गणेशस्य मनून् वक्ष्ये सर्वाभीष्टप्रदायकान् ।
गणेशमन्त्रकथनम्
जलं चक्री वहिनयुतः कर्णेन्द्वाढ्या च कामिका ॥१॥
दारको दीर्घसंयुक्तो वायुः कवचपश्चिमेः ।
षडक्षरों मन्त्रराजो भजतामिष्टसिद्धिदः ॥२॥
गणेशषडक्षरमन्त्रसाधनकथनम्
भार्गवो मुनिरस्योक्तश्छन्दोऽनुष्टुबुदाहृतः ।
विघ्नेशो देवता बीजं वं शक्तिर्यमितीरितम् ॥३॥
षडक्षरैः सविधुभिः प्रणवाद्यैर्नमोन्तकैः ।
प्रकुर्याज्जातिसंयुक्तैः षडङुविधिमुत्तमम् ॥४॥
भ्रूमध्यकण्ठहृदयनाभिलिङुपदेषु च ।
मनो वर्णान् क्रमान्न्यस्य व्यापय्याथो स्मरेत् प्रभुम् ॥५॥
गणेशध्यानम्
उद्याद्दिनेश्वररुचिं निजहस्तपदमैः पाशांकुशाभयवरान् दधतं गजास्यम् ।
रक्ताम्बरं सकलदुःखहरं गणेशं ध्यायेत् प्रसन्नमखिलाभरणाभिरामम् ॥६॥
गणेशमन्त्रसिद्धिविधानम्
ऋतुलक्षं जपेन्मन्त्रष्टद्रव्यैर्दशांशतः ।
जुहुयान्मन्त्रसंसिद्धयै वाडवान् भोजयेच्छुचीन् ॥७॥
इक्षवः सक्तवो रम्भाफलानि चिपिटास्तिलाः ।
मोदका नारिकेलानि लाजाद्रव्याष्टकैस्मृतम् ॥८॥
पीठपूजाविधानम्
पीठमाधारशक्त्यादिपरतत्त्वान्तमर्चयेत् ।
तत्राष्टदिक्षु मध्ये च सम्पूज्या नवशक्तयः ॥९॥
तीव्रा च चालिनी नन्दा भोगदा कामरुपिणी ।
उग्रा तेजोवती सत्या नवमी विघ्ननाशिनी ॥१०॥
विनायकस्य मन्त्राणामेताः स्युः पीठशक्तायः ।
सर्वशक्तिकमान्ते तु लासनाय हृदन्तिकः ॥११॥
पीठमन्त्रस्तदीयेन बीजेनादौ समन्वितः ।
प्रदायासनमेतेन मूर्तिं मूलेन कल्पयेत् ॥१२॥
तस्यां गणेशमावाह्य पूजयेदासनादिभिः ।
अभ्यर्च्य कुसुमैरीशं कुर्यादावरणार्चनम् ॥१३॥
गणेशास्य पञ्चावरणपूजाविधिः
आग्नेयादिषु कोणेषु हृदयं च शिरःशिखाम् ।
वर्माभ्यर्च्याग्रतो नेत्रं दिक्ष्वस्त्रं पूजयेत् सुधीः ॥१४॥
द्वितीयावरणे पूज्याः प्रागाद्यष्टैवशक्तयः ।
विद्यादिमां विधात्री च भोगदा विघ्नघातिनी ॥१५॥
निधिप्रदीपा पापघ्नी पुण्या पश्चाच्छशिप्रभा ।
दलाग्रेषु वक्रतुण्ड एकदंष्ट्रो महोदरः ॥१६॥
गजास्यलम्बोदरकौ विकटो विघ्नराजकः ।
धूम्द्रवर्णस्तदग्रेषु शक्राद्या आयुधैर्युताः ॥१७॥
एवमावरणैः पूज्यः पञ्चभिर्गणनायकः ।
पूर्वोक्ता च पुरश्चर्या कार्या मन्त्रस्य सिद्धये ॥१८॥
काम्यप्रयोगसाधनम्
ततः सिद्धे मनौ काम्यान् प्रयोगान् साधयेन्निजान् ।
ब्रह्मचर्यरतो मन्त्री जपेद् रविसहस्त्रकम् ॥१९॥
षण्मासमध्याद्दारिद्रयं नाशयत्येव निश्चितम् ।
