रसविद्या - भाग १२

रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद.


श्रीशैले सिद्धिलाभः

श्रीभैरवी ।
श्रीशैले विविधा सिद्धिः सद्यः प्रत्ययकारिणी ।
सुलभा श्रूयते देव तां ब्रूहि विविधां प्रभो ॥१॥

श्रीभैरवः ।
वक्ष्यामि शृणु तत्सर्वं सद्यः सिद्धिकरं प्रिये ।
कैलासान्मन्दरान्मेरोर्विन्ध्याद्रेश्च हिमालयात् ॥२॥

महेन्द्रान्मलयाद्रेश्च सह्यादृश्यगिरेरपि ।
श्रेष्ठः श्रीपर्वतो दिव्यः सिद्धियोगीन्द्रसेवितः ॥३॥

तत्र तीर्थानि सर्वाणि सरांसि सरितः प्रिये ।
सिद्धिप्रदानि लिङ्गानि लतापाषाणपादपाः ॥४॥

मृत्तिकाकन्दतोयानि पत्रपुष्पफलानि च ।
एवमादीनि विद्यन्ते सर्वसिद्धिकराणि च ॥५॥

श्रीपर्वतोऽहमीशानि त्वहं साक्षात्स पर्वतः ।
स्थावरं मामकं रूपं विद्धि तं सुरसेवितम् ॥६॥

अस्मिन्यदस्ति नान्यत्र यदन्यत्र स्थितं च तत् ।
दिव्यलिङ्गस्पर्शनीयं ज्योतिर्लिङ्गमनामयम् ॥७॥

श्रीमल्लिकार्जुनमिति प्रख्यातं परमेश्वरि ।
वामपार्श्वेऽस्य लिङ्गस्य घण्टासिद्धेश्वरः स्थितः ॥८॥

घण्टा विलम्बते द्वारे तीर्थकुण्डं च विद्यते ।
उपोषितैस्त्रिभिः कार्यं जागरूकैरतन्द्रितैः ॥९॥

निशि कृष्णचतुर्दश्यामजस्रं स्नापयेच्छिवम् ।
एकः समानयेत्तोयं कुण्डस्थमपरः प्रिये ॥१०॥

घण्टां निनादयेदन्यश्चतुर्यामावधि प्रिये ।
घण्टासिद्धेश्वरस्तुष्टो दद्यात्तेभ्योऽपि खे गतिम् ॥११॥

घण्टासिद्धेश्वरस्यास्य दक्षिणे निखनेत्प्रिये ।
जानुदघ्नं तु तत्रैव दृश्यते रोचनप्रभा ॥१२॥

मृत्तिका तां समाहृत्य कर्षमात्रं पिबेत्प्रिये ।
क्षीरयुक्तां च सप्ताहं स साक्षादमरो भवेत् ॥१३॥

श्रीगिरीशस्य पुरतो गजाकारा महाशिला ।
स्रवत्येव दिवारात्रं दिव्यगन्धं सुगुग्गुलुम् ॥१४॥

तं गृह्णीयात्पलाशस्य दर्व्यालाबुकपात्रके ।
प्रक्षिपेद्गन्धकयुतं भक्षयेत्कर्षमात्रकम् ॥१५॥

प्रत्यहं मासपर्यन्तं ततः सिद्धिमवाप्नुयात् ।
सदानन्दो युवा धीरो जीवेदाचन्द्रतारकम् ॥१६॥

विद्रुते म्लेच्छवदने गुग्गुलुं तं विनिक्षिपेत् ।
कोटिमंशं ततस्ताम्रं दिव्यं भवति काञ्चनम् ॥१७॥

चन्द्रोदक बेइ ंल्लिकार्जुन

मल्लिकार्जुनदेवस्य चन्द्रवाप्यस्ति पश्चिमे ।
वैशाखपूर्णिमायां तु साधयेत्साधकोत्तमः ॥१८॥

निर्भयो निर्विकल्पश्च वसंस्तोयसमीपतः ।
जपेन्मृत्युञ्जयं मन्त्रं रात्रौ वासोविवर्जितः ॥१९॥

निशीथे चन्द्रसलिलं चन्द्रस्पृष्टं भवेद्यदा ।
तत्तीर्थच्छिद्रदेशे च स्वाञ्जलिं प्रक्षिपेदतः ॥२०॥

स्पृष्ट्वा चन्द्रो यदा गच्छेत्तदा तत्तोयमाहरेत् ।
पिबेच्च सहसा धीरो जीवेदाचन्द्रतारकम् ॥२१॥

वज्रकायः सौम्यरूपः शान्तात्मा स भवेन्नरः ।

ट्रिपुरान्तक

पूर्वद्वारे श्रीगिरेस्तु विद्यते त्रिपुरान्तकः ॥२२॥

देवस्य निकटे देशे चोत्तरे तिन्त्रिणीतरुः ।
दृश्यते तत्र मूले तु स्वयं श्रीभैरवः प्रभुः ॥२३॥

नृमात्रां निखनेद्भूमिं तदग्रे दृश्यते तदा ।
तप्तकुण्डं नीलजलं दिव्यसिद्धिप्रदायकम् ॥२४॥

तत्तिन्त्रिणीकपत्राणि वस्त्रे बद्ध्वा विनिक्षिपेत् ।
कुण्डे तस्मिंस्तदा तानि स्थूलमीना भवन्ति च ॥२५॥

गृहीत्वा तिन्त्रिणीकाष्ठैः पचेदेवं क्रमात्सुधीः ।
तेषां शिरःकण्टकानि खानि च विवर्जयेत् ॥२६॥

भक्षयेच्छेषमखिलं साधकः सिद्धिकाङ्क्षया ।
क्षणमात्रं भवेन्मूर्च्छा तेन पश्चाद्विबुध्यते ॥२७॥

वसुधायां बिलं पश्येज्जीवेद्दिव्यायुताब्दकम् ।

मणिपल्लि

पश्चिमे त्रिपुरान्तस्य गव्यूतिद्वयमात्रके ॥२८॥

मणिपल्लिरिति ग्रामस्तस्य पश्चिमभागतः ।
विद्यते कश्चन गिरिस्तत्पश्चादेकवाटकम् ॥२९॥

दृश्यते प्रविशेत्तत्र पूर्वास्यश्च ततो व्रजेत् ।
दक्षिणाभिमुखः पश्चाद् दशचापान्तमात्रकम् ॥३०॥

तत्र चाम्रफलाकारान् पाषाणाञ्ज्वलनप्रभान् ।
गृहीत्वा बन्धयेद्वस्त्रे तद्वस्त्रं रक्ततां व्रजेत् ॥३१॥

पाषाणयुक्तं तद्वस्त्रं क्षीरमध्ये विनिक्षिपेत् ।
ततः क्षीरं रक्तवर्णं स्यात् पिबेत् साधकोत्तमः ॥३२॥

सप्ताहाज्जायते सिद्धिर्वज्रकायो महाबलः ।
जीवेद् आचन्द्रतारं च आ कल्पमविल्पकम् ॥३३॥

कोकिलाबिल

त्रिपुरान्तस्योदग्भागे कोकिलाबिलम् उत्तमम् ।
जगत्प्रकाशं तत्रास्ते कृत्वा देहविशोधनम् ॥३४॥

साधको वमनाद्यैश्च तद्बिलं प्रविशेत्सुधीः ।
दशचापावधिस्तत्र पाषाणाः कोकिलोपमाः ॥३५॥

सन्ति गृहीत्वा तत्पृष्ठे तिलाः क्षिप्ताः स्फुटन्ति च ।
इत्येतत्प्रत्ययं दृष्ट्वा ताश्च घृष्य परस्परम् ॥३६॥

दुग्धान्तः प्रक्षिपेत्तांश्च तत्क्षीरं कृष्णतां व्रजेत् ।
तत्क्षीरं मासमात्रं च पिबेद्दिव्यतनुर्भवेत् ॥३७॥

ब्रह्मणस्त्रिदिनं जीवेद्वलीपलितवर्जितः ।
वेगे समीरसदृशश्छिद्रं पश्यति भूतले ॥३८॥

त्रिपुरान्तस्य पूर्वस्यां दिशि योजनमात्रके ।
अस्ति स्वर्गपुरीनाथो देवस्तस्याग्रतः खनेत् ॥३९॥

जानुमात्रं च वसुधां तत्र सर्पफणोपमाः ।
स्पर्शसंज्ञास्तु पाषाणा निर्गच्छन्ति वरानने ॥४०॥

त्रिपुरान्तकदेवस्य पश्चिमेऽर्धार्धयोजने ।
अस्ति दिव्यबिलद्वारं तत्र चापत्रयान्तरम् ॥४१॥

व्रजेत्खर्जूरवृक्षोऽस्ति कृष्णवर्णः फलान्वितः ।
तत्फलानां रसं पीत्वा तेन मूर्च्छा भवेत्क्षणम् ॥४२॥

प्रबुद्धोऽसौ भवेत्सिद्धो जीवेद् आ चन्द्रभास्करम् ।
श्रीगिरेर् दक्षिणद्वारे वज्रेश्वरसुरेश्वरौ ॥४३॥

तिष्ठतो निखनेद्भूमिं तत्र श्रीफलसन्निभाः ।
पाषाणाः स्पर्शभेदाः स्युः संग्राह्यास्ते सुरेश्वरि ॥४४॥

तत्र रामेश्वराख्योऽस्ति निखनेत्तस्य सन्निधौ ।
रुद्राक्षाकारपाषाणाः स्पर्शभेदा भवन्ति ते ॥४५॥

आवर्तक

ज्योतिःसिद्धवटस्थाने दक्षिणे चैकपादपः ।
तिष्ठत्यावर्तको नाम तदासन्ने तु पश्चिमे ॥४६॥

पर्वतो विद्यते तत्र खनेत्तालफलोपमाः ।
पाषाणास्तान्धमेद्गाढं तत् सर्वं काञ्चनं भवेत् ॥४७॥

तस्यैव दक्षिणे द्वारे विद्यते कुण्डलेश्वरः ।
तन्निकृष्टे जानुमात्रं खनेद्भूमिं समुद्धरेत् ॥४८॥

रक्ताभाः श्रीफलाकाराः पाषाणाः स्पर्शवेधकाः ।
पुरुषेश्वरदेवस्य समीपे कुण्डमस्ति हि ॥४९॥

गुञ्जारिड्ढौ च विद्येते वृक्षौ तत्पत्त्रम् अश्नीयात् ।
सप्ताहाज्जायते सिद्धो जरामरणवर्जितः ॥५०॥

हस्तिशिला

तत्र हस्तिशिला दक्षे खनेद्धस्तप्रमाणतः ।
तत्र जम्बूफलाकारा ग्राह्यास्ते स्पर्शसंज्ञकाः ॥५१॥

ख्याता हस्तिशिरोनाम्ना ख्याता हस्तिशिलेति सा ।

छायाछत्त्र

एकयोजनमात्रे तु तस्या दक्षिणभागतः ॥५२॥

शिवरूपं शिवप्रोक्तं छायाछत्त्रं तु विद्यते ।
वर्तुलं शतहस्तं तु छिद्रं तस्याप्यधो व्रजेत् ॥५३॥

