अन्नपूर्णेश्वरीमन्त्रं वक्ष्येऽभीष्टप्रदायकम् ।
कुबेरो यामुपास्याशु लब्धवान्निधिनाथताम् ॥१॥
शम्भोः सख्य्म दिगीशत्वं कैलासाधीशतामपि ।
अन्नपूर्णेश्वरी मन्त्रः
वेदादिर्गिरिजापद्मामन्मथो हृदयं भग ॥२॥
वतिमाहेश्वरि प्रान्तेऽन्नपूर्णे दहनाङ्गना ।
प्रोक्ताविंशतिवर्णेयं विद्या स्याद् द्रुहिणो मुनिः ॥३॥
कृतिश्छन्दोऽन्नपूर्णेशी देवता परिकीर्तिता ।
षड्दीर्घाढ्येन हृल्लेखाबीजेन स्यात्षड्ङ्गकम् ॥४॥
मुखनासाक्षिकर्णान्धुगुदेषु नवसु न्यसेत् ।
पदानि नवतद्वर्णसंख्येदानीमुदीर्यते ॥५॥
भूमिचन्द्रधरैकाक्षिवेदाब्धियुगबाहुभिः ।
पदसंख्यामितैर्वर्णैस्ततो ध्यायेत् सुरेश्वरीम् ॥६॥
ध्यानवर्णनम्
तप्तस्वर्णनिभा शशाङ्गमुकुटा रत्नप्रभाभासुरा नानावस्त्रविराजिता त्रिनयना भूमीरमाभ्यां युता ।
दर्वीहाट्कभाजनं च दधती रम्याच्च पीनस्तनी नृत्यन्तं शिवमाकलय्य मुदिता ध्येयान्नपूर्णेश्वरी ॥७॥
जपहोमपूजादिकथनम्
लक्षं जपोऽयुतं होमश्चरुणा घृतसंयुतः ।
जयादिनवशक्त्याढ्ये पीठे पूजा समीरिता ॥८॥
त्रिकोण - वेदपत्राष्टपत्र - षोडशपत्रके ।
भूपृरेण युते यन्त्रे प्रदद्यान्माययासनम् ॥९॥
अगन्यादिकोणत्रितये शिववाराहमाधवान् ।
अर्चयेत् स्वस्वमन्त्रैस्तु प्रोच्यन्ते मनवस्तु ते ॥१०॥
शिववाराहमाधवमन्त्रकथनम्
प्रणवो मनुचन्द्राढ्यं गगनं हृदयं शिवा ।
मारुतः शिवमन्त्रोऽयं सप्तार्णः शिवपूजने ॥११॥
तारं नमो भगवते वराहार्घीशयुग्वसुः ।
पायभूर्भुवरन्तेस्वोथ शूरः कामिका च ये ॥१२॥
भूपतित्वं च मे देहि ददापय शुचिप्रिया ।
त्रयस्त्रिंशद्वर्णमन्त्रः प्रोक्तो वाराहपूजने ॥१३॥
प्रणवो हृदयं नारयणाय वसुवर्णकः ।
नारायणार्चने मन्त्रः षडङ्गानि ततोऽर्चयेत् ॥१४॥
धरां वामे स्वमनुना दक्षभागे श्रियं तथा ।
अन्नं मह्यन्नमित्युक्त्वा मेदेह्यन्नधिपार्णका ॥१५॥
तये ममान्नं प्रार्णान्ते दापयानलसुन्दरी ।
द्वाविंशत्यक्षरो मन्त्रो भूमिष्टौ भूमिसम्पुटः ॥१६॥
श्रीबीजभूबीजादिकथनं मन्त्रफलकथनं च
लक्ष्मीपुटस्तत्पूजायां स्मृतिर्लमनुचन्द्रयुक् ।
भुवोबीजंवहिनशान्तिबिन्दुयुक्तो बकः श्रियः ॥१७॥
मन्त्रीदिस्थचतुर्बीजपूर्विकाः परिपूजयेत् ।
शक्तिश्चतस्त्रो वेदास्रेपरा च भुवनेश्वरी ॥१८॥
कमलासुभगाचेति ब्राह्मयाद्या अष्टपत्रगाः ।
षोडशारेऽमृता चैव मानदातुष्टिपुष्टयः ॥१९॥
प्रीतीरतिह्रीः श्रीश्चापि स्वधास्वाहादशम्यथ ।
ज्योत्स्नाहैमवतीछाया पूर्णिमाः सहनित्यया ॥२०॥
अमावास्येति सम्पूज्या मन्त्रशेषार्णपूर्विकाः ।
भूपूरे लोकपालाः स्युस्तदस्त्राणि तदग्रतः ॥२१॥
इत्थं जपादिभिः सिद्धे मन्त्रेऽस्मिन् धनसञ्चयैः ।
कुबेरसदृशो मन्त्री जायते जनवन्दितः ॥२२॥
माहेश्वर्यन्नपूर्णामन्त्रः
अयं रमाकामबीजहितोऽष्टादशाक्षरः ।
द्विनेत्रवेदवेदाब्धिनेत्रार्णैरङ्गमीरितम् ॥२३॥
अपरो मन्त्रः
पूर्वोक्तमन्त्रे मन्वर्णान्ममाभिमतमुच्चरेत् ।
अन्नं देहि युगं चापि भवेदेगुणार्णवान् ॥२४॥
युगाङ्गवेदसप्ताब्धिषडर्णैरङ्गकल्पनम् ।
प्रसन्नपारिजातेश्वर्यन्नपूर्णामन्त्रः
प्रणवः कमलाशक्तिर्नमो भगवतीति च ॥२५॥
प्रसन्नपारिजातेश्वर्यन्नपूर्णेऽनलाङ्गना ।
चतुर्विंशतिवर्णात्मा मन्त्रः सर्वेष्टसाधकः ॥२६॥
रामाक्षिवेदानिधिभिर्वेदद्वयर्णैः षडङ्गकम् ।
प्रसन्नवरदान्नपूर्णामन्त्रः
तारश्रीशक्तिहृदयं भगाम्भः कामिकासदृक् ॥२७॥
माहेश्वरीप्रसन्नेति वरदेपदमुच्चरेत् ।
अन्नपूर्णेग्निपत्नीति पञ्चविंशतिवर्णवान् ॥२८॥
रामषङ्युगषड्वेदनेत्रार्णैः स्यात् षडङ्गकम् ।
एषां चतुर्णां मन्त्राणामन्यत्सर्वं तु पूर्ववत् ॥२९॥
त्रैलोक्यमोहनगौरीमन्त्रः
त्रैलोक्यमोहनो गौरीमन्त्रः संकीर्त्यतेऽधुना ।
मायानमोऽन्ते ब्रह्मश्रीराजिते राजपूजिते ॥३०॥
जयेति विजये गौरीगान्धारिति वदेत्पदम् ।
त्रिभुतोयं मेषवशङ्करिसर्वससद्यलः ॥३१॥
कवशङ्करिसर्वस्त्रीपुरुषान्ते वह्सङ्करि ।
सुद्वय्म दुद्वयं हेयुग्वायुग्मं हरवल्लभा ॥३२॥
स्वाहान्त एकषष्टयर्णो मन्त्रराजः समीरितः ।
अजो मुनिर्निचृच्छन्दो गौरीत्रैलोक्यमोहिनी ॥३३॥
देवताबीजशक्ति तु मायास्वाहापदे क्रमात् ।
षडङ्गक्थनप्रकारोऽपरः
चतुर्दशदशाष्टाष्टदशैकादशवर्णकैः ॥३४॥
दीर्घाढ्यमाययायुक्तैः षडङ्गानि समाचरेत् ।
मूलेन व्यापकं कृत्वा ध्यायेत् त्रैलोक्यमोहिनीम् ॥३५॥
ध्यानजपहोमद्यानुष्ठानं फलकथनं च
गीर्वाणसङ्वर्चितपदपङ्कजा रुणप्रभाबालशशाङ्कशेखरा ।
रक्ताम्बरालेपनपुष्पञ्ड् मुदे सृणिं सपाशं दधती शिवास्तु नः ॥३६॥
अयुतं प्रजपेन्मन्त्रं सह्स्रं घृतसंयुतैः ।
पायसैर्जुहुयात्पीठे प्रागुक्ते गिरिजां यजेत् ॥३७॥
केसरेष्वङ्गमाराध्य ब्रह्मयाद्याः पत्रमध्यगाः ।
लोकेश्वरास्तदस्त्राणि तद्बहिः परिपूजयेत् ॥३८॥