चतुर्थ्यादिचतुर्थ्यन्तं जपेद्दशसहस्त्रकम् ॥२०॥
प्रत्यहं जुहुयादष्टोत्तरं शतमतन्द्रितः ।
पूर्वोक्तं फलमाप्नोति षण्मासाद्भक्तितत्परः ॥२१॥
आज्याक्तान्नस्य होमेन भवेद्धनसमृद्धिमान् ।
पृथुकैर्नारिकेलैर्वा मरिचैर्वा सहस्त्रकम् ॥२२॥
प्रत्यहं जुहवतो मासाज्जायते धनसञ्चयः ।
जीरसिन्धुमरीचाक्तैष्टद्रव्यैः सहस्त्रकम् ॥२३॥
जुहवन्त्प्रतिदिनं पक्षात् स्यात् कुबेर इवार्थवान् ।
चतुःशतं चतुश्चत्वारिंशदाठ्यं दिनेदिने ॥२४॥
तर्पयेत् मूलमन्त्रेण मण्डलादिष्टमाप्नुयात् ।
मन्त्रान्तरकथनम्
अथ मन्त्रन्तरं वक्ष्ये साधकानां निधिप्रदम् ॥२५॥
रायस्पोषभृगुर्याढ्यो ददितामेषसात्वतौ ।
सदृशौ दोरत्नधातुमान् रक्षो गगनं रतिः ॥२६॥
ससद्या बलशार्ङी खं नोषडक्षरसंयुतः ।
अभीष्टप्रदायकएकत्रिंशद्वर्नात्मको मन्त्रः
एकत्रिंशद्वर्णयुक्तो मन्त्रोऽभीष्टप्रदायकः ॥२७॥
सायकैस्त्रिभिरष्टाभिश्चतुर्भिः पञ्चभी रसैः ।
मन्त्रोत्थितैः क्रमाद्वर्णैः षडङुं समुदीरितम् ॥२८॥
ऋष्याद्यर्चाप्रयोगाः स्युः पूर्ववन्निधिदो ह्ययम् ।
षडक्षरोऽपरोमन्त्रः
पद्मनाभयुतो भानुर्मेघासद्यसमन्विता ॥२९॥
लकावनन्तमारुढो वायुः पावकमोहिनी ।
षडक्षरोऽयमादिष्टो भजतामिष्टदो मनुः ॥३०॥
पूर्ववत् सर्वमेतस्य समाराधनमीरितम् ।
नवाक्षरो मन्त्रः
लकुलीदृशमारुढौ लोहितः सदृक् ॥३१॥
वकः सदीर्घश्चः साक्षिर्लिखेन्मन्त्रः शिरोन्तिमः ।
नवाक्षरो मनुश्चास्य कङ्कोलः परिकीर्तितः ॥३२॥
विराट्छ्न्दो देवता तु स्याद्वै चोच्छिष्टनायकः ।
पञ्चाङुन्यासकथनम्
द्वाभ्यां त्रिभिर्द्वयेनाथ द्वाभ्यां सकलमन्त्रतः ॥३३॥
पञ्चाङान्यस्य कुर्वीत ध्यायेत्तं शशिशेखरम् ।
उच्छिष्टविनायकध्यानम्
चतुर्भुजं रक्ततनुं त्रिनेत्रं पाशांकुशौ मोदकापात्रदन्तौ ।
करैर्दधानं सरसीरुहल्थ मुन्मत्तमुच्छिष्टगणेशमीडे ॥३४॥
पुरश्चरणविधानम्
लक्षमेकं जपेन्मन्त्रं दशांशं जुहुयात्तिलैः ।
पूर्वोक्ते पूजयेत्पीठे विधिनोच्छिष्टविघ्नपम् ॥३५॥
आदावङानि सम्पूज्य ब्राह्माद्यान्दिक्षु पूजयेत् ।
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी परा ॥३६॥
वाराही च तथेन्द्राणी चामुण्डारमया सह ।
ककुप्सु वक्रतुण्डाद्यान्दशसु प्रतिपूजयेत् ॥३७॥
वक्रतुण्डैकदंष्टौ च तथा लम्बोदराभिधः ।
विकटो धूम्रवर्णश्च विघ्नश्चापि गजाननः ॥३८॥
विनायको गणपतिर्हस्तिदन्ताभिधोन्तिमः ।
इन्द्राद्यानपि वज्राद्यान्पूजयेदावृतिद्वये ॥३९॥
