रसविद्या - भाग ८
रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद.
रसायनसेवा
सूतो वज्रं सुवर्णं च कान्तलोहं तथाभ्रकम् ।
पञ्चैतान्यमृतानि स्युः कल्पितानि नृणां मया ॥१॥
मत्तकाशिनि यो वेत्ति सोऽपि साक्षान्महेश्वरः ।
अहं रसो रसश्चाहमावयोरन्तरं न हि ॥२॥
तेन युक्तास्तु वज्राद्याः सिद्धिदाः स्युर्न संशयः ।
पुरुषं रससेवार्हं वदामि शृणु पार्वति ॥३॥
स्त्रीक्लीबबालकानां च न हि योज्यं रसायनम् ।
बालाः पञ्चदशाब्दा ये कुमारांस्त्रिंशदब्दकाः ॥४॥
पञ्चाशद्वर्षदेशीया युवानः परिकीर्तिताः ।
अतः परं च स्थविराः भवेयुस्ते रसायने ॥५॥
यथोक्तकाले सिद्धिः स्यात्कुमारस्य रसायनात् ।
तस्माद्द्विगुणकालेन यूनः सिद्धिर्भवेद्ध्रुवम् ॥६॥
तस्मात्त्रिगुणकालेन वृद्धः सिद्धिमवाप्नुयात् ।
ज्ञातव्याः क्रमशो देवि ह्युत्तमो मध्यमोऽधमः ॥७॥
रसायनसेवाक्रमः
पूर्वम् अभ्रकमश्नीयात्ततः कान्तरसायनम् ।
अथ कान्ताभ्रकं देवि पश्चाद्धेमरसायनम् ॥८॥
अथाभ्रकं स्वर्णयोगं कान्तहेमरसायनम् ।
घनकान्तस्वर्णयोगं ततो वज्ररसायनम् ॥९॥
अथाभ्रवज्रसेवां च कान्तवज्रमतः परम् ।
घनायस्कान्तहीरं च हेमवज्रं ततो भवेत् ॥१०॥
पश्चादभ्रस्वर्णवज्रं कान्ताष्टापदवज्रकम् ।
घनकान्तं हेमवज्रमतः पारदभक्षणम् ॥११॥
तथाभ्ररसयोगं स्यात्ततः कान्तरसं भवेत् ।
घनकान्तरसं देवि पश्चाद्धेमरसं भवेत् ॥१२॥
घनहेमरसं पश्चात्कान्तहेमरसं ततः ।
घनकान्तं हेमसूतमतो वज्ररसं भवेत् ॥१३॥
घनवज्ररसं देवि कान्तवज्ररसं ततः ।
घनकान्तं वज्रसूतं हेमवज्ररसं ततः ॥१४॥
घनहेमपवीसूतं कान्तहेमपवीरसम् ।
घनकान्तस्वर्णवज्ररसम् अस्मात्परं न हि ॥१५॥
उत्तरोत्तरतः सर्वे चैते सर्वगुणोत्तराः ।
रसायनानि पञ्च स्युरेकैकानि वरानने ॥१६॥
रसा द्विद्व्यौषधभवास्त्रित्र्यौषधभवा दश ।
चतुश्चतुर्भवाः पञ्च त्वेकः पञ्चौषधोद्भवः ॥१७॥
एकत्रिंशद्वरारोहे रसायनमिति प्रिये ।
घनं कान्तं हेम वज्रं पारदश्चेतरम् ॥१८॥
पूर्वोत्तरोत्तरगुणा भवन्ति प्राणवल्लभे ।
रसस्य क्रामणं वज्रं हेमकान्तघनं भवेत् ॥१९॥
वज्रसंक्रामणं हेम कान्तं व्योम भवेत्प्रिये ।
हेम्नः कान्तभवं योज्यं कान्तस्य क्रामणं घनम् ॥२०॥
अभ्रस्य क्रामणं चाभ्रसत्त्वं सिद्धिप्रदं यतः ।
एकैकौषधसेवायां यथोक्तं क्रामणं भवेत् ॥२१॥
युक्तो द्वित्रिचतुःपञ्चभैषज्यैः क्रामणं न हि ।
त्रिफलामधुसर्पींषि सामान्यक्रामणं भवेत् ॥२२॥
N/A
References : N/A
Last Updated : June 24, 2015
TOP