रसविद्या - भाग ११
रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद.
जीवत एव दिव्यदेहसिद्धिः॑ भूतकालान्तकरसः
श्रीभैरवी ।
देवदेव महादेव कथितानि त्वयाधुना ।
रसायनानि दिव्यानि सिद्धिदानि महेश्वर ॥१॥
चिरकालेन देहानां कल्पानां सिद्धिदानि हि ।
सद्यः सिद्धिर्यथा देव जायते परमेश्वर ॥२॥
तद्ब्रूहि न्यूनाभ्यधिकहीनक्षीणाङ्गिनाम् अपि ।
अथ गद्गदमूकानां कुब्जानामथ कुष्ठिनाम् ॥३॥
अन्धपङ्ग्वबलानां च जराजर्जरितात्मनाम् ।
सदा रोगार्तषण्डानां कृशानां भ्रान्तचेतसाम् ॥४॥
भूतप्रेतपिशाचापस्मारोन्मत्तयुजामपि ।
प्रमादाज्जीवशेषाणां देहसिद्धिप्रदं नृणाम् ॥५॥
श्रीभैरवः ।
श्रुत्वा तद्भैरवीवाक्यं साधु पृष्टं त्वया प्रिये ।
तथाविधां प्रवक्ष्यामि देहसिद्धिं वरानने ॥६॥
पञ्चभूतात्मिकाः पञ्च कर्तव्या घुटिकाः प्रिये ।
जीवात्मिका भवेत्षष्ठी घुटिका पिण्डकोष्टयुक् ॥७॥
काले तु या कन्या कुर्यात्संभोगमायतम् ।
तद्वराङ्गस्थितं रक्तं शुक्लं स्याद्व्योमसत्वकम् ॥८॥
तस्याः सद्यः प्रसूतस्य विष्ठा पुत्रस्य मारुतम् ।
तत्त्वं स्यात्केवलं तस्या रजस्तेजात्मसत्त्वकम् ॥९॥
तदपत्यस्य रुधिरं जलतत्त्वं प्रकीर्तितम् ।
तत्सूतस्य वपुः सर्वं पार्थिवं तत्त्वमुच्यते ॥१०॥
सूतसेवकशुक्लं च जीवतत्त्वं भवेत्प्रिये ।
कोटिवेधकरं सूतं कर्षं कर्षं नियोजयेत् ॥११॥
एकैकतत्त्वमध्ये तु प्रसेकं तानि मर्दयेत् ।
तेषां च गोलकान्कृत्वा षड्रसं स्थापयेत्पृथक् ॥१२॥
नृमानमुन्नतं कायमायामं तु तदर्धकम् ।
कटाहं ताम्रघटितं पिण्डस्थौल्यं षडङ्गुलम् ॥१३॥
चतुर्मुखमयं कोष्ठं तस्योपरि कटाहकम् ।
धारयेन्निश्चलं सम्यक्तदन्तः पूरयेत्प्रिये ॥१४॥
गोघृतं च महातैलं समभागमिदं द्वयम् ।
अर्चयेद्दशदिक्पालान् योगिनीश्च कुमारिकाम् ॥१५॥
श्रीगुरुं सिद्धचक्रं च भैरवं भैरवीं तथा ।
गणाधिपं क्षेत्रपालं निजेष्टदैवतं तथा ॥१६॥
नवग्रहाग्निविप्रांश्च दैवज्ञान् भिषगुत्तमान् ।
तथान्तरायकर्त्ःंश्च भूतप्रेतपिशाचकान् ॥१७॥
यक्षराक्षसगन्धर्वान्मन्त्रज्ञान्स्वजनानपि ।
तर्पयेन्मद्यमांसैश्च वस्त्रभूषणकाञ्चनैः ॥१८॥
तत्तत्प्रियकरैर् दिव्यैर्बलिं दिक्षु विनिक्षिपेत् ।
चतुर्भिर्वङ्कनालैश्च धमयेत्खदिराग्निना ॥१९॥
फेनहीनम् अधूमं च संतप्तं च यदा भवेत् ।
श्रीगुरुं निजदेवं च चन्द्रसूर्याग्नितारकाः ॥२०॥
भुवनानि नमस्कृत्य कटाहे निक्षिपेत्तनुम् ।
ज्ञात्वा सम्यग्द्रुतं देहं पार्थिवाख्यं रसं क्षिपेत् ॥२१॥