एवं सिद्धे मनौ मन्त्री प्रयोगान् कर्तुर्हति ।
काम्यप्रयोगकथनम्
स्वाङुष्ठप्रतिमां कृत्वा कपिना सितभानुना ॥४०॥
गणेशप्रतिमां रम्यामुक्तलक्षणलक्षिताम् ।
प्रतिष्ठाप्य विधानेन मधुना स्नापयेच्च ताम् ॥४१॥
आरभ्य कृष्णभूतादि यावच्छुक्लाचतुर्दशी ।
सगुडं पायसं तस्मै निवेद्य प्रजपेन्मनुम् ॥४२॥
सहस्त्रं प्रत्यहं तावत् जुहुयात् सघृतैस्तिलैः ।
गणेशोऽहमिति ध्यायन्नुच्छिष्टोनावृतो रहः ॥४३॥
पक्षाद्राज्यमवाप्नोति नृपजोऽन्योऽपि वा नरः ।
कुलालमृत्स्ना प्रतिमा पूजितैवं सुराज्यदा ॥४४॥
वल्मीकमृत्कृता लाभमेवमिष्टान् प्रयच्छति ।
गौडी सौभग्यदा सैव् लावणी क्षोभयेदरीन् ॥४५॥
निम्बजा नाशयेच्छत्रून्प्रतिमैव समर्चिता ।
मध्वक्तैर्होमतो लाजैर्वशयेदखिलं जगत् ॥४६॥
सुप्तोधिशय्यमुच्छिष्टो जपञ्छत्रून्वशं नयेत् ।
कटुतैलान्वितै राजीपुष्पैर्विद्वेषयेदरीन् ॥४७॥
द्यूते विवादे समरे जप्तोऽयं जयमावहेत् ।
कुबेरोऽस्य मनोर्जापान्निधीनां स्वामितामियात् ॥४८॥
लेभाते राज्यमनरिं वानरेशविभीषणौ ।
रक्तवस्त्राङ्गरागाढ्यस्ताम्बूल निश्यद्ञ्जपेत ॥४९॥
यद्वा निवेदितं तस्मै मोदकं भक्षयञ्जपेत् ।
पिशितं वा फलं वापि तेन तेन बलिं हरेत् ॥५०॥
एकोनविंशतिवर्णात्मको बलिदानमन्त्रः
सेन्दुः स्मृतिस्तथाकाशं मन्विन्द्वाढयौ च सुष्टिलौ ।
पञ्चान्तकशिवौ तद्वदुच्छिष्टागभगान्वितः ॥५१।
उमाकान्तःशायमान्ते हायक्षायासबिन्दुयः ।
बलिरित्येष कथिंतो नवेन्वर्णो बलेर्मनुः ॥५२॥
द्वारशार्णोऽपरो मन्त्रः
ध्रुवो माया सेन्दुशार्ङिगर्बीजाढ्यो नववर्णकः ।
द्वादशार्णो मनुः प्रोक्तः सर्वमस्य नवार्णवत् ॥५३॥
नवार्णमन्त्रस्य दशवर्णात्मकद्वैविध्यम्
ताराद्यश्च गणेशाद्यो नवार्णो दशवर्णकः ।
द्विविधोस्योपासनं तु प्रोक्तमन्यन्नवार्णवत् ॥५४॥
एकोनविंशतिवर्णात्मकउच्छिष्टविनायकमन्त्रः
ध्रुवो हृद्युच्छिष्टगणेशाय ते तु नवाक्षरः ।
एकोनविंशत्यर्णाढ्यो मनुर्मुन्यादिपूर्ववत् ॥५५॥
त्रिभिः सप्तभिरक्षिभ्यां त्रिभिर्द्वाभ्यां द्वयेन च ।
मन्त्रोत्थितैः सुधीर्वणैः कुर्यादङुं पुरार्चनम् ॥५६॥
धनधान्यद्यतुलशोदाता -सप्तत्रिंशदक्षरात्मकउच्छिष्टगणनाथमन्त्रः
तारो नमो भगवते झिण्टीशश्चतुराननः ।
दंष्ट्राय हस्तिमुच्चार्य खाय लम्बोदराय च ॥५७॥
उच्छिष्टमविद्दीर्घात्मने पाशोंकुशः परा ।
सेन्दुः शार्ङी भगयुते द्वे मेधे वहिनकामिनी ॥५८॥
