अथ सप्तमः तरङ्गः
अथ सर्वेष्टसंसिद्धये प्रवक्ष्ये वटयक्षिणीम् ।
सर्वेष्टसिद्धिदोवट्यक्षिणीमन्त्रः
पद्मनाभो वियद्वायूझिण्टीशस्थौ सदृग्वियत् ॥१॥
यक्षि यक्षि महायक्षि वटतोयं सनासिकम् ।
क्षनिवासिनि शीघ्रं मे सर्वसौख्यं कुरुद्वयम् ॥२॥
स्वाहा द्वात्रिंशदर्णोऽयं मन्त्रोऽखिलसमृद्धिदः ।
ऋषिः स्याद्विश्रावश्छन्दोऽनुष्टुब्देवीं तु यक्षिणी ॥३॥
षडड्गन्यासोऽङ्गन्यासश्च
वहिनभिः श्रुतिभिर्वेदैर्वसुभिः सप्तभी रसैः ।
प्रकुर्वीत षडङानि मन्त्रवर्णान्न्यसेत्तनौ ॥४॥
मस्तके नेत्रयोर्वक्त्रे नासाकर्णांसयुग्मतः ।
स्तनयोः पार्श्वयोर्द्वन्द्वे हृदि नाभौ शिवोदरे ॥५॥
कट्यूरुनाभिर्जङ्घासु जानुनोर्मणिबन्धयोः ।
हस्तयोर्मूर्ध्नि विन्यस्य ध्यायेद् देवीं वटस्थिताम् ॥६॥
ध्यानजपहोमावरणदेवतादिकथनम्
अरुणचन्द्रनवस्त्रविभूषितां सजलतोयतुल्यतनूरुचम् ।
स्मरकुरङ्गदृशं वटयाक्षिणीं क्रमुकनागलतादलयुक्कराम् ॥७॥
लक्षदयं जपेन्मन्त्रं बन्धूकैस्तद्दशांशतः ।
हुत्वा पीठे यजेद्देवीमुच्यन्ते पीठशक्तयः ॥८॥
कामदामानदानक्तामधुरा मधुरानना ।
नर्मदाभोगदानन्दाप्राणदा पीठशक्तयः ॥९॥
मनोहराय यक्षिण्या योगपीठाय हृन्मनुः ।
पीठस्योक्तस्तत्र देवीं पूजयेद्वटयक्षिणीम् ॥१०॥
कर्णिकायां षडङ्गानि पत्रेष्वेता यजेत्पुतः ।
सुनन्दाचन्द्रिकाहासा सुलापामदविहवला ॥११॥
आमोदा च प्रमोदापि वसुदेत्यष्टशक्तयः ।
इन्द्रादीनथ वज्रादीन् सम्पूज्य लभते सुखम् ॥१२॥
एवमाराधितो मन्त्रः प्रयोगेषु क्षमो भवेत् ।
देव्याः प्रत्यक्षदर्शनादिफलकथनम्
निर्मनुष्ये वने गत्वा न्यग्रोधाधस्तले जपेत् ॥१३॥
प्रतिघस्रं तमस्विन्यां सहस्रं नियतेन्द्रियः ।
सप्तमे दिवसे प्राप्ते कृत्वा चन्दनमण्डलम् ॥१४॥
तत्राज्यदीपं कृत्वास्मिन्पूजयेद्वटयाक्षिणीम् ।
तदग्रे प्रजमेन्मन्त्रमानिशीथं समाहितः ॥१५॥
श्रृणोति नूपुरारावं मन्त्रीगीतध्वनिं ततः ।
श्रुत्वैव प्रजपेन्मन्त्रं वीतत्रासश्च तां स्मरेत् ॥१६॥
ततः प्रत्यक्षतो देवीमीक्षते सुरतार्थिनीम् ।
तत्कामपूरणात् सा तु ददातीष्टानि मन्त्रिणे ॥१७॥
किं बहूक्तेन सर्वेष्टपूरणीवटयक्षिणी ।
सर्वसौख्यप्रदोऽपरो यक्षिणीमन्त्रः
पद्माद्वयं यक्षिणीति सचन्द्रं गगनत्रयम् ॥१८॥
वैश्वानरप्रियान्तोऽयं दशवर्णो मनुर्मतः ।
ऋषिः पूर्वोदितश्छन्दः पंक्तिर्देवो तु यक्षिणी ॥१९॥
चन्द्रैकत्रित्रियुग्मेन सर्वेणाङ्गाक्रिया मता ।
स्मरेच्चम्पककान्तारे रत्नसिंहासनस्थिताम् ॥२०॥
सुवर्णप्रभां रत्नभूषाभिरामां जपापुष्पसच्छायवासो युगाढ्याम् ।
चतुर्दिक्षु दासीगणैः सेवितांघ्रि भजे सर्वसौख्यप्रदाम यक्षिणीं ताम् ॥२१॥
एवं ध्यात्वा जपेल्लक्षं जपापुष्पैर्दशांशतः ।
जुहुयात् पूर्ववत् पीठे पूर्वोक्ते प्रयजेदिमाम् ॥२२॥
भूमिगतनिधिदर्शनदो मेखलायक्षिणीमन्त्रः
क्रोधीशवहनीमन्विन्दुयुक्तौ मदनमेखले ।
हृदयाग्निप्रियान्तोऽयं ताराद्यो द्वादशाक्षरः ॥२३॥
अस्येज्यापूर्ववत्सर्वा मेखलायक्षिणी त्वियम् ।
चतुर्दशाहपर्यन्तं मधूकावनिरुट्तले ॥२४॥
प्रजपेदयुतं नित्यं सहस्त्रं हवनं चरेत् ।
मधूकपुष्पैर्मध्वक्तैस्तत्काष्ठैश्च हुताशने ॥२५॥
सन्तुष्टैवं कृते देवी प्रयच्छेदञ्जनं शुभम् ।
येनाक्तनयनो मन्त्री निधिं पश्येद्धरागतम् ॥२६॥
रोगनाशको विशालायक्षिणीमन्त्रः
प्रणवो वाग्विशाले च माया पदमा मनोभव ।
ठद्वयान्तो दशार्णोऽयं विशालायक्षिणी मनुः ॥२७॥
मुन्यादि पूजापर्यन्तं पूर्ववत्समुदीरितम् ।
चिन्तातरोरधःस्थित्वा शुचिर्लक्षं जपेन्मनुः ॥२८॥
शतपत्रैर्दशांशेन जुहुयात्तोषिता ततः ।
रसं ददाति येनासौ नीरोगायुरवाप्नुयात् ॥२९॥
वाराहीमन्त्र शत्रुनिग्रहकरः
वाक्चन्द्रशेखरौ शार्ङी पिनाकीशौ मनुस्थितौ ।
लाङुलित्रितयं सेन्दुवर्मदीर्घं शुचिप्रिया ॥३०॥
वस्वक्षरमनोः शत्रुघातिनः कपिलो मुनिः ।
छन्दोऽनुष्टुप् च वाराहीवार्तादेवतोदिता ॥३१॥
द्विचन्द्रभूमिचन्द्रैकयुग्मार्णैरङ्गकल्पना ।
वाराहीं चेतसि ध्यायेच्छत्रुनिग्रहकारिणीम् ॥३२॥
वाराहीध्यानम्
विद्युद्रोचिर्हस्तपद्मैर्दधाना पाशं शक्तिं मुद्गरं चाङ्ग्कुशं च ।
नेत्रोद्भूतैर्वितिहोत्रैस्त्रिनेत्रा वाराही नः शत्रुवर्गं क्षिणोतु ॥३३॥
वसुलक्षं जपित्वान्ते बिल्वपत्रैर्हयारिजैः ।
धात्रीफलैर्भृङ्गराजैः कुशैर्हूयाद् दशांशतः ॥३४॥
पूर्वोदिते यजेत्पीठे षडङ्गैर्दिगिनायुधैः ।
एवं सिद्धं मनुं मन्त्री यो जपेच्छत्रुनिग्रहे ॥३५॥
सृणिना शत्रुमानीय बद्ध्वा पाशेन तं दृढम् ।
मुद्रगरेण ध्नतीं मूर्ध्नि तां स्मरन्नयुतं जपेत् ॥३६॥
जुहुयादयुतं शुद्धैर्वनशुष्कैस्तु गोमयैः ।
प्रक्षिपेद्धोमजं भस्मवापीकूपादिपाथसि ॥३७॥
तत्पानीयस्य पातारो भ्रियन्ते रिपवो ध्रुवम् ।
निर्यान्ति हित्वा स्थानं वा विद्विषन्तः परस्परम् ॥३८॥
शत्रुनिग्रहणे दक्षा स्मरणादपि मन्त्रिणाम् ।
प्रकीर्तितयं वाराही धूमावत्यधूनोच्यते ॥३९॥
धूमावतीविधाने धूमावत्यष्टार्णमन्त्रः
सात्वतत्रितयं सार्घि तत्राद्यौ चन्द्रशेखरौ ।
बैकुण्ठोनन्तसंयुक्तो जलं नेत्रयुतो हरिः ॥४०॥
अष्टोर्णो वहिनजायान्तो मन्त्रः शत्रुविनाशनः ।
धूमावतीमन्त्रस्यर्षिदेवतादिकथनम्
पिप्पलादो निचृज्ज्येष्ठा मुनिश्छन्दोऽस्य देवता ॥४१॥
आद्यबीजद्वयान्तस्थैः षड्वर्णैरङ्गमीरितम् ।
श्मशाने संस्थिता ध्यायेज्ज्येष्ठां वायससंस्थिताम् ॥४२॥
अत्युच्चामलिनाम्बराखिअजनोद्वेगावहादुर्मना
रुक्षाक्षित्रितया विशालदशना सूर्योदरी चञ्चला ।
प्रस्वेदाम्बुचिताक्षुधाकुलतनुः कृष्णातिरुक्षप्रभा
ध्येया मुक्तकचा सदाप्रियकलिर्धूमावती मन्त्रिणा ॥४३॥
धूमावतीमन्त्रफलम्
एवं ध्यात्वा जपेल्लक्षं श्मशाने विगताम्बरः ।
निशाभोजी दशांशेन तिलैर्हवनमाचरेत् ॥४४॥
पूर्वोक्ते पूजयेत्पीठे ज्येष्ठां शत्रुविनष्टये ।
केसरेषु षङ्ङ्गनि पत्रस्था अष्टशक्तयः ॥४५॥
क्षुधातृष्णारतिर्निद्रानिऋतिर्दुर्गतीरुषा ।
अक्षमेति ततो देवा इन्द्राद्या आयुधानि च ॥४६॥
एवं ज्येष्ठां समाराध्य सिद्धमन्त्रः प्रजायते ।
उपोष्य कृष्णभूताहे नग्नो मुक्तशिरोरुहः ॥४७॥
शून्यागारे श्मशाने वा कान्तारे भूधरऽथवा ।
प्रत्यहं प्रजपेन्निर्भीर्ध्यायन्देवीं क्षपाशनः ॥४८॥
एवं लक्षं जपन्मन्त्रीं नाशयेदचिरादरिम् ।
जुहवता लवणोपेतां राजिकां निशि तत्फलम् ॥४९॥
कर्णपिशाचिनीमस्तद्विधानवर्णनम्
तारो मायाकर्णिपिशा सदृशौ कूर्मधान्तिमौ ।
कर्णे मे विधिदण्डीरो ठद्वयं षोडशार्णकम् ॥५०॥
मनुऋष्यादिपूर्वोक्तं देवता तु पिशाचिनी ।
एकैकाङ्गन्गिरामाक्षिवर्णैरङ मनो मतम् ॥५१॥
चितासनस्थां नरमुण्डमालां विभूषितामस्थिणीन्कराब्जैः ।
प्रेतां नरान्त्रैर्दधतीं कुवस्त्रां भजामहे कर्णपिशाचिनीं ताम् ॥५२॥
श्मशानस्थः शवस्थो वा जपेल्लक्षं समाहितः ।
द्शांशं जुहुयाद्वहनौ बिभीतकसमिद्वरैः ॥५३॥
यजेत् पूर्वोदिते पीठे षडङ्गमरहेतिभिः ।
सिद्धमन्त्रे जपं कुर्यादधस्ताद् बदरोतरोः ॥५४॥
अशुचिर्लक्षसंख्यातं तेन तुष्टा पिशाचिनी ।
परचित्तस्थितां वार्तां भाविनीं च वदेच्छुतौ ॥५५॥
शीतलामन्त्रस्तद्विधानवर्णनम्
ध्रुवः शिवारमाशीतलायै हार्द नवाक्षरः ।
उपमन्युश्च बृहतीं शीतला मुनिपूर्विका ।
षड्दीर्घयुक्छिवालक्ष्मीर्बीजाभ्यां स्यात्षडङ्गकम् ॥५६॥
दिग्वाससं मार्जनिका च शूर्पं करद्वये सन्दधतीं घनाभाम् ।
श्रीशीतलां सर्वरुजार्तिनष्टौ रक्ताङ्गरागस्रजमर्चयामि ॥५७॥
अयुतं प्रजपेन्मन्त्रं पायसेन सहस्रकम् ।
जुहुयात्पूर्ववत्पीठे स्फोटानां नाशिनी त्वियम् ॥५८॥
नाभिपात्रे जले स्थित्वा यः सहस्रं जपेन्मनुम् ।
तेन सम्मार्जितास्तीव्राः स्फोटा नश्यन्ति तत्क्षणात् ॥५९॥
स्वप्नेश्वरीमन्त्रस्तद्विधानवर्णनम्
प्रणवः कमला स्वप्नेश्वरिकार्यं च मे वद ।
स्वाहा त्रयोदशार्णोऽयं मन्त्रो मुन्यादिपूर्ववत् ॥६०॥
अक्षिवेदाक्षिभूयुग्मनेत्रार्णैरङ्गकं मनोः ।
विन्यस्य देवतां ध्यायेत्स्वप्नेशीमिष्टसिद्धये ॥६१॥
वराभयेपद्मयुगं दधानां करैश्चतुर्भिः कनकासनस्थाम् ।
सिताम्बरां शारदचन्द्रकान्तिं स्वप्नेश्वरीं नौमि विभूषणाढ्याम् ॥६२॥
लक्षं जपेद्बिल्वपत्रैर्जुहुयात्तद्दशांशतः ।
पूर्वोदिते यजेत्पीठे षडङ्गत्रिदशायुधैः ॥६३॥
रात्रौ सम्पूज्य देवेशीमयुतं पुरतो जपेत् ।
शयीतब्रह्मचर्येण भूमौ दर्भास्थिताजिनैः ॥६४॥
देव्यै निवेद्य स्वहार्दं सा स्वप्ने वदति ध्रुवम् ।
यक्षिण्याद्या इति प्रोच्य मातङ्गी गद्यतेऽधुना ॥६५॥
मातङीमन्त्रविधानवर्णनम्
तारो मायाच वाग्लक्ष्मीहृन्निद्रास्मृतिलान्तिमाः ।
सनेत्रो हरिरुच्छिष्टचाण्डानेत्रयुता क्रिया ॥६६॥
श्रीमातङ्गेश्वरिपदं सर्वशूलीनलान्तशम् ।
करिवहिनप्रियामन्त्रो द्वात्रिंशद्वर्णवानयम् ॥६७॥
मतङ्गो मुनिरस्योक्तोऽनुष्टुप्छन्दस्तु देवता ।
मातङ्गीसर्वजनता वशीकरणतत्परा ॥६८॥
चतुर्भिः षड्भिरङ्गैश्च षडष्टनयनैरपि ।
मन्त्रोऽस्य वर्णैरङगानि न्यस्य देवीं विचिन्तयेत् ॥६९॥
घनश्यामलांङ्गी स्थितां रत्नपीठे शुकस्योदितं श्रृण्वतीं रक्तवस्त्राम् ।
सुरापानमत्तां सरोजस्थितां श्रीं भजे वल्लकीं वादयन्तीं मतङ्गीम् ॥७०॥
जपोयुतं सहस्रं तु होमः पुष्पैर्मधूकजैः ।
मध्वक्तैः पूजयेत्पीठे वक्ष्यमाण विधानतः ॥७१॥
त्रिकोणाष्टदलद्वन्द्वं कलास्त्रचतुरस्त्रकम् ।
पीठं कृत्वा यजेत्तस्मिन्पीठशक्तिर्नवेष्टदाः ॥७२॥
विभूतिरुन्नतिः कान्तिः सृष्टिः कीर्तिश्च सन्नतिः ।
व्युष्टिरुत्कृष्टिऋद्धी च मातंग्यताः समीरिताः ॥७३॥
पीठमन्त्रपीठपूजाविधिवर्णनम्
सर्वशक्तिकमस्यान्ते लासनायहृदयान्तिकः ।
तारमायावाग्रमाद्यः पीठमन्त्रः कलार्णकः ॥७४॥
