रयीरचनदक्षतामक्षतां

गृहाण मदनुग्रहं कुरु तपश्र्च भूयो विधे ।

भवत्वखिलसाधनी मयि च भक्तिरत्युत्कटे -

त्युदीर्य गिरमादधा मुदितचेतसं वेधसम् ॥८॥

शतं कृततपास्ततः स खलु दिव्यंसंवत्सरा -

नवाप्य च तपोबलं मतिबलं च पूर्वाधिकम् ।

उदीक्ष्य किल कम्पितं पयसि पङ्कजं वायुना

भवद्बलविजृम्भितः पवनपाथसी पीतवान् ॥९॥

ततैव कृपया पुनः सरसिजेन तेनैव स

प्रकल्प्य भुवनत्रयीं प्रववृते प्रजानिर्मितौ ।

तथाविधकृपाभरो गुरुमरुत्पुराधीश्र्वर

त्वमाशु परिपाहि मां गुरुदयोक्षितैरीक्षितैः ॥१०॥

॥ इति जगत्सृष्टिप्रकारवर्णनं नवमदशकं समाप्तम् ॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP