रसविद्या - भाग १९
रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद.
ऋतुचर्या, कालविभागः
श्रीभैरवी ।
भगवन् त्वत्प्रसादेन नित्याचारक्रमः श्रुतः ।
स्वामिन्नैमित्तिकाचारं श्रोतुं वाञ्छास्ति मे वद ॥१॥
श्रीभैरवः ।
तच्छृणु त्वं महादेवि ब्रूमि नैमित्तिकीं विधिम् ।
कालाधीनः स तु भवेदनपायोऽमितः सदा ॥२॥
अनादिनिधनः सूक्ष्मः स्थूलो व्याप्तः सदातनः ।
ब्रह्मादयश्च सूर्याद्या महाभूतादयः परे ॥३॥
कालानुसारिणः सर्वे प्रयत्ने कालरूपिणः ।
कालादेव हि जायन्ते लीयन्ते तत्र सर्वदा ॥४॥
यः कालः सोऽहमेवेति त्वं च कालप्रवर्तिनी ।
तस्माज्जन्मभृतां जन्मनिधनाय निवेद्यते ॥५॥
अविभाज्यो हि कालोऽयं तथापि प्रविभज्यते ।
तीक्ष्णसूच्याब्दपत्रं तु यावत्कालेन भिद्यते ॥६॥
स कालो लव इत्युक्तस्त्रुटी त्रिंशल्लवैर् भवेत् ।
तद्योऽयं स्यात्त्रुटिः कालो मात्रा स्यात्तद्द्वयान्विता ॥७॥
दृक्पक्ष्मणोः परिक्षेपः स तु मात्रा प्रशस्यते ।
मात्राष्टादशभिः काष्ठा काष्ठात्रिंशद्युता कला ॥८॥
कलात्रिंशत्क्षणः प्रोक्तः क्षणैः षड्भिश्च नाडिका ।
नाडीद्वयं मुहूर्तः स्यात्तैश्चतुर्भिश्च यामकः ॥९॥
यामैश्चतुर्भिर् दिवसस्तथा रात्रिर्भवेत्प्रिये ।
एवं दिवानिशं किं तु पूर्वाह्णो दश नाडिकाः ॥१०॥
मध्याह्ने दश नाडी स्यादपराह्णस्तथैव च ।
पूर्वरात्रं चार्धरात्रं तथैवापररात्रकम् ॥११॥
दिवसैः पञ्चदशभिः पक्षः स्याच्छुक्लसंज्ञकः ।
द्वितीयः कृष्णपक्षः स्याद्द्वाभ्यां मासस्तु जायते ॥१२॥
मासाभ्यामृतुसंज्ञा स्यादृतुभ्यां कालसंज्ञकः ।
ऋतुत्रयं स्यादयनं द्वाभ्यां संवत्सरो भवेत् ॥१३॥
अष्टादशप्रकारेण कालस्तस्माद्विभज्यते ।
माघादिमासाः क्रमशो भवन्ति शिशिरादयः ॥१४॥
शिशिरश्च वसन्तश्च ग्रीष्मो वर्षा शरद्धिमः ।
ऋतवो दक्षिणं तेषां कथयामि शृणु प्रिये ॥१५॥
हेमन्तर्तुस्वरूपम्
तत्र सूर्यो दिशश्चैव हिमानीकलुषीकृताः ।
धूमधूम्ररजोमन्दो वायुः शीतप्रबोधनः ॥१६॥
रोमाञ्चकारी कौबेरो लवल्यः पुष्पितास्तदा ।
पुंनागलोध्रफलिनीपुष्पामोदितषट्पदाः ॥१७॥
गजवाजीगोमहिषीकाकाजाद्याश्च गर्विताः ।
सरित्प्रालेयपटलसंछन्नशकुनादयः ॥१८॥
सोष्णबाष्पजलाः कूपाः पश्य हैमन्तिके ऋतौ ।
शिशिरर्तुस्वरूपम्
एवं हि शिशिरे काले चयं याति कफः स्वतः ॥१९॥
वसन्तर्तुस्वरूपम्
वसन्ते विमला दिक्काः सूर्यश्चारुणदीधितः ।
मलयानिलसञ्चारो नवपल्लवशोभिताः ॥२०॥
नवीनत्वक्पलाशाढ्या वृक्षाः सर्वत्र पुष्पिताः ।
सहकाशोकबकुलमाधवीचम्पकोद्भवैः ॥२१॥
पलाशकादिमैः पुष्पैः प्रविभाति वनस्थली ।
भ्रमद्भ्रमरनिध्वानकोकिलालापसंकुला ॥२२॥
श्लेष्मकोपश्च भवति कालः सर्वोत्तमो ह्ययम् ।
ग्रीष्मर्तुस्वरूपम्
ग्रीष्मे तीक्ष्णकरश्चण्डोऽतसीकुसुमसन्निभः ॥२३॥
संतापितमहीदिक्कः शोषिताशेषभूरसः ।
दावाग्निनातिज्वलिता दिशो भूमिश्च धूसराः ॥२४॥
नैरृतो वायुरत्युग्रो वात्या चोग्रासुखा भवेत् ।
आतपस्वेदपवनैः प्राणिनो ज्वरिता इव ॥२५॥
संतप्तक्रोडमहिषमातङ्गैर् आकुलीकृताः ।
चण्डाशुकिरणोत्तप्तशुष्कस्वल्पजलान्विताः ॥२६॥