न कैश्चिद्दृश्यते सोऽपि सिद्धो भवति तत्क्षणात् ।
यदृच्छया रुद्रतुल्यः क्रीडत्येव जगत्त्रये ॥५४॥

सिद्ध्यष्टकं साधयेद्वा सर्वसिद्धिप्रदायकः ।
कान्ताभ्रसत्वकनकसूताः क्रमगुणोत्तराः ॥५५॥

अम्लेन मर्दयेद्गाढं गोलं कृत्वा तु वेष्टयेत् ।
तद्गोलं दीर्घवंशाग्रे बद्ध्वा श्रीकालिकामनुम् ॥५६॥

जपेन्निवेशयेत्तत्र छायाछत्त्रेण तेन च ।
वंशाग्रबद्धगोलान्तर्जायते घुटिका शुभा ॥५७॥

वक्त्रान्तर्धारयेत्तां तु तत्क्षणात्खेचरो भवेत् ।
शिलां तालं वस्त्रबद्धं कृत्वा वंशाग्रवेष्टितम् ॥५८॥

छायाछत्त्रे निवस्यैतत्ताभ्यां नेत्रे समञ्जयेत् ।
निधिं पश्यति भूमिस्थं नात्र कार्या विचारणा ॥५९॥

वंशाग्रबद्धखड्गं च छायाछत्त्रे विनिक्षिपेत् ।
मन्त्रयेत्कालिकामन्त्रं तं खड्गं धारयेत् करे ॥६०॥

त्रैलोक्यविजयी धीरो भवेद्वीरो जगत्त्रये ।
वंशाग्रे रोचनं बद्ध्वा छायाछत्त्रे निवेशयेत् ॥६१॥

ललाटे तिलकं तेन कृत्वा लोकं वशं नयेत् ।
स्रोतोञ्जनाञ्जने तद्वच्छायाच्छत्रे निवेशयेत् ॥६२॥

तेनाञ्जनेनाञ्जितोऽसौ देवैरपि न दृश्यते ।
पादुके पूर्ववद्बद्ध्वा छायाच्छत्रे निधापयेत् ॥६३॥

पादाभ्यां पादुके धृत्वा यत्र यत्राभिवाञ्छति ।
प्रयातुं तत्र तत्रैव नयतस्तं च पादुके ॥६४॥

पूर्ववद् रक्तवस्त्रं च छायाच्छत्रे निवेशयेत् ।
आवेष्टयेत्तं च पटमदृश्यो भवति क्षणात् ॥६५॥

समुज्झिते पटे पश्चाद्दृश्यतेऽसौ न संशयः ।
कान्तं व्योम हेम सूतमेकीकृत्य विमर्दयेत् ॥६६॥

गोलीभूतं तु वस्त्रेण वंशाग्रे बन्धयेत्सुधीः ।
छायाच्छत्रे स्थापयेत्तत्कालीमन्त्रेण मन्त्रयेत् ॥६७॥

स्पर्शवेधी भवेदेतत्सत्यं सत्यं वरानने ।
श्रीशैलपश्चिमद्वारे देवो ब्रह्मेश्वरः स्थितः ॥६८॥

दुर्गा देवी च तत्रस्था सोपानं नवमं च यत् ।
तुङ्गभद्रायां च नद्यां ततो ब्रह्मेश्वरस्य च ॥६९॥

द्वारदेशे मुद्गवर्णं चत्वारः स्पर्शका अमी ।
चिञ्चावनं च नैरृत्ये स्थितं ब्रह्मेश्वरस्य हि ॥७०॥

कुण्डं च विद्यते तत्र चिञ्चाधश्चण्डिका स्थिता ।
एकपादेन सततं तच्चिञ्चाफलम् आहरेत् ॥७१॥

वस्त्रेण बन्धयेत्कुण्डे क्षिप्त्वा स्नानं समाचरेत् ।
स्नानान्ते तानि गृह्णीयात्तावन्मत्स्या भवन्ति हि ॥७२॥

तदिन्धनैः पचेत्ताश्च ह्यस्थिपुच्छशिरस्त्यजेत् ।
दद्याद्देवायैकम् अंशम् अतिथीनां द्वितीयकम् ॥७३॥

तृतीयांशं स्वयं भक्षेन्मूर्छितो भवति क्षणात् ।
दिव्यो भवति सिद्धोऽयं बिलं पश्यति भूतले ॥७४॥

जरामरणनिर्मुक्तो ह्यबध्यो निर्जरैरपि ।
अलम्पुरोत्तरे ग्रामो विद्यते भीमपादुकः ॥७५॥

पार्श्वे तु तस्य ग्रामस्य हस्तमात्रं धरां खनेत् ।
पाषाणा हि फणाकाराः स्पर्शसंज्ञा भवन्ति ते ॥७६॥

योगीश्वरीति देव्यस्ति तत्रालंपुरदेवता ।
तस्याग्रतो रम्यगुहा तस्या मध्ये खनेद्भुवम् ॥७७॥

पाषाणा भेदसंकाशा ग्राह्या मार्जालविष्ठया ।
संमिश्र्य निक्षिपेद्वङ्गे द्रुते तत्तारतां व्रजेत् ॥७८॥

मध्वाज्याभ्यां पिबेत्तांश्च पाषाणान्साधकोत्तमः ।
दिव्यो भवति सिद्धोऽयं वलीपलितमृत्युजित् ॥७९॥

श्रीपर्वतोत्तरद्वारे देवो नाम्ना महेश्वरः ।
तिष्ठति भ्रमराम्रश्च तत्र तत्फलमाहरेत् ॥८०॥

स्फोटयेच्च तदन्तस्था निर्यान्ति भ्रमरास्तथा ।
सजीवा अथ तान्सर्वान्भ्रमरांस्तान्विवर्जयेत् ॥८१॥

तत्फलानि पचेत्क्षारे यावच्छक्यं पयः पिबेत् ।
क्षणं मूर्च्छा भवेत्तेन मूर्च्छान्ते च पयः पिबेत् ॥८२॥

एवं कुर्यात्प्रयत्नेन चैकविंशतिवासरम् ।
तेन वज्रशरीरः स्याद्वलीपलितवर्जितः ॥८३॥

वेदवेदाङ्गतत्त्वज्ञो जीवेदादित्यतारकम् ।
तरसा वायुना तुल्यस्तत्क्षणाद्भवति प्रिये ॥८४॥

तदाम्रस्य फलेनैव त्यक्तभ्रमरकेन च ।
वङ्गस्य पलसाहस्रं द्रावितं रजतं भवेत् ॥८५॥

रन्ध्रमापादयेदाम्रफले भृङ्गं विवर्जयेत् ।
तन्मध्ये निक्षिपेत्सूतं कर्षं कृष्णाभ्रसत्वकम् ॥८६॥

निरुध्य वक्त्रं समृदा गोमयेन च लेपयेत् ।
छायायां शोषयेत्काष्ठैस्तदीयैः प्रहरं पचेत् ॥८७॥

स्वभावशीतलं कृत्वा वक्त्रस्थां कारयेत्सुधीः ।
खेचरत्वमवाप्नोति वलीपलितवर्जितः ॥८८॥

जीवेच्चन्द्रार्कपर्यन्तं वाग्मित्वं ब्रह्मणा समम् ।
सूतं कृष्णाभ्रसत्वं चाम्रफले पूर्ववत्क्षिपेत् ॥८९॥

प्रलिप्य गोशकृन्मृद्भ्यां पुटेदारण्यकोपलैः ।
स्वशीतं पारदं ग्राह्यं मधुसर्पिर्भिर् युतं लिहेत् ॥९०॥

गुञ्जामात्रं च मासान्तं बालो भवति मानवः ।
नवनागोपमः सत्वे जीवेद् ब्रह्मैकवासरम् ॥९१॥

उत्तरे श्रीगिरीशस्य विद्यते शुक्लपर्वते ।
पञ्चोपचारैः सम्पूज्य त्रिषु लोकेषु विश्रुतः ॥९२॥

ओं हुं फट्कारमन्त्रेण निर्विकल्पेन साधकः ।
पश्येत्पश्चिमदिग्भागम् अन्तरिक्षे विमानकम् ॥९३॥

दिव्यं ह्यनेकरुचिरं सद्यः प्रत्ययकारकम् ।
ततः पश्चिमदिग्भागे व्रजेत्तीर्त्वा महानदीम् ॥९४॥

दृश्यते च गुहा तत्र प्रविशेत्पश्चिमाननः ।
त्रियोजनं व्रजेत्तत्र विभीर् एको ऽविकल्पकः ॥९५॥

कदलीकाननं तत्र दृश्यते पञ्चयोजनम् ।
अच्छोदपूर्णा सरसी तन्मध्ये भद्रपीठकम् ॥९६॥

तत्पीठं तु महद्दिव्यं पश्येत्स्फटिकसन्निभम् ।
उच्चारयेन्मन्त्रमिमं दण्डवत्प्रणतिं भजेत् ॥९७॥

ओं ह्रीं विद्यावागीश्वराधिपतये ह्रीं ओं स्वाहा ।
तत्र स्नात्वा जपेन्मन्त्रं लक्षमेकं वरानने ।
कन्दमूलाशनो वा यथेष्टं साधकः प्रिये ॥९८॥

सिंहासनान्तरे देवं पश्येत्स्फटिकसन्निभम् ।
चतुर्भुजं त्रिणेत्रं च विशदेन्दुकलाधरम् ॥९९॥

नीलग्रीवं नागभूषं परश्वथमृगायुधम् ।
वराभयं वरेण्यं तं विशिष्टविबुधार्चितम् ॥१००॥

नमस्कुर्याच्च साष्टाङ्गं मन्त्रैः स्तोत्रैर् मुहुर्मुहुः ।
ततः प्रसन्नः स शिवो वरं दत्ते यथेप्सितम् ॥१०१॥

शतमायतनं तत्र कूपं नवशतं यथा ।
आरामाश्चापि तावन्ति नन्दनानि वनानि च ॥१०२॥

वाप्यो नवशतं सन्ति विवरं चैव तत्समम् ।
कल्पवृक्षाश्च तावन्ति एते सर्वेऽपि सिद्धिदाः ॥१०३॥

तत्रास्ते मोहली नाम्ना प्रथिता यक्षिणीष्टदा ।
ब्रूते सा देहि मे भुक्तिं सिद्धिं त्वं यदि वाञ्छसि ॥१०४॥

देवि दास्याम्यहं भुक्तिं वक्तव्यमिह चामुना ।
कन्दमूलं फलं तस्यै पायसं वा समर्पयेत् ॥१०५॥

सा यक्षिणी पुनर्वक्ति यावद्भुञ्जे सुतं मम ।
धारयेर् वक्षसा तावद्वरं दास्यामि ते महत् ॥१०६॥

विसृजेस्त्वं यदि तदा भवन्तं हन्मि निर्दया ।
एवं गतभयश् चीरः कुर्याच्चेत् सिद्धिभाग्भवेत् ॥१०७॥

व्रजेदुदीचीदिग्भागे तत्सरो योजनार्धके ।
तत्रास्ते चन्दनं दिव्यं पुष्पपूर्णं महेश्वरि ॥१०८॥

तत्पुष्पाघ्राणमात्रेण क्षुत्पिपासा न बाधते ।
भक्षयेदथवा तस्य फलमेकं यथोचितम् ॥१०९॥