इत्थामाराधिता देवी प्रयच्छेत्सुखसम्पदः ।
तन्दुलैस्तिलसम्मिश्रैर्लवणैर्मधुरान्वितैः ॥३९॥
फलै रम्यै रक्तपद्मैर्जुहुयाद्यो दिनत्रयम् ।
तस्य विप्रादयो वर्णा वश्याः स्युर्मासमध्यतः ॥४०॥
रविमण्डलमध्यस्थां देवीं ध्यायञ्जपेन्मनुम् ।
अष्टोत्तरशतं तावद्धुत्वाग्नौ वशयेज्जगत् ॥४१॥
रविमण्डलमध्यस्थदेव्यनुष्ठानं फलं च
नभोहंसानलयुतमैकारस्थं शशाङ्कयुक् ।
तोयं वाय्वग्निकर्णेन्दुयुतं राजमुखीति च ॥४२॥
राजाधिमुखिवश्यान्ते मुखिमायारमात्मभूः ।
देवि देवि महादेवि देवाधिदेवि सर्व च ॥४३॥
जनस्य च मुखं पश्चान्मम वशं कुरुद्वयम् ।
वहिनप्रियान्तो मन्त्रोऽष्टचत्वरिंशल्लिपिर्मतः ॥४४॥
ऋषिच्छन्दो देवतास्तु पूर्वत्परिकीर्तिताः ।
हृदेअकादशभिः प्रोक्तं शिरः स्यात्सप्तवर्णकेः ॥४५॥
शिखावर्मापि वेदार्णैः पञ्चभिर्नत्रमीरितम् ।
अस्त्रं सप्तदशार्णैः स्याद्ध्यानज्प्यादिपूर्ववत् ॥४६॥
वश्यकरमन्त्रशट्ककथनम्
अङ्गमन्त्रास्तु दीर्घाढ्य भुवनेशीपरा मताः ।
एवं सिद्धमनुर्मन्त्री प्रयोगान् कर्तुमर्हति ॥४७॥
कुर्यात् सर्वजनस्थाने मनोः साध्याभिधानकम् ।
जपे होमे तर्पणे च वशीकरणकर्मणि ॥४८॥
ससम्पातं घृतं हुत्वा सहस्त्रं सप्तवासरम् ।
सम्पाताज्यं तु साध्यस्य प्राशितं वश्यकारकम् ॥४९॥
साध्यनक्षत्रवृक्षे साध्याकृतिप्रयोग
साध्यनक्षत्रवृक्षेण कुर्यात्साध्याकृतिं शुभाम् ।
तस्यामसून प्रतिष्ठाप्य प्राङ्गणे निखनेच्च ताम् ॥५०॥
तत्रानलं समाधाय रक्तचन्दनसंयुतैः ।
जपापुष्पैर्निशीथिन्यां जुहुयात्सप्तवासरम् ॥५१॥
सहस्रं प्रत्यहं पश्चात्तां निष्कास्य सरित्तटे ।
निखनेत्साधकस्तस्य साध्यो दासो भवेद् ध्रुवम् ॥५२॥
ज्येष्ठालक्ष्मीमन्त्रः
ज्येष्ठालक्ष्मी महामन्त्रः प्रोच्यते धनवृद्धिदः ।
वाग्बीजं भुवनेशानी श्रीरनन्तोद्यलक्ष्मि च ॥५३॥
स्वयम्भुवे शम्भुजाया ज्येष्ठायै हृदयान्तिकः ।
मनुः सप्तदाशार्णोऽयं मुनिर्ब्रह्यास्य कीर्तितः ॥५४॥
छन्दोऽष्टिर्ज्येष्ठलक्ष्मीस्तु देवता शक्तिबीजके ।
श्रीमाये मूलतो हस्तौ प्रमृज्याङ्गं समाचरेत् ॥५५॥
मन्त्राक्षरन्यासकथनम्
रामवेदयुगैकत्रिनेत्रार्णैर्मनुसम्भवैः ।
पदानामष्टकं न्यस्येच्छिरो भ्रूमध्यवक्त्रके ॥५६॥
हृन्नाभ्याधारके जानुपादयोस्तत्पदोन्मितिः ।
भूचन्द्रैकचतुर्वेदभूमिरामाक्षिवर्णकैः ॥५७॥