कल्लोलितास्तटाकाद्याः संतप्तजलजन्तवः ।
जीर्णशुष्कविशीर्णैश्च पर्णैश्च पतितैर् द्रुमाः ॥२७॥
सोष्माश्छायाविहीनाश्च वायुव्याकुलिता भृशम् ।
शुष्कपत्रलतागुल्माः शिरीषाः कुसुमोज्ज्वलाः ॥२८॥
श्लेष्मक्षयश्चानुदिनं तस्माद्वायोश्चयो भवेत् ।
वर्षर्तुस्वरूपम्
वर्षर्तौ पश्चिमो वायुर्मही नवतृणावृता ॥२९॥
भिन्नैस्तथाञ्जनाभैश्च जलदैश्छादिताखिला ।
शक्रगोपावृता पृथ्वी सर्वसस्यमनोहरा ॥३०॥
भूलतानिवहच्छन्ना जलक्लिन्ना च पङ्किला ।
मत्तकेकिकुलक्रीडानृत्तविस्तीर्णपिञ्छका ॥३१॥
भेकभीकरनिध्वानबधिरीकृतदिङ्मुखा ।
कदम्बकदलीजातिकुटजामोदमेदुरा ॥३२॥
धाराधराम्बुधाराभिघातनष्टसरोरुहा ।
प्रभूतसलिलापूर्णसोपाना दीर्घिका भृशम् ॥३३॥
पतिसंयोगसदृशमहाकारा महाजलाः ।
पूर्णोभयतटान्ताश्च नद्यः सकलुषोदकाः ॥३४॥
नभः स्तनितजीमूतप्रोद्यद्विद्युत्प्रदीपितम् ।
अन्योन्याम्बुदसंघट्टजातनिर्घोषभीकरम् ॥३५॥
इन्द्रचापलसन्मेघच्छादितार्केन्दुमण्डलम् ।
वनं हृष्टाजमहिषकिटिचातकसङ्कुलम् ॥३६॥
श्लेष्मा क्षीणतरो वायोः कोपः पित्तचयस्तदा ।
शरदृतुस्वरूपम्
शरदि स्फुरिताभाश्च भानोस्तीक्ष्णा मरीचयः ॥३७॥
प्रक्षीणवारिविमलवारिदोन्मुक्तमार्गकाः ।
ज्योत्स्नामृतरसासिक्तमोदिताखिलजन्तवः ॥३८॥
स्फुरितोडुकुलाकीर्णा रात्रयश्च मनोहराः ।
विमलाकाशरुचिराः कामलीलोत्सवप्रदाः ॥३९॥
मही चाश्यानपङ्का च कणिकापूर्णशालिका ।
सदस्यः फुल्लकमलकुमुदोत्पलमण्डिताः ॥४०॥
प्रहृष्टमीनहंसालीलीलालोलतरङ्गिकाः ।
अमलाम्बुसराकीर्णाः स्नानपानहितप्रदाः ॥४१॥
दिशः प्रफुल्लरुचिरकाशचामरशोभिताः ।
विमलामोदितक्रोञ्चमल्लिकापरिमण्डिताः ॥४२॥
सप्तच्छदरजोयोगदृप्तदन्तिकुलं वनम् ।
प्रक्षीयते तदा वायुः पित्तं कुप्यति पार्वति ॥४३॥
आदानविसर्गकालस्वरूपम्
दिवानिशादिमध्यान्ते श्लेष्मपित्तसमीरणाः ।
कुप्यन्ति ऋतवः सर्वे प्रवर्तन्ते क्रमाच्छिवे ॥४४॥
दिनमाग्नेयरूपं स्याद् रात्रिः सौम्यमयी भवेत् ।
द्वौ च पक्षौ तदा देवि ऋतू हेमन्तशैशिरौ ॥४५॥
तौ ऋतू हिमकालः स्यादुष्णौ मधुनिदाघकौ ।
प्रावृट्शरदृतू ज्ञेयौ वर्षाकालः स उच्यते ॥४६॥
ऋतुभिः शिशिराद्यैस्तत्त्रिभिः स्यादुत्तरायणम् ।
तदा ज्ञेयमिति ज्ञेयमादानं तद्भवेत्प्रिये ॥४७॥
सूर्यानिलौ स्वभावेन भूमिसौम्यरसापहौ ।
किंतु मार्गवशादेतावत्युष्णखररूक्षकौ ॥४८॥
आददाते बलं तेजः प्राणिनां प्रतिवासरम् ।
तिक्तः कषायकटुकौ प्रबलाः स्युर्यथोत्तरम् ॥४९॥
प्रावृडाद्यैश्च ऋतुभिस्त्रिभिः स्याद्दक्षिणायनम् ।
एतत्सोमात्मकं विद्धि विसर्गाख्यमिति स्मृतम् ॥५०॥
प्रकृत्या शीतला वृष्ट्या वायुसोमाम्बुदाः परम् ।
बलिनः स्युर्यतस्तस्मात्सूर्यः क्षीणरुचिर् भवेत् ॥५१॥
गते भूतलतापेऽस्मिन् प्राणिनां प्रतिवासरम् ।
कालो बलं विसृजति प्रबलाः स्युर्यथोत्तरम् ॥५२॥
अत्राम्ललवणौ स्वादू रसाः स्निग्धा भवन्ति हि ।
हेमन्ते शिशिरे पूर्णं मधौ शरदि मध्यमम् ॥५३॥
ग्रीष्मे प्रावृषि शीतं स्यात्सर्वेषां प्राणिनां बलम् ।
हेमन्तर्तुचर्या
रसस्य बलिनः शीतसंवृतत्वाद्धिमागमे ॥५४॥
कोष्ठाग्नेश्चाविकीर्णत्वात्पिण्डितो जठरे यतः ।
ततो बलीयान् कोष्ठाग्निस् तस्मिन् स्वल्पाशनो यदि ॥५५॥
वायुना दीप्यते वह्निः पचेद्धातून् रसादिकान् ।
तस्माद्धिमागमे सेव्यो मधुरो लवणाम्लकः ॥५६॥
अथ दैर्घ्यान्निशानां तु क्षुधा प्रातस्तरां भवेत् ।
दिनचर्याप्रकारेण विसृजन्मलमूत्रकम् ॥५७॥
दन्तकाष्ठादिकं सर्वं विदध्यात्परमेश्वरि ।
ततो मूर्धार्हवातघ्नतैलेनाभ्यङ्गम् आचरेत् ॥५८॥
गात्राभ्यङ्गं मर्दनं च यावच्छक्यं च यथासुखम् ।
कुशलैर् बाहुयुद्धं च यावच्छक्यं भजेत्ततः ॥५९॥
गोधूमचणकैर् मुद्गैर् हृततैलो यथाविधि ।
स्नात्वा कौशेयेके रक्ते लघुन्युष्णे सुसान्द्रके ॥६०॥
वाससी परिधायैव कस्तूर्या कुङ्कुमेन च ।
कालागरुद्रवेणैव चर्चां कुर्वीत विग्रहे ॥६१॥
धूपयेद्देहचिकुरान्कालागरुजधूपतः ।
चम्पकं बकुलं पुष्पं शतपत्रं च कैतकम् ॥६२॥
जवाद्यैरुपलिप्तानि कृत्वा शिरसि धारयेत् ।
गुडासवं मद्यमण्डं मद्यं मांसं च मेदुरम् ॥६३॥
स्निग्धं मांसरसं सोष्णं माषगोधूमपिष्टजान् ।
इक्षुक्षीरविकारांश्च सोष्णमन्नं तिलोद्भवम् ॥६४॥
शौचे सुखोष्णं सलिलं सोष्मलं चारु मन्दिरम् ।
शयनं कौथकश्लक्ष्णमृदुलाजिनकम्बलैः ॥६५॥
प्रावारैः शुभकौशेयैः क्रमेणास्तृतमुज्ज्वलम् ।
भजेदवृद्धसूर्यांशून् पृष्ठभागेन शाम्भवि ॥६६॥
स्वेदं चोपानहं नित्यं हसन्तीतीव्रतापिते ।
गर्भगेहे निवासं च वृत्तपीनोन्नतस्तनीः ॥६७॥
रथाङ्गवृत्तसुश्रोण्यो रम्भास्तम्भोरुमण्डिताः ।
मद्यपानमदोन्मत्ता वस्त्रस्रग्गन्धशोभिताः ॥६८॥
प्रियाः प्रीताः समाश्लिष्येन्न बाधा शीतदोषजा ।
कस्तूरी कुङ्कुमं चन्द्रं लवङ्गं जातिकाफलम् ॥६९॥
प्रत्येकं निष्कमेकं स्यात्सारः खदिरसम्भवः ।
युञ्ज्यात्षोडशनिष्कं च सर्वं पेष्यं हिमाम्बुना ॥७०॥
गुलिकां मरिचाकारां कुर्याद्दौर्गन्ध्यनाशिनीम् ।
वातश्लेष्महरा रुच्या गुटिकैषा प्रकीर्तिता ॥७१॥
गुट्यन्वितं च ताम्बूलं यथेष्टं भक्षयेत्सदा ।
एवं हेमन्तचर्या स्यात् शिशिरे ऽप्यमुमाचरेत् ॥७२॥
श्लेष्मा चितः स्यान्नितरां भजेद्धैमन्तिकं विधिम् ।
अत्रादानभवं रूक्षं भवेच्छीतो महत्तरः ॥७३॥
वसन्तर्तुचर्या
शिशिरे तु चितः श्लेष्मा वसन्तेऽर्कांशुविद्रुतः ।
नाशयेज्जाठरं वह्निं स्वयं तोयस्वभावतः ॥७४॥
जनयेद्रोगमखिलं तस्माच्छीघ्रं कफं जयेत् ।
अथ वासन्तिकां चर्यां कथयामि मम प्रिये ॥७५॥
तीक्ष्णाञ्जनच्छर्दिनस्यैर् व्यायामोद्वर्तनैरपि ।
पादाभ्यां मर्दनेनोष्मवारिस्नानेन तं हरेत् ॥७६॥
काषायरक्तकौसुम्भकौशेयवसनानि च ।
परिधाय सकर्पूरागरुणाङ्गानि धूपयेत् ॥७७॥
कस्तूरीकुङ्कुमहिमैश्चन्दनैर्लेपयेत् तनुम् ।
चूतचम्पकपुन्नागपूगकेसरपाटलम् ॥७८॥
माधवीकेतकीमल्लिकाशोकनवमालिकाः ।
जवाद्यैर्लेपिताः कृत्वा वहेत्कल्हारमुत्पलम् ॥७९॥
मद्यं पञ्चविधं प्रोक्तं सर्वव्याधिहरं परम् ।
माधवारिष्टमार्द्वीकासवशीथुर् इतीरिताः ॥८०॥
क्षौद्रैर् मदकरद्रव्यै रचितो माधवः स्मृतः ।
चिरं मदकरद्रव्यं खनित्वा स्थापितं भुवि ॥८१॥
अरिष्टोऽयमिति ज्ञेयो मार्द्वीको गोस्तनीभवः ।
आसवो मदकृद्द्रव्यसवनाद्वा समुद्भवः ॥८२॥
शीथुर् इक्षुरसाज्जातः सेव्याः पञ्च मया मताः ।
कामिनीवदनाम्भोजवासिताश् चित्तहारिणः ॥८३॥
पुष्पादिवासिता हृद्याः कान्तानयनरञ्जिताः ।
पुराणाः कटुकास्तिक्ताः कषायाः श्लेष्महारिणः ॥८४॥
मातुलुङ्गाम्रजम्बूनां पत्रपुष्पफलान्विताः ।
सुहृद्भिः सह जंबीररसार्द्रकपलाण्डुकम् ॥८५॥
जाङ्गलं पललं शूल्यं तद्रसं च कृतं नवम् ।
पुराणक्षौद्रगोधूमयवषष्टिकशालिकान् ॥८६॥
भजेत्कफघ्नं शाकं च व्यञ्जनं पानकं तथा ।
अमद्यपस्तु शुण्ठ्यम्बु मुस्ताम्बु क्षौद्रवारि वा ॥८७॥
खदिरासनसारोत्थक्वथितं वारि वा पिबेत् ।
उद्याने सौधकाचाद्यैर्मणिनीकाशरोचिभिः ॥८८॥
कुट्टिमैर् मण्डिते चारुमण्डपे सुरतोचिते ।
कोकिलालापरुचिरे सुगन्धिकुसुमोज्ज्वले ॥८९॥
बहुपादपसच्छायावारितोष्णाशुदीधितौ ।
समन्तात् सलिलापूर्णकुल्याभिः शीतलीकृते ॥९०॥
मलयानिलसञ्चारशमितश्रमवारिणि ।
नानाप्रसूनसुभगशाखिनीनालनन्दिते ॥९१॥
लम्बमानसुगन्धस्रङ्मकरन्दाभिषेचिते ।
उशीरपाटलीपङ्क्तिशोभिते बिसविस्तृते ॥९२॥
पुष्पैर् आकीर्णिते मन्दतालवृन्तानिलोज्ज्वले ।
समासीनः प्रियालापचतुराः कामलोलुपाः ॥९३॥
कन्दर्पदर्पसर्वस्वाः सूक्ष्मस्वच्छांबराः प्रियाः ।
तरुणी रमयन् गोष्ठीः कुर्वंस्ताभिर्मनोहराः ॥९४॥
सुहृद्भिर् आप्तैः सहितो मध्याह्नं गमयेत्सुखी ।
अतिशीतगुरुस्निग्धस्वाद्वम्ललवणानि च ॥९५॥
तिलेक्षुक्षीरविकृतिदिवास्वप्नातिपिच्छिलम् ।
मत्स्यं क्षारोदकं पूपं श्लेष्मलं वर्जयेन्मधौ ॥९६॥
ग्रीष्मर्तुचर्या
ग्रीष्मे ह्यत्यर्थतीक्ष्णः स्याद् घर्मभानुर्भुवो रसान् ।
स्निग्धान् गुणांश्च क्षपयेत्कफस्तस्मात्क्षयं व्रजेत् ॥९७॥
तेन वायुश्चितः स्याच्च पूरितैः शीतलैर्जलैः ।
चन्दनागरुकस्तूरीकुङ्कुमैश्च सुगन्धिभिः ॥९८॥
प्रसूनैर्विविधैः फुल्लैर्वासिते मल्लिकादिभिः ।
कामिनीपीनवक्षोजदघ्नाम्बुनि सुशोधिते ॥९९॥
ह्रदे वा दीर्घिकायां वा संस्कृतायां यथाविधि ।
आ कर्णपूर्णनयनविराजितमुखेन्दुभिः ॥१००॥
मृणालभूषणोद्भासिशिरीषमृदुबाहुभिः ।
कर्पूरमुक्ताकुसुममालामलयजोज्ज्वलैः ॥१०१॥
सूक्ष्मकौसुम्भवसनबद्धमध्यनितम्बिभिः ।
स्वनूपुररवाकृष्टसारसारावरञ्जितैः ॥१०२॥
जलक्रीडातिचतुरैः संयुक्तः कामिनीजनैः ।
संक्रीडेत करोन्मुक्तवारिसिक्ताङ्गनामुखः ॥१०३॥
द्रुतिशृङ्गमुखोत्सृष्टवारिसेचितविग्रहः ।
ताभिर्भुजान्तरं श्लिष्यन् कुर्वन् लीलां मुहुर्मुहुः ॥१०४॥
उत्तीर्य च वपुर्वस्त्रैर् उद्वर्त्य चिकुरान्सुखम् ।
स्वच्छे सूक्ष्मे कषाये च वसने धारयेत्ततः ॥१०५॥
चन्दनागरुकर्पूरैर्धूपयेत्केशविग्रहौ ।
श्रीखण्डचन्द्रकस्तूरीपङ्कचर्चितविग्रहः ॥१०६॥
नेपालमालतीमल्लीपाटलीशतपत्रकाः ।
सौगन्धिकं मरुवकं ह्रीवेरं च मृगाण्डजैः ॥१०७॥
सुगन्धतैलैर्लिप्तानि धारयेत् कुसुमानि च ।
अत्र मद्यं न पेयं स्यादथवा मद्यसात्म्यकैः ॥१०८॥
स्वल्पं पेयं तु तेनेषन्न तृप्तिश्चेत् तदा जलैः ।
स्वादुभिर्बहुभिर् युक्तं पिबेन्मद्यं यथासुखम् ॥१०९॥
तथा नोचेद्भवेद् धातुशोषो ऽन्तर्दाहमोहभाक् ।
शिथिलावयवक्षीणप्राणबुद्धिबलः प्रिये ॥११०॥
मधुरं शीतलं स्निग्धं द्रवं लघु हितं भजेत् ।
सद्यः सशर्करं लिह्याच्छालेयं जाङ्गलं पलम् ॥१११॥
अमेदुरं मांसरसं रसालां पानकं पिबेत् ।
पञ्चसारं च रागं च षाडवं चाथवा हितम् ॥११२॥
रसालापानके
शर्करामरिचोपेतं दधि हस्तविलोडितम् ।
एतद्रसाला विख्याता रम्भापनसचूतजैः ॥११३॥
फलैः सशर्कराम्भोभिर् नवमृत्पात्रगं कृतम् ।
ईषदम्लमिति ख्यातं पानकं तद्धितंकरम् ॥११४॥
पञ्चसारः
मृद्वीकाराजखर्जूरमधूककुसुमानि च ।
श्रीपर्णीक्षुद्रखर्जूरीपरिपक्वफलानि च ॥११५॥
सशर्कराम्बु निक्षिप्य दृढं हस्तेन पेषयेत् ।
संस्थाप्य नवमृद्भाण्डे ह्यन्येद्युर् वस्त्रशोधितम् ॥११६॥
पञ्चसार इति ख्यातो हृद्यो वातकफापहः ।
रागषाडवौ
सिताक्षौद्रादिमधुरद्रव्ययुक्तं फलं च यत् ॥११७॥
स्वच्छं राग इति ज्ञेयः सर्वसन्तापनाशनः ।
अयमेव तु सान्द्रश् चेल् लेह्यं षाडव ईरितः ॥११८॥
स च वस्त्रेण संशुद्धः पेयषाडव उच्यते ।
एतत्पञ्चविधं पानं पाटलीचम्पकादिभिः ॥११९॥
एलया वासितं शुद्धं मृद्भाण्डे स्थापिते नवे ।
उशीरतालवृन्तस्य वायुना शीतलीकृतम् ॥१२०॥
मोचचोचदलोपेतमेषा सामान्यसंस्कृतिः ।
अथ नूतनभाण्डान्तः पूरितं स्वादु निर्मलम् ॥१२१॥
पाटलीकेतकीपुष्पकर्पूरसुरभीकृतम् ।
सान्द्रांबरेण संवीतं तालवृन्तैः सुशीतलम् ॥१२२॥
पिबेज्जलं तालसालपूगखर्जूरपादपैः ।
नालिकेराम्रपनसजम्बूपुन्नागचम्पकैः ॥१२३॥
करप्रचेयव्यालम्बिफलपुष्पकगुच्छकैः ।
द्राक्षास्तबकसंछन्नशाखान्तरितराजितैः ॥१२४॥
माधवीस्तबकालीनभृङ्गगीताभिनन्दितैः ।
नानासुगन्धितरुभिर् वार्यमाणार्कदीधितौ ॥१२५॥
हंससारसकारण्डशोभमानसरोवरे ।
परितः प्रवहत्कुल्यातरङ्गानिलशीतले ॥१२६॥
नृत्यत्केकिकलाकीर्णकोकिलालापशोभिते ।
शारिकाशुकसंलापमुह्यन्मानवतीजने ॥१२७॥
उद्याने बालकोशीरवृतौ सलिलसेचिते ।
मृणालपद्मकल्हारोत्पलपल्लवनिर्मिते ॥१२८॥
सुगन्धिपुष्पमालाभिर्लम्बमाने सुशीतले ।
आर्द्राम्बरैश्च रचितच्छायानवपटालिके ॥१२९॥
माधवीमण्डपे रम्ये सर्वसन्तापहारिणि ।
कदलीमृणालकुसुमपल्लवैः परिकल्पिताम् ॥१३०॥
चारूत्तमच्छदपटां हिमाम्बुपरिषेचिताम् ।
शय्यामत्यन्तमृदुलां सन्तापश्रमहारिणीम् ॥१३१॥
तुषारशीतलतरैश्चर्मवस्त्राभिपूरितैः ।
सूक्ष्मैर् जललवैः सिक्तः सवयोभिः समन्वितः ॥१३२॥
मध्याह्नं गमयेदेवं तथा धारागृहेऽथवा ।
दीव्यन् पुस्तमयीकान्तास्तनहस्तमुखच्युतैः ॥१३३॥
बालोशीराम्बुभिः शीते स्वच्छस्फटिकपट्टके ।
कर्पूरचन्दनालिप्ते लुठंस्तापप्रशान्तये ॥१३४॥
प्रत्यग्रस्नानशीताङ्ग्यो मुक्ताभरणभूषिताः ।
मृणालचन्दनालेपा मृणालवलयान्विताः ॥१३५॥
स्वच्छाम्बरातिरुचिराः प्रमदास्तापहारिणीः ।
चुम्बनालिङ्गनस्पर्शैस् तोषयन् परिहासयन् ॥१३६॥
पुष्पमालाविरचितवितानपरिशोभिते ।
शीतांशुकिरणस्पर्शद्रवच्चन्द्रोपलोज्ज्वले ॥१३७॥
चन्द्रिकाकान्तिलसिते मन्दानिलविराजिते ।
सौधस्थले समासीनः शशाङ्ककिरणाह्वयान् ॥१३८॥
भक्षानश्नीत तारेन्दुकिरणैः शीतलीकृतम् ।
सशर्करं पिबेत्क्षीरं माहिषं बलकृद्धितम् ॥१३९॥
निदाघहं शरीरस्य मालाचन्दनधारिणः ।
स्वच्छांशुकावृताङ्गस्य समाप्तरतिकर्मणः ॥१४०॥
जलार्द्रांशुकवातेन तालवृन्तानिलेन च ।
विस्तारिताब्जपत्रस्य वीजनैश्चाम्बुवर्षिभिः ॥१४१॥
मयूरतालवृन्तैश्च तथा च हरिचन्दनैः ।
कर्पूरमल्लिकामुक्तामालाभिर् मधुरैः प्रिये ॥१४२॥
शारिकाशुकबालानाम् आलापैर्बिसभूषणैः ।
फुल्लकल्हारकमलनीलोत्पलविराजितैः ॥१४३॥
कर्पूरचन्दनालेपैः कान्तैश्च प्रमदाजनैः ।
तापः संह्रियते चास्य चादानोष्णाभितापिनः ॥१४४॥
सक्तुकट्वम्ललवणरूक्षायासातपांस्त्यजेत् ।
वर्षर्तुचर्या
अथातो वार्षिकीं चर्यां शृणु वक्ष्यामि भैरवि ॥१४५॥
आदानक्षीणधातूनां नराणां जठरानलः ।
क्षीणोऽपि वर्षासमये दोषैः सीदति सत्वरम् ॥१४६॥
सवारिवारिदव्राततिरोहितदिवाकरे ।
व्योम्नि झञ्झासमीरेण शीतलेन तुषारिणा ॥१४७॥
वातः स्यात्कुपितोऽत्यन्तं प्रतप्ताया निदाघतः ।
भूमेर्मेघादिसिक्ताया बाष्पैः कालस्वभावतः ॥१४८॥
अम्लपाकैश्च लूतादिमलिनैः सलिलैस्तथा ।
पित्तं कुप्यति चात्यर्थं दुर्दिनत्वाच्च जाठरः ॥१४९॥
वह्निः सीदति तेनैव श्लेष्मा कुप्यति दुस्तरः ।
एवमन्योन्यदुष्टाः स्युर्दोषाः साधारणं ततः ॥१५०॥
मर्दनं च शिरोऽभ्यङ्गं तैलैर्नारायणैर्भजेत् ।
उष्णोदकैश्च बहुभिः स्नात्वा संमार्जयेत्तनुम् ॥१५१॥
रक्तं चाप्यथवा शुक्लं माञ्जिष्ठं वाथ धारयेत् ।
सान्द्रेणागरुधूपेन शरीरं धूपयेच्छिवे ॥१५२॥
कस्तूरीं कुङ्कुमं चारु भजेत्कालागरुद्रवम् ।
कुटजं केतकीं जातिं मरुवं करवीरकम् ॥१५३॥
स्निग्धजाङ्गलमांसानि संस्कृतांस्तद्रसान् अपि ।
मुद्गाढककुलुत्थानां पिबेद्यूषं च संस्कृतम् ॥१५४॥
अरिष्टाख्यं च मैरेयं पुराणमथवा पिबेत् ।
सौवर्चलयुतं मस्तु पञ्चकोलरजोयुतम् ॥१५५॥
भजेदुष्णकरं सर्वं शुद्धकोष्ठो भवेन्नरः ।
कुर्यात्कषायबस्तिं च जीर्णधान्याशनं भजेत् ॥१५६॥
दिव्यं वा कौपमुदकं शृतं पेयं सुखावहम् ।
अत्यन्तवातवर्षेऽह्नि प्रायेण लवणाम्लकम् ॥१५७॥
मधुरं लघु सक्षौद्रं शुष्कनिस्तालितानि च ।
व्यञ्जनानि च तैलं च वटकान्पर्पटान्भजेत् ॥१५८॥
यथासुखं च ताम्बूलं कस्तूरीफलसंयुतम् ।
नेतेवनीस्याद् अगरुधूपिताम्बरमावहेत् ॥१५९॥
सुगन्धावयवस्तिष्ठेत्सौधे भूबाष्पवर्जिते ।
तुषारशीतरहिते सुरम्येऽगरुधूपिते ॥१६०॥
दिवासुप्तिं नदीतोयं सक्तुं जलघृताप्लुतम् ।
व्यायाममर्ककिरणान् संगमात्यन्तिकं त्यजेत् ॥१६१॥
शरदृतुचर्या
अथातः शारदीं चर्यां वक्ष्यामि शृणु वाङ्मयि ।
वर्षर्तौ शीतवृष्टिभ्यां सहसैव रवेः करैः ॥१६२॥
तप्ताङ्गानां नृणां पित्तं चितं वृष्टौ तु शारदे ।
सुतरां कुप्यति तदा तस्मात्पित्तापनुत्तये ॥१६३॥
पित्तघ्नतैलेनाभ्यङ्गं मर्दनं मृदु कल्पयेत् ।
सुखोष्णवारिणा स्नानं शुक्लकाषायमम्बरम् ॥१६४॥
धृत्वा चागरुकर्पूरधूमेनाङ्गानि लेपयेत् ।
भद्रश्रीहिमलिप्ताङ्गः केतकीभल्लकानि च ॥१६५॥
चम्पकाम्बुजपत्राणि वहेन्मृगमदान्वितम् ।
विरेचनं सिरामोक्षं तिक्ताज्यास्वादनं भजेत् ॥१६६॥
शालिगोधूममुद्गं च पटोलक्षौद्रशर्कराः ।
जाङ्गलं पिशितं तिक्तं कषायं मधुरान् भजेत् ॥१६७॥
बुभुक्षितस्तु लघ्वन्नं धात्रीं शीथुं घृतं पयः ।
पानकं यावसं चेक्षुनालिकेरोदकं नवम् ॥१६८॥
अगस्त्योदयसंशुद्धनिर्विषं लघु शीतलम् ।
अर्केन्दुकिरणोत्तप्तशीतं हंसोदकं पिबेत् ॥१६९॥
मौद्गयूषं प्रदोषे तु हिमचन्दनचर्चितः ।
सुगन्धमालानिर्धौतवसनालंकृतः सुखी ॥१७०॥
मुक्तामालापरिष्कारः सुगन्धोशीरलेपितः ।
रम्यारामापरिवृते हर्म्ये ज्योत्स्नातिसुन्दरे ॥१७१॥
समासीनश्चन्द्रपादान् सेवेत तरुणीयुतः ।
स्वादन् स्वादंश्चेक्षुदण्डान् पित्तघ्नमदिरामपि ॥१७२॥
पायं पायं सुखं तिष्ठन्क्रीडयन्कामिनीजनम् ।
यवक्षारादिकान् क्षारान् हिमम् आतृप्ति भोजनम् ॥१७३॥
तिलतैलं रविकरान्दिवा निद्रां वसां दधि ।
तीक्ष्णं मद्यं त्यजेद्वस्तु प्राचीवायुं च पित्तकृत् ॥१७४॥
सर्वर्तुसाधारणी चर्या
अथ साधारणी चर्या संक्षेपाद्वक्ष्यते शिवे ।
स्वाद्वम्ललवणान्प्रायो हिमवर्षागमे भजेत् ॥१७५॥
तिक्तोषणकषायांश्च वसन्ते नितरां भजेत् ।
निदाघे मधुरप्रायं भजेद्वर्षात्यये पुनः ॥१७६॥
तिक्तस्वादुकषायांश्च वर्षर्तौ च भजेत्क्रमात् ।
मधौ रूक्षोष्णमश्नीयाद् ग्रीष्मे स्निग्धं च शीतलम् ॥१७७॥
प्रावृट्शिशिरहेमन्ते स्निग्धं चोष्णतरं भजेत् ।
मेघात्यये रूक्षशीतं विधिनानेन सेवयेत् ॥१७८॥
तत्तदृतूक्तान् अधिकान् रसान् सेवेत चान्वहम् ।
अन्यानपि रसान्सर्वानल्पमात्रं यथारुचि ॥१७९॥
एकस्यान्त्यं च सप्ताहमन्यस्य दिनसप्तकम् ।
एवं चतुर्दशदिनम् ऋतुसंधिरिति स्मृतः ॥१८०॥
वर्तमानामृतोश्चर्यां मन्दं मन्दं समुत्सृजेत् ।
आगामिन ऋतोश्चर्याम् ऋतुसंधौ भजेत् क्रमात् ॥१८१॥
सात्म्यद्रव्यविसर्गाच्च ह्यसात्म्यद्रव्यसेवनात् ।
रोगा भवन्ति तस्मात्तच्छीलत्यागौ शनैर्व्रजेत् ॥१८२॥
ऋतुचर्यामिति भजन्नायुरारोग्यम् आप्नुयात् ।
अन्नपाकक्रमो धातुमलाद्युत्पत्तिक्रमश्च
अन्नपाकक्रमं वक्ष्ये समासेन सुरार्चिते ॥१८३॥
भुक्तमन्नं च सकलं कोष्ठकं प्राणवायुना ।
आहृतं तद्द्रवैर्भिन्नसंघातं मार्दवं पुनः ॥१८४॥
स्नेहेन नीतं कोष्ठाग्निरामाशयगतं पचेत् ।
समानवायुनोद्दीप्तो जाठरस्तु यथा बहिः ॥१८५॥
स्थालीस्थं तण्डुलं तोयं पचेदन्नं च पावकः ।
भुक्तमात्रेण तत्सर्वं षड्रसं मधुरायते ॥१८६॥
पच्यमानं कफोत्पाद्यैः फेनः स्यान्मधुरादिभिः ।
फेनस्तु कफतत्त्वं यात्यम्लतां च विदाहतः ॥१८७॥
आमाशयाच्च्युतं तच्च पित्तं भवति निर्मलम् ।
पक्वाशयमनुप्राप्तमग्निना परिशोषितम् ॥१८८॥
पिण्डितं परिपक्वं स्यान्महतः पाकतः कटुः ।
पार्थिवश्चाप्य आग्नेयो वायव्यश्चेति नाभसः ॥१८९॥
पञ्चोष्माणः पार्थिवादीन् अन्नाननु पचन्ति च ।
पञ्चाहारगुणान् पक्वांस्तथा भूतगुणानपि ॥१९०॥
पृथक् पृथक् यथास्वं च पुष्णन्त्येते यथासुखम् ।
भौमो भौमांस्तथैवान्यान् अन्ये देहगतान्क्रमात् ॥१९१॥
पक्वं तदन्नं द्विविधं किट्टसारप्रभेदतः ।
किट्टं तु द्विविधं चाच्छं मूत्रं सान्द्रं शकृद्भवेत् ॥१९२॥
पुनः सारं पचन्त्येव यथास्वं सप्त वह्नयः ।
धातुगास्तु ततो देवि रसाद्रक्तं भवेत्ततः ॥१९३॥
मांसं मांसाद्भवेन्मेदस्तस्मादस्थि प्रजायते ।
अस्थ्नो मज्जा ततः शुक्रं शुक्राद्गर्भो भवेत्प्रिये ॥१९४॥
प्रसादशेषजान्वक्ष्ये रसात्स्तन्यमसृक्ततः ।
सिराश्च कण्डरा मांसात्षट् त्वचश्च वसा भवेत् ॥१९५॥
मेदसः स्नायुसन्धी च शेषं नश्यत्यतः परम् ।
रसस्य किट्टं श्लेष्मा स्यादसृजः पित्तमेव च ॥१९६॥
मांसस्य किट्टं खमला मेदसो घर्मवारि च ।
अस्थ्नो रोमाणि केशाः स्युर्मज्जायास्त्वक्षिविट्त्वचाम् ॥१९७॥
स्नेहः शुक्लस्य चौजः स्यात्क्रमाद्धातुमलाः स्मृताः ।
किट्टं प्रसादो भवति धातूनां परिपाकतः ॥१९८॥
इतरेतरसंस्तम्भा धातुस्नेहपरम्परा ।
आहारात्साधु जीर्णाद्यो जातः सारो रसो हि सः ॥१९९॥
तस्माद्रसस्तु धातूनां रक्तादीनां च वर्धनः ।
नराणां धातवः सप्त सन्ति स्त्रीणां यथा तथा ॥२००॥
पुंसां शुक्लं च शिरसि नारीणां हृष्टमानसे ।
पतिसङ्गे तु तच्छुक्लं स्रवन्ति स्मरमन्दिरे ॥२०१॥
तच्चाम्बुसदृशं स्वच्छं सौम्यं गर्भाय नो भवेत् ।
भुक्तमन्नं दिवारात्रं शुक्लवृद्धिं करोति तत् ॥२०२॥
सप्ताहादच्छशुक्लं स्यान्मासाद्गर्भक्षमं हि तत् ।
एवं पाकक्रमेणैव भवेत्षाण्मातुरांबिके ॥२०३॥
वृष्यौषधप्रभावेण सद्यः शुक्लादि जायते ।
चङ्क्रमद्भोज्यधातूनां परिवृत्तिः सदा भवेत् ॥२०४॥
पाचकाग्निस्वरूपम्
जाठरो भौतिकश्चैव धातवीयोऽग्नयः स्मृताः ।
एतेषु जाठरः श्रेष्ठो येनान्नं परिपच्यते ॥२०५॥
स एव मूलं सर्वेषामग्नीनां तत्क्षये क्षयः ।
तद्वृद्धौ च भवेद्वृद्धिस्तन्मूलं जीवितं बलम् ॥२०६॥
देवि तस्माद्धितैः सात्म्यैरन्नपानाख्यदारुभिः ।
पालयेत्तं प्रयत्नेन तदायत्ता ह्यरोगता ॥२०७॥
चतुर्विधः स एवाग्निस्तीक्ष्णो मन्दः समोऽसमः ।
पित्ताभिमूर्छिते वायौ समाने तीक्ष्णपावकः ॥२०८॥
असम्यग्बहु वा भुक्तं पचेच्छीघ्रं तु पित्तजान् ।
रोगान्कुर्यात्तु मन्दाग्निः समाने कफपीडिते ॥२०९॥
सम्यग्भुक्तं मितं वापि हितं चान्नं चिरात्पचेत् ।
वक्त्रशोषाध्मानताश्च गौरवं चान्त्रकूजनम् ॥२१०॥
आटोपमसकृत्कुर्याच्छ्लेष्मजान् आमयानपि ।
स्वस्थानस्थे समाने तु समोऽग्निरभिधीयते ॥२११॥
सम्यग्भुक्तं पचेत्काले त्वारोग्यफलदो भवेत् ।
असमोऽग्निर् अमार्गस्थे समाने स्यात्सुभोजनम् ॥२१२॥
चिरात्पचेत्तु दुर्भुक्तम् अचिराद् वातजान् गदान् ।
कुर्यात्तस्मादप्रमत्तः समाग्निं रक्षयेत्प्रिये ॥२१३॥
यामद्वये पचेत्तीक्ष्णः षड्यामान्मन्दपावकः ।
कृच्छ्रादन्नं समाग्निस्तु चतुर्यामात्पचेत्सुखम् ॥२१४॥
असमाग्निः कदाचित् तु शीघ्रं वा मन्दमेव वा ।
नाभिस्थाने स्थितो वह्निः सर्वेषां प्राणिनामपि ॥२१५॥
गजोष्ट्रतुरगादीनां वह्निरङ्गुष्ठमात्रकः ।
पशुमर्त्यमृगाणां च यवमात्रानलो भवेत् ॥२१६॥
गृध्रोलूकबकादीनां जाठराग्निस्तिलोन्मितः ।
कृमिकीटादिजन्तूनां केशमात्रो हुताशनः ॥२१७॥
प्रदीप्तो जाठरो वह्निरादावन्नं पचेत्ततः ।
अन्नाभावे पचेद्दोषान्दोषे क्षीणे पचेत्ततः ॥२१८॥
धातून्धातुक्षये प्राणान्संहरेत्प्राणिनां परम् ॥२१९॥
N/A
References : N/A
Last Updated : June 24, 2015
TOP