छिन्नमस्तामनुं वक्ष्ये शीघ्रसिद्धिविधायिनम् ।
छिन्नमस्तामन्त्रः
पद्मासनशिवायुग्मं भौतिकः शशिशेखरः ॥१॥
वज्रवैरोचनीपद्मनाभयुतः सदागतिः ।
मायायुगास्त्रदहनप्रियान्तः प्रणवादिकः ॥२॥
मन्त्रः सप्तदशार्णोऽयं भैरवोऽस्य मुनिर्मतः ।
सम्राट्छन्दाश्छिन्नमस्ता देवताभुवनेश्वरी ॥३॥
आं खड्गाय हृदाख्यातमीं खड्गाय शिरः स्मृतम् ।
ॐ वज्राय शिखा प्रोक्ता ऐं पाशाय तनुच्छदम् ॥४॥
ओमंकुशाय नेत्रं स्याद् विसर्गो वसुरक्षयुक् ।
मायायुग्मं चास्त्रमङुमनवः प्रणवादिकाः ।
स्वाहान्ताः प्रोदिता एवमङे विन्यस्य तां स्मरेत् ॥५॥
ध्यानवर्णनम्
भास्वन्मन्डलमध्यगां निजशिरश्छिन्नं विकीर्णालकं
स्फारास्यं प्रपिबद् गलात् स्वरुधिरं वामे करे बिभ्रतीम् ।
याभासक्ततिस्मरोपरिगतां सख्यौ निजे डाकिनी
वर्णिन्यौ परिदृश्यमोदकलितां श्रीछिन्नमस्तां भजे ॥६॥
अस्य मन्त्रस्य प्रयोगकथनम्
ध्यात्वैवं प्रजपेल्लक्षचतुष्कं तद्दशांशतः ।
पालाशैर्बिल्वजैर्वापि जुहुयात् कुसुमैः फलैः ॥७॥
पीठस्थनदेवताकथनं पूजाविधिश्च
आधारशक्तिमारभ्य परतत्त्वान्तपूजिते ।
पीठे जयाख्याविजयाऽजिता चाप्यपराजिता ॥८॥
नित्याविलासिनी षष्ठी दोग्ध्र्यघोरा च मङुला ।
दिक्षु मध्ये च सम्पूज्या नवपीठस्य शक्तयः ॥९॥
पीठमन्त्रः शिवापूजनविधिरावर्नदेवताश्च
सर्वबुद्धिप्रदे वर्णनीये सर्वभृगुःसदृक् ।
द्धिप्रदे डाकिनीये च तारो वज्रसभौतिकः ॥१०॥
खड्गीशो रोचनीये च भगं ह्येहि नमोऽन्तिकः ।
तारादिः पीठमन्त्रोऽयं वेदरामाक्षरो मतः ॥११॥
समर्प्यासनमेतेन तत्र सम्पूजयोच्छिवाम् ।
त्रिकोणमध्यषट्कोणपद्मभूपुरमध्यतः ॥१२॥
बाह्यवरणमारभ्य पूजयेत् प्रतिलोमतः ।
भूपुराद् बाह्यभागेषु वज्रादिनि प्रपूजयेत् ॥१३॥
तदन्तः सुरराजादीन् पूजयेद्धरितां पतीन् ।
भूपुरस्य चतुर्द्वार्षु द्वारपालान् यजेदथ ॥१४॥
करालविकरालाख्यावतिकालस्तृतीयकः ।
महाकालश्चतुर्थः स्यादथ पद्मेष्टशक्तयः ॥१५॥
एकलिङा योगिनी च डाकिनी भैरवी तथा ।
महाभैरविकेन्द्राक्षी त्वसिताङी तु सप्तमी ॥१६॥
संहारिण्यष्टमी चेति षट्कोणेष्वङुमूर्तयः ।
त्रिकोणगच्छिन्नमस्ता पार्श्वयोस्तु सखीद्वयम् ॥१७॥
डाकिनीवर्णिनीसंज्ञे तारवाग्भ्यां प्रपूजयेत् ।
एवं पोजादिभिः सिद्धे मन्त्रे मन्त्री मनोरथान् ॥१८॥
अस्य विधानस्य नानसिद्धिकथनम्
प्राप्नुयान् निखिलान् सद्यो दुर्लभांस्तत्प्रसादतः ।
श्रीपुष्पैर्लभते लक्ष्मीं तत्फलं स्वसमीहितम् ॥१९॥
वाक्सिद्धिं मालतीपुष्पैश्चम्पकैर्हवनात् सुखम् ।
घृताक्तं छागमांसं यो जुहुयात् प्रत्यहं शतम् ॥२०॥
मासमेकं तु वशगास्तस्य स्युः सर्वपार्थिवाः ।
करवीरस्य कुसुमैः श्वेतैर्लक्षं जुहोति यः ॥२१॥
रोगजालं पराभूय सुखीजीवेच्छतं समाः ।
रक्तैस्तत्संख्यया हुत्वा वशयेन्मन्त्रिणो नृपान् ॥२२॥
फलैर्हुत्वाप्नुयाल्लक्ष्मीमुदुम्बरपलाशजैः ।
गोमायुमांसैस्तामेव कविता पायसान्धसा ॥२३॥
बन्धूककुसुमैर्भाग्य कर्णिकारैः समीहितम् ।
तिलतण्डुलहोमेन वशयेन्निखिलञ्जनान् ॥२४॥
नारीरजोभिराकृष्टिमृगमांसैः समीहितम् ।
स्तम्भनं माहिषैर्मासैः सघृतैरपि ॥२५॥
चिताग्नौ परभृत्पक्षैर्जुहुयादरिमृत्यवे ।
उन्मत्तकाष्ठदीप्तेऽग्नौ तत्फलं वायसच्छदैः ॥२६॥
द्यूते वने नृपद्वारे समरे वैरिसंकटे ।
विजयं लभते मन्त्री ध्यायन्देवीं जपेन्मनुम् ॥२७॥
भुक्तौ मुक्तौ सितां ध्यायेदुच्चाटे नीलरोचिषम् ।
रक्तां वश्ये मृतो धूम्रांस्तम्भने कनकप्रभाम् ॥२८॥
निशि दद्याद् बलिं तस्यै सिद्धये मदिरादिना ।
गोपनीयः प्रयोगोऽथ प्रोच्यते सर्वसिद्धिदः ॥२९॥
भूताहे कृष्णपक्षस्य मध्यरात्रे तमो घने ।
स्नात्वा रक्ताम्बरधरो रक्तमाल्यानुलेपनः ॥३०॥
आनीय पूजयेन्नारीं छिन्नमस्तास्वरुपिणीम् ।
सुन्दरीं यौवनाक्रान्ताम नरपञ्चकगामिनीम् ॥३१॥
सस्मितां मुक्तकबरीं भूषादानप्रतोषिताम् ।
विवस्त्रां पूजयित्वैनामयुतं प्रजपेन्मनुम् ॥३२॥
बलिं दत्वा निशां नीत्वा सम्प्रेष्य धनतोषिताम् ।
भोजयेद् विविधैरन्नैर्ब्राह्मणान् देवताधिया ॥३३॥
अनेन विधिना लक्ष्मीं पुत्रान् पौत्रान् यशः सुखम् ।
नारीमायुश्चिरं धर्ममिष्टमन्यदवाप्नुयात् ॥३४॥
तस्यां रात्रौ व्रतं कार्य विद्याकामेन मन्त्रिणा ।
मनोरथेषु चान्येषु गच्छेत्ताम् प्रजपन्मनुम् ॥३५॥
किंबहूक्तेन विद्याया अस्याविज्ञानमात्रतः ।
शास्त्रज्ञानं पापनाशः सर्वसौख्यं भवेद् ध्रुवम् ॥३६॥
प्रयोगान्तफलकथनम्
उषस्युत्थाय शय्यायामुपविष्टो जपेच्छतम् ।
षण्मासाभ्यन्तरे मन्त्री कवित्वेन जयेत्कविम् ॥३७॥
छिन्नमस्ताया उत्कीलनम्
शिवेन कीलिताविद्या तदुत्कीलनमुच्यते ।
मायां तारपुटाम मन्त्री जप्यादष्टोत्तरं शतम् ॥३८॥
मन्त्रस्यादौ तथैवान्ते भवेत्सिद्धिप्रदा तु सा ।
एष नूनं विधिर्गोप्यः सिद्धिकामेन मन्त्रिणा ॥३९॥
उदितां छिन्नमस्तेयं कलौ शीघ्रमभीष्टदा ।
रेणुकाशबरीविद्यामन्त्रः
रेणुकाशबरीविद्या तादृश्येवोच्यतेऽधुना ॥४०॥
प्रणवः कमलामायासृणिरिन्दुयुतोऽधरः ।
पञ्चाक्षरीमहाविद्या भैरवोऽस्य मुनिर्मतः ॥४१॥
पंक्तिश्छन्दो रेणुकाख्या शबरीदेवतोदिता ।
पञ्चवर्णे स्मस्तेन कुर्वीत मनुनाङुकम् ॥४२॥
ध्यानवर्णनं जपादिपूजाविधानं च
हेमाद्रिसानावुद्याने नानाद्रुममनोहरे ।
रत्नमण्डपध्यस्थवेदिकायां स्थितां स्मरेत् ॥४३॥
गुञ्जाफलाकल्पितहाररम्यां श्रुत्योःशिखण्डं शिखिनो वहन्तीम् ।
कोदण्डबाणो दधतीं कराभ्यां कटिस्थवल्कां शबरीं स्मरेयम् ॥४४॥
ध्यात्वैवं प्रजपेल्लक्षपञ्चकं तद्दशांशतः ।
फलैर्बिल्वैः प्रजुहुयातत्काष्ठैरेधितेऽनले ॥४५॥
पूर्वोदितेऽर्चयेत्पीठे षडङावृत्तिरादिमा ।
द्वितीयावरणे पूज्याः शबर्य्या अष्टशक्तयः ॥४६॥
हुङ्कारीखेचरी चाथ चण्डास्याच्छेदनी तथा ।
क्षेपणास्त्री च हुड्कारीक्षेमकारी तथाष्टमी ॥४७॥
तृतीये दशदिक्पाला वज्राद्यानि चतुर्थके ।
एवं सिद्धं मनुं सम्यक्कार्यकर्मणि योजयेत् ॥४८॥
मल्लीपुष्पैर्जनावश्या इक्षुखण्डैर्धनाप्तयः ।
पञ्चगव्यैर्धेनवः स्युरशोकककुसुमैस्सुताः ॥४९॥
इन्दीवरैः कृते होमे नृपपत्नीवशंवदा ।
अन्नाप्तिरन्नैः सकलं मधूकैर्वाञ्छितं भवेत् ॥५०॥
प्रोदिता शबरीविद्या कलौ त्वरिता सिद्धिदा ।
विवाहसिद्धिदः स्वयंवरकलामन्त्रः
अथोच्यते विवाहाप्त्ये स्वयम्वरकलाशिवा ॥५१॥
तारो माया योगिनीतिद्वयं योगेश्वरिद्वयम् ।
योगनिद्रायङ्करि स्यात् सकलस्थावरेति च ॥५२॥
जङुमस्य मुखं प्रोच्य हृदयं मम संपठेत् ।
वशमाकर्षयाकर्ष पवनो वहिनसुन्दरी ॥५३॥
पञ्चाशद्वर्णविद्याया मुनिरस्याः पितामहः ।
छन्दोतिजगती देवीगिरिपुत्रीस्वयम्वरा ॥५४॥
अस्य मन्त्रस्य षडङुन्यासप्रकारः
जगत्त्रयेति हृदयं त्रैलोक्येति शिरो मतम् ।
उरगेति शिखा सर्वराजेति कवचं तथा ॥५५॥
सर्वस्त्रीपुरुषेत्यक्षि सर्वेत्यस्त्रं समीरितम् ।
तारामायादिकावश्यमोहिन्यैपदपश्चिमाः ॥५६॥
षडङुमन्त्रा उद्दिष्टा मूलेन व्यापकं चरेत् ।
ध्यायेद्देवीं महादेवं वरितुं समुपागताम् ॥५७॥
ध्यानवर्णनं पूजाविधानं च
शम्भु जगन्मोहनरुपपूर्णं विलोक्य लज्जाकुलितां स्मिताढ्याम् ।
मधूकमालां स्वसखीकराभ्यां संबिभ्रतीमद्रिसुताम् भजेयम् ॥५८॥
एवं ध्यात्वा जपेल्लक्षचतुष्कं तद्दशांशतः ।
पायसान्नेन जुहुयात् पीठे पूर्वोदिते यजेत् ॥५९॥
त्रिकोणचतुरस्राङुकोणादलदिग्दलम् ।
दिक्कलादन्तपत्राणि चतुष्षष्टिदलं पुनः ॥६०॥
वृत्तत्रयं चतुर्द्वारयुक्तं धरणिकेतनम् ।
पूजायन्त्रं प्रकुर्वीत तत्र सम्पूजयोदिमाम् ॥६१॥
त्रिकोणे पार्वतीमिष्टवा चतुरस्रेऽर्चयेदिमाः ।
मेधां विद्यां पुनर्लक्ष्मीं महालक्ष्मीं चतुर्थिकाम् ॥६२॥
षट्कोणेषु षडङानि स्वरानष्टदलेऽर्चयेत् ।
दिग्दलद्वितीये देवानिन्द्रादीनायुधानि च ॥६३॥
ताराद्येन नमोन्तेन श्रीबीजेन रमां यजेत् ।
कलापत्रे द्विरामारे पाशमायांकुशैः शिवा ॥६४॥
वेदाङुपत्रे त्रिपुटां श्रीमायामदनैर्यजेत् ।
वृत्तत्रये महालक्ष्मीं भवानीं पुष्प्सायकाम् ॥६५॥
चतुरस्रं चतुर्द्वार्षु विघ्नेट्क्षेत्रेशभैरवान् ।
योगिनीः पूजयेदित्थं नवावरणमर्चनम् ॥६६॥
एवं यो भजते देवीं वश्यास्तस्याखिला जनाः ।
लाजैस्त्रिमधुरोपेतैर्जुहुयादयुतं तु यः ॥६७॥
लभते वाञ्छितां कन्यां धनमानसमन्विताम् ।
एवं स्वयंवरा प्रोक्ता प्रोच्यते मधुमत्यथ ॥६८॥
मधुमतीमन्त्रः
नारायणो विन्दुयुतो हृल्लेखांकुशमन्मथा ।
दीर्घवर्मध्रुवो वहिनप्रेयसी वसुवर्णवान् ॥६९॥
मुनिरस्य मधुश्छ्न्दस्त्रिष्टुब्मधुमतीति च ।
मुन्याद्याः पञ्चभिर्बीजैः पञ्चाङ्गानि प्रकल्पयेत् ॥७०॥
अस्त्रं स्वाहान्ततारेण कृत्वा देवीं स्मरेद् बुधः ।
ध्यानं पूजनादिविधिश्च
नानाद्रुमलताकीर्णकैलासगतकानने ॥७१॥
अहिलतादलनीलसरोजयुक् करयुगां मणिकाञ्चनपीठगाम् ।
अमरनागवधूगनसेवितां मधुमतीमखिलार्थकारीं भजे ॥७२॥
प्रजप्य वसुलक्षं तद्दशांशं जुहुयाद्दलैः ।
बिल्वोत्थैः पूजयेत् पीठे जयादिसर्वशक्तिके ॥७३॥
कर्णिकायां षडङानि शक्तयो वसुपत्रके ।
निद्राच्छायाक्षमातृष्णाकान्तिरार्याश्रुतिः स्मृतिः ॥७४॥
शक्रादयस्तदस्त्राणि पूज्यान्यन्ते सुखाप्तये ।
य इत्थं सेवते देवीं स समृद्धेः पदं लभेत् ॥७५॥
रक्ताम्भोजैर्हुतैर्मन्त्री भूपतीन् वश्यतां नयेत् ।
नानाभोगान् पायसेन ताम्बूलैर्वामलोचनाम् ॥७६॥
नानाभोगप्रदोऽपरो मधुमतीमन्त्रः
दामोदरो बिन्दुयुक्तो मधुमत्याःऽपरो मनुः ।
पूर्ववद्यजनं चास्य ध्यायेद्देवीं कुमारिकाम् ॥७७॥
कोटिरर्द्धजपं कुर्विन्विद्यापारङुमो भवेत् ।
मधुमत्या समानान्या नानाभोगसुखप्रदा ॥७८॥
इष्टप्राप्तिदः प्रमदामन्त्रः
माया वहनयासनः शूरो मदेपावकसुन्दरी ।
षडर्णो मनुराख्यातो मुनिः शक्तिः समीरितः ॥७९॥
गायत्रीछन्द आख्यातं देवताप्रमादाभिधा ।
षडङानि प्रकुर्वीत दीर्घषट्काढ्यमायया ॥८०॥
ध्यान - जप - पूजादिविधानं च
केयूरमुख्याभरणाभिरामां वराभये सन्दधतीं कराभ्याम् ।
संक्रेन्दनाद्यामरसेव्यपादां सत्काञ्चनाभां प्रमदां भजामि ॥८१॥
रसलक्षं जपेन्मन्त्रं दशांशं जुहुयाद् घृतैः ।
पूर्वोक्ते पूजयेत् पीठे षडङाशाधवायुधैः ॥८२॥
निर्जने कानने रात्रावयुतं नियुतं जपेत् ।
सहस्त्रं पायसान्नेन हुत्वा शयनमाचरेत् ॥८३॥
त्रिसप्तदिवसं यावदेवमाचरतो निशी ।
देवीदृग्गोचरीभूय दद्यादिष्टानि मन्त्रिणे ॥८४॥
प्रमोदादर्शनदः प्रमोदामन्त्रः
मायाप्रमोदे ठद्वन्द्वं षडर्णो मनुरुत्तमः ।
ऋष्याद्यर्चनपर्यन्त प्रमदावदुदीरितम् ॥८५॥
सरितो निर्जने तीरे मण्डले चन्दनैः कृते ।
जपहोमौ विद्यायोक्तौ प्रमोदां पश्यति ध्रुवम् ॥८६॥
कारागृहमोक्षणक्षमो बन्दीमन्त्रः
तारो हिलियुगं बन्दीदेवी ङेन्ता नमोन्तकः ।
एकादशाक्षरो मन्त्रो भैरवत्रिष्टुभौ पुनः ॥८७॥
बन्दीमुयादयः प्रोक्ता एकेन द्वन्द्वशोऽङुकम् ।
विधाय संस्मरेद् बन्दीं रत्नसिंहासनस्थिताम् ॥८८॥
ध्यानजपपूजाप्रकारादिकथनम्
सतोयपाथोदसमानकान्तिम् अम्भोजपीयूषकरीरहस्ताम् ।
सुराङुनासेवितपादपद्मां भजामि बन्दीं भवबन्धमुक्तये ॥८९॥
लक्षयुग्मं जपेन्मन्त्री पायसान्नैर्दशांशतः ।
हुत्वा पूर्विदिते पीठे पूजयेद् बन्धमुक्तये ॥९०॥
अङुपूजाकेसरेषु शक्तयः पत्रमध्यगाः ।
कालीताराभगवतीकुब्जाहवा शीतलापि च ॥९१॥
त्रिपुरामातृकालक्ष्मीर्दिगीशा आयुधान्यपि ।
एवमारधिता बन्दी प्रयच्छेदीप्सितं नृणाम् ॥९२॥
एकविंशति घस्रान्तमयुतं प्रत्यहं जपेत् ।
ब्रह्मचर्यरतो मन्त्रीगणेशार्चनपूर्वकम् ॥९३॥
कारागृहनिबद्धस्य मोक्ष एवं कृते भवेत् ।
प्रयोगान्तकथनम्
चतुरस्रे ठकारान्तपूपोपरि संलिखेत् ॥९४॥
साध्यनाम घृतेनैव मायाबीजं च दिक्ष्वपि ।
मनुनाष्टादशार्णेन चतुरस्रं प्रवेष्टयेत् ॥९५॥
अष्टादशवर्णात्मकः स एव मन्त्रः
वाग्बीजं भुवनेशानी रमाबन्दि च केशवः ।
मुष्यबन्धं ततो मोक्षं कुरु युग्मं च ठद्वयम् ॥९६॥
वसुचद्रार्णमन्त्रोऽयं क्षिप्रं बन्धविमोक्षदम् ।
तस्मिन्नपूपे सम्पूज्य बन्दीमावरणान्विताम् ॥९७॥
कारानिकेतनस्थाय मित्राय प्रददीत् तम् ।
सशुद्धो वाग्यतो भूत्वा भक्षयेत्तमपूपकम् ॥९८॥
तस्मिन्सम्भक्षिते बद्धो मुच्यते बन्धनाद्रुतम् ।
एवं सम्प्रोदिता बन्दीस्मरणाद् बन्धमुक्तिदा ॥९९॥
॥ इति श्रीमन्महीधरविरचिते मन्त्रमहोदधौ छिन्नमस्तादिमन्त्रकथनं नाम षष्ठस्त रङ्गः ॥६॥
इति श्रीमन्महीधरविरचितायां मन्त्रमहोदधिव्याख्यायां नौकायां छिन्नमस्तादिकथनं नाम षष्ठस्त रङ्गः ॥६॥