उच्छिष्टगणनाथस्य मनुरद्रिगुनाक्षरः ।
गणको मुनिराख्यातो गायत्रीच्छन्द ईरितः ॥५९॥
उच्छिष्टगणपो देवो जपेदुच्छिष्ट एव तम् ।
सप्तदिग्बाणसप्ताब्धियुगार्णैरङुकं मनोः ॥६०॥
ध्यानम्
शरान्धनुः पाशसृणीस्वहस्तैर्दधानमारक्तसरोरुहस्थम् ।
विवस्त्रपत्न्यां सुरतप्रवृत्त मुच्छिष्टमम्बासुतमाश्रयेऽहम् ॥६१॥
पुरश्चरनकथनम्
लक्षं जपेद्घृतैर्हुत्वाद्दशांशं प्रपूजयेत् ।
पूर्वोक्तपीठे स्वाभीष्टसिद्धये पूर्वद्विभुम् ॥६२॥
कृष्णाष्टम्यादितद्भूतं यावत्तावज्जपेन्मनुम् ।
प्रत्यहं साष्टसाहस्त्रं जुहुयात्तद्दशांशतः ॥६३॥
तर्पयेदपि मन्त्रोऽयं सिद्धिमेवं प्रयच्छति ।
धनं धान्यं सुतान्पौत्रान् सौभाग्यमतुलं यशः ॥६४॥
मूर्तिं कुर्याद् गणेशस्य शुभाहे निम्बदारुणा ।
प्राणप्रतिष्ठां कृत्वाथ तदग्रे मन्त्रमाजपेत् ॥६५॥
च ध्यात्वा दासवत्सोऽपिवश्यो भवति निश्चितम् ।
नदीजलं समादाय सप्तविंशतिसंख्यया ॥६६॥
मन्त्रयित्वा मुखं तेन प्रक्षालेशसभां व्रजेत् ।
पश्येद्यं दृश्यते येन स वश्यो जायते क्षणात् ॥६७॥
चतुःसहस्त्रं धत्तूरपुष्पाणि मनुनार्पयेत् ।
गणेशाय नृपादीनां जनानां वश्यताकृते ॥६८॥
सुन्दरीवामपादस्य रेणुमादाय तत्र तु ।
संस्थाप्य गणनाथस्य प्रतिमां प्रजपेन्मनुम् ॥६९॥
तां ध्यात्वा रविसाहस्त्रं सा समायाति दूरतः ।
श्वेतार्केणाथ निम्बेन कृत्वा मूर्ति धृतासुकाम् ॥७०॥
चतुर्थ्यां पूजयेद्रात्रौ रक्तैः कुसुमचन्दनैः ।
जप्त्वा सहस्त्रं तां मूर्तिं क्षिपेद्रात्रौ सरित्तटे ॥७१॥
स्वेष्टं कार्य्य समाचष्टे स्वप्ने तस्य गणाधिपः ।
सहस्त्रं निम्बकाष्ठानां होमादुच्चाटयेदरीन ॥७२॥
वज्रिणः समिधां होमाद्रिपुर्यमपुरं व्रजेत् ।
वानरस्यास्थिसंजप्तं क्षिप्तमुच्चाटयेद् गृहे ॥७३॥
जप्तं नरास्थिकन्याया गृहे क्षिप्तं तदाप्तिकृत् ।
कुलालस्य मृदा स्त्रीणां वामपादस्य रेणुना ॥७४॥
कृत्वा पुत्तलिकां तस्या हृदि स्त्रीनाम् संलिखेत् ।
निखनेन्मन्त्रसंजप्तैर्निम्बकष्ठैः क्षिताविमाम् ॥७५॥
सोन्मत्ता भवति क्षिप्रमुद्धृतायां सुखं भवेत् ।
शत्रोरेवं कृता तु लशुनेन समन्विता ॥७६॥
शरावान्तर्गता सम्यक्पूजिता द्वारि विद्विषः ।
निखाता पक्षमात्रेण शत्रूच्चाटनकृत्स्मृता ॥७७॥
विषमे समनुप्राप्ते सितार्कारिष्टादारुजम् ।
गणपं पूजितं सम्यक्कुसुमै रक्तचन्दनैः ॥७८॥
मद्यभाण्डस्थितं हस्तमात्रे तं निखनेत्स्थले ।
तत्रोपविश्य प्रजपेन्मन्त्री नक्तं दिवा मनुम् ॥७९॥
सप्ताहामध्ये नश्यन्ति सर्वे घोरा उपद्रवाः ।
शत्रवो वशमायान्ति वर्द्धन्ते धनसम्पदः ॥८०॥
दुष्टस्त्री वामपादस्य रजसा निजदेहजैः ।
मलैर्मूत्रपुरीषाद्यैः कुम्भकारमृदापि च ॥८१॥
एतैः कृत्वा गणेशस्य प्रतिमां मद्यभाण्डगाम् ।
सम्पूज्य निखनेद् भूमौ हस्तार्द्धे पूरिते पुनः ॥८२॥
संस्थाप्य वहिनं जुहुयातुसुमैर्हमारजैः ।
सहस्त्रं सा भवेद्दासी तन्वाचमनसाधनैः ॥८३॥
एवमादिप्रयोगांस्तु नवार्णेनापि साधयेत् ।
द्वात्रिंशद् वर्णात्मकोऽपरो मन्त्रः
तारो हस्तिमुखायाथ ङेन्तो लम्बोदरस्तथा ॥८४॥
उच्छिष्टान्ते महात्माङे पाशांकुशाशिवात्मभूः ।
माया वर्म्म च घे घे उच्छिष्टाय दहनाङुना ॥८५॥
द्वात्रिंशदक्षरो मन्त्रो यजनं पूर्ववन्मतम् ।
रसेषु सप्तषट्षटक् नेत्रार्णैरङुमीरितम् ॥८६॥
उच्छिष्टगजवक्त्रस्य मन्त्रेष्वेषु न शोधनम् ।
सिद्धादिचक्रं मासादेः प्राप्तास्ते सिद्धिदा गुरोः ॥८७॥
मनवोऽमी सदा गोप्या न प्रकाश्या यतः कुतः ।
परीक्षिताय शिष्याय प्रदेया निजसूनवे ॥८८॥
चतुरक्षरः शक्तिविनायकमन्त्रः
माया त्रिमूर्तिचन्द्रस्थौ पञ्चान्तकहुताशनौ ।
तारादिशाक्तिबीजान्तो मन्त्रोऽयं चतुरक्षरः ॥८९॥
भार्गवोऽस्य मुनिश्छन्दो विराट् शक्तिर्गणाधिप ।
देवो माया द्वितीये तु शक्तिबीजे प्रकीर्तिते ॥९०॥
षड्दीर्घयुगद्वितीयेन ताराद्येन षडङुकम् ।
विधाय सावधानेन मनसा संस्मरेत् प्रभुम् ॥९१॥
विषाणांकुशावक्षसूत्रं च पाशं दधानं करैर्मोदकं पुष्करेण ।
स्वपत्न्या युतं हेमभूषाभराढ्यं गणेशं समुद्यद्दिनेशाभमीडे ॥९२॥
एवं ध्यात्वा जपेल्लक्षचतुष्कं तद्दशांशतः ।
अपूर्पैर्जुहुयाद् वहनौ मध्वक्तैस्तर्पयेच्च तम् ॥९३॥
पूर्वोक्ते पूजयेत्पीठे केसरेष्वङुदेवताः ।
दलेषु वक्रतुण्डाद्यान्ब्राह्यीत्याद्यान्दलाग्रगान् ॥९४॥
ककुप्पालांस्तदस्त्राणि सिद्ध एवं भवेन्मनुः ।
घृताक्तमन्नं जुहुयादावर्षादन्नवान्भवेत् ॥९५॥
परमान्नैर्हुता लक्ष्मीरिक्षुदण्डैर्नुपश्रियः ।
रम्भाफलैर्नारिकेलैः पृथृकैर्वश्यता भवेत् ॥९६॥
घृतेन धनमाप्नोति लवणैर्मधुसंयुतैः ।
वामनेत्रां वशीकुर्यादपूपैः पृथिवीपतिम् ॥९७॥
अष्टाविंशत्यर्णात्मको लक्ष्मीगणेशमन्त्रः
तारो रमा चन्द्रयुक्तः खान्तः सौम्या समीरणः ।
ङेन्तो गणपतिस्तोयं रवरान्तेद सर्व च ॥९८॥
जनं मे वशमादीर्घो वायुः पावककामिनी ।
अष्टाविंशतिवर्णोऽयं मनुर्द्धनसमृद्धिदः ॥९९॥
अन्तर्यामीमुनिश्छन्दो गायत्रीदेवता मनोः ।
लक्ष्मीविनायको बीजं रमा शक्तिर्वसुप्रिया ।
रमागणेशबीजाभ्यां दीर्घाड्याभ्यां षडङुकम् ॥१००॥
ध्यानकथनम्
दन्ताभये चक्रदरौ दधानं कराग्रगस्वर्णघटं त्रिनेत्रम् ।
धृताब्जया लिङितमाब्धिपुत्र्या लक्ष्मीगणेशं कनकाभमीडे ॥१०१॥
पुरश्चरनकथनम्
चतुर्लक्षं जपेन्मन्त्रं समिद्धिर्बिल्वशाखिनः ।
दशांशं जुहुयात् पीठे पूर्वोक्ते तं प्रपूजयेत् ॥१०२॥
आदावङानि सम्पूज्य शक्तिरष्टविमा यजेत् ।
बलाका विमला पश्चात् कमला वनमालिका ॥१०३॥
विभीषिका मालिका च शाङ्करी वसुबालिका ।
शंखपद्मनिधी पूज्यौ पार्श्वयोर्दक्षवामयोः ॥१०४॥
लोकाधिपांस्तदस्त्राणि तद्बहिः परिपूजयेत् ।
एवं सिद्धे मनौ मन्त्री प्रयोगान्कर्क्तुमर्हति ॥१०५॥
प्रयोगकथनम्
उरो मात्रे जले स्थित्वा मन्त्री ध्यात्वार्कमण्डले ॥
एवं त्रिलक्षं जपतो जपतो धनवृद्धिः प्रजायते ॥१०६॥
विल्वमूलं समास्थाय तावज्जप्ते फलं हि तत् ।
अशोककाष्ठैर्ज्वलिते वहनावाज्याक्ततण्डुलैः ॥१०७॥
होमतो वशयेद्विश्वमर्ककाष्ठम शुचावपि ।
खादिराग्नौ नरपंति लक्ष्मीं पायसहोमतः ॥१०८॥
त्रयस्त्रिंशंद्वर्णात्मकस्त्रैलोक्यमोहनो गणेशमन्त्रः
वक्रकर्णेन्दुयुग् णान्तो डैकदंष्ट्राय मन्मथः ।
माया रमा गजमुखो गणपान्ते भगी हरिः ॥१०९॥
वरावालाग्निसत्याः सरेफारुढं जलं स्थिरा ।
सेन्दुर्मेषो मे वशान्ते मानयोषर्बुधप्रिया ॥११०॥
स्यात्त्रयस्त्रिंशदर्णाढ यो मनुस्त्रैलोक्यमोहनः ।
गणकोऽस्य ऋषिश्छन्दो गायत्रीदेवता पुनः ॥१११॥
त्रैलोक्यमोहनकरो गणेशो भक्तैसिद्धिदः ।
रविवेदशरोदन्वद् रसनेत्रैः षडङुकम् ॥११२॥
ध्यानकथनम्
गदाबीजपूरे धनुः शूलचक्रे सरोजोत्पले पाशधान्याग्रदन्तान् ।
करैः सन्दधानं स्वशुण्डाग्रराजन् मणीकुम्भमङ्कधिरुढं स्वपत्न्या ॥११३॥
सरोजन्मनाभूषणानाम्भरेणो ज्ज्वलद्धस्ततन्व्यासमालिङिताङुम् ।
करीन्द्राननं चन्द्रचूडं त्रिनेत्रं जगन्मोहनं रक्तकान्तिं भजेत्तम् ॥११४॥
पुरश्चरनकथनम्
वेदलक्षं जपेन्मन्त्रमष्टद्रव्यैर्दशांशतः ।
हुत्वा पूर्वोदितं पीठे पूजयेद् गणनायकम् ॥११५॥
अङार्च्चो पूर्ववत्प्रो क्ता शक्तीः पत्रेषु पूजयेत् ।
वामा ज्येष्ठा च रौद्री स्यात्काली कलपदादिका ॥११६॥
विकरिण्याहवया तद्वद्बलाद्या प्रमथन्यपि ।
सर्वभूतदमन्याख्या मनोन्मन्यपि चाग्रतः ॥११७॥