वज्रकायो भवेत्तस्य भक्षणादेव मानवः ।
सरोदक्षिणदिग्भागे गच्छेद्योजनपादकम् ॥११०॥

नन्दनं दृश्यते तत्र दाडिमीवृक्षसंकुलम् ।
तत्फलं भक्षयेद्यस्तु जीवेद्युगसहस्रकम् ॥१११॥

तस्यैव सरसः पूर्वभागे क्रोशार्धमात्रकम् ।
गच्छेद्धात्रीफलैर् युक्तं विद्यते नन्दनं वनम् ॥११२॥

अश्नीयात्तत्फलं धीरो जीवेत्संवर्तकत्रयम् ।
सरसस्तस्य भागे च पश्चिमे योजनं व्रजेत् ॥११३॥

तत्र श्रीफलसम्पूर्णं नन्दनं विद्यते वनम् ।
अद्यते तत्फलं येन जीवत्य् आचन्द्रतारकम् ॥११४॥

तत्रैव नन्दनवने लिङ्गं स्यान्नीलवर्णकम् ।
तस्योदग्द्वारमार्गेण विशेन्नागो महाबलः ॥११५॥

तत्र सप्तफणोपेतस्तूग्रभीतिकरो महान् ।
एवंविधं महानागं हुंहुंकारं वदन्मुहुः ॥११६॥

नमस्कुर्यात्प्रयत्नेन साधकः सिद्धिकाङ्क्षया ।
वदत्येवं महानागस् त्वदृश्यत्वं ददामि ते ॥११७॥

याहि स्वं पश्चिमद्वारं दिव्या कन्यास्ति तत्र वै ।
समुच्चरन्महामन्त्रं व्रजेत्तत्रैव साधकः ॥११८॥

ददाति हारं सा कन्या प्रवेशं न ददाति च ।
हारं गले धारयेत्तं तेन सारस्वतं भवेत् ॥११९॥

तस्माद्दक्षिणदिग्द्वारे व्रजेद्भीतिकरं परम् ।
तत्र पश्येन्मुक्तकेशं जिह्मनेत्रं दिगम्बरम् ॥१२०॥

गदाहस्तं नीलवर्णं दृष्ट्वा श्रीक्षेत्रपालकम् ।
वन्देत मन्त्रमुच्चार्य स्तोत्रैर्विघ्ननिवारणम् ॥१२१॥

हाहाहेहेहुंहुंकारं फट् हुं स्वाहान्तमेव च ।
क्षेत्रपालोऽप्यनेनैव मन्त्रेणाशु प्रसीदति ॥१२२॥

स्वागत्वं वितरत्येष प्रवेशं न ददाति हि ।
अथ व्रजेत् पूर्वदिशो द्वारं तत्र गणाधिपम् ॥१२३॥

स्थितं प्रपूजयेत्तत्र प्रविशेत्साधकोत्तमः ।
दृश्यते दिव्यलिङ्गं च चापस्तत्र मनोहरः ॥१२४॥

ओं हुङ्कारेण मन्त्रेण पूजयेच्च तमीश्वरम् ।
उपवासेन तत्रैव दिवारात्रं जपेत्सुधीः ॥१२५॥

प्रत्यक्षो भवतीशानो ददाति हि वरं परम् ।
इत्येवमादयः सन्ति सिद्धयः कदलीवने ॥१२६॥

तत्रैव सरसः पूर्वभागे योजनमात्रके ।
अक्षरैर्लिखितं द्वारि तत्र पद्मावतीबिलम् ॥१२७॥

वमनाद्यैर्विशुद्धात्मा प्रविशेत्तत्र साधकः ।
तत्र चापान्तरशतं गच्छेत्तत्र मृदङ्गकम् ॥१२८॥

आलोक्य वादयेत्तं च तद्ध्वनिश्रवणात्तदा ।
पद्मावती स्वयं याति ह्यमृतं च ददाति च ॥१२९॥

तस्य पानेन सिद्धोऽयममरत्वं लभेत च ।
ततः सैनं समागम्य प्रार्थयेत्त्वं ममान्तिकम् ॥१३०॥

समागच्छालये दिव्ये कन्यापञ्चशताकुले ।
स्थित्वा मम पतिर्भूया ब्रह्मायुष्यावधि प्रभो ॥१३१॥

तदन्ते शाश्वतं स्थानं गमिष्यसि न संशयः ।
तस्य पूर्वतटाकस्य चाग्नेय्यां दिशि विद्यते ॥१३२॥

कदम्बेश्वरदेवोऽपि वृक्षः कादम्बकोऽग्रतः ।
तत्र पत्राणि चादाय कटुतैलेन लेपयेत् ॥१३३॥

तद्बीजसंभवैस्तैलैर् लिम्पेद् वाथ पचेत्सुधीः ।
तत्काष्ठैस्तानि मत्स्याः स्युस्ताम्रपात्रे विनिक्षिपेत् ॥१३४॥

वर्ज्यमस्थि शिरः पुच्छं क्षौद्रसर्पिर्युतं भजेत् ।
तत्सेवया भवेत्सिद्धो रुद्रतुल्यो महाबलः ॥१३५॥

तद्वृक्षश्च नदीतीरे कुण्डलेशस्य सन्निधौ ।
विद्यते पूर्ववद्युक्त्या सिद्धिर्भवति नान्यथा ॥१३६॥

अस्त्युत्तरे पुष्पगिरिः कपोतेशश्च विद्यते ।
त्रिः प्रदक्षिणमातन्यात्तस्य मूर्धानमाव्रजेत् ॥१३७॥

खेचरत्वं भवेत्तस्य साधकस्य न संशयः ।
तस्य पूर्वोत्तरे भागे छेदिकीद्वारकं स्थितम् ॥१३८॥