ध्यानं पीठदेवतागायत्र्यादिकथनम्
उद्यद्भास्करसन्निभा स्मितमुखी रक्ताम्बरालेपना सत्कुम्भं धनभाजनं सृणिमथो पाशङ्कैर्बिभ्रती ।
पद्मस्था कमलेक्षणा दृढकुचा सौन्दर्यवारांनिधिर्ध्यातव्या सकलाभिलाषफलदा श्रीज्येष्ठलक्ष्मीरियम् ॥५८॥
लक्षं जपेत पायसेन जुहुयात् तद्दशांशतः ।
आज्याक्तेन यजेत्पीठे वक्ष्यमाणे महाश्रियम् ॥५९॥
लोहिताक्षीविरुपा च करालीनीललोहिता ।
समदावारुणीपुष्टिरमोघाविश्वमोहिनी ॥६०॥
तत्पीठशक्तयः प्रोक्ता दिक्षु मध्ये च ता यजेत् ।
प्रयच्छेदासनं तस्यै गायत्र्या वक्ष्यमाणया ॥६१॥
प्रणवो रक्तज्येष्ठायै विद्महे पदमन्ततः ।
नीलज्येष्ठापदं पश्चाद्यै धीमहि ततः पदम् ॥६२॥
तन्नो लक्ष्मीः पदं प्रोच्य चोद्यादिति चोच्चरेत् ।
गायत्र्येषा समाख्याता केसरेष्वङ्गपूजनम् ॥६३॥
मातरः पत्रमध्येषु बाह्ये लोकेशहेतयः ।
इत्थं जपादिभिः सिद्धो मनुर्दद्यदभीप्सितम् ॥६४॥
अन्नमन्त्रकथनम्
अथान्नदमनोर्वक्ष्ये साधनं यः पुरोदितः ।
अन्नपूर्णावृतौ भूमिश्रीयागे द्वियमाक्षरः ॥६५॥
तारभूश्रीपुटो जप्यो मुनिरस्य चतुर्मुखः ।
छन्दो निचृतिरख्यातं देवते वसुधाश्रियौ ॥६६॥
भूबीजं बीजमस्योक्तं श्रीबीजं शक्तिरीरिता ।
अन्नं महीति हृदयमन्नं मे देहि मस्तकम् ॥६७॥
शिखात्वन्नाधिपतये ममान्नं च प्रदापय ।
वर्मोक्त स्वाहया चास्त्रमङ्गमन्त्राध्रुवादिकाः ॥६९॥
षड्दीर्घारुढभूमिश्रीबीजान्ताः परिकीर्तिताः ।
विनेत्रा अपदुग्धाब्धौ स्वर्णदीपे तु ते स्मरेत् ॥६९॥
कल्पद्रुमाधोमणिवेदिकायां समास्थिते वस्त्रविभूषणाढ्ये ।
भूमिश्रियौ वाञ्छितवामदक्षे संचिन्तयेद् देवमुनीन्ट्रवन्द्ये ॥७०॥
लक्षमेकं जपेन्मन्त्रं तद्दशांशं घृतप्लुतैः ।
अन्नैर्हुत्वा यजेत् पीठे वैष्णवे वसुधाश्रियौ ॥७१॥
वैष्णवीया अष्टपीठशक्तयः
विमलोत्कर्षिणी ज्ञानक्रियायोगाभिधा तथा ।
प्रहवी सत्या वथेशानानुग्रहापीठशक्तयः ॥७२॥
तारं नमो भगवते विष्णवे सर्ववर्णकाः ।
भूतात्मसयोगपदं योगपद्पदं ततः ॥७३॥
पीठात्मने नमोऽन्तोऽयं पीठस्य मनुरिरीतः ।
दद्यादासनमन्तेन मूलेनावाहनादिकम् ॥७४॥
अङानीष्ट्वार्चयेद्दिक्षु भोवहिनजलमारुतान् ।
विवृति च प्रतिष्ठां च विद्यां शान्तिविदिक्षु च ॥७५॥
बलकादयोऽन्या अष्टशक्तयः
अष्टशक्तिर्बलाका च विमलाकमला तथा ।
वनमालाबिभीषा च मालिका शाङ्करी पुनः ॥७६॥
पूर्वोदिदिक्षु प्रजयेष्टमी वसुमालिका ।
शक्राद्यानायुधर्युक्तान स्वस्वदिक्षु समर्चयेत् ॥७७॥
इत्थं सपरिवारे योऽधरालक्ष्म्यौ जपादिभिः ।
आराधयेत् स लभते महतीमन्नसम्पदम् ॥७८॥
आज्याक्तैश्च तिलैर्बिल्वसमिदिर्जुहुयाच्छ्रिये ।
साज्येन पयसेनापि फलैः पत्रैश्व बिल्वजैः ॥७९॥
जपतामुं महामन्त्रं होमकार्यो दिने दिने ।
दशसंख्यः कुबेरस्य मनुनेध्मैर्वटोद्भवैः ॥८०॥
कुबेरमन्त्रोद्धारः ध्यानादि च
तारो वैश्रवणायाग्निप्रियान्तोऽष्टाक्षरो मनुः ॥८१॥
होमकाले कुबेरं तु चिन्त्येदग्निमध्यगम् ।
धनपूर्णं स्वर्णकुम्भं तथा रत्नकरण्डकम् ॥८२॥
हस्ताभ्यां विप्लुतं खर्वकरपादं च तुन्दिलम् ।
वटाधस्ताद्रत्नपीठोपविष्टं सुस्मिताननम् ॥८३॥
एवं कृत हुतो मन्त्री लक्ष्म्या जयति वित्तपम् ।
प्रत्यङ्गिरामन्त्रः
अथ प्रत्यङ्गिरां वक्ष्ये परकृत्या विमर्दिनीम् ॥८४॥
दीर्घेन्दुयुग्मरुद्ब्रह्मामांसलोहितसंस्थिताम् ।
यन्तिनोरय उच्चार्य क्रूरां कृत्यां समुच्चरेत् ॥८५॥
वधूमिव पदं पश्चात्तान् ब्रह्मान्तेसदीर्घणः ।
अपनिर्णुदम् इत्यन्ते प्रत्यक्कर्तारमृच्छतु ॥८६॥
तारमायापुटो मन्त्रः स्यात्सप्तत्रिंशदक्षरः ।
ब्रह्मनुष्टुप्मुनिश्छन्दो देवी प्रत्यङ्गिरेरिता ॥८७॥
बीजशक्तितारमाये कृत्या नाशे नियोजनम् ।
अष्टभीस्तोयनिधिभुर्युगैर्वेदैश्च पञ्चभि ॥८८॥
वसुर्भिमन्त्रजैर्वर्णैदीर्घयुक्पार्वतीपरैः ।
प्रणवाद्यैः षडङ्गानि कल्पयेज्जातिसंयुतैः ॥८९॥
शिरोभ्रूमध्यवक्त्रेषु कण्ठे बाहुद्वये हृदि ।
नाभावूर्वोर्जानुनोश्च पदानि पद्योर्न्यसेत् ॥९०॥
चतुर्दशकमान्मन्त्री तारमायापुटान्यपि ॥
ध्यानप्रयोगादिकथनम्
आशाम्बरा मुक्तकचा घनच्छवि र्ध्येया सचर्मासिकराहिभूषणा ।
दंष्ट्रोग्रवक्त्राग्रसिताहितान्वया प्रत्यङ्गिरा शङ्करतेजसेरिता ॥९१॥
ध्यायन्नेवं जपेन्मन्तमयुतं तद्दशांशतः ।
अपामार्गेध्मराज्याज्यहविर्भिर्जुहुयात्ततः ॥९२॥
अन्नपूर्णासने चार्चेदङ्गलोकेश्वरायुधः ।
एवं सिद्धमनुर्मन्त्री प्रयोगेषु शतं जपेत् ॥९३॥
जुहुयाच शतं दिक्षु दशमन्त्रैर्हरेद् बलिम् ।
बलिमन्त्रपूर्वकं बलिदानम्
यो मे पूर्वगतः पाप्मा पापकेनेह कर्मणा ॥९४॥
इन्द्रस्तंदेव उच्चार्य राजान्ते भञ्जयत्विति ।
अञ्जयत्वितिचोच्चार्य मोहयत्विति चोच्चरेत् ॥९५॥
नाशयुतपदं पश्चान्मारयत्वित्यतो बलिम् ।
तस्मै प्रयच्छतु कृतंममान्ते च शिवं मम ॥९६॥
शान्तिः स्वस्त्ययं चास्तु बलिमन्त्र उदाहृतः ।
प्रणवाद्योऽषष्टयर्णस्तेनैव वितरेद् बलिम् ॥९७॥
दिक्षुबलिदानप्रकारकथनम्
अस्मिन्मन्त्रे पूर्वपदस्थानेग्न्यादिपदं वदेत् ।
अग्निरित्यादि च पठेदिन्द्र इत्यादिके स्थले ॥९८॥
एवं तु दशमन्त्राः स्युस्तैस्तत्तद् दिग्बलिं हरेत् ।
इत्थं कृते शत्रुकृता कृत्या क्षिप्रं विनश्यति ॥९९॥
प्रत्यङ्गिरामालामन्त्रः
अथ प्रत्यगिरामालामन्त्रसिद्धिः प्रकीर्त्यते ।
तारो मायानभः कृष्णवाससेशतवर्णकाः ॥१००॥
सहस्रहिंसिनिपदं सहस्रवदने पुनः ।
महाबलेपदंपश्चादुच्चरेदपराजिते ॥१०१॥
प्रत्यङिगरे परसैन्यपरकर्मसदृग्जलम् ।
ध्वंसिनि परमन्त्रोत्सादिनि सर्वपदं ततः ॥१०२॥
भूतान्ते दमनिप्रान्ते सर्वदेवान् समुच्चरेत् ।
बन्धयुग्मं सर्वविद्याश्छियुक्क्षोभयद्वयम् ॥१०३॥
परयन्त्राणि संकीर्त्य स्फोटयद्वितयं पठेत् ।
सर्वान्ते श्रृंखला उक्त्वा त्रोटयद्वितयं ज्वलत् ॥१०४॥
ज्वालाजिहवेकरालान्ते वदने प्रत्यमुच्चरेत् ।
गिरे मायानमोन्तोऽयं शरसूर्याक्षरो मनुः ॥१०५॥
ऋष्यादिकं पूर्वमुक्तं माययास्यात्षडङ्गकम् ।
ध्यायेत्प्रत्यंगिरा देवीं सर्वशत्रुविनाशिनीम् ॥१०६॥
ध्यानजपादिमन्त्रसिद्धिकथनम्
सिंहारुढातिकृष्णं त्रिभुवनभयकृद्रूपमुग्रं वहन्ती ,
ज्वालावक्त्रावसनानववसनयुगं नीलमण्याभकान्तिः ।
शूलं खड्गं वहन्ती निजकरयुगले भक्तरक्षैकदक्षा ,
सेयं प्रत्यङ्गिरा संक्षपयतु रिपुभिर्निर्मितं वोभिचारम् ॥१०७॥
अयुतं प्रजपेन्मन्त्रं सहस्रं तिजराजिकाः ।
हुत्वा सिद्धमनुं मन्त्रं प्रयोगेषु शत्म जपेत् ॥१०८॥
ग्रहभूतादिकाविष्टं सिञ्चेन्मन्त्रं जपञ्जलैः ।
विनाशयेत्परकृतं यन्त्रमन्त्रादिकर्मणाम् ॥१०९॥
शत्रुनाशकमन्त्रः
मन्त्रं विरोधिशमकं प्रवक्ष्ये षोडशाक्षरम् ।
प्रणवः केशवः सेन्दुर्वर्गाद्याः पञ्चसेन्दवः ॥११०॥
वियच्चद्रान्वितं रान्तसद्योजातः सशांकयुक् ।
मायात्रिकर्णचन्द्राढ्यो भृगुः सर्गी सवर्मफट् ॥१११॥
स्वाहान्तः षोडशार्णोऽयं मन्त्रः शत्रुविनाशनः ।
विधाताष्टिऋषिश्छन्दः पर्वताब्ध्याग्निवायवः ॥११२॥
धराकाशौ महापूर्वा देवताः परिकीर्तिताः ।
हुंबीजं पार्वतीशक्तिर्मायया तु षडङ्गकम् ॥११३॥
षडङ्गक्रमेण ध्यानवर्णनम्
नानारत्नार्चिराक्रान्तं वृक्षाम्भः स्रवर्णैर्युतम् ।
व्याघ्रादिपशुभिर्व्याप्तं सानुयुक्तं गिरिं स्मरेत् ॥११४॥
मत्स्यकूर्मादिबीजाढ्यं नवरत्नसमन्वितम् ।
घनच्छायं सकल्लोलकूपारं विचिन्तयेत् ॥११५॥
ज्वालावतीसमाक्रान्त जगत्त्रितयमद्भुतम् ।
पीतवर्णं महावहिनं संस्मरेच्छत्रुशान्तये ॥११६॥
धरासमुत्थरेण्वौघमलिनं रुद्धभूदिवम् ।
पवनं संस्मरेद्विश्वजीवनं प्राणरुपतः ॥११७॥
नदीपर्वतवृक्षादिफलिताग्रामसंकुला ।
आधारभूता जगतो ध्येया पृथ्वीह मन्त्रिणा ॥११८॥
सूर्यादिग्रहनक्षत्रकालचक्रसमन्वितम् ।
निर्मलं गगनं ध्यायेत्प्राणिन्गमाश्रयप्रदम् ॥११९॥
एवं षड्देवता ध्यात्वा सहस्राणि तु षोडश ।
जपेन्मन्त्रं दशांशेन षड्द्रव्यैर्होममाचरेत् ॥१२०॥
व्रीह्यस्तन्दुलाआज्यं सर्षपाश्च यवास्तिलाः ।
एतैर्हुत्वा यथाभागं पीठे पूर्वोदिते यजेत् ॥१२१॥
अङ्गदिक्पालवज्राद्यैरेवं सिद्धो भवेन्मनुः ।
शत्रूपद्रवमापन्नो युञ्ज्यात्तन्नष्टये मनुम् ॥१२२॥
अस्य मन्त्रस्य प्रयोगकथनम्
अकारं पर्वताकारं धावन्तं शत्रुसम्मुखम् ।
पतनोन्मुखमत्युग्रं प्राच्यां दिशि विचिन्तयेत् ॥१२३॥
ककारं क्षुब्धकल्लोलं प्लाविताखिलभूतलम् ।
समुद्ररुपिणं भीमं प्रतीच्यां दिशि संस्मरेत् ॥१२४॥
वर्णं तदग्रिमं ज्वालासंघव्याप्तभस्तलम् ।
याम्येरब्धजगद्दाहं स्मरेत्प्रलयपावकम् ॥१२५॥
तृतीयवर्गप्रथमं प्रकम्पिजगत्त्रयम् ।
युगान्तपवनाकारमुत्तरस्या दिशि स्मरेत् ॥१२६॥
तुरीयपञ्चमाद्यार्णो पृथ्वीगगनरुपिणो ।
शत्रुवर्गं बाधमानौ चिन्तयेन्नोयतात्मवान् ॥१२७॥
तदग्रिमं वर्णयुगं शत्रोर्निःश्वासपद्धतिम् ।
निरुन्धानं स्मरेन्मन्त्री विदधद्रिपुमाकुलम् ॥१२८॥
मायादिवर्णत्रिअयं शत्रोर्नेश्रुतीमुखम् ।
प्रत्येकं तु निरुन्धानं चिन्तयेत्साधकोत्तमः ॥१२९॥
वर्मसंक्षोभितं त्वस्त्रं रिपोराधारदेशतः ।
उत्थाप्य वहिन तद्देहं प्रदहन्समनुस्मरेत् ॥१३०॥
एवं वर्णान् स्मरन्मन्त्रं जपेन्मन्त्रीसहस्रकम् ।
मण्डलत्रितयादर्वाङ् मारयत्येव विद्विषम् ॥१३१॥
एवं यः कुरुते कर्मप्राणायामजपादिभिः ।
संशोधयित्वा स्वात्मानं स्वरक्षायै हरिं स्मरेत् ॥१३२॥
॥ इति श्रीमन्महीधरविरचिते मन्त्रमहोदधावन्नपूर्णादि मन्त्रप्रकाशनं नाम नवमस्तरङ्गः ॥९॥
इति श्रीमन्महीधरविरचितायां मन्त्रमहोदधिव्याख्यायां नौकायामन्नपूर्णादिनिरुपणं नाम नवमस्तरङ्गः ॥९॥