दिक्षु प्रमोदः सुमुखो दुर्मुखो विघ्ननाशकः ।
दीर्घाद्या मातरः पूज्या इन्द्राद्या आयुधान्यपि ॥११८॥
एवं सिद्धे मनौ कुर्यात्प्रयोगानिष्टासिद्धये ।
काम्यप्रयोगकथनम्
वशयेत्कमलैर्भूपान्मन्त्रिणः कुमुदैर्हुतैः ॥११९॥
समिद्वरैश्चलदलसमुद्भूतैर्द्धरासुरान् ।
उदुम्बरोत्थैर्नृपतीन् प्लक्षैर्वाटैर्विशोऽन्तिमान् ॥१२०॥
क्षौद्रेण कनकप्राप्तिगौप्राप्तिः पयसा गवाम् ।
ऋद्धिर्दध्योदनैरन्नं घृतैः श्रीर्वेतसैर्जलम् ॥१२१॥
द्वात्रिंशद्वर्णात्मको हरिद्रागणेशमन्त्रः
तारो वर्म गणेशो भूर्हरिद्रागनलोहितः ।
आषाढी येवरवरसत्यः सर्वजतर्जनी ॥१२२॥
हृदयं स्तम्भयद्वन्द्वं वल्लभां स्वर्णरेतसः ।
द्वात्रिंशदक्षरो मन्त्रो मदनो मुनिरीरितः ॥१२३॥
छन्दोऽनुष्टुब् देवता तु हरिद्रागणनायकः ।
वेदाष्टशरसप्ताङुनेत्रार्णैरङुमीरितम् ॥१२४॥
ध्यानकथनम्
पाशांकुशौ मोदकमेकदन्तं करैर्दधानं कनकासनस्थम् ।
हारिद्रखण्डप्रतिमं त्रिनेत्रं पीतांशुकं रात्रिगनेशमीडे ॥१२५॥
पुरश्चरनकथनम्
वेदलक्षं जपित्वान्ते हरिद्राचूर्णमिश्रितैः ।
दशांशं तण्डुलैर्हुत्वा ब्राह्मणानपि भोजयेत् ॥१२६॥
पूर्वोक्तपीठे प्रयेदङुमातृदिशाधवैः ।
एवमाराधितो मन्त्रस्सिद्धो यच्छेन्मनोरथान् ॥१२७॥
काम्यप्रयोगकथनम्
शुक्लपक्षे चतुर्थ्यां तु कन्यापिष्टहरिद्रया ।
विलिप्याङुं जले स्नात्वा पूजयेद् गणनायकम् ॥१२८॥
तर्पयित्वा पुरस्तस्य सहस्त्रं साष्टकं जपेत् ।
शतं हुत्वा घृतापूपैर्भोजयेद् ब्रह्मचारिणः ॥१२९॥
कुमारीरपि सन्तोष्य गुरुं प्राप्नोति वाञ्छितम् ।
लाजैः कन्यामवाप्नोति कन्यापि लभते वरम् ॥१३०॥
वन्ध्यानारी रजः स्नाता पूजयित्वा गणाधिपम् ।
पलप्रमाणगोमूत्रे पिष्टाः सिन्धुवचानिशाः ॥१३१॥
सहस्त्रं मन्त्रयेत्कन्याबटून्सम्भोज्य मोदकैः ।
पीत्त्वा तदौषधं पुत्रं लभते गुणसागरम् ॥१३२॥
वाणीस्तम्भं रिपुस्तम्भं कुर्यान्मनुरुपासितः ।
जलाग्निचौरसिंहास्त्रप्रमुखानपि रोधयेत् ॥१३३॥
बीजमन्त्रकथनम्
शार्ङीमांसस्थितः सेन्दुर्बीजमुक्तं गणेशितुः ।
हरिद्राख्यस्य यजनं पूर्ववत्प्रोदितं मनोः ॥१३४॥
प्रोक्ता एते गणेशस्य मन्त्रा इष्टभीप्सता ।
गोपनीया न दुष्टेभ्यो वदनीयाः कथञ्चन ॥१३५॥
॥ इति श्रीमन्महीधरविरचिते मन्त्रमहोदधौ गणेशमन्त्रकथनं नाम द्वितीयस्तरङ्गः ॥२॥
इति श्रीमन्महीधरविरचितायां मन्त्रमहोदधिव्याख्यायां नौकायां गणेशमन्त्रकथनं नाम द्वितीयस्तरङ्गः ॥२॥