उदङ्मुखं विशेत्तत्र त्रिचापान्तरमादरात् ।
मूषिकाकारपाषाणं तक्रे पिष्ट्वा पिबेन्नरः ॥१३९॥

क्षिप्रं मूर्च्छा भवेत्तस्य जीवेद्ब्रह्मदिनत्रयम् ।
वेधयेत् सर्वलोहानि स्पर्शमात्रान्न संशयः ॥१४०॥

उपोष्य च दिवा नक्तं देवाग्रे सिद्धिमाप्नुयात् ।
विद्यते देवतायुग्मं कपोतेश्वरदक्षिणे ॥१४१॥

आ नाभिमात्रं निखनेद्देवताद्वयमध्यतः ।
गोरोचनोपमास्तत्र पाषाणाः सन्ति तान्हरेत् ॥१४२॥

पिष्ट्वा क्षौद्रघृताभ्यां च पिबेद्यः सोऽमरो भवेत् ।
कपोतेशस्य वायव्ये निखनेद्धस्तमात्रकम् ॥१४३॥

तत्र पारावताकारपाषाणाः स्पर्शसंज्ञकाः ।
देवताराधनं कृत्वा तेषामेकं समाहरेत् ॥१४४॥

ऐशान्यां श्रीगिरीशस्य ह्यस्त्येव भृगुपातनम् ।
तत्समीपे दिव्यकुण्डं मृदं तस्मात्समाहरेत् ॥१४५॥

गव्यपञ्चकयुक्तां तां धमेत्खदिरवह्निना ।
तस्माल्लोहं पतेन्नीलं मध्वाज्याभ्यां प्रतापितम् ॥१४६॥

तत्सेचयेत्सप्तधौते तद्गोलं निक्षिपेन्मुखे ।
विष्णुतुल्यो भवेत्सिद्धः सर्वज्ञः सर्वगः सुखी ॥१४७॥

भृगुपातनशैलाग्रात् क्रोशे दधिकवाटकम् ।
अच्छतैलगिरिर् नाम्ना तदग्रे विद्यते सदा ॥१४८॥

बिलं तत्पश्चिमे ह्यस्ति तन्मध्ये चापपञ्चके ।
गते पश्येत्तत्र कुण्डं तत्र लाक्षासमं रसम् ॥१४९॥

अलाबुपात्रे गृह्णीयात् स सूतः कोटिवेधकः ।
प्राकारश्चन्द्रगुप्तस्य श्रीगिरीशस्य पश्चिमे ॥१५०॥

तन्मध्ये विद्यते वेश्म चैत्यं तत्पूर्वतः स्थितम् ।
चैत्यात्पूर्वे शिला दिव्या मुद्गाभा स्पर्शसंज्ञका ॥१५१॥

तत्रास्ते मोहनो दन्ती तमारुह्य समाहितः ।
पृष्ठात्तस्य तृणं ग्राह्यं तत्सर्वं काञ्चनं भवेत् ॥१५२॥

तद्गजस्योत्तरे पार्श्वे जानुदघ्नां खनेद्धराम् ।
जम्बूफलाभाः पाषाणाः स्पर्शसंज्ञा भवन्ति ते ॥१५३॥

क्षितिं खनेद्गजस्याधो जानुमात्रं लभेत्ततः ।
लक्षवेधकरा सिद्धा त्रिकोणे घुटिका परा ॥१५४॥

मल्लिनाथस्य वायव्ये नत्वा देवह्रदः परः ।
तीर्थं तत्रास्ति पाषाणा मुद्गाभाः स्पर्शसंज्ञः ॥१५५॥

लिङ्गं कूर्मोपमं तत्र स्पर्शसंज्ञं शुभं प्रिये ।
पूर्णिमायां कृत्तिकायां पूजयित्वा समाहरेत् ॥१५६॥

तस्माद्गव्यूतियुगलात्स्मृता नीलवनी परा ।
तस्या लिङ्गं च सलिलं नीलवर्णं प्रशस्यते ॥१५७॥

अश्वाम्रकाकसङ्काशाः पाषाणाः स्पर्शवेधकाः ।
देवालयान्तर्निखनेज्जानुमात्रान्तराद्धराम् ॥१५८॥

मूषिकाकारपाषाणाः स्पर्शसंज्ञा भवन्ति ते ।
श्रीगिरीशस्य नैरृत्यां ख्याता गुण्डीप्रभाख्यया ॥१५९॥

तस्याग्रगर्ते पीताभां मृत्तिकां च पुटे दहेत् ।
तस्यान्निःसरति स्वर्णं शुद्धदेवार्हकं परम् ॥१६०॥

तत्रास्ते भृङ्गचूतोऽपि पूर्ववत् सिद्धिदायकः ।
तथा तम्बीपुरे चास्ति तीर्थे च विपुले शुभम् ॥१६१॥

सदाफलं तु विख्यातं तस्याः पूर्वोत्तरे सुधीः ।
श्रीगिरेर् नैरृते भागे महानन्देति विश्रुतः ॥१६२॥

व्रजेद् घण्टापथेनैव तस्य पूर्वोत्तरे सुधीः ।
तत्रास्ते कालकण्ठेशो नाम्नाग्रे तस्य कुण्डकम् ॥१६३॥

तत्रेन्द्रगोपसङ्काशं सिद्धिः सूतस्य विद्यते ।
भवन्ति सप्त लोहानि स्वर्णं तप्तानि सेकतः ॥१६४॥

ऐशान्ये श्रीगिरीशस्य चास्ति श्रीमालिनीश्वरः ।
तस्योत्तरदिशि ख्यातस् तूमापर्वतसंज्ञकः ॥१६५॥

तस्याग्रे च त्रिशूलाभाः सन्ति दर्भाः शुभङ्कराः ।
तदधो निखनेन्नाभिमात्रं नीलां मृदं हरेत् ॥१६६॥

अक्षकाष्ठैः पचेत्तां च देवातिथ्यग्नये क्रमात् ।
एकैकभागं कल्पेत चतुर्थांशं स्वयं भजेत् ॥१६७॥

जीवेत्कल्पायुतं सिद्धो महाबलपराक्रमः ।
इलेश्वरस्य निकटे तत्र कोटीश्वरः स्थितः ॥१६८॥

पुष्पं पत्रं तदग्रेऽस्ति स्पर्शवेधकरं भवेत् ।
तत्राचलेश्वरो देवः स्पर्शवेधकरः परः ॥१६९॥

तस्य योजनमात्रे च दक्षिणे चामरेश्वरः ।
ततः स्वर्णशिला चास्ति तदूर्ध्वं नरमांसकम् ॥१७०॥

गोमांसं वा क्षिपेत्काष्ठैर्बादरैर्ज्वालयेत्सुधीः ।
प्रातः काञ्चनसङ्काशा दृश्यते सा शिला तदा ॥१७१॥

प्रत्यग्रपुष्पवत्याश्च रजसा भावितांशुकम् ।
लोडयेत्तच्छिलायां च क्षिपेदल्पाम्बुपात्रके ॥१७२॥

तस्य संस्पर्शमात्रेण लेहः स्यात्काञ्चनं परम् ।
श्रीगुरौ यत्र तत्रापि पिण्डभूमिस्थितोपलाः ॥१७३॥

कर्षमात्रं तु तच्चूर्णं भक्षयेत्त्रिफला समम् ।
वलीपलितजिन्मासाज्जीवेदाचन्द्रतारकम् ॥१७४॥

श्रीगिरीन्द्रस्य नैरृत्यां पटाहकर्ण ईश्वरः ।
तस्य पूर्वोत्तरे भागे पञ्चविंशतिचापके ॥१७५॥

द्विहस्तमात्रोर्ध्वशिला खनेत्तत्र द्विहस्तकम् ।
शरावसंपुटाकारान् दृषदस् तान्समाहरेत् ॥१७६॥

कुर्वीत तान् अग्निवर्णान् सिञ्च्यात् कूष्माण्डजैर् द्रवैः ।
तन्मध्यान्नवनीतं तु दद्याद्देवाय भागकम् ॥१७७॥

भागैकमतिथेर्देयं भागमेकं स्वयं लिहेत् ।
दिवा नक्तं भवेन्मूर्च्छा विनिद्रो भवति स्वयम् ॥१७८॥

वलीपलितसंवर्ज्यो जीवेद्वर्षायुतं नरः ।
स्पर्शकान्तस्य सोपानं द्वितीयं भवति प्रिये ॥१७९॥

तद्देवपार्श्वयोः सर्वे पाषाणाः श्वेतपीतकाः ।
स्पर्शाः सर्वा भवन्त्येते तेषु चैकं समाहरेत् ॥१८०॥

प्राच्यां हि तस्य देवस्य समीपे कूपमस्ति च ।
मण्डूकाभाश्च पाषाणाः सन्ति च स्पर्शसंज्ञकाः ॥१८१॥

तस्येश्वरस्य चोदीच्यां लिङ्गाद्रिर् विद्यते महान् ।
तदुत्तरस्यां दिश्यस्ति तटिनी पूर्ववाहिनी ॥१८२॥

तटिन्याः पश्चिमाशायां पिङ्गाभं लिङ्गमस्ति हि ।
पूर्णशैलोदकं कुण्डं तत्र स्यात्क्षणवेधकम् ॥१८३॥

द्वियोजने महेशस्य दक्षिणे चण्डिका स्थिता ।
पिण्डिकाख्या सुविख्याता तस्या वायव्यकोणतः ॥१८४॥

अन्धुरस्ति हि तन्मध्ये मुद्गवर्णास्तथोपलाः ।
केचित्पथ्यानिभाः सन्ति ते सर्वे स्पर्शसंज्ञकाः ॥१८५॥

अत्रत्यानां च सर्वेषां स्पर्शानां विधिरुच्यते ।
यदि स्थूलं पेषयेत्तं श्लक्ष्णं मूषान्तरेण हि ॥१८६॥

कुर्यात्सर्वाणि लोहानि तस्यामावर्तयेत् प्रिये ।
तत्सर्वं जायते स्वर्णं कुर्यादेवं यथेष्टकम् ॥१८७॥

सूक्ष्मश्चेत्सर्वलोहानां द्रुतानामन्तरे क्षिपेत् ।
तत्स्पर्शात् सर्वलोहानि काञ्चनत्वं प्रयान्ति हि ॥१८८॥

वायव्यां मल्लिनाथस्य तीर्थे सर्वेश्वराख्यकम् ।
तस्य दक्षिणदिग्भागे राजमार्गे द्वियोजने ॥१८९॥

गते डोंगलिका तत्र दृश्यते तस्य मूर्धनि ।
कृष्णधात्रीफलान्येव सन्ति तानि च भक्षयेत् ॥१९०॥

सप्तवासरपर्यन्तम् आ तृप्तिं वज्रविग्रहः ।
जरामरणनिर्मुक्तो जीवेत्कल्पशतत्रयम् ॥१९१॥

तस्माच्च दक्षिणे भागे काकलारीमहावने ।
तत्रास्ते स्तम्बकदली प्रविशेत्तत्र साधकः ॥१९२॥

क्रोशार्धमात्रं गच्छेच्च रसकुण्डं च दृश्यते ।
अलाबुपात्रे संस्थाप्य कोटिवेधी भवेत्तु सः ॥१९३॥

शिलामयो नीलवर्णः शिखण्डी तत्र दृश्यते ।
तन्मुखाग्रेऽस्ति कुण्डं वितस्तिमात्रातिनीलकम् ॥१९४॥

शुष्कवंशं च तन्मध्ये क्षणं क्षिप्तं नवं भवेत् ।
पत्रं पुष्पं दिनैकेन भवत्येव न संशयः ॥१९५॥

तत्र प्रस्थं रसं क्षिप्त्वा तावन्मात्रं जलं हरेत् ।
मधुतुल्यं पिबेत्तं च मूर्च्छा भवति तत्क्षणात् ॥१९६॥

क्षणेन लब्धज्ञानः स्याज्जीवेद्युगसहस्रकम् ।
श्रीगिरेर्वह्निदिग्भागे घटिकासिद्धखेचरः ॥१९७॥

अस्ति तस्य पुरो भूमौ पञ्चहस्तं खनेत्सुधीः ।
बदराकारपाषाणा विद्यन्ते खगतिप्रदाः ॥१९८॥

एकं वक्त्रे सदा धार्यं सिद्धैः खेगतिलिप्सुभिः ।

सिद्धिक्रमः

श्रीशैले सर्वसिद्धीनामुक्तानां विधिरुच्यते ॥१९९॥

मन्त्रन्यासं पुरा कृत्वा पश्चाल्लक्षं जपेन्मनुम् ।
अघोरान्तेन वै शीघ्रं तत्तत्सिद्धिमवाप्नुयात् ॥२००॥

अथ न्यासः

ओं ह्रीं महापर्वतवासिन्यै हृदयाय नमः ।
ओं ह्रीं ज्येष्ठायै शिरसे स्वाहा ।
ओं ह्रीं रौद्र्यै शिखायै वषट् ।
ओं ह्रीं कनककुण्डलिन्यै कवचाय हुं ।
ओं ह्रीं संजीविन्यै नेत्रेभ्यो वौषट् ।
ओं ह्रीं मालिन्यै अस्त्राय फट् ।
ओं हुं शिवाय नमः पादयोर्न्यसेत् ।
ओं वं वामदेवाय नमः जङ्घयोः ।
ओं पं पद्मिन्यै नमः गुह्ये ।
ओं कां कन्याकुमार्यै नमः नाभौ ।
ओं ग्लौं नमः कुक्षौ ।
ओं द्रां ह्रीं दुर्गायै नमः उरसि ।
ओं हुं विन्ध्यवासिन्यै नमः कण्ठमूले ।
ओं लं नमः ग्रीवायाम् ।
ओं ह्रीं श्रीं अष्टभुजायै नमः भुजयोः ।
ओं हुं सर्वतोमुखिन्यै नमः मुखे ।
ओं प्रकाशिकायै नमः नेत्रयोः ।
ओं महिषमर्दिन्यै नमः कर्णयोः ।
ओं ह्रां सर्वाङ्गसुन्दर्यै नमः मूर्ध्नि न्यसेत् ।
एवम् अङ्गरक्षां कृत्वा क्षेत्रं पूजयेत् ।
ओं ह्रीं श्रीं नमो भगवति सर्वेश्वरि देवि नमो मण्डलवासिनि क्रां क्रीं क्रूं हन हन पच पच मथ मथ शीघ्रम् आवेशय शीघ्रमावेशय एह्येहि भुवनवन्दिते स्वाहा ।
अनेन मन्त्रेण देवतामावाहयेत् ।
ओं ह्रां ह्रीं ह्रूं त्रिभुवनेश्वर्यै नमः सांनिध्यं कुरु कुरु स्वाहा ।
अनेन मन्त्रेण तत्क्षेत्रदेवतां पूजयेत् ।
ओं कृष्णवर्णिनि अपरामुख्यै नमः पूर्वस्मिन् ।
ओं सुधावर्षिण्यै नमः आग्नेये ।
ओं पर्वताकृष्णवर्णिनीरौद्रमुख्यै नमः दक्षिणे ।
ओं बालार्कवर्णिनीमहालक्ष्म्यै नमः नैरृत्ये ।
ओं खं रक्तपर्वतवर्णिनी ।
महामहिषासुरमर्दिन्यै नमः पश्चिमे ।
ओं मां सर्ववर्णिनीहुङ्कारवाग्देव्यै नमः वायव्ये ।
ओं सिह्मवाहिन्यै नमः उत्तरे ।
ओं शिवाशिवाशिवात्रिशूलहस्तायै नमः ऐशान्ये ।
ओं ह्रां ह्रीं क्लीं मनोन्मन्यै नमः आकाशे ।
ओं ह्रां ह्रीं महामोहिन्यै नमः पाताले ।
ओं ह्रां ह्रीं ह्रूं ह्रैं ह्रों ह्रौं ह्रं महाविद्ये जम्भय जम्भय मोहय मोहय दर्शय दर्शय मूर्छय मूर्छय क्लीं मथ मथ आकर्षयाकर्षय हुं फट् स्वाहा ।
मध्ये च पूजयेत् ।
एवं न्यासं रक्षां पूजां कृत्वा तत्कर्मणि लक्षमेकम् अघोरं जपेत् ।
ततः सिद्धिमवाप्नोति ।
मन्त्रं यथा ।
ओं ह्रां ह्रीं ह्रं अघोरतर प्रस्फुर प्रस्फुर प्रकट प्रकट कह कह शम शम जात जात दह दह पातय पातय ओं ह्रैं ह्रां ह्रं अधोरास्त्राय फट् ।
अमुं मन्त्रं लक्षं जपेत् ।
ततः स्वप्ने प्रत्यक्षीभूय देवता वरं ददाति ॥२०१॥

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP