रसविद्या - भाग १५

रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद.


दिव्यौषधिरसायनानि

श्रीभैरवी ।
मलमायाविहीनेश जराजन्मगदापह ।
त्वत्प्रसादेन विदितं रसादीनां रसायनम् ॥१॥

इतःपरमपि स्वामिन् शुश्रूषे किमपि प्रभो ।
सुखोपायोपयोग्यं च दिव्यौषधिरसायनम् ॥२॥

ब्रूहि मे तद्विधं दिव्यं सर्वसिद्धिप्रदायकम् ।
श्रीभैरवः ।

१. ब्रह्मकल्पः॑ ब्रह्मवृक्षतैलकल्पः

वक्ष्यामि ब्रह्मवृक्षादि दिव्यौषधिरसायनम् ॥३॥

तत्रादौ ब्रह्मवृक्षस्य शृणु देवि रसायनम् ।
ब्रह्मवृक्षस्य बीजानि विदध्यान् निस्तुषाणि च ॥४॥

परिशोष्यातपे तीव्रे सूक्ष्मचूर्णानि कारयेत् ।
धात्रीफलेन सप्ताहं भावयेत्पयसाथवा ॥५॥

चक्रयन्त्रे क्षिपेत्तानि ततस्तत्तैलमाहरेत् ।
इत्थमुत्थापितं तैलं दोषघ्नं च रसायनम् ॥६॥

ब्रह्मबीजजतैलस्य प्रस्थमाज्यं च तत्समम् ।
निक्षिप्तं स्निग्धभाण्डे च धान्यराशौ विनिक्षिपेत् ॥७॥

मासार्धमासं देवेशि तस्मात्तैलं समाहरेत् ।
शुद्धदेहो विरेकाद्यैरर्चिताग्निगुरुद्विजः ॥८॥

द्विपलं च गवां क्षीरं तत्तैलं निष्कमात्रकम् ।
संमिश्र्य च पिबेत्प्रातः पथ्याशी स्याज्जितेन्द्रियः ॥९॥

एवं द्वितीयेऽपि दिने ह्येकाहान्तरिते क्रमात् ।
निष्कवृद्धिर् भवेदेवं यावत्षोडशनिष्ककम् ॥१०॥

एतत्तैलस्य परमा मात्रा ह्यस्यैवम् ईरिता ।
पीतमात्रे क्षणं मूर्च्छा जायते सिञ्चयेन्मुखम् ॥११॥

प्रबुद्धे सघृतं दद्याद्दुग्धान्नं शर्करान्वितम् ।
एवं तैलोपयोगेन मासाज्ज्ञानी भवेन्नरः ॥१२॥

सकृद्ग्राही सुकान्तश्च षोडशाब्द इव स्थितः ।
द्वितीये नागबलवान् सर्वव्याधिविवर्जितः ॥१३॥

इन्द्रोपमबलो धीरश्चतुर्थे मासि च क्रमात् ।
वज्रदेहो दिव्यदृष्टिः पञ्चमे खेचरो भवेत् ॥१४॥

अणिमादिगुणोपेतः सर्वगः सर्वकालिकः ।
षष्ठे मासि स्वयं स्रष्टा भोक्ता हर्ता त्रिमूर्तिवत् ॥१५॥

वर्षैकसेवनाद्देवि भवेत्साक्षात्सदाशिवः ।
यावत्तैलोपजीवी स्यात् तावत् क्षीरौदनाशनः ॥१६॥

वमनादिविशुद्धाङ्गः कृत्वा वैद्यद्विजार्चनम् ।
प्रातर्गोक्षीरकुडुबं तैलं किंशुकबीजजम् ॥१७॥

कुडुबं पूर्ववज्जातमेकीकृत्य द्वयं पिबेत् ।
तत्पानमात्रे मूर्छा स्यात्कुर्यात्तं भस्मशायिनम् ॥१८॥

सप्तरात्रे प्रबुद्धः स्याद्बद्धवच्छयने स्थितः ।
नाङ्गानि चालयेदेष जायते विचलेक्षणः ॥१९॥

तैले जीर्णे समापन्ने संज्ञा भवति भैरवि ।
गोक्षीरं तस्य दातव्यं प्रत्यहं दशवासरम् ॥२०॥

स त्वचं च त्यजेद्देहात् कञ्चुकं भुजगो यथा ।
क्षीराहारी भवेन्नित्यमेकविंशतिवासरम् ॥२१॥

वाचां पतिर्भवेद्धीरः श्रुतं धारयते क्षणात् ।
दूरश्रावी दिव्यदृष्टिर् जीवेद्ब्रह्मदिनं सुधीः ॥२२॥

ब्रह्मवृक्षपल्लवकल्पः

पुण्यर्क्षे ब्रह्मवृक्षस्य पल्लवानि समाहरेत् ।
क्रिमिकीटविहीनानि कोमलानि शुभानि च ॥२३॥

आतपे शोषयेत्तीव्रे चूर्णितं वस्त्रगालितम् ।
कुर्यान्नूतनभाण्डे च निक्षिपेच्च प्रयत्नतः ॥२४॥

वमनाद्यैर्विशुद्धाङ्गो ब्रह्मचारी जितेन्द्रियः ।
क्षाराम्लवर्जिताहारः क्षीरशाल्यन्नभोजनः ॥२५॥

कोष्णं जलं पिबेन्नित्यं निवाते शयनं भजेत् ।
कर्षमात्रं च सेवेत मासं गोतक्रसंयुतम् ॥२६॥

द्वितीये च तृतीये च वृद्धिः कर्षाधिका क्रमात् ।
एवं षोडशमासान्तं सतक्रं कुडुबं पिबेत् ॥२७॥

एवं नित्योपसेवी यः कुञ्चितस्निग्धकुन्तलः ।
मत्तमातङ्गबलवान् जीवेद्ब्रह्मदिनं नरः ॥२८॥

ब्रह्मवृक्षपुष्पकल्पः

ब्रह्मवृक्षस्य पुष्पाणि छायायां शोषयेत्सुधीः ।
चूर्णयेद्गालयेद्वस्त्रे नवभाण्डे विनिक्षिपेत् ॥२९॥

विंशत्पलं पुष्पचूर्णं चतुर्विंशतिगोघृतम् ।
पलमेकत्र संमिश्रं धान्यराशौ निवेशयेत् ॥३०॥

तदुद्धरेच्च मासान्ते कृत्वा भागांश्चतुर्दश ।
एकैकं प्रत्येकं सेव्यमेवं मासत्रयं भवेत् ॥३१॥

भुञ्जीत शुल्बपात्रे च लवणाम्लादिवर्जितम् ।
पायसाशी कषायं तृषार्तः खादिरं पिबेत् ॥३२॥

त्रिमासाज्जायते गात्रं वज्रवन् नात्र संशयः ।
नागायुतबलो धीरो वायुवेगगतिर्भवेत् ॥३३॥

अस्य वर्षोपयोगेन पुरीषमपि मूत्रकम् ।
वेधयेत्सर्वलोहानि काञ्चनानि च कारयेत् ॥३४॥

जीवेद्ब्रह्मदिनं साक्षाद्दैवतैः सह मोदते ।

ब्रह्मवृक्षबीजकल्पः

ब्रह्मवृक्षस्य बीजानि चूर्णयेन्निक्षिपेद्घटे ॥३५॥

मध्वाज्यशर्करायुक्तं धान्यराशौ विनिक्षिपेत् ।
मासादूर्ध्वं समाहृत्य प्रत्यहं कर्षमात्रकम् ॥३६॥

उपयुञ्जीत शुद्धात्मा गोक्षीरं च पिबेदनु ।
यावत्पलं भवेद्वृद्धिस्तावदेवाधिकं न हि ॥३७॥

एवं संवत्सरात्सिद्धिर्जायते मृत्युवर्जिता ।
जीवेद्ब्रह्मदिनं शुद्धो मतङ्गजबलोपमः ॥३८॥

ब्रह्मवृक्षवल्कलकल्पः

सूक्ष्मचूर्णं प्रकुर्वीत ब्रह्मवृक्षस्य वल्कलम् ।
भावयेद्गव्यपयसा पलं चानुदिनं पिबेत् ॥३९॥

जितेन्द्रियश्च पथ्याशी भवेद् आ वत्सरं सुधीः ।
दशवर्षसहस्राणि जीवेत्सिद्धो भवेद्ध्रुवम् ॥४०॥

ब्रह्मवृक्षनिर्यासकल्पः

ब्राह्मी च मधुकं साज्यं निर्यासं ब्रह्मवृक्षजम् ।
समभागानि सेवेत पलं चानुपिबेत्पयः ॥४१॥

एवमेकाब्दयोगेन शुभंयुदर्शनः शुचिः ।
जीवेद्ब्रह्मदिनं ज्ञानी वलीपलितवर्जितः ॥४२॥

ब्रह्मवृक्षपञ्चाङ्गकल्पः

पञ्चाङ्गं ब्रह्मवृक्षस्य विधिवत्तत्समाहरेत् ।
छायाशुष्कं प्रकुर्वीत चूर्णितं पटशोधितम् ॥४३॥

कर्षमात्रं लिहेच्छुद्धः क्षौद्राज्याभ्यां दिनोदये ।
वलीपलितनिर्मुक्तो वत्सराज्जायते नरः ॥४४॥

ब्रह्मवृक्षमूलगुप्तधात्रीकल्पः

अतिस्थूलतरं दीर्घं भेदयेद्ब्रह्मभूरुहम् ।
मूले त्रिहस्तशेषं च तदग्रे गर्तम् आरचेत् ॥४५॥

धात्रीफलानि पक्वानि तत्र सम्पूरयेत्प्रिये ।
तच्छिन्नकाष्ठशेषेण तद्गर्तं च निरोधयेत् ॥४६॥

कुशैः संवेष्टयेत्सम्यग् आ मूलाग्रं च लेपयेत् ।
मृद्गोमयाभ्यां मतिमांस्ततो वस्त्रेण वेष्टयेत् ॥४७॥

पुनर्मृद्गोमयाभ्यां च लेपयेच्छोषयेत्सुधीः ।
सम्यक् शुष्के च परितः करीषैः परिपूरयेत् ॥४८॥

दहेत्तं शीतलीभूते सान्द्रं तत्फलमाहरेत् ।
भाण्डे क्षौद्राज्यभरिते क्षिपेद्धात्रीफलं च तत् ॥४९॥

भूगृहे वा निवाते वा प्रदेशे च वसन्सुखी ।
यथेष्टं भक्षयेन्नित्यं क्षीराहारी जितेन्द्रियः ॥५०॥

षण्मासात्पश्यति छिद्रं निधानानि च भूतले ।
त्यजेत्त्वचं सर्प इव जीवेद्ब्रह्मयुगं नरः ॥५१॥

२. श्वेतब्रह्मवृक्षकल्पः॑ श्वेतब्रह्मवृक्षपञ्चाङ्गकल्पः

चूर्णयेच्छ्वेतपालाशपञ्चाङ्गं शोषयेत्प्रिये ।
छायायां वस्त्रगलितं मधुना च लिहेत्प्रिये ॥५२॥

कर्षमात्रं त्रिमासान्तर् जरामृत्युं जयेन्नरः ।
संवत्सराच्च ब्रह्मायुः सिद्धः सर्वगतो भवेत् ॥५३॥

श्वेतब्रह्मबीजकल्पः

श्वेतपालाशबीजानि चैकैकानि समाहरेत् ।
अजाघृतेनानुदिनं मासान्मृत्युं जरां जयेत् ॥५४॥

संवत्सराद् ब्रह्मयुगं जीवेत् सिद्धिपुरोगमः ।
ये प्रोक्ता रक्तपालाशतैलत्वक्पर्णकादिषु ॥५५॥

ते गुणाः श्वेतपालाशे सन्ति साधकसिद्धिदाः ।

ब्रह्मवृक्षकल्पसिद्धिः

वक्ष्यामि ब्रह्मवृक्षस्य कल्पसिद्धिं मनुम् ॥५६॥

ओं ह्रीं अमृतं कुरु कुरु अमृतमालिन्यै नमः ।
पूर्वं विंशतिसाहस्रं पुरश्चरणमाचरेत् ।
सुधाकुम्भवराक्षस्रग्ज्ञानमुद्रां करांबुजैः ॥५७॥

बिभ्राणां मौक्तिकं पाशं ध्यायेदमृतमालिनीम् ।
ग्रहणेऽष्टोत्तरशतं भक्षयेत्सप्तवारकम् ॥५८॥

चन्द्रसूर्योपरागादिकालेष्वष्टसहस्रकम् ।
मन्त्रं विना न सिद्धिः स्यात्कल्पकोटिशतैरपि ॥५९॥

समन्त्रे शीघ्रसिद्धिः स्याच्चरेन्मन्त्रपुरःसरः ।

३. मुण्डीकल्पः

अथ मुण्डीं प्रवक्ष्यामि साधकेष्टार्थदायिनीम् ॥६०॥

चतुर्विधा भवेत् च रक्ता पीता सितासिता ।
पुष्यार्के पूर्णमास्यां वा रेवत्यां श्रवणेऽपि वा ॥६१॥

उपरागादिकाले वा सिद्धयोगेषु वा हरेत् ।
कैदारीं मुण्डिनीं तां च बलिपूजनपूर्वकम् ॥६२॥

समाहरेत्कृतस्नानो मौनी मन्त्रं समुच्चरन् ।
ओं अमृतोद्भवाय अमृतं कुरु कुरु स्वाहा ह्रीं सः ।
मन्त्रं द्वादशसाहस्रं पुरश्चर्यां समाचरेत् ॥६३॥

मूलं नालं फलं पुष्पं पत्रं पञ्चाङ्गम् ईरितम् ।
स पञ्चाङ्गं हरेन्मुण्डीं सम्यक् शीतेन वारिणा ॥६४॥

प्रक्षाल्य शोषयेत्तां च छायायां चूर्णयेत्ततः ।
वस्त्रेण शोधयेत्कुम्भे नूतने स्थापयेत्क्रमात् ॥६५॥

विशुद्धदेहस्तच्चूर्णं कर्षं गोपयसा सह ।
पिबेज्जीर्णे च भैषज्ये घृतमादौ पिबेन्नरः ॥६६॥

ततो भुञ्जीत लवणतैलाम्लादिविवर्जितम् ।
घृतपक्वं समधुरं षष्टिकान्नं पयोऽधिकम् ॥६७॥

षण्मासाज्जायते सिद्धिस्त्वचं सर्प इव त्यजेत् ।
पलितादिविनिर्मुक्तो दिव्यदृष्टिर्दृढं वपुः ॥६८॥

मत्तनागबलो धीरो युवा दर्पविग्रहः ।
संवत्सरात् सर्वसिद्धिर् भवेद्ब्रह्मायुषो नरः ॥६९॥

घृतोपयुक्ता सा मुण्डी पूर्वफलदा भवेत् ।

४. देवदालीकल्पः

अथ वक्ष्याम्यहं देवि देवदालीरसायनम् ॥७०॥

श्वेता कृष्णा च पीता च देवदाली त्रिधा मता ।
श्वेता रोगप्रशमनी कृष्णा पीता विशेषतः ॥७१॥

रसायने च फलदा लोहकर्मणि पार्वति ।
चन्द्रसूर्योपरागेषु पूर्णिमायां सुरार्चिते ॥७२॥

त्रयोदश्यां कृष्णपक्षे पञ्चम्यां वा यथाविधि ।
शुभाहे शुभनक्षत्रे चाहरेन्मन्त्रपूर्वकम् ॥७३॥

ओं अमृतगणरुद्रगणान्ताय स्वाहा ।
अष्टोत्तरशतं जप्त्वा बलिपूर्वं समाहरेत् ।
ओं नमो भगवते रुद्राय फट् स्वाहा ।
साधकस्य शिखाबन्धनमन्त्रः ।
देवदाल्याश्च पञ्चाङ्गं छायायां शोषयेत्सुधीः ॥७४॥

वस्त्रेण शोधयेत्सम्यग्गव्यक्षीरेण भक्षयेत् ।
पचेत्तां लौहपात्रेण ततो मन्दाग्निना सुधीः ॥७५॥

मध्वाज्याभ्यां लिहेत्कर्षं शुद्धात्मा सप्तवासरम् ।
तस्य दिव्या भवेत्प्रज्ञा रोगहृन्माससेवया ॥७६॥

द्विमासभक्षणेनैव निध्यादिं पश्यति ध्रुवम् ।
धात्रीफलरसं क्षौद्रं देवदालीरसं घृतम् ॥७७॥

प्रत्येकं कर्षमात्रं स्यात्प्रत्यहं च पिबेल्लघु ।
एकविंशद्दिनादूर्ध्वं मेधावी श्रुतधारकः ॥७८॥

पञ्चाङ्गं चूर्णयेद्देवदाल्या वस्त्रेण शोधयेत् ।
शिवाम्बुना वा पयसा गोमूत्रैर्वा पिबेत्सदा ॥७९॥

पूर्ववत्सिद्धिदा सा स्यात्सर्वकुष्ठापहारिणी ।
कामिलाप्लीहपवनशूलं हन्ति भगन्दरान् ॥८०॥

तद्रसो गन्धकोपेतः सर्वलोहं विलापयेत् ।
बध्नाति च रसं सम्यक् समं मूर्छति तत्क्षणात् ॥८१॥

गन्धर्वलज्जागान्धारीदेवदालीरसस्तथा ।
लेपनं मेषतैलेन स्तम्भयेदग्निमुज्ज्वलम् ॥८२॥

बीजानि देवदाल्याश्च सगुडानि च मर्दयेत् ।
तेन वर्तिं प्रकुर्वीत अर्शोघ्नी स्याद्गुदाङ्कुरे ॥८३॥

रसेन देवदाल्याश्च नयनं त्वञ्जयेन्नरः ।
पश्यत्यसौ भूतजालं तस्मै सर्वं प्रयच्छति ॥८४॥

घृतं धात्रीफलरसं देवदालीरसं मधु ।
रसं च लक्ष्मणायाश्च सर्वमेकपलं पिबेत् ॥८५॥

त्रिदिनम् ऋतुकाले तु स्त्रीणां पुत्रप्रदायकम् ।
देवदालीरसं क्षीरं मध्वाज्याभ्यां समं लिहेत् ॥८६॥

पुंसः कोमलबीजानां बीजं गर्भप्रदं भवेत् ।
भृङ्गराड् वाकुची वह्निः सर्पाक्षी देवदालिकम् ॥८७॥

शिवाम्बुना चानुदिनं पिबेत्कर्षं महेश्वरि ।
धरित्र्याः पश्यति छिद्रं वर्षान्मृत्युं जरां जयेत् ॥८८॥

पुनर्नवादेवदाल्योः पलं क्षीरयुतं पिबेत् ।
शिवाम्बुना देवदालीं ससर्पाक्षीपलं पिबेत् ॥८९॥

पूर्ववज्जायते सिद्धिः शीघ्रमेव वरानने ।
शिवांबुना देवदाल्या निर्गुण्ड्याश्च पलं पिबेत् ॥९०॥

संवत्सराज्जरां हन्याज्जीवेदाचन्द्रतारकम् ।
ओं अमृतं कुरु कुरु अमृतेश्वराय स्वाहा ।
एतन्मन्त्रं जपेदादौ देवदाल्युपयोगके ॥९१॥

५. श्वेतार्ककल्पः॑ श्वेतार्कमूलकल्पः

अथ श्वेतार्कमूलस्य कल्पं वक्ष्याम्यहं शृणु ।
श्वेतार्कमूलं पुष्यर्क्षे गृहीत्वा काष्ठवर्जितम् ॥९२॥

शुद्धां त्वचं च छायायां शोषयेत्पटशोधितम् ।
चूर्णं कृत्वा कर्षमेकं सेव्यं गोपयसा सह ॥९३॥

पलद्वयेन षण्मासात्सर्वव्याधीञ्जरां हरेत् ।
संवत्सराद्ब्रह्मदिनत्रयं जीवेन्न संशयः ॥९४॥

श्वेतार्कपर्णकल्पः

श्वेतार्कपर्णस्वरसं भृङ्गराजरसं समम् ।
एकीकृत्यातपे शोष्यं यावच्चूर्णत्वमाप्नुयात् ॥९५॥

चतुर्गुणे गवां क्षीरे तत्पचेन्मृदुवह्निना ।
यावत्पिण्डं भवेत्तावत्सेव्यं तत्कर्षमात्रकम् ॥९६॥

गवां क्षीरं पलं पेयं पूर्ववत्फलमाप्नुयात् ।
ओं आं हंसमालिनि स्वाहा अयं भक्षणमन्त्रः ।

६. हस्तिकर्णीकल्पः॑ हस्तिकर्णीपत्रकल्पः

अथेन्दुवारसंयुक्तत्रयोदश्यां समाहरेत् ॥९७॥

हस्तिकर्णीपलाशानि छायाशुष्काणि चूर्णयेत् ।
पलं सेव्यं गवां क्षीरं वर्षान्मृत्युं जरां जयेत् ॥९८॥

जीवेद्ब्रह्मायुषं मर्त्यः सिद्धसाध्यादिसेवितः ।

हस्तिकर्णीपञ्चाङ्गकल्पः

पञ्चाङ्गं हस्तिकर्ण्याश्च कुर्याच्छायाविशोषितम् ॥९९॥

मासैकमुदकैः सार्धं कर्षं प्रत्यहमश्नुयात् ।
सौवीरदधिदुग्धाज्यतक्रक्षौद्रैर्यथाक्रमम् ॥१००॥

एकैकं प्रतिमासं च सेव्यं वर्षाच्च सिध्यति ।
जीवेद्ब्रह्मदिनं सिद्धो वज्रकायो महाबलः ॥१०१॥

ओं अमृताय अमृतं गृह्णामि स्वाहा ।
अयं ग्रहणमन्त्रः ।
अमृतकुटीजातानाम् अमृतं कुरु कुरु स्वाहा ।
अनेन मन्त्रेण पूजयेत् ।
ओं अमृतोद्भवाय अमृतं कुरु कुरु नित्यं नमो नमः ।
अयं भक्षणमन्त्रः ।

७. रुदन्तीकल्पः

अथ वक्ष्याम्यहं दिव्यं रुदन्तीकल्पमुत्तमम् ।
चणपत्रोपमैः पत्रैः पुष्पैरपि च तादृशैः ॥१०२॥

रुदन्ती नाम विख्याता ह्यधस्ताज्जलवर्षिणी ।
रोदितीव जनान्दृष्ट्वा म्रियमाणान्गदाकुलान् ॥१०३॥

चतुर्विधा च सा ज्ञेया पीता रक्ता सितासिता ।
शुक्लपक्षे शुभदिने रुदन्तीं तां समाहरेत् ॥१०४॥

समूलां शोषयेद्धीमान् छायायां वस्त्रशोधिताम् ।
विशुद्धदेहः सेवेत बिडालपदमात्रकम् ॥१०५॥

क्षौद्राज्याभ्यामनुदिनं भुक्तिः क्षीराज्यसंयुता ।
जीर्णायां संयमी भूत्वा वर्षात्तेजोबलान्वितः ॥१०६॥

परमायुर्भवेन्मर्त्यो जराव्याधिविवर्जितः ।
तैलं कतकमूलोत्थं कुर्यात्पातालयन्त्रके ॥१०७॥

गर्भयन्त्रेऽथवा क्षाल्यं पञ्चाशद्वारमम्बुना ।
नालिकेराम्बुना वाथ कृत्वेत्थं तैलशोधनम् ॥१०८॥

पञ्चाङ्गं च रुदन्त्याश्च छायाशुष्कं विचूर्णयेत् ।
तदर्धं मुसलीचूर्णं मुसल्यर्धपलत्रयम् ॥१०९॥

एतत्त्रिचूर्णं संमिश्रं कर्षं कतकतैलतः ।
लिहेदनुदिनं शुद्धस्तद्वृद्धिः स्यात्पलावधि ॥११०॥

संवत्सराद्वज्रकायः स जीवेद्ब्रह्मणो दिनम् ।

८. निर्गुण्डीकल्पः॑ निर्गुण्डीमूलकल्पः

अथ वच्मि शुभं दिव्यं निर्गुण्डीकल्पमुत्तमम् ॥१११॥

प्रातः पुष्यरवौ ग्राह्या निर्गुण्डीमूलसंभवा ।
त्वक् शोषणीया छायायां तच्चूर्णं कर्षमात्रकम् ॥११२॥

पलमात्राजमूत्रेण पिबेच्छुद्धो ऽनुवासरम् ।
षण्मासाद् दिव्यदेहः स्यान्मत्तनागबलान्वितः ॥११३॥

मध्वाज्यक्षीरलुलितं तच्चूर्णं स्निग्धभाण्डके ।
पिधाय धान्यराशौ तु मासमेकं तु निक्षिपेत् ॥११४॥

मासान्ते तत्समुद्धृत्य शुद्धाङ्गो द्विपलं सदा ।
सेवेत वर्षपर्यन्तं जीवेदाचन्द्रतारकम् ॥११५॥

अथवार्धपलं चूर्णं तदीयं सघृतं पिबेत् ।
पूर्ववज्जायते सिद्धिर्जरारोगविवर्जितः ॥११६॥

वचामुण्डीनिम्बवरागुडूचीभृङ्गराट् समाः ।
एषां समांशं संयोज्य निर्गुण्डीमूलचूर्णतः ॥११७॥

क्षौद्राज्याभ्यां लिहेद्धस्तादन्वहं पलमात्रकम् ।
आयुर्विरिञ्चित्रिदिनं भवेन्मृत्युजरोज्झितम् ॥११८॥

निर्गुण्डीमूलचूर्णं तु क्रिमिघ्नकटुकैः समम् ।
पलमात्रमजाक्षीरैर्नित्यं शुद्धः पिबेद्बुधः ॥११९॥

वलीपलितनिर्मुक्तो निर्गदः स्यात्त्रिमासतः ।

निर्गुण्डीपत्रकल्पः

निर्गुण्डीपत्रजद्रावं भाण्डे मृद्वग्निना पचेत् ॥१२०॥

गुडवत्पाकमापन्नं तं पिबेन्निष्कमात्रकम् ।
दिने दिने निष्कवृद्धिर्यावद्द्विपलिकं भवेत् ॥१२१॥

तेन वान्तिर्विरेकः स्यान्निर्यान्ति क्रिमयः परम् ।
अपानतो देहगता मुखनासाक्षिकर्णतः ॥१२२॥

क्षयकुष्ठादिरोगाश्च नश्यन्ति मुनिवासरात् ।
मासत्रये जरां हन्ति जीवेद्वर्षशतत्रयम् ॥१२३॥

निर्गुण्डीपञ्चाङ्गकल्पः

पञ्चाङ्गचूर्णं निर्गुण्ड्यास्तिलतैलेन सेवितम् ।
निष्कादिपलपर्यन्तं त्रिमासेन जरां जयेत् ॥१२४॥

अशीतिं वातजान्रोगान् कुष्ठानपि गलामयान् ।
आस्यार्त्युपकुशादींश्च जयेत्तत्पर्णचर्वणात् ॥१२५॥

सिन्धुवारकपञ्चाङ्गचूर्णं मधुघृतप्लुतम् ।
पलमात्रं लिहेत्प्रातस्ततो जीर्णे गवां पयः ॥१२६॥

पिबेद् यथानलबलं भुञ्जीताग्नौ क्रमेण च ।
निर्वाते निवसेद्धीमान्सिद्धिमाप्नोति वत्सरात् ॥१२७॥

सिद्धदेहस्य पूर्वेण म्रियेते विषपारदौ ।
काले काले यथाप्राप्तं पञ्चाङ्गं सिन्धुवारकात् ॥१२८॥

छायायां शोषितं चूर्णं त्रिमधुत्रिफलायुतम् ।
स्निग्धभाण्डे धान्यराशौ त्रिमासं स्थापयेत्ततः ॥१२९॥

निष्कादिपलपर्यन्तं सेवेताकर्षकं सुधीः ।
सर्वव्याधिविनिर्मुक्तो जरामरणवर्जितः ॥१३०॥

ओं नमो मायागणपतये कुबेराय स्वाहा ।
अयं भक्षणमन्त्रः ।

९. शुनकशाल्मलीकल्पः

अथ वक्ष्यामि देवेशि कल्पं शुनकशाल्मलेः ।
अष्टम्यां कृष्णपक्षस्य स्नात्वा रात्रौ समाहितः ॥१३१॥

आवेष्ट्य कृष्णसूत्रैश्च वृक्षं शुनकशाल्मलिम् ।
तत्राघोरं जपेद्धीरः सहस्रवसुसंमितम् ॥१३२॥

९. शुनकशाल्मलीमूलकल्पः

तन्मूलवल्कलं ग्राह्यं छायायां शोषयेत्ततः ।
चूर्णं कृत्वा तु मध्वाज्यैः खादेत्प्रातः पलं पलम् ॥१३३॥

वर्षाद्वलिजरामुक्तः स जीवेद् ब्रह्मणो दिनम् ।

शुनकशाल्मलीपुष्पकल्पः

तस्याष्टादश पुष्पाणि गोक्षीरे ऽष्टपले पचेत् ॥१३४॥

पुष्पवर्ज्यं पिबेत्क्षारमेवं च प्रतिवासरम् ।
मासेन दिव्यदेहः स्याज्जीवेद् ब्रह्मदिनत्रयम् ॥१३५॥

शुनकशाल्मलीफलकल्पः

तत्फलं तु गवां क्षीरे पाचयेत्कान्तपात्रके ।
फलं त्यक्त्वा पिबेत्क्षीरं दीप्तेऽग्नौ क्षीरभोजनम् ॥१३६॥

मासषट्कप्रयोगेण दिव्यदेहो भवेन्नरः ।
जीवेत्कल्पान्तपर्यन्तं वायुवेगी महाबलः ॥१३७॥

तस्य मूत्रपुरीषाभ्यां शुल्बं स्वर्णं भवेद्ध्रुवम् ।

१०. पथ्याकल्पः॑ पथ्योत्पत्तिः

अथातः सम्प्रवक्ष्यामि पथ्याकल्पम् अनूपमम् ॥१३८॥

येन रोगा विनश्यन्ति सिध्यन्ति च मनोरथाः ।
पीत्वामृतं शचीनाथः प्रीत्या शच्यै समापिबत् ॥१३९॥

तयोर् हृष्टमुखाम्भोजगलितामृतबिन्दवः ।
सप्तधा भुवि ते जाता महावीर्याः स्थिरायुषः ॥१४०॥

ते सप्तदेशेषूत्पन्नाः सप्तधा नाम धारकाः ।
विन्ध्यदेशे कान्यकुब्जे सौराष्ट्रे हिमवद्गिरौ ॥१४१॥

गङ्गातटे च काश्मीरे वैन्यदेशे यथाक्रमम् ।
विजया रोहिणी चैव पूता स्यात्त्रिवृतामृता ॥१४२॥

जीवन्ती त्वभया जाता देशे देशे यथाक्रमम् ।
उत्तमा मध्यमा नीचाः स्वयं पक्वास्तु शोभनाः ॥१४३॥

हरीतक्यां रसाः पञ्च विद्यन्ते लवणोज्झिताः ।
स्वाद्वम्लतिक्तकटुकतुवराश्च यथाक्रमम् ॥१४४॥

स्युर् मज्जस्नायुवृन्तत्वङ्मांसेषु क्रमशो रसाः ।
अलाबुकर्णी वृत्ता च चतुरङ्ग्यल्पचर्मका ॥१४५॥

पञ्चास्रा मांसला स्वर्णवर्णा कृष्णा स्मृताः क्रमात् ।
या मज्जन्ती जले ग्राह्या गुर्वी स्निग्धा घनाघनाः ॥१४६॥

द्विकर्षमात्रा सा श्रेष्ठा कर्षमात्रा तु मध्यमा ।
अर्धकर्षा भवेन्नीचा पथ्या फलमुदाहृतम् ॥१४७॥

क्रिमिजुष्टा वह्निदग्धा नष्टा पङ्कजलार्द्रिता ।
स्फुटिता चोषरस्था च वर्जनीया हरीतकी ॥१४८॥

पथ्याकल्पः

शुद्धदेशे पुण्यदिने ग्रहणे चन्द्रसूर्ययोः ।
गन्धाद्यैः पूजयित्वादौ प्रार्थयित्वा जपेत्सुधीः ॥१४९॥

गायत्रीशतम् आवृत्त्य पथ्यामेवं समाहरेत् ।
शुण्ठ्या वाथ गुडेनापि सैन्धवेनाथवा शिवाम् ॥१५०॥

सेवेत दीपनं तेन करोत्यामविनाशनम् ।
क्षौद्रेण वा गुडेनापि पिप्पल्या नागरेण वा ॥१५१॥

सैन्धवेनाथवा सेव्या शुद्धाङ्गः प्रतिवासरम् ।
द्वे द्वे पथ्ये द्वादशाब्दं तेन जीवेच्छतं समाः ॥१५२॥

द्विनिष्कचूर्णं पथ्याया निष्कैकं लोहभस्म च ।
लोलयित्वा गोघृतेन कान्तपात्रे च लेपयेत् ॥१५३॥

अधोमुखीकृतं पात्रं स्थापयेत्तद्दिवानिशम् ।
प्रातः शुद्धवपुर्लेह्यं जरां मृत्युं जयेत्सुधीः ॥१५४॥

शाल्मलीं छिद्रयित्वादौ तदन्तर्निक्षिपेच्छिवाः ।
आ षण्मासं परस्तास्तु ग्राह्या चैकैकशोऽन्वहम् ॥१५५॥

सेवेत पथ्यां शुद्धाङ्गस्तस्य मृत्युर्जरा न हि ।

११. आमलकीकल्पः

अथ वक्ष्यामि देवेशि कल्पमामलकीभवम् ॥१५६॥

चैत्रादौ ग्राहयेद्धात्र्याः सुपक्वानि फलानि च ।
हरीतकीवद् ग्राह्यानि छायाशुष्काणि चूर्णयेत् ॥१५७॥

कर्षं जलेन वाज्येन मधुना वा फलं निशि ।
वर्धयेज्जाठरं वह्निमिन्द्रियाणां प्रसादकृत् ॥१५८॥

धात्रीचूर्णं लोहभस्म क्षौद्राज्यालुलितं लिहेत् ।
वलीपलितमृत्युघ्नं वत्सरात्पूर्ववद्विधिः ॥१५९॥

क्षीरपक्वं च तद्भक्ष्यं पूर्ववत्सिद्धिदायकः ।
धात्रीचूर्णं भृङ्गचूर्णं मध्वाज्यसहितं लिहेत् ॥१६०॥

वलीपलितनिर्मुक्तो वत्सराद्भवति ध्रुवम् ।
निंबामलकयोश्चूर्णं मध्वाज्यसहितं लिहेत् ॥१६१॥

पूर्ववच्च फलं देवि नात्र कार्या विचारणा ।

१२. त्रिफलाकल्पः

अथ ब्रवीमि ते देवि त्रिफलाया रसायनम् ॥१६२॥

एकं हरीतकीभागं द्विभागं च विभीतकम् ।
चतुर्भागं तथा धात्री सर्वमेकत्र चूर्णयेत् ॥१६३॥

पिप्पल्या वा तुगाक्षीर्या सैन्धवैर्मधुकेन वा ।
क्षौद्रेण वा सर्पिषा वा वचया सितयाथवा ॥१६४॥

सुवर्णै रजतैः शुल्बैर् वङ्गैर् नागैस्तथायसैः ।
संयुक्ता त्रिफला लीढा जरामरणनाशिनी ॥१६५॥

त्रिफलायाः समांशास्तु योज्याश्चैकैकशस्तु ताः ।
पिप्पल्याद्यास्तु सौवर्णभस्मादीनां च कथ्यते ॥१६६॥

सौवर्णं पणमात्रं च द्विपणं राजतं भवेत् ।
पणार्धं शुल्बचूर्णं च द्विपणं नागवङ्गजम् ॥१६७॥

चूर्णं तथायसं प्रोक्तं पणपञ्चकमात्रकम् ।
एवं यस् त्रिफलासेवी जीवेदाचन्द्रतारकम् ॥१६८॥

एकां हरीतकीं प्रातर्भुक्तेः प्राग् द्विविभीतकम् ।
चतुरामलकं रात्रौ सर्वे ते घृतपाचिताः ॥१६९॥

सेवेतावत्सरं धीमान्वलीपलितवर्जितः ।
अन्नोदकेन संपेष्य कान्तपात्रे लिहेन्निशि ॥१७०॥

सक्षौद्रं तल्लिहेत्प्रातरायुरारोग्यवर्धनम् ।
त्रिफलां भावयेत्पूर्वं खदिरासनयूषतः ॥१७१॥

त्रिः सप्तवारं देवेशि ततः क्षौद्रघृताप्लुताम् ।
सेवेतानुदिनं कर्षं वर्षादिन्द्रायुषो भवेत् ॥१७२॥

विडङ्गभृङ्गखदिरब्रह्मवृक्षरसैः पृथक् ।
पृथक्सप्तदिनं घर्मे भावयेत्त्रिफलां प्रिये ॥१७३॥

भक्षयेद्गुडसर्पिर्भ्यां कर्षं वर्षात्सुरोपमः ।
त्रिफलायाः शतफलं चूर्णं भृङ्गरसैः पुरा ॥१७४॥

त्रिः सप्तवासरं भाव्यं लिहेन्मधुघृतान्वितम् ।
पलार्धं प्रत्यहं प्रातर्जीर्णेऽद्याद् दधिभक्तकम् ॥१७५॥

वर्षात्प्रसन्नदृष्टिश्च जीवेत् षट्शतवत्सरम् ।
महाबलः कृष्णकेशः स्मृतिबुद्धिसमन्वितः ॥१७६॥

युवा शतस्त्रीरन्ता च धीरः स सुभगो भवेत् ।

१३. शुण्ठीकल्पः

अथ वक्ष्यामि गिरिजे दिव्यं शुण्ठीरसायनम् ॥१७७॥

श्रेष्ठं नागरमादाय चूर्णयेत् पटगालितम् ।
गुडं चास्य समं योज्यं मधुना गोघृतेन च ॥१७८॥

स्निग्धभाण्डे विनिक्षिप्य धान्यराशौ सुयन्त्रितम् ।
द्विमण्डलात् समाहृत्य शुद्धाङ्गः पुण्यवासरे ॥१७९॥

कर्षं कर्षं लिहेन्नित्यं सप्ताहाद्रोगवर्जितः ।
षण्मासमुपभुञ्जानो जीवेद्वर्षशतद्वयम् ॥१८०॥

बुद्ध्या वाचस्पतिसमः पुराणागमशास्त्रवित् ।
मयानुभूतं देवेशि कथितं तव सौहृदात् ॥१८१॥

१४. पिप्पलीकल्पः

अथ प्रिये प्रवक्ष्यामि पिप्पलीनां रसायनम् ।
पिप्पलीं शोधयेत्पूर्वं किंशुकक्षारवारिणा ॥१८२॥

सप्तधा च ततः कुर्यात्तासां च घृतभर्जनम् ।
ततः सेवेत शुद्धाङ्गः पञ्चाष्टौ दश सप्तधा ॥१८३॥

वर्षमेकं तु मध्वाज्यै रोगास्तस्य न सन्ति च ।
वलीपलितनिर्मुक्तो जीवेच्च शरदः शतम् ॥१८४॥

प्रातः प्राग्भोजनात्पश्चाद्भक्षयेत् त्रित्रिपिप्पलीः ।
वर्षाद्व्याधिं जरां हन्ति शतायुष्यमवाप्नुयात् ॥१८५॥

एकद्वित्रिक्रमेणैव वर्धयेद्दशवासरम् ।
ह्रासयेत्पिप्पलीस्तद्वद्ध्रासवृद्धी पुनः पुनः ॥१८६॥

गोक्षीरेण युतं यावत्पिप्पलीनां सहस्रकम् ।
तावत्सेवेत शुद्धाङ्गो जरारोगविवर्जितः ॥१८७॥

अजाक्षीरेण संपेष्य पिबेद्युक्ता बलाधिका ।
क्षीरशृता मध्यफला पूर्ववद्ध्रासवृद्धयः ॥१८८॥

यावत्सहस्रद्वितयं तावत्सेव्यं रसायनम् ।
कासश्वासक्षयाः पाण्डुप्लीहशोणितमारुताः ॥१८९॥

मेहार्शोग्रहणीशोफहिध्मवमिगलग्रहाः ।
रसायनेन पिप्पल्या नश्यन्ति विषमज्वराः ॥१९०॥

जीवेद्वर्षशतं पूर्णं वलीपलितवर्जितः ।

१५. चित्रककल्पः

अथ चित्रककल्पं ते वक्ष्यामि शृणु पार्वति ॥१९१॥

चित्रकस्त्रिविधो ज्ञेयः कृष्णो रक्तः सितः शिवे ।
कृष्णो रसायने रक्तो लोहे रोगे सितो भवेत् ॥१९२॥

श्रेष्ठमध्यकनीयांसो न हेमन्ते समाहरेत् ।
वसन्ते कृष्णपञ्चम्यां कृष्णाम्बरधरः शुचिः ॥१९३॥

कृष्णगन्धाक्षतैः पुष्पैः पूजयेत्कृष्णसूत्रकैः ।
परिवेष्ट्य च पूर्वेद्युर्दद्यात् कृष्णौदनं बलिम् ॥१९४॥

प्रातर्मौनी खनेच्छुद्धः समूलं चित्रकं हरेत् ।
न गोघ्रातं पदा स्पृष्टं शुचौ देशे विनिक्षिपेत् ॥१९५॥

क्षिप्तं क्षीरान्तरे कृष्णं वह्नौ क्षीरं तु कृष्णति ।
रक्तचित्रं परीक्ष्यैवं क्षीरं रक्तत्वमाप्नुयात् ॥१९६॥

एवं च रक्तचित्रस्य रक्तपुष्पाक्षतादिभिः ।
कृष्णं वा लोहितं वापि समूलमपि खण्डयेत् ॥१९७॥

सप्तधामलकाम्भोभिर् भावयेच्छोषयेत् क्रमात् ।
संचूर्ण्य तार्क्षीतालत्वक्चित्रकत्रिफलाः समाः ॥१९८॥

एषां समं चाग्निचूर्णं सर्वं भाण्डे नवे क्षिपेत् ।
ततः शुद्धः शुभदिने निष्कं निष्कं घृताप्लुतम् ॥१९९॥

भक्षयेन्मासमात्रेण व्रणकुष्ठादिकृन्तनम् ।
दन्तकेशनखा यान्ति पतनं च पुनर्भवम् ॥२००॥

वलीपलितनिर्मुक्तो जीवेच्च शरदः शतम् ।
एवं च रक्तचित्रस्य योजना च फलं तथा ॥२०१॥

१६. भल्लातकीकल्पः

अथ भल्लातकीकल्पं शृणु वक्ष्यामि पार्वति ।
पक्वं नवं सुतीक्ष्णं च भल्लातकफलं हरेत् ॥२०२॥

गोक्षीरे फलमेकं तु सूचीभिन्नं पचेत्सुधीः ।
मध्वाज्यशर्करायुक्तं फलं त्यक्त्वा पयः पिबेत् ॥२०३॥

एकद्वित्रिक्रमेणैवं वर्धयेदेकविंशतिम् ।
फलानि च दिनान्येकविंशतिः क्रमशः प्रिये ॥२०४॥

सर्वे रोगा विनश्यन्ति षण्मासाद्दिव्यविग्रहः ।

१७. भूमिकदम्बकल्पः

अथ भूमिकदम्बस्य कल्पं वक्ष्यामि पार्वति ॥२०५॥

त्रिविधः स तु विज्ञेयः श्वेतो रक्तश्च मेचकः ।
शुक्लपक्षे च पुष्यार्के विधिवत्तं समाहरेत् ॥२०६॥

समूलं शोषयेत्तं च छायायां चूर्णयेत्ततः ।
तच्चूर्णं कर्षमाज्येन लिहेच्छुद्धवपुः प्रिये ॥२०७॥

तस्मिञ्जीर्णे प्रकुर्वीत क्षीरान्नं विजितेन्द्रियः ।
नश्यन्ति वलयस्तस्य षण्मासात्पलितानि च ॥२०८॥

संवत्सरप्रयोगेण जीवेद्वर्षशतत्रयम् ।

१८. पुनर्नवाकल्पः

दिव्यं पुनर्नवाकल्पं वक्ष्यामि शृणु पार्वति ॥२०९॥

पुनर्नवाख्या द्विविधा लोहिता धवला तथा ।
रसे रसायने श्वेता रोगे रक्ता प्रशस्यते ॥२१०॥

पुष्यार्के श्वेतशोफघ्नीं समूलामाहरेत्सुधीः ।
छायाशुष्कं चूर्णयित्वा गोक्षीरेण पलार्धकम् ॥२११॥

पलं वाथ पिबेत्प्रातः शुद्धाङ्गो वत्सरावधि ।
युवा भवति वृद्धोऽपि स जीवेच्छरदः शतम् ॥२१२॥

गोक्षीरेण च तन्मूलं क्षीरक्षीणं पचेत्प्रिये ।
चूर्णीकृत्य च तन्मूलं पक्वीकृतगुडे समम् ॥२१३॥

गोघृतं च क्षिपेत्तत्र त्वेकीकृत्यावतारयेत् ।
पलं चानुदिनं लेह्यं क्षीरान्नाशी जितेन्द्रियः ॥२१४॥

संवत्सरप्रयोगेण वलीपलितवर्जितः ।
तत्सेवकस्य नश्यन्ति विषाणि विविधानि च ॥२१५॥

त्वग्दोषः कफपाण्ड्वाद्या औदरा गुल्मपायुजाः ।
नश्यन्ति सकला रोगाश्छर्दिहिक्काक्षिकर्णजाः ॥२१६॥

पुष्पितां फलितां पक्वाम् आदाय च पुनर्नवाम् ।
खण्डितां नागरक्वाथसुस्विन्नां क्षीरपेषिताम् ॥२१७॥

पिबेद्दिवा च चूर्णान्ते निशि क्षीरघृताशनः ।
षण्मासात् सिद्धिमाप्नोति योषिच्छतरतो भवेत् ॥२१८॥

१९. भृङ्गराजकल्पः

अथ श्रीभृङ्गराजस्य कल्पं वच्मि महेश्वरि ।
समूलं तच्च पुष्यार्के समाहृत्याथ शोषयेत् ॥२१९॥

छायायां पूर्णितं कृत्वा कर्षं सौवीरलोडितम् ।
प्रातः पिबेच्छुद्धदेहो मासाद्रोगान्व्यपोहति ॥२२०॥

ततः षण्मासयोगेन वलीपलितखण्डनम् ।
घृतक्षीराशनो नित्यं जीवेद्वर्षशतत्रयम् ॥२२१॥

युक्तः कृष्णतिलैर् अर्धैर् भृङ्गराजस्य पल्लवम् ।
उपयुञ्जीत षण्मासं वलीपलितकृन्तनम् ॥२२२॥

भृङ्गराजफलं पुष्पं पत्रं मूलं च चूर्णयेत् ।
एतच्चूर्णस्य सदृशांश्चित्राद्यान्परिकल्पयेत् ॥२२३॥

चित्रविश्वकणाबिल्वपथ्याधात्रीविडङ्गकम् ।
मरीचं व्याधिघातं च चक्रमर्दस्य बीजकम् ॥२२४॥

लोध्रसर्षपराज्यश्च चूर्णिताश्च समाहृताः ।
एकीकृत्यैव भृङ्गस्य रसेन परिभावयेत् ॥२२५॥

सप्तधा च ततः सर्वं चूर्णीकृत्य पुनः प्रिये ।
कर्षं गोपयसा सार्धं शुद्धकोष्ठो लिहेत्प्रिये ॥२२६॥

षण्मासाज्जायते सिद्धिर्वलीपलितवर्जितः ।
पूर्वोक्तवद्विधिः प्रोक्तः स्वर्णभृङ्गस्य पार्वति ॥२२७॥

ओं नमो भगवते रुद्राय तिष्ठ तिष्ठ संगृहाण स्वाहा ।
अयं ग्रहणमन्त्रः ।
ओं नमो रुद्राय अमृतात्मने स्वाहा ।
अयम् आलोडनमन्त्रः ।
ओं उत्तिष्ठोत्तिष्ठ कल्याणि स्वाहा ।
अयं भक्षणमन्त्रः ।

२०. कुमारीकल्पः

अथ वक्ष्याम्यहं देवि कुमारीकल्पमुत्तमम् ।
नदीतीरेऽथवा ग्रामे नगरेऽब्धितटेऽथवा ॥२२८॥

मृदुकर्णकपत्राणि पीतान्यहिसमानि च ।
प्रवालसमपुष्पाणि सक्लेदहस्तीनि च ॥२२९॥

यस्याः पत्राणि तिष्ठन्ति सा कुमारीति कथ्यते ।
शुचिः पुण्यदिने कन्यां सोपवासः समाहरेत् ॥२३०॥

अर्चयित्वा बलिं दत्त्वा कुमारीं सिद्धिदायिनीम् ।
शुद्धकोष्ठः प्रगे खादेच्चतुरङ्गुलमात्रतः ॥२३१॥

एवं मासं ततः खाद्यं यथा वृद्धिः शनैः शनैः ।
अत्यन्तं वर्जयेन्मध्यं खाद्यं भवति सर्वदा ॥२३२॥

स्वशक्त्यनुगुणं सेव्यं स्वेच्छाहारविहारवान् ।
स्निग्धैर्मांसरसक्षीरैर्युक्त्या सेव्या कुमारिका ॥२३३॥

हरत्यखिलरोगांश्च राजयक्ष्मादिकान्प्रिये ।
किन्नरैः सदृशं गायेद् गृध्रदृष्टिर्महाबलः ॥२३४॥

स्निग्धकेशश्च मतिमान् बालादित्यसमप्रभः ।
दशनागबलोपेतः समीरसदृशो गतौ ॥२३५॥

वलीपलितनिर्मुक्तः षोडशाब्दवया भवेत् ।
एवं वर्षप्रयोगेण भवत्येतैर् गुणैर्युतः ॥२३६॥

यस्तु द्वादशवर्षान्तं सेवेत स सुरासुरैः ।
महोरगैरवध्यश्च त्रिंशन्नागबलान्वितः ॥२३७॥

मयूरदृष्टिः सर्वज्ञः सर्वशास्त्रविशारदः ।
विद्याधरो भवेन्मर्त्यो नात्र कार्या विचारणा ॥२३८॥

कुमार्या दलमादाय हस्तर्क्षे साधकेऽहनि ।
प्रातः प्रत्यहमास्वाद्य शुचिरग्निबलं यथा ॥२३९॥

तन्मज्जां वा लिहेद्यस्तु मध्वाज्यव्योषसंयुताम् ।
मासं सेवेत नियमात्सर्वरोगैः प्रमुच्यते ॥२४०॥

षण्मासमुपयुञ्जानो वलीपलितवर्जितः ।
तस्याः क्लेदं समानीय व्योषक्षौद्राज्यसंयुतम् ॥२४१॥

स्विन्नं मृद्वग्निना सेव्यं क्षीराहारो जितेन्द्रियः ।
मासाद्रोगा विनश्यन्ति द्विमासाद्दृढविग्रहः ॥२४२॥

दिव्यदृष्टिश्च तेजस्वी द्विमासाद् द्विषहृद्भवेत् ।
षण्मासयोगाद् वृद्धोऽपि युवा स्यात्सत्यमीश्वरि ॥२४३॥

एवं वर्षोपयोगेन जीवेद्द्विशतवत्सरम् ।
तस्या दलं युगैः सार्धं भक्षयेच्छुद्धकोष्ठवान् ॥२४४॥

वलीपलितनाशः स्याद्वत्सरान्नात्र संशयः ।

२१. नीलीकल्पः

अथ देवि प्रवक्ष्यामि महानीलीरसायनम् ॥२४५॥

पुष्यार्के शुचिरादद्यान्महानीलीं विधानतः ।
मूलपुष्पफलोपेतां छायायां शोषयेत्प्रिये ॥२४६॥

पटचूर्णं द्विनिष्कं स्यान्निष्कमभ्रं च योजयेत् ।
सर्वं च मधुनालोड्य स्निग्धभाण्डे विनिक्षिपेत् ॥२४७॥

धान्यराशौ न्यसेन्मासम् उद्धृत्य च ततः प्रिये ।
शुद्धकोष्ठो लिहेत्प्रातर्बिडालपदमात्रकम् ॥२४८॥

षण्मासाज्जायते मर्त्यो वलीपलितवर्जितः ।
महानीलीं च कृष्णाभ्रं मुसलीममृतालताम् ॥२४९॥

समांशं चूर्णितान्कृत्वा मधुना कर्षम् आलिहेत् ।
एवं वर्षोपयोगेन जीर्णोऽपि तरुणायते ॥२५०॥

बलवान्मतिमान्धीरो जीवेद्वर्षशतद्वयम् ।
अभ्रकं च कुमारीं च काकजङ्घां शतावरीम् ॥२५१॥

एतत्समां महानीलीं चूर्णयेत् स्निग्धभाण्डके ।
मधुना सहितं सप्तरात्र्यन्ते च समुद्धरेत् ॥२५२॥

कर्षं लिहेत्क्षीरभोजी वर्षाद्वलिजरां जयेत् ।

२२. मुसलीकल्पः

अथ ब्रवीमि देवेशि मुसलीकल्पमुत्तमम् ॥२५३॥

स्वर्णपुष्पी च खर्जूरपत्रवत् पत्रशोभिता ।
अन्तः श्वेता च नाराचमूला सा मुसली स्मृता ॥२५४॥

तन्मूलं च समुद्धृत्य छायाशुष्कं च चूर्णयेत् ।
कर्षं मध्वाज्यलुलितं प्रातः शुद्धतनुर्लिहेत् ॥२५५॥

जीर्णे दुग्धान्नभोजी स्याद्रूक्षान्नं वर्जयेत् प्रिये ।
षष्ठे मासि भवेद्बालो वृद्धोऽपि बलबुद्धिमान् ॥२५६॥

पयसा मुसलीचूर्णं दध्ना वापि पिबेच्छुचिः ।
वर्षाद् यौवनम् आप्नोति शतस्त्रीगमने पटुः ॥२५७॥

२३. इन्द्रवल्लीकल्पः

अथेन्द्रवल्लीकल्पं च व्याख्यामि शृणु पार्वति ।
मयोदिता सुरेन्द्रस्य दैत्यानां विजयाय च ॥२५८॥

तदा प्रभृति लोकेषु ख्याता सा चेन्द्रवल्लिका ।
तामिमां भजतां पुंसां देहसिद्धिर्भवेद्ध्रुवम् ॥२५९॥

समूलां तां समुद्धृत्य छायाशुष्कां विचूर्णयेत् ।
तच्चूर्णं द्वादशपलं वचाचूर्णं च तत्समम् ॥२६०॥

व्रणघ्नीचूर्णम् एतस्य समांशं त्रिकटूद्भवम् ।
षट्पलं सर्वमेकत्र कृत्वा भाण्डे विनिक्षिपेत् ॥२६१॥

कर्षं कर्षं मधुयुतं प्रातः प्रातर्लिहेत्सदा ।
षण्मासात् सर्वरोगघ्नं वत्सराद्देहसिद्धिदम् ॥२६२॥

भूयो भूयश्च षण्मासान्नवं चूर्णं प्रकल्पयेत् ।

२४. ज्योतिर्द्रुमकल्पः

अथ ज्योतिर्द्रुमस्यापि पञ्चाङ्गान्याहरेत् प्रिये ॥२६३॥

त्रिः सप्तरात्रं सक्षौद्राण्याश्रयेद्धान्यराशिके ।
भक्षयेद्रोगनिर्मुक्तस्तेजस्वी देहसिद्धिभाक् ॥२६४॥

२५. अश्वगन्धाकल्पः

अथाश्वगन्धाकन्दं च पौत्रीकोरण्टयोः समम् ।
चूर्णितं मधुसर्पिर्भ्यां कर्षं प्रातर्लिहेच्छुचिः ॥२६५॥

संवत्सरप्रयोगेण त्रिशतायुर्भवेन्नरः ।

२६. ज्योतिष्मतीकल्पः

अथ ज्योतिष्मतीकल्पं वक्ष्यामि शृणु पार्वति ॥२६६॥

दिव्या ज्योतिष्मती वल्ली तप्तकाञ्चनसन्निभा ।
बहुप्रताना स्वर्णाभा फलबीजा शुभप्रदा ॥२६७॥

आषाढे शुक्लपक्षे च शुभर्क्षे शुभवासरे ।
कुङ्कुमाक्तेन सूत्रेण तां वल्लीं परिवेष्टयेत् ॥२६८॥

रक्तगन्धाक्षतैः पुष्पैरर्चयित्वा प्रणम्य च ।
रक्तमाल्याम्बरधरः कुङ्कुमागरुचर्चितः ॥२६९॥

तांबूलचर्वणं कुर्वन्हृष्टो नियतमानसः ।
अभीष्टदेवतामन्त्रैस्तारामन्त्रेण वार्चयेत् ॥२७०॥

अभीष्टदेवतां ध्यात्वा ततश्चोदङ्मुखः प्रिये ।
पक्वबीजानि गृह्णीयादातपे शोषयेत्ततः ॥२७१॥

त्वग्वर्ज्यानि निधायादौ चूर्णितानि विशेषतः ।
तेभ्यस्तैलं समाहृत्य तत्तैलसदृशं पयः ॥२७२॥

पादांशं मधु संयोज्य तैलशेषं पचेच्छनैः ।
तस्मिन्कर्पूरतक्कोलत्वग्जातीफलमेव च ॥२७३॥

एतानि समभागानि चूर्णयित्वा च कोविदः ।
तत्तैलं षोडशपलं तच्चूर्णं पलमात्रकम् ॥२७४॥

एकीकृत्यावलोड्याथ स्नेहभाण्डे विनिक्षिपेत् ।
त्रिः सप्तवासरं धान्यराशौ भाण्डे विनिक्षिपेत् ॥२७५॥

दशाहमथवा त्रिंशत्षष्टिर्वा नवतिस्तथा ।
अधिकं वा यथायोगं पश्चात्तैलं समाहरेत् ॥२७६॥

शुद्धकोष्ठः शुभदिने कृतदेवद्विजार्चनः ।
सूर्योदये पिबेद्धीरो बिन्दुवृद्ध्या क्रमात्प्रिये ॥२७७॥

पलान्तं साधकस्तेन निःसंज्ञत्वम् अवाप्यते ।
मन्दं मन्दं लब्धसंज्ञो मुहुः क्रन्दति नन्दति ॥२७८॥

रोदित्येव मुहुः कृच्छ्राल्लब्धसंज्ञो भवेन्नरः ।
गोक्षीरं पाययेत्पश्चात्सक्षौद्रं श्रान्तचेतसे ॥२७९॥

क्रमादेवं भवेत्स्वस्थः साधकोऽसौ न संशयः ।
षष्टिकान्नं सगोक्षीरं तैले जीर्णे च भोजनम् ॥२८०॥

एवं कुर्यात्प्रतिदिनं मासमेकं निरन्तरम् ।
मासात्सूर्यसमः साक्षात्तेजसा मन्त्रशास्त्रवित् ॥२८१॥

साङ्गोपाङ्गश्रुतिं वेत्ति त्वनधीतोऽपि मानवः ।
मध्याह्ने भास्करं पश्येत्पूर्णचन्द्रमिवापरम् ॥२८२॥

वैनतेयसमा दृष्टिर्दिवा पश्यति तारकाः ।
अन्नवज्जीर्यते क्ष्वेलं सुप्तोऽप्याकर्णयेद्ध्वनिम् ॥२८३॥

अष्टादशविधं कुष्ठं सर्वरोगान्विनाशयेत् ।
फलं द्वितीयमासस्य शृणु वक्ष्यामि भैरवि ॥२८४॥

गन्धर्वोरगरक्षोभिः सेव्यते तैलसेवकः ।
महापातककर्तारो देवतापितृनिन्दकाः ॥२८५॥

समयाचाररहितास् त एते मुक्तकिल्बिषाः ।
अमुष्य सेवया मुक्ताः प्रयान्ति परमां गतिम् ॥२८६॥

फलं तृतीयमासस्य शृणु पार्वति वक्ष्यते ।
देवाश्च दिव्या ऋषयो वसवोऽष्टौ महोरगाः ॥२८७॥

अमुष्य सेवां कुर्वन्ति प्रियं नित्यहितं तथा ।
तस्य मूत्रं ताम्रघटे पूरयित्वा खनेद्भुवम् ॥२८८॥

तद्गर्ते विहितं कृत्वा षण्मासात्कनकं भवेत् ।
चतुर्थमासस्य फलं शर्वाणि शृणु सांप्रतम् ॥२८९॥

अदृश्योऽसौ भवेन्मर्त्यः सर्वैश्वर्ययुतो बली ।
दशब्रह्मदिनं जीवेत्सर्वलोकगतौ पटुः ॥२९०॥

तन्मूत्रमलघर्माम्बूद्वर्तनैस् ताम्रलेपनम् ।
कुर्याद्वह्नौ प्रतपनं तच्छुल्बं काञ्चनं भवेत् ॥२९१॥

अथ पञ्चममासे तु सदेहः खेचरो भवेत् ।
साक्षाद्ब्रह्मा भवेद् देवि शृणु षाण्मासिकं फलम् ॥२९२॥

महासिद्धैः परिवृतः सर्वलोकान् यदृच्छया ।
विचरेच्छिवतुल्यः स्यान्महातेजा महायशाः ॥२९३॥

अथ सप्तममासस्य फलं कल्याणि वक्ष्यते ।
जितारिषड्वर्गमनाः सर्वभूतहिते रतः ॥२९४॥

विष्ण्वायुष्यमवाप्नोति पुण्यापुण्यविवर्जितः ।
विचरेच्च महावीर्यः श्रीमान् विष्णुरिवापरः ॥२९५॥

अष्टमासफलं वच्मि शृणु त्वं सर्वमङ्गले ।
मत्प्रियो दिव्यकर्मा च सर्वज्ञो मुक्तिमाप्नुयात् ॥२९६॥

फलं नवममासस्य शृणु कात्यायनि प्रिये ।
द्वितीयचिन्तामणिवद् वीरोऽसौ कामरूपवान् ॥२९७॥

ब्रह्मविष्ण्विन्द्रचन्द्राणां रूपं सृजति साधकः ।
मनसा चिन्तितं यद्यत्तत्तत्कर्तुं स्वयं प्रभुः ॥२९८॥

एतद्रसायनं दिव्यं सुकरं मोक्षसाधनम् ।
पुण्यं परमगुह्यं च गोपनीयं त्वया प्रिये ॥२९९॥

एतस्य सदृशं नास्ति देवानामपि दुर्लभम् ।
बहुनात्र किमुक्तेन त्वत्प्रियार्थं मयोदितम् ॥३००॥

रसायनम् इदं दिव्यं न कुर्वन्ति च मानवाः ।
अज्ञानोपहताः केचित् केचिन् नास्तीति शङ्कया ॥३०१॥

अन्तरायेण केचिच् च तदलाभेन केचन ।
तत्कल्पाज्ञानतः केचित्केचिद् गुरुविवर्जिताः ॥३०२॥

केचिद् रोगाकुला देवि त्वित्थं तैरपि विघ्निताः ।
यत्र ज्योतिष्मती वल्ली सा भूमिः पुण्यभूमिका ॥३०३॥

तत्रैव सर्वतीर्थानि सिद्धयो विविधा अपि ।
ज्योतिष्मतीफलभवं सेव्यं दिव्यरसायनम् ॥३०४॥

२७. गुग्गुलुकल्पः

अथ गुग्गुलुकल्पं च शृणु त्वं चण्डिकेऽधुना ।
चतुर्विधो गुग्गुलुः स्यात्कुमुदः पद्मकस्तथा ॥३०५॥

महिषाक्षं च हेमाख्यस् तत्तद्वर्णसमुज्ज्वलः ।
हेमाख्यं च मनुष्याणां रसायनम् उदाहृतम् ॥३०६॥

कणशो गुग्गुलुं कृत्वा गोघृतेन शनैः पचेत् ।
डोलायन्त्रे युक्तिपरो घृतभर्जितमांसवत् ॥३०७॥

पथ्याविभीतकौ धात्री गन्धकश्च पृथक्पृथक् ।
समांशं तान्विचूर्ण्यैव एतत्सर्वसमं पुरम् ॥३०८॥

शुद्धकोष्ठो लिहेत्प्रातस्तैलं ह्येरण्डसंभवम् ।
लोलयित्वा निष्कमात्रं वृद्धिः कर्षावधिर्भवेत् ॥३०९॥

एवं वर्षप्रयोगेण शीतवातव्रणास्तथा ।
पिडकागण्डमालाद्या विनश्यन्ति महारुजः ॥३१०॥

द्वादशाब्दप्रयोगेण वज्रकायो भवेन्नरः ।
यद्यद्द्रव्यं च सात्म्यं स्यात् तत्तद्द्रव्येण वा भजेत् ॥३११॥

यस्य यस्य च रोगस्य यद्यद्भेषजमीरितम् ।
तैस्तैः सहैव सेवेत तत्तद्रोगहरं भवेत् ॥३१२॥

२८. विजयाकल्पः॑ विजयोत्पत्तिः

श्रीभैरवी ।
देवदेव जगन्नाथ सुरासुरनमस्कृत ।
पञ्चकृत्यप्रधानेश नमस्तुभ्यं परात्पर ॥३१३॥

सर्वेऽप्यौषधकल्पाश्च मत्प्रीत्या कथितास्त्वया ।
आश्चर्यं भूतदेवेश सद्यः सिद्धिप्रदायकम् ॥३१४॥

सुखसेव्यं सुखकरं ज्ञानदं भुक्तिदं शुचिम् ।
अस्मत्सायुज्यदं ब्रूहि प्रीत्या मम रसायनम् ॥३१५॥

ततः स्मितमुखो भूत्वा शङ्करो लोकशंकरः ।
श्रीभैरवः ।
देवि वक्ष्याम्यहं कल्पं स्पृहणीयं सुरासुरैः ॥३१६॥

सिद्धैश्च मुनिभिः स्त्रीभिः सर्ववर्णैश्च योगिभिः ।
बालैर्वृद्धैश्च रुग्णैश्च षण्ढैश्च बहुयोषितैः ॥३१७॥

शृणु त्वममृतोद्भूतं सावधानेन चेतसा ।
आग्नेयो मामको ऽंशः स्यात्सौम्यांशस्तावकः प्रिये ॥३१८॥

अग्नीषोमात्मकं सर्वमौषधं जलधौ सुराः ।
असुराः प्राक्षिपंश्चक्रुर्मथनं मन्दराद्रिणा ॥३१९॥

अतीव मथनात्तत्र देव्याग्नेयो ममांशकः ।
ज्वलन्महाविषं घोरं जातं हालाहलाख्यकम् ॥३२०॥

तेन व्याकुलिता म्लाना गतवेगाः सुरासुराः ।
कृपया तन्मया सर्वं विषं च कबलीकृतम् ॥३२१॥

ततो देवा दितिसुता ममन्थुर्हृष्टमानसाः ।
ततो लक्ष्मीप्रभृतयः प्रादुरासंस्ततोऽमृतम् ॥३२२॥

तद् उद्भूतं परं दिव्यं जरामरणकृन्तनम् ।
तदा तदा महाविष्णुर्मम हस्ताम्बुजेऽर्पयत् ॥३२३॥

त्रिवारं बिन्दवो दत्ताः परस्मै परमात्मने ।
पराशक्तियुजे पश्चात्तुभ्यं दत्ते मया प्रिये ॥३२४॥

पीतं त्वया च मे दत्तं मधुसूक्तमुदीर्य च ।
स्वीकृतं च मया कान्ते चिदानन्दात्मकामृतम् ॥३२५॥

सान्द्रानन्देन च मया स्फूत्कृतिर् लज्जया कृता ।
पतिता बिन्दवः सूक्ष्मास्तेभ्यो जाता महौषधिः ॥३२६॥

तामालोक्य शुभां दिव्यां मुदिताः पर्यपालयन् ।
मत्करांबुजनीतेन पीयूषेण विवर्धितम् ॥३२७॥

तस्मात्त्रिशूलसदृशपर्णं च पटलं बहु ।
तस्मान्महौषधिर्जाता मदादिष्टैर्गुणैर्वृता ॥३२८॥

कदाचिद्भैरवो दृष्ट्वा हृष्टस्तां प्रार्थयन्मया ।
दत्ता तस्मै भैरवोऽपि योगिनीभ्यः समर्पिपत् ॥३२९॥

ताश्च प्रीताः स्वभक्तेभ्यो भक्तेभ्यः प्रददुश्च ते ।
निन्युश्च भूतलं दिव्यामौषधिं सर्वसिद्धिदाम् ॥३३०॥

विजयाभेदाः

श्रीभैरवी ।
किंनाम्नी सा कथंवीर्या सेवनीया कथं प्रभो ।
कीदृग्वर्णा कियद्भेदा कीदृग्रूपगुणा च सा ॥३३१॥

कथं वा सिद्धिदा सा स्यात्क्रमान्मे ब्रूहि वल्लभ ।
श्रीभैरवः ।
अथ तस्याश्चतुर्वर्णा युगधर्माश्रिताः प्रिये ॥३३२॥

शुक्लवर्णा कृतयुगे त्रेतायां शोणितप्रभा ।
द्वापरे पीतवर्णा च नीलवर्णा कलौ युगे ॥३३३॥

एकपर्णा त्रिपर्णा च पञ्चपर्णा मुनिच्छदा ।
दशपर्णा रुद्रपर्णा त्रयोदशदलान्विता ॥३३४॥

नवपर्णेति विज्ञेया भेदा ह्येते सुरेश्वरि ।

विजयालक्षणम्

स्त्रीरूपा सफला वल्ली पुंरूपा च द्रुमाकृतिः ॥३३५॥

सफला तु मदं मूर्छां सुखं सत्वं करोति च ।
योगवाहा तिक्तरसा सा कटुश् चूग्रगन्धिनी ॥३३६॥

शिवमूली च विजया भङ्गी गञ्जा विमर्दिनी ।
दिव्या सिद्धा सिद्धिदा च सिद्धमूली मनोन्मनी ॥३३७॥

मधुद्रवा चिदाह्लादा पशुपाशविनाशिनी ।
कालघ्नी सर्वरोगघ्नी नामान्येतानि पार्वति ॥३३८॥

शिवो मूलं भवेद्यस्याः शिवमूलीति कथ्यते ।
त्रिलोकान् अरिषड्वर्गान् विजयाख्या जयेदिति ॥३३९॥

तापत्रयादिदुःखानां भञ्जनाद् भङ्गिनी स्मृता ।
गञ्जेति मादयत्येषा मदिरास्थानकारिणी ॥३४०॥

सदृशं मर्शनं यस्याः सैव प्रोक्ता विमर्शिनी ।
क्रीडामोदद्युतिमदकान्तिदत्वाच्च दिव्यका ॥३४१॥

स्वतःसिद्धेति सिद्धाख्या दिष्टसिद्धिप्रदायिका ।
सिद्धिदेति महासिद्धैः सा नीता सिद्धमूलिका ॥३४२॥

मनश्चिन्तितकार्याणां साधनाच्च मनोन्मना ।
संविदानन्ददत्वाच्च चिदाह्लादेति कीर्तिता ॥३४३॥

ब्रह्मरन्ध्रस्थितसुधाद्रावणाच्च मधुद्रवा ।
जन्तूनां पाशनाशत्वात्पशुपाशविनाशिनी ॥३४४॥

मृत्युञ्जयत्वात् कालघ्नी रोगघ्नी सार्थनामिका ।

विजयावर्धनक्रमः

वर्धनक्रममाचक्षे शृणु लोकशिवंकरि ॥३४५॥

शिलालोष्टादितो वर्ज्या वालुकाशर्करादितः ।
भूमिः कृष्णा पांसुला च मृदुला सकरीषका ॥३४६॥

भुजङ्गमांससहिता तत्र बीजानि वापयेत् ।
अहिवक्त्रेषु सत्वञ्चि स्निग्धानि च गुरूणि च ॥३४७॥

पुष्यार्के सिद्धयोगे वा श्रवणे शुक्लपक्षके ।
स्नातो लिप्ततनुर्गन्धैः कृतन्यासजपार्चनः ॥३४८॥

उदङ्मुखः प्राङ्मुखो वा ध्यात्वा च गुरुपादुकाम् ।
सक्षीराङ्कोलतैलेन जलेन परिषेचयेत् ॥३४९॥

अङ्कुरे च समुत्पन्ने सिञ्चेत्सघृतवारिणा ।
पर्णे कीटे समुत्पन्ने सामुद्रं वारि सेचयेत् ॥३५०॥

ततोऽस्यां विततायां च शिरश्छित्त्वा च रन्ध्रयेत् ।
तत्र सूतं क्षिपेन्निष्कं निष्कं प्रत्येकमादरात् ॥३५१॥

निरोधयेत्तन्मुखानि कौशिकेन प्रयत्नतः ।
पुष्पिते फलिते मद्यमांसाम्बु च निषेचयेत् ॥३५२॥

एकैकपक्षपर्यन्तं क्षीरादि परिषेचयेत् ।
अस्यां बद्ध्वा जटामांसीं सक्षौद्रं वारि सेचयेत् ॥३५३॥

शेषं मद्येन वा वारा वर्धनीया महौषधिः ।
आदौ वा परमं मन्त्रं पश्चात् सेवनमन्त्रकम् ॥३५४॥

ओं क्षां क्षीं क्षूं क्षेत्रपालाय नमः सवीर्यं कुरु कुरु सिद्धिं देहि देहि स्वाहा ।
अयं स्थापनमन्त्रः ।
ओं श्रीं ह्रीं क्लीं यरलवशषसह अमृतेश्वरि अमृतं कुरु कुरु आं ह्रां क्रों स्वाहा ।
अयं सेवनमन्त्रः ।
फाल्गुने कृष्णपक्षस्य चतुर्दश्यां च साधकः ।
स्नातः शुद्धाम्बरो गन्धपुष्पभूषणसंयुतः ॥३५५॥

अर्चयेद्भैरवं तत्र नन्दीशं च क्रमेण च ।
मद्यमांसोपहारेण रक्तपीतसितासितैः ॥३५६॥

तन्तुभिर्वेष्टयेद्देवि तन्मन्त्रं च निगद्यते ।
ओं ग्लौं सौं ह्रीं खेचरभूचरदिव्ययोगिनि इमां रक्ष रक्ष सर्वशत्रुप्रमथिनि स्वाहा ।
अयं तन्तुबन्धनमन्त्रः ।
सहस्रं प्रत्यहं जप्यमघोरं मन्त्रनायकम् ॥३५७॥

एवं सप्तदिनं कार्यं पञ्चम्याम् अमृतेश्वरीम् ।
ध्यात्वा कुन्देन्दुकर्पूरसंकाशां धवलांबराम् ॥३५८॥

सितमाल्यानुलेपार्द्रां मुक्ताभरणमण्डिताम् ।
दक्षिणेऽक्षगुणं वामे सुधापूर्णघटं ततः ॥३५९॥

तदधो दक्षिणे वामे संवित्पुस्तकधारिणीम् ।
तत्र स्थितां ततः कुर्याल् लवनं च समन्त्रकम् ॥३६०॥

स्निग्धानि च सबीजानि सपर्णानि समाहरेत् ।
ओं क्लीं वं सं क्रौं शिवानन्दामृतोद्भवे त्रिभुवनविजये विजयं प्रयच्छ स्वाहा ।
अयं लावनमन्त्रः ।
मन्दातपे शुद्धदेशे शोषयेत्सप्तवासरम् ॥३६१॥

निक्षिपेन्नूतने भाण्डे तत्पर्णानि सुचूर्णयेत् ।
स्थालीद्वयं प्रताप्यादावेकस्यां प्रथमं पुटेत् ॥३६२॥

ततोऽपरस्यां पुटयेदेवं कार्यं मुहुर्मुहुः ।
यावत्सुपाकतां याति तज्ज्ञस्तावद्विपाचयेत् ॥३६३॥

गुञ्जोन्मत्तश्च वल्ली च तासां पर्णरसैर्मुहुः ।
स्थाल्यौ पृथक्पृथक् देवि सप्तधा सप्तधा प्रिये ॥३६४॥

मुण्डी ब्राह्मी कुमारी च वरी धात्री कटुद्वयम् ।
सुगन्धिका क्रमाज्ज्ञेया चैकैकपलमानतः ॥३६५॥

योजनीयाश्चूर्णिताश्च तत्सर्वसदृशा जयाः ।
सिता सर्वसमा योज्या तत्समं गोपयः क्षिपेत् ॥३६६॥

क्षीरमध्ये सितां क्षिप्त्वा तन्तुपाकं भवेद्भिषक् ।
मुण्डादिविजयान्तं च तच्चूर्णं तत्र निक्षिपेत् ॥३६७॥

लोलयित्वावतार्यैवं शैत्ये क्षौद्रं सितार्धकम् ।
निक्षिप्य गोघृतं तुल्यं क्षौद्रस्य परिमेलयेत् ॥३६८॥

पक्षद्वयं धान्यराशौ निधाय प्रत्यहं जपेत् ।
सहस्रं वा यथाशक्त्या महावटुकमन्त्रकम् ॥३६९॥

ह्रीं श्रीं महाकालाग्निभैरवाय सर्वसिद्धिमातृब्रह्मा लिङ्गितविग्रहाय सर्वापदां शोषकाय हुं फट् ठं ।
अयम् अग्निपाकमन्त्रः ।
मासादुद्धृत्य विधिवद् ग्रसेदामलकोपमम् ।
निवातमन्दिरे स्थायी क्षीरान्नाशी जितेन्द्रियः ॥३७०॥

गुरूपदिष्टदेवं वा तत्त्वं वा परमं स्मरेत् ।
द्विकालं वा त्रिकालं वा यथा सेवाबलं क्रमात् ॥३७१॥

एवं त्रिवर्षाज्जरया वलीभिश्च विवर्जितः ।
भूचरीसिद्धिम् आप्नोति जीवेत्त्रिशतवत्सरम् ॥३७२॥

वाराही त्रिफला चित्रमश्वगन्धा क्रमेण च ।
एवं द्वित्रिचतुर्भागम् अश्वगन्धादि योजयेत् ॥३७३॥

एतत्समा च विजया मधुना लोलयेत्सुखम् ।
आतपे पक्षपर्यन्तं स्थापयेत् प्रतितापयेत् ॥३७४॥

धात्रीफलोपमं सेव्यं सूर्याभश्चाष्टमासतः ।
साधको जायते वर्षाज्जरामरणवर्जितः ॥३७५॥

जपन्मन्त्रम् इमं भक्त्या देहसिद्ध्यै सुरेश्वरि ।
ह्रीं श्रीं महाव्योमभास्कराय दीपिमातृकालिङ्गितविग्रहाय तेजसां निधिं कुरु कुरु ठं ।
इति सूर्यपाकमन्त्रः ।
पलत्रयं जयायाश्च यष्टीचूर्णं पलद्वयम् ॥३७६॥

पलमेलाभद्रचूर्णं चित्रमूलं पलार्धकम् ।
श्रीखण्डचूर्णं च पलं चैतत्सर्वसमा सिता ॥३७७॥

स्वर्णचूर्णं च निष्कार्धं निष्कं च हिमवालुकम् ।
सर्वमाज्येन लुलितं ज्योत्स्नायां निक्षिपेत्सुधीः ॥३७८॥

शुक्लपञ्चमीम् आरभ्य पक्षान्तं शशिभावना ।
विधिवत्पूजयित्वा तु शुद्धकोष्ठो लिहेत्प्रिये ॥३७९॥

अस्य मन्त्रं पुनर्वच्मि सर्वसिद्धिप्रदायकम् ।
ह्रीं श्रीं महाशशाङ्ककिरणविस्फारभैरवाय अमृतेश्वरी मातृकालिङ्गितविग्रहाय विस्फुरणं कुरु कुरु हुं फट् ठं ।
इति चन्द्रपाकमन्त्रः ।
एवंविधस्य कल्पस्य त्रिविधं मन्त्रमीरितम् ॥३८०॥

एकैकमन्त्रमयुतं पुरश्चरणमाचरेत् ।
वह्निपाकं चतुर्मासेष्वाषाढादिषु तन्यते ॥३८१॥

फाल्गुनादौ प्रकुर्वीत रविपाकं सुरेश्वरि ।
कार्त्तिकादिषु चन्द्रस्य पाकः स्यात् सिद्धिदायकः ॥३८२॥

मुण्डीचित्रकनिर्गुण्डीसहिता कुष्ठनाशिनी ।
ब्राह्मी कुमार्या युक्ता चेदम् अपस्मारविनाशिनी ॥३८३॥

जया वराव्योषयुता क्षयस्य क्षयकारिणी ।
जया कार्पासमत्स्याक्षीपत्रयुक्ता च पित्तनुत् ॥३८४॥

स्नुह्यर्कपत्रक्षारेण संयुता गुल्मशूलहृत् ।
वचादूर्वारजोयुक्ता ज्ञानवृद्धिप्रदायिनी ॥३८५॥

यष्टीगन्धकसंयुक्ता कुष्ठनुत्पुष्टिदायिनी ।
शाल्मलीपिच्छसंयुक्ता ससिता वीर्यवर्धिनी ॥३८६॥

पाठातिक्तात्रिकटुकैर्युक्ता कफगदापहा ।
शुक्लगुञ्जायुता न्ःणां महाविषविनाशिनी ॥३८७॥

व्याघातचूर्णसहिता कुष्ठरोगविनाशिनी ।
आरण्यमरिचैरण्डयुक्ता वातविनाशिनी ॥३८८॥

एते द्वादशयोगाश्च मासेषु द्वादशेषु च ।
मन्त्रत्रयं च प्रजपेत्प्रतिमासेषु साधकः ॥३८९॥

साधकोऽनेन योगेन जरामरणवर्जितः ।
भवत्येव न सन्देहः सत्यं सत्यं वरानने ॥३९०॥

रसत्रिगन्धकृष्णाभ्ररुद्राक्षस्वर्णभस्म च ।
जयारसेन संमर्द्यं पक्षमेकं तु भावयेत् ॥३९१॥

भूधरे संपुटे यन्त्रे पुटयेच्चूर्णयेत्ततः ।
एतच्चतुर्गुणजया शर्कराघृतसंयुता ॥३९२॥

सेव्या निष्कप्रमाणेन प्रातः सायन्तनेऽथवा ।
महावटुकमन्त्रं च जपेल्लक्षावधि प्रिये ॥३९३॥

षष्ठमासे भवेत्सिद्धिर् जरामरणवर्जितः ।
वर्षान्मनोजवगतिर् नागायुतबलो भवेत् ॥३९४॥

वज्रकायश्च सिद्धोऽसौ जीवेदाचन्द्रतारकम् ।
वटाङ्कुरस्य चूर्णेन सितामध्वाज्यसंयुता ॥३९५॥

त्रिपक्षात्सेवितजया सर्वलोकवशंकरी ।
अपामार्गरजोयुक्ता जया घृतसमन्विता ॥३९६॥

मन्त्रजापी भवेन्नित्यं षण्मासादमरो भवेत् ।
वरा सितजया चित्रस्त्रिवृता त्रिकटुर्वृषा ॥३९७॥

दूर्वा भृङ्गो मरीचश्च मधुकाजाजिसैन्धवम् ।
कर्पूरं च कचोरं च सर्वतुल्यं जयारजः ॥३९८॥

मधुत्रयेण लुलितं स्निग्धभाण्डे विनिक्षिपेत् ।
कर्षं प्रभाते सेवेत मण्डलात्सिद्धिभाग्भवेत् ॥३९९॥

स्याद्वर्षाद्देवसदृशो जीवेद्देवदिनत्रयम् ।
अश्वगन्धा वचा व्योषं जयाचूर्णं च तत्समम् ॥४००॥

लिहेत्त्रिमधुरैर् युक्तं त्रिवर्षाद्देवतासमः ।
गञ्जाचूर्णं चाष्टभागं चतुर्भागा च मुण्डिका ॥४०१॥

ब्राह्मीरजो द्विभागं स्याद्वाजिगन्धैकभागिका ।
द्विभागस्त्र्यूषणस्यापि वराभागद्वयं तथा ॥४०२॥

भागमेकं शिलायाश्च भागैकं गन्धकस्य च ।
रसराड् एकभागः स्यात्तदर्धं स्वर्णभस्म च ॥४०३॥

तत्समं मौक्तिकं योज्यं मुक्तातुल्यं प्रवालकम् ।
मध्वाज्याभ्यां विलुलितं स्निग्धभाण्डे विनिक्षिपेत् ॥४०४॥

सप्तरात्रं धान्यपाकं कृत्वा लक्षत्रयं जपम् ।
निष्कमात्रवटी सेव्या क्षीराहारो जितेन्द्रियः ॥४०५॥

मण्डलात्सर्वरोगघ्नं त्वब्दात्पुष्पवद् अग्निभाक् ।
अर्धवर्षाद्भैरवः स्याज्जीवेदाचन्द्रतारकम् ॥४०६॥

त्रिसुगन्धिवराव्योषैः समांशा शिवमूलिका ।
मध्वाज्याभ्यां युता लेह्या कासघ्नी वह्निवर्धनी ॥४०७॥

मधुरप्रायभोजी चेत्सकासश्वासरोगजित् ।
हरिद्रया च सहिता सर्वमेहविनाशिनी ॥४०८॥

मण्डूकपर्ण्या सहिता वचया वाङ्मतिप्रदा ।
द्राक्षा सिता वल्लकी च खर्जूरी दुग्धपिण्डिका ॥४०९॥

सहिता कन्दलीनीरसैः सर्वस्वादुरिति स्मृतः ।
नारिकेलोदकैर्युक्ता कर्पूरसुरभीकृता ॥४१०॥

सर्वस्वादुयुता सिद्धा पित्तघ्नी वीर्यवर्धनी ।
स्वादोश्चतुर्गुणं क्षीरं मधुपाकं यथा भवेत् ॥४११॥

तद्वस्त्रगालितं कृत्वा कर्पूरं तत्र निक्षिपेत् ।
एलां च सर्वमधुरं जयां च पिबतस्ततः ॥४१२॥

शतस्त्रीगमने शक्तिः पित्तहृत्पुष्टिवर्धनम् ।
समाम्बुपयसि क्षिप्त्वा जयाबीजं सवस्त्रकम् ॥४१३॥

अवशिष्टं चतुर्थांशं पचेन्मृद्वग्निना प्रिये ।
तद् दधीकृत्य विधिवन्मन्थयेत्तत उद्धरेत् ॥४१४॥

नवनीतं क्षिपेत्तत्र कर्पूरैला सिता मधु ।
पुष्ट्यायुष्यद्युतिकरं बलारोग्यविवर्धनम् ॥४१५॥

शतधा स्तन्यधौतं तच्छतधौतमितीरितम् ।
नागकेसरकच्छूरलवङ्गैलागरुं तथा ॥४१६॥

कर्पूरचन्दनमृगनाभितक्कोलकुङ्कुमम् ।
एतत्समं जयाबीजं गोक्षीरेण च मर्दयेत् ॥४१७॥

निष्कनिष्कप्रमाणेन विदध्याद्वटिकाः सुधीः ।
सुपुष्पवासिताः कृत्वा सताम्बूलं मुखे क्षिपेत् ॥४१८॥

प्रसेकमुखवैरस्यमलपूतिहरी शुचिः ।
सौगन्ध्यवैशद्यकरी चित्तहर्षप्रदायिनी ॥४१९॥

गोक्षीरे चार्धसलिले धातकीकुसुमं क्षिपेत् ।
जातीफलं नागरं च तत्सर्वसदृशां जयाम् ॥४२०॥

क्षीरावशिष्टं वस्त्रेण गालयेत्त्रिमधुप्लुतम् ।
सिद्धयोग इति ख्यातो वृष्यायुष्यबलप्रदः ॥४२१॥

अजमोदयुता वापि निशारजोयुताथवा ।
तन्मात्रसेविता चूर्णा पामाकिट्टिभनाशिनी ॥४२२॥

जया तालयुता हन्यात्प्रदरं श्वयथुं तथा ।
कण्डूप्रशमनी ज्ञेया विजया शिलया युता ॥४२३॥

तैलेन भावयेत्स्थाल्यां जयां पश्चाच्च फाणिते ।
सान्द्रपाकं भवेद्धीमान् सघृतं भक्षयेत्सदा ॥४२४॥

साक्षात्पर्यायमदनोऽनेकयोषित्सुखप्रदः ।
पथ्या भल्लातकगुडं तिलाश्चैते समांशिनः ॥४२५॥

तत्समा विजया हन्ति गुदकीलांश्च षड्विधान् ।
यवानी जीरकयुगमजमोदा समांशिनः ॥४२६॥

एतत्समा च विजया सर्पिषा सेव्यतां बुधैः ।
सन्धिवातं भ्रमं छर्दिमुन्मादं मस्तकव्यथाम् ॥४२७॥

शर्करां मधु विश्वं च मागधीं तत्समां जयाम् ।
कृत्वाज्यगलितां गोलीम् इमां पञ्चागदं विदुः ॥४२८॥

हृद्रोगप्लीहजठरभगन्दरनिकृन्तनीम् ।
सचित्रका वह्निकरी सवरा शूलभञ्जिनी ॥४२९॥

सव्योषा वातसंहर्त्री पित्तघ्नी शर्करायुता ।
श्वेताद्रिकर्णिकाबीजं विजयां खरमूत्रतः ॥४३०॥

नस्येनापस्मृतिहरा भूतप्रेतादिभञ्जनी ।
जयाचूर्णं समध्वाज्यं भजेद् आमलकोपमम् ॥४३१॥

वाक्पाटवं वीर्यवृद्धिं कुरुते विजया परम् ।
मधुनाज्येन वा धात्र्या मुस्तया स्वरसेन वा ॥४३२॥

उपयुक्ता जया रात्रौ दृक्प्रसादकरी नृणाम् ।
यौवनस्थैर्यमातन्यादायुष्यं परमं भवेत् ॥४३३॥

गुडो ऽभया च विजया दुर्नामकुलभञ्जनी ।
जयाकाष्ठेन दन्तानां शोधनं दन्तदार्ढ्यकृत् ॥४३४॥

तैलाक्तविजयाकाष्ठाद् रसज्ञाशोधनं यदि ।
जिह्वापूतिमलान् हन्याद् यथार्था स्याद्रसज्ञता ॥४३५॥

नालिकेरभवक्षीरे पचेन्मृद्वग्निना जयाम् ।
त्रिमध्वक्तां पिबेद्रात्रौ ततो रामाशतं भजेत् ॥४३६॥

शुण्ठी हरीतकी तुल्ये तत्समा च जया तथा ।
सर्वतुल्या सिता योज्या योगस् त्रैलोक्यमोहनम् ॥४३७॥

त्र्यूषणं मधुकं चव्यं चातुर्जातं फलं वरा ।
गोस्तनी पिप्पलीमूलं समांशं परिकल्पयेत् ॥४३८॥

प्रियालमज्जा तैस्तुल्या चैतत्सर्वसमा जया ।
त्रिगुणेन गुडे पक्वे तेषां चूर्णं क्षिपेच्छिवे ॥४३९॥

आलोड्य मोदकान्कुर्यात्कामी कन्दर्पमोदकान् ।
सर्वरोगोपशमनांस्त्रिदोषघ्नान्बलप्रदान् ॥४४०॥

वृष्यान्पुष्टिकरान् धीमांस्त्रिसंध्यमनुवासरम् ।
भक्षयेच्छुद्धकोष्ठे तु त्रिवर्षात्सिद्धिरीदृशी ॥४४१॥

सदैवमुपयुञ्जानो जरामरणवर्जितः ।
मरीचं पिप्पली शुण्ठी त्वगेलां पत्रकं समम् ॥४४२॥

एतैश्च विजया तुल्या समगोधूमपिष्टकैः ।
द्विगुणेन गुडेनैव मोदकान्परिकल्पयेत् ॥४४३॥

कर्षमात्रान्प्रतिदिनं भक्षयेन्नियतेन्द्रियः ।
बलपुष्टियुतो वर्षाद्वलीपलितवर्जितः ॥४४४॥

चणकैर्माषकैर्मुद्गैर् आढकैर्वा तिलैस्तथा ।
निष्पावैर्वितुषैराज्यभर्जितैर्गुडसंयुतैः ॥४४५॥

सत्रिजातैश्च सव्योषैः सजीरैः समभागतः ।
संयोज्य विजयां कुर्यान्मोदकान् कर्षमात्रकान् ॥४४६॥

एकैकं प्रत्यहं खादेत्सायं प्रातर्विशुद्धधीः ।
सर्वरोगहरान् वृष्यान् बुद्धीन्द्रियबलप्रदान् ॥४४७॥

तक्कोलं चन्दनं सेव्यं कर्पूरं नागकेसरम् ।
एलालवङ्गमधुकं पिप्पली मरिचं तथा ॥४४८॥

सर्वैः समांशा विजया सिता सर्वसमा शुभा ।
पञ्चबाणाभिधानोऽयं चूर्णं सर्वरुजापहम् ॥४४९॥

द्वादशाब्दोपयोगेन वलीपलितहा भवेत् ।
वरा त्रिजातकश्चन्द्रखण्डबीजं कटुत्रयम् ॥४५०॥

एतैः समा सिद्धमूली सर्वतुल्या च शर्करा ।
मधुना लोलिता लीढा दीपनी देहसिद्धिदा ॥४५१॥

शतावर्युत्तमाव्योषमुसलीद्विगुणान्वितः ।
जया समा समसिता वृष्यायुष्यबलप्रदा ॥४५२॥

आयुर्घृतयुता धत्ते प्रातः शुण्ठीसितायुता ।
क्षीरसिद्धा जया वृष्या बल्या च निशि सेविता ॥४५३॥

मधुना सेविता भुक्तेः पूर्वं सा वाजिगन्धया ।
बलपुष्टिकरा सिद्धा रसायनमिदं परम् ॥४५४॥

निस्त्वङ्मर्कटिकाबीजं माषचूर्णं समा जया ।
क्षीरे च माहिषे पक्त्वा रात्रौ सेव्यातिवृष्यकृत् ॥४५५॥

विधिवच्छाल्मलीपिच्छवरीभृङ्गामृतारसैः ।
कान्तपात्रे प्रतिरसैः सप्तधा सप्तधातपे ॥४५६॥

कुर्वीत भावनां पश्चाच्चूर्णयेत्तत्समां जयाम् ।
मधुना च लिहेत्कर्षं जरामरणनाशिनी ॥४५७॥

पञ्चाङ्गं शाल्मलेर्ग्राह्यं तत्समं विजयारजः ।
मध्वाज्याभ्यां लिहेत्कर्षं वलीपलितखण्डनम् ॥४५८॥

अथ पुष्यरवौ हस्तिकन्दं ग्राह्यं समूलकम् ।
अनातपे च संशोष्य चूर्णयेत्तत्समां जयाम् ॥४५९॥

मधुनालोडयेत् पश्चात् स्निग्धभाण्डे विनिक्षिपेत् ।
एकविंशद्दिनं धान्यराशौ स्थाप्यं तत उद्धरेत् ॥४६०॥

प्रत्यहं पलमेकं तु भक्षयेन्मण्डलद्वयम् ।
कट्वम्लौ वर्जयेत्तावन्मृदु यूषान्नभोजनम् ॥४६१॥

मधुरं लघु पित्तघ्नं पललं जाङ्गलं हितम् ।
बालार्काभश्च मतिमान् पिकालापो बलान्वितः ॥४६२॥

शतयोजनपर्यन्तं दिनेनैकेन गच्छति ।
मुण्डीचूर्णं जयाचूर्णं समं मधुघृतान्वितम् ॥४६३॥

कर्षं प्रातः प्रतिदिनं लिहेदायुष्यपुष्टिकृत् ।
द्वादशाब्दं तु सेवेत भुञ्जीत घृतसंयुतम् ॥४६४॥

गोक्षीरं षष्टिकान्नं च लोणाम्लक्षारहीनकम् ।
भवेद्वलिजराहीनो दृश्यः स्याल्लघुदेहवान् ॥४६५॥

पत्रं पुष्पं फलं श्वेतब्रह्मवृक्षस्य चाहरेत् ।
छायायां शोषयेच्चूर्णं तत्समं विजयारजः ॥४६६॥

मध्वाज्याभ्यां लिहेत्कर्षमब्दाद्यौवनमाप्नुयात् ।
जयाबीजानि च तिलान्भर्जयेत्सगुडान्प्रिये ॥४६७॥

विधाय लड्डुकान्प्रातर्भक्षयेद् गोघृताप्लुतान् ।
मनःसंमोहनकरान् कान्तासङ्गमसाधकान् ॥४६८॥

पाकार्हव्यञ्जनैः सार्धं जयापत्राणि पाचयेत् ।
भर्जयेद्गोघृतेनैव गुडैलातीक्ष्णजीरकैः ॥४६९॥

संस्कृतः सुखसेव्योऽयं नाम्ना व्यञ्जनयोगराट् ।
तण्डुलान्विजयाबीजं मुद्गं च विगतत्वचः ॥४७०॥