विश्राण्यासनमेतेन पाद्यादीने प्रकल्पयेत् ।
मूलेन पुष्पपूजान्ते कुर्यादावरनार्चनम् ॥७५॥
त्रिकोणेष्वर्चयेत् तिस्रो रतिप्रीतिमनोभवाः ।
केसरेषु षडङ्गानि मातृश्च दलमध्यगाः ॥७६॥
द्वितीयेऽष्टदले पूज्या असिताङ्गादिभैरवाः ।
षोडशाख्ये तु वामाख्या ज्येष्ठरौद्रीप्रशान्तिका ॥७७॥
श्रद्धामाहेश्वरी चापि क्रियाशक्तिश्च सप्तमी ।
सुलक्ष्मीः सृष्टिमोहिन्यौ प्रमथाश्वासिनी तथा ॥७८॥
विद्युल्लता च चिच्छक्तिः सुन्दरीनन्दया सह ।
नन्दबुद्धिः षोडशी तु पूजनीयाः प्रयत्नतः ॥७९॥
चतुरस्त्रे चतुर्दिक्षु मातङ्गी सामहादिका ।
महालक्ष्मीस्तथासिद्धं पुनर्वहन्यादिकोणतः ॥८०॥
विघ्नेश दुर्गाबटुकक्षेत्रेशादिग्धवास्ततः ।
वज्राद्याः पूजनीयाः स्युरित्थं सिद्धिर्मनोर्भवेत् ॥८१॥
ध्रुवं भवानी वाग्बीजं रमामादौ प्रयोजयेत् ।
सर्वावरणदेवानां मातङ्गीपदमन्ततः ॥८२॥
मल्लिकाकुसुमैर्होमाद् भोगो राज्यं च बिल्वजैः ।
पत्रै फलैर्वा वश्यास्याज्जनताब्रह्मवृक्षजैः ॥८३॥
रोगनाशोमृशामृताखण्डैर्निम्बैः श्रीस्तण्डुलैरपि ।
आकृष्टिर्लवर्णौर्विद्यात्तगरैर्वेतसैर्जलम् ॥८४॥
लवर्णैर्निम्बतैलाक्तैः शत्रुनाशोऽन्धसाशनम् ।
निशाचूर्णयुतैर्लोणैर्होमात्स्यात्स्तम्भनं नृणाम् ॥८५॥
रक्तचन्दनकर्चूरमांसीकुंकुमरोचनाः ।
चन्दनागुरुकर्पूरैर्गन्धाष्टकमुदीरितम् ॥८६॥
एतद्धोमाज्जगद्वश्यं जायते मन्त्रिणो ध्रुवम् ।
एतत्पिष्टवा शतं जप्त्वा तिलकेन जगत्प्रियः ॥८७॥
कदलीफलहोमेन सर्वेष्टं समवाप्नुयात् ।
किंबहूक्तेन मातङ्गी पूजिता कामदा नृणाम् ॥८८॥
मध्वक्तलोणरचिताम पुत्तलीं दक्षिणांघ्रितः ।
हूयादष्टोत्तरशतं खादिराग्नौ वशं निशि ॥८९॥
शालिपिष्टमयीं तां तु भक्षयेत्स्त्रीवशीकृतो ।
कृष्णभूतनिशि ध्वाङ्ग्क्षोदरे क्षिप्त्वा समुद्रजम् ॥९०॥
नीलसूत्रेण संवेष्टय् चिताग्नौ प्रदहेदमुम् ।
सहस्रजप्तं तद्भस्मं यस्मै दद्यात् स दासवत् ॥९१॥
बाणेशीमन्त्रस्तद्विधानवर्णनम्
सत्योऽग्नियुक्तोऽनन्तेन्दुसंयुक्तं बीजमादिमम् ।
एतस्यानन्तसंस्थाने शान्तियुक्तो द्वितीयकम् ॥९२॥
ब्रह्मेन्द्रशान्तिबिन्द्वाढ्यस्तृतीयं बीजमीरितम् ।
भूधरो वसुधोर्घीशचन्द्राढ्यस्तत्तुरीयकम् ॥९३॥
सर्गी हंसः पञ्चमः स्यात् पञ्चबीजात्मको मनुः ।
ऋषिः सम्मोहनश्छन्दो गायत्रीदेवता पुनः ॥९४॥
बाणेशी व्यस्तवर्णेन मन्त्रेणोक्तं षडङ्गकम् ।
मूर्ध्नि पादे मुखे गुह्ये हृदये पञ्चदेवताः ॥९५॥
न्यस्तव्याः पञ्चबीजाद्या द्राविणीक्षोभिणी पुनः ।
वशीकरण्याकर्षण्यौ सम्मोहिन्यपि पञ्चमी ॥९६॥
बाणेशीध्यानम्
उद्यद्भास्वत्सन्निभा रक्तवस्त्रा नानारत्नालंकृताङ्गी वहन्ती ।
हस्तैः पाशं चांकुशं चापबाणौ बाणेशी नः कामपूर्तिं विद्यत्ताम् ॥९७॥
एवं ध्यात्वा जपेल्लक्षपञ्चकं तद्दशांशतः ।
हुत्वा बाणेश्वरी देवीं पूजयेद्विधिपूर्वकम् ॥९८॥
मोहिनीक्षोभोणीत्रासीस्तम्भिन्याकर्षिणी तथा ।
द्राविण्याहलादिनी क्लिन्नाक्लेदिनीपीठशक्तयः ॥९९॥
बाणेशी योगपीठाय नमो मूलादिको मनुः ।
दत्त्वा तेनासनं मन्त्री तस्मिन्देवीं प्रपूजयेत् ॥१००॥
आदौ षडङ्गान्याराध्य दिक्ष्वग्रे द्राविणीमुखा ।
दलेष्वनङ्गरुपा स्यादनङ्गमदना तथा ॥१०१॥
अनङ्गमन्मथानङ्गकुसुमामदनापरा ।
अनङ्गाद्या तथानङ्गशिशिरानङ्गमेखला ॥१०२॥
अनङ्गदीपिकेत्यष्टौय शक्राद्या आयुधान्यपि ।
एवं सिद्धं मनुं मन्त्री काम्येषु विनियोजयेत् ॥१०३॥
दधियुक्तैरशोकस्य पुष्पैर्यो दिवसत्रयम् ।
सहस्रं जुहुयात्तस्य वश्याः स्युः प्राणिनोऽखिलाः ॥१०४॥
लाजैर्दधियुतैर्होमान् मन्त्री कन्यामवाप्नुयात् ।
कन्यापि वरमाप्नोति मासद्वितयमध्यतः ॥१०५॥
गव्याज्येन ससम्पातं हुत्वा साऽष्टशतं नरः ।
आज्यं सम्पातितं दद्यात्स्त्रियै विश्राणितश्रियै ॥१०६॥
सा तदाज्यं निजं कान्तं भोजयित्वा वशं नयेत् ।
सुगन्धकुसुमैर्हुत्वा धनमाप्नोति वाञ्छितम् ॥१०७॥
कामेशीमन्त्रस्तद्विधानवर्णनम्
मायामन्मथावाग्बीजे ब्लूं स्त्रीं पञ्चाक्षरो मनुः ।
ऋषिश्छन्दश्च पूर्वोक्ते कामेशीदेवतास्मृता ॥१०८॥
कामेशीध्यानम्
पाशांकुशाविक्षुशरासबाणौ करैर्वहन्तीमरुणांशुकाढ्यम् ।
उद्यत्पतङगाभिरुचिं मनोज्ञां कामेश्वरीं रत्नचितां प्रणौमि ॥१०९॥
भूतलक्षं जपित्वैनामर्धलक्षं पलाशजैः ।
कुसुमैर्जुहुयात्पीठे पूर्वोक्ते पूजयेदिमाम् ॥११०॥
आदावङ्गानि सम्पूज्य दिक्षु मध्ये मनोभवम् ।
मकर्ध्वजकन्दर्पो मन्मथं कामदेवकम् ॥१११॥
ततो हयनङ्गरुपाद्यां इन्द्राद्यस्त्राणि तद्बहिः ।
एवं सिद्धमनुर्मन्त्री पूर्वोक्तं योगमाचरेत् ॥११२॥
॥ इति श्रीमन्महीधरविरचिते मन्त्रमहोदधौ यक्षिण्यादिमन्त्रकथनं नाम सप्तमस्तरङ्गः ॥७॥
इति श्रीमन्महीधरविरचितायां मन्त्रमहोदधिव्याख्यायां नौकायां यक्षिण्यादिकथनं नाम सप्तमस्तरङ्गः ॥७॥