धमेद्गाढं प्रयत्नेन तत्कल्कं च यदा भवेत् ।
ततो ऽप्तत्त्वाख्यरसकं निक्षिपेद् रक्ततां नयेत् ॥२२॥
तेजस्तत्त्वरसं पश्चात्क्षिपेत्तन्मांसतां व्रजेत् ।
निक्षिपेद्वायुतत्त्वाख्यं रसं तत्र विनिक्षिपेत् ॥२३॥
शुभ्रवर्णत्वमाप्नोति ततश्चाकाशतत्त्वकम् ।
निक्षिपेज्जीवतत्त्वाख्यं रसतत्त्वं च पार्वति ॥२४॥
रसं क्षिपेत्त्वन्ध्रितस्य स्वर्णस्य तत्समं भवेत् ।
सजीवो जायते सिद्धो हुंकारत्रयम् उच्चरेत् ॥२५॥
यथोदितो भानुबिम्बो महाबुद्धिपराक्रमः ।
महावपुर्महातेजा नागायुतमहाबलः ॥२६॥
मन्मथोपमरूपाढ्यो वाचा वागीश्वरीसमः ।
बुद्ध्या जीवसमः श्रीमान्विष्णुवद्धनदोपमः ॥२७॥
त्यागे रोषे च कालाग्निर्गाम्भीर्येण महोदधिः ।
स्रष्टा हर्ता च गोप्ता च सर्वानुग्राहकः प्रभुः ॥२८॥
दिव्यदृष्टिर् वज्रदेहः स साक्षाद्भैरवस्त्वयम् ।
अर्धयोजनविस्तीर्णहेमकिङ्किणिमण्डितम् ॥२९॥
चलद्भ्रमरसशोभं नानामाणिक्यमण्डितम् ।
हेममालापरिष्वक्तं घण्टानादमनोहरम् ॥३०॥
दिव्यदीप्तमहानादिशङ्खकाहलसंकुलम् ।
वीणावेणुमृदङ्गाद्यैर् वादित्रैर् मुरजैः समम् ॥३१॥
तालैर्बहुविधैश्चान्यैर्दिव्यघोषैः समाकुलम् ।
गायत्किन्नरगन्धर्वैस्तथा किंपुरुषैर्युतम् ॥३२॥
लसन्माणिक्यकेयूरहारकङ्कणमुद्रकाः ।
काचनूपुरसंयुक्ता दिव्याभरणभूषिताः ॥३३॥
दिव्यमालापरिष्कारा दिव्यगन्धानुलेपनाः ।
दिव्याम्बराश्चारुरूपा मत्तमन्मथविह्वलाः ॥३४॥
दिव्याङ्गनास्तदा चैनं समाश्रित्य ब्रुवन्ति च ।
किं कर्म सिद्धसंखेदास् त्वादेशो देव दीयताम् ॥३५॥
उपासते सिद्धकन्याः परः शतसहस्रकम् ।
यत्र यास्यति तत्रैव चानुयामो वयं वृताः ॥३६॥
दिव्यालयांश्च विविधान्हेममाणिक्यमण्डितान् ।
दिव्यानि स्नानपानानि स्वीकुर्वाणो मुहुर्मुहुः ॥३७॥
वज्र्यादिसर्वलोकेषु स्वेच्छया विहरत्यसौ ।
पूज्यते देवसिद्धौघैः यथायं भैरवस्तथा ॥३८॥
भुञ्जानः सर्वभोगांश्च क्षुत्पिपासाविवर्जितः ।
योगिनीशतसाहस्रं भोक्ता संचिन्तयन् सुखम् ॥३९॥
महाकल्पान्तकालेऽपि प्रक्षीणेऽस्मिन्वरानने ।
लीयते परमे व्योम्नि लीयन्ते यत्र देवताः ॥४०॥
भूतकालान्तको नाम रसस्यास्य प्रभावतः ।
अभेद्यो ऽयम् अखण्ड्यश्च त्वदाह्यो भवति प्रिये ॥४१॥
रसायनस्य सर्वस्य सिद्धिदोऽयं महेश्वरि ।
वक्ष्यते मन्त्रराजोऽयं रससिद्धिप्रदायकः ॥४२॥
ऐं ह्रीं श्रीं क्लीं सौः श्रीभैरव ॥४३॥
N/A
References : N/A
Last Updated : June 24, 2015
TOP