सुरन्ध्रनालिकेरान्तः क्षिपेद्रन्ध्रं निरोधयेत् ।
बहिर्गोमयमृल्लिप्तं शोषयेन्मृदुवह्निना ॥४७१॥

पाचयेन्नालिकेरस्थं समज्जं तत्समाहरेत् ।
मधुत्रयेण सहितं भुञ्जीत च यथाबलम् ॥४७२॥

महावृष्यकरो योगः षण्ढानाम् अपि पुंस्त्वदः ।
गोक्षीरे विजयाबीजं वस्त्रबद्धं विनिक्षिपेत् ॥४७३॥

अर्धावशिष्टे तत्क्षीरे व्यजनानिलशीतले ।
वाराहीमर्कटीबीजकर्पूरैलालवङ्गकम् ॥४७४॥

त्रिमधु त्रिसुगन्धं च निक्षिपेच्च समांशतः ।
एकीकृत्य पिबेद्रात्रौ महावृष्यकरः परः ॥४७५॥

वाराहीयोग एषोऽयं षण्ढत्वादिनिकृन्तनः ।
क्षीरशृतं च तद्बीजं पेषयेच्छिलया तनु ॥४७६॥

रसेनोत्तमकन्यायाः कांस्यपात्रे प्रलेपयेत् ।
तीव्रातपे धारयेत्तं तस्मात्स्नेहं समाहरेत् ॥४७७॥

स्नेहान्तरयुजा तेन नस्यकर्म समाचरेत् ।
जत्रूर्ध्वगतरोगांश्च कासश्वासादिकान्हरेत् ॥४७८॥

यस्य यस्य च रोगस्य विहितं यद्यदौषधम् ।
तेन तेन युता सिद्धा तत्तद्रोगहरा भवेत् ॥४७९॥

गुणा मया च कथ्यन्ते तान् शृणुष्व महेश्वरि ।
जिह्वार्द्रता मनःसौख्यं तृप्तिः संकल्पसिद्धता ॥४८०॥

वाक्पटुत्वं मुखोल्लासो भवेद्व्यायामपेशलः ।
स्नानध्यानार्चनपरो मधुरास्वादलोलुपः ॥४८१॥

मृष्टान्नाशी शीतवारि पिबन्नालापतत्परः ।
यथेष्टालोकनपरः कामिनीसङ्गलोलुपः ॥४८२॥

सर्वभूतदयाविष्टस् तत्त्वज्ञानविलीनधीः ।
कविताख्यानविज्ञानोपन्यासैकपरायणः ॥४८३॥

वादेषु विजयं कुर्यात्सङ्ग्रामे मल्लसङ्गरे ।
अन्येऽपि बहवः सन्ति गुणास्त्वन्यत्र दुर्लभाः ॥४८४॥

विजयाव्यापत्सिद्धी

एतस्याः सिद्धिमूल्याश्च भक्षणे त्वधिके सति ।
जायन्ते हि विकाराश्च शृणु तान्परमेश्वरि ॥४८५॥

आरक्तलोचनः शुष्कजिह्वौष्ठपुटतालुकः ।
प्रथमे शुष्कनासाग्र उष्णकृच्छ्वासपार्श्वयोः ॥४८६॥

द्वितीये ऽक्षिनिमीलत्वं पटलीकृतविग्रहः ।
तृतीये पादहस्ताक्षिदाहकृद् गद्गदध्वनिः ॥४८७॥

चतुर्थे क्षुत्पिपासार्तो निद्राघूर्णितलोचनः ।
पञ्चमे गद्गदा वाणी स्वप्रोक्तं विस्मरेत्क्षणात् ॥४८८॥

षष्ठे विकारे संजाते चित्तापस्मृतिकारणम् ।
सप्तमे करसादश्च देहे च रुचिरायते ॥४८९॥

महोर्मय इवोल्लासा जायन्ते च पुनः पुनः ।
अष्टमे दिग्भ्रमः शान्तिर्भ्रूभङ्गश्चातिरोदनम् ॥४९०॥

नवमे श्रोत्रहुङ्कारो मूर्च्छापस्मृतिकातरः ।
उद्गारः कूजनं भूमौ लुठनं दैन्यभाषणम् ॥४९१॥

अन्यथा भाषणं गुह्यं ब्रवन्सौख्यं न वेत्ति च ।
दुःखं च मृदुकल्पोऽयं स्विन्नाङ्गश्च भवेत्प्रिये ॥४९२॥

अन्ये विकारा बहवः सन्ति तेषां चिकित्सनम् ।
विरेकोऽम्लरसः शीर्षस्नानं शीताम्बुना ततः ॥४९३॥

चन्दनोशीरकर्पूरहिमाम्बुपरिलेपनम् ।
सुगन्धिशीतलीभूतमालालंकृतविग्रहः ॥४९४॥

मल्लिकाजातिचाम्पेयकमलोत्पलधारिणा ।
मृणालवलयोद्भासिशय्या च कदलीदलम् ॥४९५॥

कर्पूरैलालवङ्गाश्च तक्कोलं कटुकीफलम् ।
चर्वयेत् सह ताम्बूलं तालवृन्तेन वीजनम् ॥४९६॥

सूक्ष्मकाषायवस्त्राणि सुगन्धीनि च धारयेत् ।
कङ्कणे चन्द्रम् आपश्यञ्ज्योत्स्नायां द्विमुहूर्तकम् ॥४९७॥

पीनोत्तुङ्गकुचद्वन्द्वगाढालिङ्गनतत्परः ।
शयीत शर्कराक्षीरघृतमांसरसादिकम् ॥४९८॥

पानकं मुद्गयूषं वा पेयं वा शार्करं मधु ।
केवलं शयनं कुर्याद्यद्यच्छीतं भजेच्च तत् ॥४९९॥

२९. कञ्चुकीकल्पः

अथ वक्ष्यामि देवेशि कञ्चुकीकल्पमुत्तमम् ।
सप्ताष्टच्छदसंयुक्ता मूलकोपमकन्दुका ॥५००॥

क्षीरान्विता मेषशब्दाज्जायन्ते पल्लवान्यपि ।
सा ज्ञेया पीतरक्ताभकाण्डा श्वेततनुः प्रिये ॥५०१॥

आषाढे कार्त्तिके मासे चैत्यदेशे प्ररोहति ।
पिष्टां पलाष्टके क्षीरे त्वङ्गुष्ठद्वयमात्रकम् ॥५०२॥

कुटीप्रवेशं कृत्वादौ पीत्वा पश्चात्पयः पिबेत् ।
जीर्णे क्षीरं पुनः पेयं पेयां वा स्नेहवर्जिताम् ॥५०३॥

स्तोकोष्णलवणाम्लां तां न स्पृशेच्छीतलं जलम् ।
एवं सप्तदिनं सेव्यं खिलकुष्ठं विनाशयेत् ॥५०४॥

तृतीये सप्तरात्रेण नश्यन्ति निखिला गदाः ।
तृतीये सप्तरात्रेण भुजङ्गः कञ्चुकं तथा ॥५०५॥

त्वक्केशनखदन्तांश्च स त्यजेत् स्वयमेवं हि ।
जीवेत्पञ्चशतं वर्षं रूपमेधाबलान्वितः ॥५०६॥

चूर्णितं कञ्चुकीकन्दं तत्क्षीरेण विभावितम् ।
कर्षं गोक्षीरकुडुबैः पिष्ट्वा खण्डं पलं क्षिपेत् ॥५०७॥

नखकेशास्थिदन्तस्थान् रोगान्पानेन नाशयेत् ।
कञ्चुक्यास्तु पलं चूर्णं प्रस्थगोक्षीरवापितम् ॥५०८॥

चूर्णशेषं पचेत्तावद् गोघृतेन च भर्जयेत् ।
सितया मधुना लिह्यात् क्षीरान्नो मण्डलावधि ॥५०९॥

महागजबलोपेतो द्विरष्टवयसोज्ज्वलः ।
जीवेत्पञ्चशतं वर्षान्कामिनीकेलिमन्मथः ॥५१०॥

३०. कुक्कुटीकल्पः

अथ वक्ष्यामि ते देवि कुक्कुटीकल्पमुत्तमम् ।
सुरासुरैर् मथ्यमानादब्धेरमृतबिन्दवः ॥५११॥

पतितास्तेभ्य उत्पन्ना कुक्कुटी निर्जरत्वदा ।
पत्त्रैर् मरकतच्छायैः खर्जूरीदलसन्निभैः ॥५१२॥

कन्दैश्च कुक्कुटास्याभैर् ईषत् कटुकपिच्छिलैः ।
लक्षिता कुक्कुटी ज्ञेया महारोगहरा परा ॥५१३॥

विशेषाद्वातरोगांश्च गुदकीलविषाणि च ।
घृतेन भर्जयेत्कन्दं शुद्धकोष्ठः कुटीं व्रजेत् ॥५१४॥

गुञ्जामात्रं प्रगे सेव्यं धारोष्णं गोपयः पिबेत् ।
जीर्णे क्षीरान्नमश्नीयाज्जलान्नं वा विचक्षणः ॥५१५॥

यथाबलं प्रतिदिनं वर्धयेन्मण्डलावधि ।
जत्रूर्ध्वरोगान् पाण्ड्वादीन् क्षयकुष्ठादिकान्हरेत् ॥५१६॥

स्थिरकेशद्विजनखो वलीपलितवर्जितः ।
जीवेद्द्विशतवर्षं च मेधाधैर्यबलान्वितः ॥५१७॥

शुक्लप्रतिपदारभ्य चैकैकं घृतवर्जितम् ।
कन्दं प्राश्नीय पर्वान्तं वर्धयेत्तद्यथाबलम् ॥५१८॥

तथैवासितपक्षादि नूनं कुर्याद्दिनाद्दिनम् ।
भुक्तेः प्रागुपयुञ्जीत पश्चात्क्षीराशनो भवेत् ॥५१९॥

दर्शान्तमेवं सेवेत प्रतिमासं पुनः पुनः ।
त्रिवर्षात् सिद्धिमाप्नोति जीवेद्वर्षायुतत्रयम् ॥५२०॥

कुक्कुटीकन्दचूर्णं च गोक्षीरेण यथाबलम् ।
जीर्णे पिबेद्यवागूंश्च मासात्सिद्धिः प्रजायते ॥५२१॥

नानाविधगदान्हन्ति जीवेद्वर्षशतद्वयम् ।

३१. सोमलताकल्पः

अथ सोमलताकल्पं दिव्यं वक्ष्यामि शङ्करि ॥५२२॥

सोमः स्वयं मनुष्याणां हितायावनिमण्डलम् ।
प्रतिपेदे च तन्नाम्ना ख्याता सोमलता भुवि ॥५२३॥

चतुर्विंशतिधा प्रोक्ता स्थाननामादिभेदतः ।
पूर्वप्रतिपदारभ्य पूर्णान्तं प्रतिवासरम् ॥५२४॥

एकैकं जायते पर्णं तथैवापरपक्षके ।
पतति क्रमशः पर्णं दर्शे सैकावशिष्यते ॥५२५॥

पूर्णमास्यां पञ्चदशछदोपेता सदा भवेत् ।
नानाविधदलोपेताश् छदपञ्चदशात्मिकाः ॥५२६॥

क्षीरयुक्तलताकन्दाः सर्वाः सोमलताः स्मृताः ।
तुषाराद्रावर्बुदे च सह्ये देवगिरौ तथा ॥५२७॥

श्रीपर्वते च मलये महेन्द्रे पारियात्रके ।
विन्ध्ये देवसहेऽद्रौ च देवसूतहृदे तथा ॥५२८॥

वितस्तोत्तरतीरेऽस्ति प्रभासाख्यो महीधरः ।
सिन्धुह्रदोऽस्ति पाञ्चाले चन्द्रमाः प्लवतेऽत्र च ॥५२९॥

तत्प्रदेशे च वाप्यस्ति त्वंशुमानथ मुञ्जवान् ।
दिव्यं सरोऽस्ति काश्मीरे ख्यातं क्षुद्रकमानसम् ॥५३०॥

औष्णिक् त्रैष्टुभगायत्रो जागतस् त्र्यैष्टुभस् तथा ।
अन्याश्च पञ्च सन्त्यत्र मृगाङ्काभासवल्लिकाः ॥५३१॥

भाग्यहीना न पश्यन्ति देवाग्निद्विजनिन्दकाः ।
सर्वसोमलतानां च विधिरेक उपासने ॥५३२॥

चन्द्रमाः स्वर्णसच्छायो विशदो रजतप्रभः ।
तौ रंभाकृतिकन्दौ तु चन्द्रमास्तु जलेचरः ॥५३३॥

लशुनच्छदनः पुण्यो मुञ्जवान्गरुडाहृतः ।
श्येनच्छदनिभः पाण्डुः सर्पनिर्मोकवत्सदा ॥५३४॥

लम्बते पादपाग्रेषु विशेषं लक्षणं स्मृतम् ।
अंशुमांश्चन्द्रमाश्चैव शोनकी कर्णकोपमः ॥५३५॥

दूर्वासोमौ जाग्रतश्च कन्याभासश्च शाक्वरः ।
करवीरस्तालवृन्तः प्रतानश्च गवीनसः ॥५३६॥

पथ्यः सोमप्रदश्चैव गरुडाहृतनामकः ।
अयःप्रभो ऽग्निष्टोमः स्यादौक्थ्यो रेवतकस्तथा ॥५३७॥

अंशुमान्सर्वमुख्यः स्यादस्य सेवां प्रचक्षते ।
एतद्रसायनज्ञैश्च प्रीतैर्मन्त्रविदुत्तमैः ॥५३८॥

भिषग्वरैः सुहृद्भिश्च संयुक्तः शुद्धकोष्ठवान् ।
कुटीं प्रविश्य निवृतां पुण्यर्क्षे शुभवासरे ॥५३९॥

पूर्वेद्युर्देवि विप्राग्निसिद्धसामायिकान्गुरून् ।
योगिनीश्च कुमारीश्च बालकान् सिद्धसन्ततिम् ॥५४०॥

गन्धपुष्पाक्षताद्यैश्च धूपैर्दीपैश्च पूजयेत् ।
भोजनैर्दक्षिणाभिश्च तोषयेच्च विधानतः ॥५४१॥

क्षीरमंशुमतः कन्दात्स्वर्णसूच्या विभेदितात् ।
हेमपात्रे समादाय तत्क्षीरं कुडुबं पिबेत् ॥५४२॥

सकृदेव पिबेत्सर्वं पीतशेषं जले क्षिपेत् ।
दिवा सुहृद्भिर् विहरेद्वाग्यतश्च वशी भवेत् ॥५४३॥

द्रव्यदेहोपदेशज्ञैः कुट्यामास्तिकबुद्धिभिः ।
उपवासी जपरतः सायं सन्ध्यार्चनापरः ॥५४४॥

प्रसुप्याद् दर्भशयने कृष्णाजिनतिरोहिते ।
पिपासितोऽपि पानीयं शीतलं मात्रया पिबेत् ॥५४५॥

प्रभाते च समुत्थाय कृतप्रागेतनक्रमः ।
विना सोमं तथासीत जीर्णे क्षीरे सशोणितम् ॥५४६॥

पित्तावसानं सकृमि वमनं भवति प्रिये ।
शृतशीतं च गोक्षीरं सायं पेयं सुसाधकैः ॥५४७॥

विरेको जायते तस्य तृतीयदिवसे महान् ।
तेन प्रमुच्यते मर्त्यः पूर्वकैर् दुष्टभोजनैः ॥५४८॥

स्नानं कुर्याद्दिनान्ते स शृतशीतं पिबेत्पयः ।
दर्भशय्यां सुमक्षौमछादितायां शयीत सः ॥५४९॥

ततश्चतुर्थे दिवसे श्वयथुस्तस्य जायते ।
अङ्गेभ्यः क्रिमयो बह्व्यः सूक्ष्मा निर्यान्ति तद्दिने ॥५५०॥

गोविड्भस्ममयीं शय्यां शोधितां मृदुलां सुधीः ।
अधिशेत पिपासा चेच्छृतशीतं जलं पिबेत् ॥५५१॥

सायं गव्यं शृतं क्षीरं पीत्वा शिष्यसुहृद्वृतः ।
यथासुखं प्रसुप्याच्च निशि पञ्चमषष्ठयोः ॥५५२॥

अह्नो विधिरयं कार्यो द्विकालं पाययेत्पयः ।
सप्तमे दिवसे देहस्त्वगस्थिस्नायुशेषितः ॥५५३॥

मांसरक्तविहीनः स्यात्सोमपः प्राणशेषितः ।
सुखोष्णैः सिञ्चयेत्क्षीरैर् गव्यैरेतस्य विग्रहम् ॥५५४॥

श्रीखण्डतिलयष्ट्याह्वैः पिष्टैस्तं परिलेपयेत् ।
क्षीराशी कटशायी च क्षौममय्यां शयीत सः ॥५५५॥

अष्टमेऽह्नि नखं श्मश्रु त्वक्केशा रदना अपि ।
पतन्ति सद्योजातस्य देहवज्जायते वपुः ॥५५६॥

क्षीराशी स्यात्तु नवमेऽणुतैलाभ्यङ्गमाचरेत् ।
स्नायात्सोमलताकल्पं क्वथितेन जलेन च ॥५५७॥

ततस्तु नवमे त्वक्च स्थिरतां प्रतियाति च ।
तथैवैकादशदिनं प्रारभ्य षोडशं दिनम् ॥५५८॥

अभ्यङ्गं नाचरेत्स्नानं सोमवल्ककषायजम् ।
दिनात्सप्तदशादूर्ध्वं चतुर्विंशतिकावधि ॥५५९॥

स्थिरत्वं त्वगवाप्नोति दन्ता वज्रनिभोज्ज्वलाः ।
स्थिरा दृढतराः स्निग्धा जायन्ते समपङ्क्तयः ॥५६०॥

पञ्चविंशत्तमे घस्रे षष्ट्यन्नं गोपयोऽन्वितम् ।
भुञ्जीत नखरास्तस्य शुकचञ्चुनिभोज्ज्वलाः ॥५६१॥

त्वगस्य जायते स्निग्धा नीलोत्पलसमद्युतिः ।
सुलक्षणातसीपुष्पवैडूर्याम्बुदसन्निभा ॥५६२॥

मासाद् अनन्तरं कुर्यात्तिलोशीरकचन्दनैः ।
पिष्टैः प्रलेपनं पश्चात्पयसा स्नपनक्रिया ॥५६३॥

रोहन्ति चिकुरास्तस्य भ्रमराञ्जनसन्निभाः ।
माससप्तदिनाद् ऊर्ध्वं द्वितीयावरणस्थितिः ॥५६४॥

पुनस्तृतीयावरणे तिष्ठेत् सिद्धो मुहूर्तकम् ।
कुटीं विशेद्यथापूर्वं बलातैलाज्यलेपनम् ॥५६५॥

कुर्याद्दिनत्रयं पश्चाच्चत्वारिंशद्दिनात्परम् ।
करीषभस्मनोद्धूल्य देहं कल्कैर्विलेपयेत् ॥५६६॥

अजशृङ्गीत्वगुद्भूतैः स्नानं कोष्णजलेन च ।
चन्दनोशीरकर्पूरैर् लिप्ताङ्गो मुद्गधात्रिजैः ॥५६७॥

यूषैः षष्ट्यन्नम् अश्नीयात् क्षीरैस्त्रिमधुसंयुतैः ।
घृतेन वा द्वितीये तु वसेदावरणे सुधीः ॥५६८॥

दिवसं पञ्चकं तत्र किंचिद्वातातपे सुधीः ।
मध्ये मध्ये च सेवेत तथैव दशवासरम् ॥५६९॥

सोढवातातपस् तस्मात्तृतीयावरणं भजेत् ।
एकविंशद्दिनं तिष्ठन् स्थिरीकृतमनाः समुत् ॥५७०॥

ततो द्वाविंशतिदिने देहसिद्धिः प्रजायते ।
बहिर्निर्गत्य च तदा पूजयेद्भैरवं पुरा ॥५७१॥

गुर्वग्निद्विजसिद्धानां चेतांसि परिमोदयन् ।
सर्वत्र स्वेच्छया नित्यं विहरेद्दुःखवर्जितः ॥५७२॥

वर्षायुतं नवं दिव्यं वपुर्धत्ते सुकान्तिमत् ।
बलं गजसहस्राणां भवेदस्य न संशयः ॥५७३॥

विषाग्नितोयशस्त्रास्त्रमृगादिभ्यो भयं न हि ।
ब्रह्मलोकादिलोकेषु विचरेत् स्वेच्छया सदा ॥५७४॥

कान्त्या द्वितीयश्चन्द्रः स्याद्रूपेण मकरध्वजः ।
सर्वाह्लादकरः शान्तः सषडङ्गपदक्रमान् ॥५७५॥

वेदान्वेत्ति च शास्त्राणि भूलोकगतिनिर्जरः ।
ह्रस्वशाखाप्रतानायाः सोमवल्ल्याः समाहरेत् ॥५७६॥

काण्डान्द्वात्रिंशतिं स्वर्णपात्रे पुण्ये यथाविधि ।
रौप्ये पात्रेऽथवा योज्यं द्विपलं गोपयस्तथा ॥५७७॥

सोमवल्लीरसं तद्वन्मेलयित्वा पिबेत्ततः ।
कुटीप्रवेशः पथ्यं च पूर्ववत्समुदाहृतम् ॥५७८॥

अणिमाद्यष्टसिद्धिः स्यात्स साक्षादमरो भवेत् ।

३२. गुडूचीकल्पः

अथामृतलताकल्पं वक्ष्यामि शृणु भैरवि ॥५७९॥

साक्षात्सुधामृतलता व्याधिजन्मजरापहा ।
अमृतायाः शतपलं त्रिप्रस्थं मधुरत्रयम् ॥५८०॥

चूर्णं लिहेत्कर्षमात्रमेवं संवत्सरावधि ।
सर्वव्याधिप्रशमनं जीवेच्च शरदः शतम् ॥५८१॥

अथ छिन्नरुहाचूर्णं पञ्चविंशत्पलं सिता ।
द्विगुणा च तवक्षीरी चात्मगुप्ताश्वगन्धिका ॥५८२॥

पुनर्नवाज्यं प्रत्येकं युञ्ज्याद्दशपलं प्रिये ।
मृद्वीकाष्टपला यष्टी ततः पञ्चपला तथा ॥५८३॥

एकीकृत्य च तत्सर्वं स्निग्धभाण्डे विनिक्षिपेत् ।
पक्षमेकं धान्यराशौ निधाय प्रतिवासरम् ॥५८४॥

पलं पलं प्रयुञ्जीत मासं स्याद्व्याधिवर्जितः ।
षण्मासाद् गृध्रदृष्टिः स्याद्वर्षं जीवेच्छतायुषम् ॥५८५॥

अमृतायाः शतपलं चूर्णं षष्टिपलं मधु ।
चत्वारिंशत्पलं सर्पिर् द्विमासं धान्यराशिगम् ॥५८६॥

प्रत्यहं पलमात्राशी मासात्सर्वगदान्हरेत् ।
दिव्यदृष्टिः शतं जीवेन्मेधाबलमहाद्युतिः ॥५८७॥

३३. तुवरककल्पः

अथ वक्ष्याम्यहं देवि कल्पं तुवरकस्य च ।
वृक्षाः पश्चिमवारीशतटे तिष्ठन्ति संततम् ॥५८८॥

तरङ्गानिलसंक्षुब्धशीकारार्द्रितपल्लवाः ।
वर्षर्तौ च सुपक्वानि तत्फलानि समाहरेत् ॥५८९॥

शोषयित्वाथ संचूर्ण्य तिलवत्तैलमाहरेत् ।
अथवैरण्डवत्तैलं प्रयत्नेन समाहरेत् ॥५९०॥

पुनर्वह्नौ पचेत्तैलं यावदंभःक्षयं भवेत् ।
तत्कर्षं निक्षिपेत्पक्षं तत उद्धृत्य प्रयत्नतः ॥५९१॥

चतुर्भक्तविहीनः सन् शुद्धः कर्षं पिबेत्प्रिये ।
शङ्खचक्रगदापाणिस् त्वामाज्ञापयद् अच्युतः ॥५९२॥

मन्त्रेणानेन सेवेत सर्वो दोषो विनश्यति ।
एवं पञ्चदिनं सेव्यमहितानि च वर्जयेत् ॥५९३॥

मासं मुद्गरसाशी स्यात्सर्वकुष्ठविवर्जितः ।
ततः क्षौद्रघृताभ्यां च लिहेत् षाण्मासिकावधि ॥५९४॥

वलीपलितहीनश्च जीवेद्वर्षशतद्वयम् ।
तत्तैलं दिनपञ्चाशं नस्येद्धीरकवद् द्विजः ॥५९५॥

वलीपलितनिर्मुक्तः श्रुतधारी दृढाङ्गवान् ।
जीवेद् द्विशतवर्षं च मेधावी गृध्रलोचनः ॥५९६॥

३४. सोमराजीकल्पः

अथ वक्ष्याम्यहं देवि सोमराजीरसायनम् ।
संग्रहेत्तां पुष्यरवावातपे शोषयेत्ततः ॥५९७॥

चूर्णितां कोष्णसलिलैः पिबेत्प्रातर्विशुद्धये ।
त्रिदिवं च ततः क्षौद्रैः कर्षमात्रं लिहेत्प्रगे ॥५९८॥

मासेन रोगा नश्यन्ति षण्मासात्सिद्धिमाप्नुयात् ।

३५. वृद्धदारुककल्पः

अथ ब्रवीमि देवेशि वृद्धदारुककल्पकम् ॥५९९॥

नागवल्लीदलक्षौद्रैः सदुग्धैर्मृदुरोमकैः ।
पत्रैर्युतापि सफला रक्तपुष्पा प्रतानिका ॥६००॥

तिक्तोषणं काम्बुतेति महिषाख्यलता स्मृता ।
तुलोन्मितं च तन्मूलं चूर्णितं सर्षपायुतम् ॥६०१॥

धान्यराशौ न्यसेत् पक्षम् उद्धृत्योन्मितकर्षकम् ।
अनुपेयं च गोक्षीरं जीर्णे क्षीरान्नभोजनम् ॥६०२॥

वृद्धोऽपि तरुणो भूयाद्वर्षात्सर्वगदोज्झितः ।
एवं द्वादशवर्षाणि सेवेतालस्यवर्जितः ॥६०३॥

जीवेत्षट्शतवर्षं च वलीपलितवर्जितः ।
वृद्धदारुकचूर्णं च शुद्धं शतपलोन्मितम् ॥६०४॥

वाजिगन्धाकन्दचूर्णं शतत्रयपलं घृतैः ।
आलोड्य भक्षयेत्कर्षं स जीवेच्छरदां शतम् ॥६०५॥

तुरंगमसमो वेगे बले दन्ताबलोपमः ।
कान्त्या हिमांशुसदृशस्तेजसा भास्करोपमः ॥६०६॥

शतावर्याश्वगन्धा च गोक्षुरो वृद्धदारुकः ।
समांशमखिलं सर्पिर्युक्तं कर्षं च खादयेत् ॥६०७॥

सप्ताहात् किन्नरध्वानो वत्सरात् सिद्धिभाग्भवेत् ।
वृद्धदारुकमूलं च वरीस्वरसपेषितम् ॥६०८॥

कर्षं पिबेद्वत्सरं यत्स जीवेच्छरदः शतम् ।
वृद्धदारुकचूर्णं च धात्रीस्वरसभावितम् ॥६०९॥

एकविंशतिधा प्रातर्मध्वाज्याभ्यां तु कर्षकम् ।
लिहेदब्दं स जीवेच्च वर्षाणि च शतद्वयम् ॥६१०॥

योवसापस्तधा जीवेन्नीरुजः स महान्भवेत् ।
गोदुग्धेन च तन्मूलं रसं धात्र्याश्च संमितम् ॥६११॥

पिबेत्संवत्सरं यस्तु स जीवेच्छरदः शतम् ।
तत्सिद्धं सर्पिरश्नीयात् पूर्ववत्फलम् आप्नुयात् ॥६१२॥

पुनर्नवा वरी शुण्ठी मागधी रजनीद्वयम् ।
एतत्सर्वं समं वृद्धदारुकं काञ्जिकान्वितम् ॥६१३॥

पलं प्रातः पिबेद्धीमान् दच्छदाद्धारमाचरेत् ।
मासात्सर्वामयान् हन्ति वर्षादायुः शतं भवेत् ॥६१४॥

द्वीपी शौण्डी वरा विश्वं मुस्तमेला समांशकम् ।
एतत्संयोज्य सिद्धं तच्चूर्णं वेल्लरिकं भवेत् ॥६१५॥

क्षौद्राज्यलुलितं खादेत्कर्षं वर्षेण सिध्यति ।
तत्फलं स्वरसं कर्षं घृतं क्षौद्रं च तत्समम् ॥६१६॥

पिबेदनु गवां क्षीरं माहिषं वा पलोन्मितम् ।
मासेन सर्वरोगघ्नं वर्षाज्जीवेच्छतायुषम् ॥६१७॥

चूर्णं वेल्लरिकामूलं फलं पिप्पलिकाभवम् ।
समवेल्लरिकामूलफलजैश्च रसैस्तथा ॥६१८॥

गुडूचीस्वरसेनापि भावयेदेकविंशतिम् ।
शुष्कं घृतप्लुतं भाण्डे स्निग्धे धान्यचये स्थितः ॥६१९॥

त्रिसप्ताहात्तदुद्धृत्य कर्षं प्रातर्लिहेन्नरः ।
वर्षाद्वर्षसहस्रायुः सर्वरोगविवर्जितः ॥६२०॥

३६. वज्रवल्लीकल्पः

अथ व्याख्याम्यहं देवि वज्रवल्लीरसायनम् ।
वज्रवल्लीं समूलां च छायाशुष्कां विचूर्णयेत् ॥६२१॥

वरा व्रणारिमूलं च प्रत्येकं भास्करं पलम् ।
रोगानशेषान् षण्मासाद्धन्यात् संवत्सराद्भवेत् ॥६२२॥

देहसिद्धिश्च षण्मासाच्चूर्णमन्यत्प्रकल्पयेत् ।

३७. तिलक्षीरिणिकाकल्पः

तिलक्षीरिणिकाकल्पं कथयिष्यामि शाम्भवि ॥६२३॥

तिलक्षीरिणिकामूलं मौनेनोत्पाट्य साधकः ।
कोष्णेन वारिणा पिष्ट्वा प्राङ्मुखोदङ्मुखः पिबेत् ॥६२४॥

गिलेद्वा गुलिकां कृत्वा क्षीराज्यानाशयेच्छुचिः ।
क्रमेणार्धद्वित्रिनिष्कं सेवेताब्दं स सिद्धिभाक् ॥६२५॥

दशाहाच्छुक्रवृद्धिः स्यात्त्रिमासात् सर्वरोगजित् ।
षण्मासात्सिद्धिमाप्नोति नात्र कार्या विचारणा ॥६२६॥

३८. ब्राह्मीकल्पः

अथ वक्ष्यामि देवेशि ब्राह्मीकल्पमनुत्तमम् ।
समूलामुद्धरेद् ब्राह्मीं प्रक्षाल्य सलिलेन च ॥६२७॥

उलूखले कुट्टयित्वा पात्रे तत्र समाहरेत् ।
जुहुयाच्छारदामन्त्रैस्तद्रसैश्च सहस्रकम् ॥६२८॥

अर्चयित्वा गुरून्विप्रान्प्राश्नीत हुतशेषकम् ।
पलमात्रं तद्रसं च जीर्णे क्षीरान्नभोजनम् ॥६२९॥

एवं सप्तदिनं सेव्यं ब्रह्मचारी जपे रतः ।
मेधावी ब्रह्मवर्चस्वी वाग्विशुद्धः प्रजायते ॥६३०॥

ऊर्ध्वं सप्तदिनात्सेव्यं प्रबध्नातीच्छया अपि ।
विस्मृतानपि वेत्त्येव श्रुतं शीघ्रं च धारयेत् ॥६३१॥

द्वितीये सप्तमाद् ऊर्ध्वं पूर्ववत्तद्रसं पिबेत् ।
सकृच्छ्रुतं श्लोकशतं सहस्रमपि धारयेत् ॥६३२॥

एवं त्रिसप्तदिवसं पिबेद् ब्राह्मीरसं शुचिः ।
देहाद् अलक्ष्मीर्निर्याति वाणी विशति शाश्वती ॥६३३॥

भवेत्पुंरूपवाग्देवी सर्वशास्त्रार्थवेदिनी ।
वेदवेदान्तविद्धीमाञ्जीवेत् पञ्चशताब्दकम् ॥६३४॥

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP