रसविद्या - भाग ९
रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद.
रसायनार्हरससंस्कारः॑ प्रथमः प्रकारः
श्रीभैरवी ।
रसायनार्हां सूतस्य संस्कृतिं वद मे विभो ।
श्रीभैरवः ।
शृणु पार्वति यत्नेन संस्कारं शोधनादिकम् ॥१॥
पुनर्नवारसैः पेष्यं धान्याभ्रं पारदं समम् ।
तप्तखल्वे दिनं देवि वज्रमूषागतं रसम् ॥२॥
पचेद्भूधरयन्त्रे च पुनः संमर्दयेच्च तम् ।
पूर्वद्रवैर्यथापूर्वं मर्दनं पाचनं पुनः ॥३॥
कृत्वैवं दशवारं तं पात्यं पातनयन्त्रके ।
शुद्धः स्यात्पारदो देवि योज्यो योगे रसायने ॥४॥
द्वितीयः प्रकारः
दशमांशं रसाद्गन्धं तप्तखल्वे विनिक्षिपेत् ।
वराजम्बीरकन्याग्निद्रवैर्यामं विमर्दयेत् ॥५॥
पातयेत्पातनायन्त्रे कुर्यादेवं तु सप्तधा ।
सगन्धकं मर्दनं च पातनं भवति प्रिये ॥६॥
शुद्धः स्यात्पारदो देवि योग्यो योगे रसायने ।
तृतीयः प्रकारः
तिलतैलैर् माहिषिकैर् मूत्रैर् मर्द्याम्लकेन च ॥७॥
गोमांसैर् हिङ्गुलं पाच्यं लोहपात्रे क्रमाग्निना ।
सप्ताहं लोहदण्डेन चालयन्सद्रवं मुहुः ॥८॥
सार्द्रमायूरपित्तेन भावयेदातपे दिनम् ।
पाचयेत्पातनायन्त्रे दरदं खरवह्निना ॥९॥
शुद्धो भवेच्चतुर्यामात्पारदः स्याद्रसायने ।
रसभस्मक्रमः॑ प्रथमः प्रकारः
ऊर्ध्वाधस्तात्खजीर्णस्य सूतस्य समगन्धकम् ॥१०॥
निक्षिपेत्पक्वमूषायां गर्ते द्वाभ्यां चतुर्गुणम् ।
काकमाचीद्रवं दत्त्वा निरुध्यैनां क्रमाग्निना ॥११॥
पचेद्गुण्डकयन्त्रस्थां मूषां यामचतुष्टयम् ।
भस्मसाज्जायते सूतो योजयेत्तु रसायने ॥१२॥
द्वितीयः प्रकारः
जीर्णसूतं स्नुक्क्षीरैः समं गन्धं विमर्दयेत् ।
दिनं ततो गर्भयन्त्रे पुटे भस्मति पूर्ववत् ॥१३॥
तृतीयः प्रकारः
खजीर्णसूतं तुल्यांशं लाक्षोर्णामधुटङ्कणम् ।
गुञ्जां भृङ्गरसैः सर्वं दिनमेकं विमर्दयेत् ॥१४॥
अन्ध्रितं वज्रमूषायां धमेद्भस्मति पारदः ।
चतुर्थः प्रकारः
घनजीर्णं रसं गन्धं त्र्यहं तुल्यं विमर्दयेत् ॥१५॥
अहिमार्या रसैर्वाथ ह्यजामार्या रसेन वा ।
रसेन कीटमारिण्याः श्वेताङ्कोलरसेन वा ॥१६॥
दिवारात्रं करीषाग्नौ मृण्मये संपुटे दहेत् ।
तुषाग्निना वा त्रिदिनाद्भस्मीभवति पारदः ॥१७॥
तप्तखल्वे वज्रभस्म जीर्णे सूते समं त्र्यहम् ।
हंसपादीरसैर् मर्द्यं बीजैर्दिव्यौषधोद्भवैः ॥१८॥
लेपयेद्वज्रमूषायां तत्र पूर्वं रसं क्षिपेत् ।
त्र्यहं तुषाग्निना पाच्यं हंसपादीद्रवैः पुनः ॥१९॥
मर्दयेत्त्रिदिनं गाढं तद्गोलं पूर्ववत्पचेत् ।
भस्मीभवति सूतेन्द्रः शङ्खकुन्देन्दुसन्निभः ॥२०॥
जारितरसमारणम्॑ प्रथमः प्रकारः
अथ वक्ष्यामि देवेशि जारितं रसमारणम् ।
प्रथमं जारणं कुर्यात्सबीजं सुरनायिके ॥२१॥
अजारितं रसं मूढः प्रमादान्मारयेद्यदि ।
मम द्रोही स पापिष्ठो महापातकवान् भवेत् ॥२२॥
भ्रूणहा गुरुघाती च गोघ्नः स्त्रीबालघातकः ।
तस्मात्सर्वप्रयत्नेन कुर्याज्जारणपूर्वकम् ॥२३॥
मारणं रसराजस्य मम बीजस्य पार्वति ।
धरायां गोमयं देवि स्थापयित्वा तत उपरि ॥२४॥
पक्वमूषायां विनिक्षिप्य तन्मध्ये कटुतुम्बिजम् ।
तैलं निधाय सूतं च निक्षिपेच्च तत उपरि ॥२५॥
काकमाचीरसो देयस्तैलतुल्यो वरानने ।
शुद्धं गन्धं व्रीहिमात्रं दत्त्वा मूषां निरोधयेत् ॥२६॥
तदूर्ध्वं खादिराङ्गारपूरितं श्रावकं न्यसेत् ।
ज्ञात्वा तत्स्वाङ्गशीतत्वं पुनर्गन्धं च तैलकम् ॥२७॥
काकमाचीद्रवं दत्त्वा वह्निमेवं पुनः पुनः ।
अधस्ताद्गोमयं सान्द्रमुपरिष्टाच्च पावकम् ॥२८॥
काकमाचीद्रवः सूतस्तैलं चैतत्त्रयं समम् ।
जारयेत्षड्गुणं गन्धं रसस्येत्थं मुखीकृतिः ॥२९॥
दिनं जम्बीरनीरेण मर्दयेत्तं रसं पुनः ।
चतुः षष्ट्यंशकं हेम्नः पत्रं कण्टकभेदनम् ॥३०॥
मयूरपित्तं तैलं च लिपेत्सर्षपसंभवम् ।
अभावे तैलपित्तस्य चूलिकालवणं बलिम् ॥३१॥
जम्बीरस्य रसैर्मर्द्यं तं रसं हेमपत्रकम् ।
पाचयेत्पूर्ववद्वह्नौ जम्बीरस्य रसैः पुनः ॥३२॥
सम्पूर्णां रोधयेन्मूषां पूर्ववज्जारयेत्पुनः ।
द्वात्रिंशदंशकं हेम षोडशांशं तत उपरि ॥३३॥
मर्दयेज्जारयेदेवं ततः सूतस्य मारणम् ।
समूलां कुम्भिम् आदाय गवां मूत्रेण पेषयेत् ॥३४॥
दिनमेकं तद्रसेन मर्दयेत्पारदं सुधीः ।
संपुटे कान्तजे क्षिप्त्वा चोर्ध्वाधश्च नियामकान् ॥३५॥
चुल्ल्यां मृद्वग्निना पाच्यं दिनं भस्म भवेद्रसः ।
अक्षीणो मृत्युनाशी स्याज्जरादारिद्र्यनाशनः ॥३६॥
द्वितीयः प्रकारः
वासितं पारदं कर्षमष्टगुञ्जाः सुवर्णकम् ।
मृतं वज्रं चतुर्गुञ्जं मर्द्यं हंसपदीरसैः ॥३७॥
तप्तखल्वे वज्रमूषागतं कृत्वा निरोधयेत् ।
पचेद्भूधरयन्त्रे च पुनरादाय तं रसम् ॥३८॥
हंसपादीद्रवैर्मर्द्यं तप्तखल्वे दिनत्रयम् ।
पूर्ववद्भूधरे यन्त्रे पचेत्सूतं पुनः पुनः ॥३९॥
एवं शतपुटं कृत्वा भस्म स्याद्रक्तवर्णकम् ।
एतानि रसभस्मानि शस्तानि च रसायने ॥४०॥
रसायनयोगाः॑ अभ्रकरसायनम्
एकद्वित्रिचतुःपञ्चयोगयुक्तं रसायनम् ।
क्रमाद्वक्ष्यामि देवेशि तत्राप्यभ्रकसेवनम् ॥४१॥
वमनादिविशुद्धात्मा त्यक्तक्षाराम्लकादिकः ।
पूर्ववद्भस्मयेद्व्योमसत्वं भृङ्गवरारसैः ॥४२॥
त्रिः सप्तधा भावनीयं प्रातर्गुञ्जाद्वयं भजेत् ।
ससितं तदनु क्षौद्रं घृतैः सत्रिफलं लिहेत् ॥४३॥
द्वात्रिंशद्गुञ्जका वृद्धिः क्रामणं कर्षमात्रकम् ।
एष षोडशमासान्ते सर्वरोगाद्विमुच्यते ॥४४॥
स भवेत्कान्तसेवार्हस्त्वेवमभ्रकसेवया ।
कान्तरसायनम्
पूर्ववद्भस्मयेत्कान्तं वरानिर्गुण्डिभृङ्गजैः ॥४५॥
रसैस्त्रिसप्तवाराणि मर्दयेद्भावयेत्क्रमात् ।
क्षौद्राज्याभ्यां लिहेत्प्रातर्नित्यं गुञ्जाद्वयोन्मितम् ॥४६॥
अनु भक्ष्यं सिन्दुवारवराभृङ्गभवं रजः ।
मध्वाज्याभ्यां कर्षमात्रं शुद्धाङ्गो वमनादिभिः ॥४७॥
द्वात्रिंशद्गुञ्जिका वृद्धिः परमावधिरीश्वरि ।
भवेत् षोडशमासान्ताज्जराव्याधिभिरुज्झितः ॥४८॥
कान्तस्य सेवया पश्चाद्भवेत्कान्ताभ्रकार्हकः ।
कान्ताभ्ररसायनम्
मृतं कान्तं घनं तुल्यं धात्रीभृङ्गपुनर्नवाः ॥४९॥
द्रवैरेषां पृथङ्मर्द्यं कल्ये गुञ्जाद्वयं लिहेत् ।
शर्करामधुसर्पिर्भिः शुद्धात्मा वमनादिभिः ॥५०॥
भृङ्गामलकवर्षाभूचूर्णं क्रामणमुत्तमम् ।
मध्वाज्यैरनु लेह्यं तद्द्वात्रिंशद्गुञ्जकावधि ॥५१॥
मासषोडशयोगेन वलीपलितजिद्बली ।
कान्ताभ्रसत्वभजनाद्धेमसेवार्हको भवेत् ॥५२॥
स्वर्णरसायनम्
पूर्ववद्भस्मयेत्स्वर्णं दशमूलकषायतः ।
एकविंशतिवारं तं मर्दयेद्भावयेत्प्रिये ॥५३॥
मध्वाज्याभ्यां मुद्गमानं लिहेत्प्रातर्विशुद्धधीः ।
गुडूचीत्रिफलाक्वाथं पलं चानुपिबेत्सुधीः ॥५४॥
अष्टगुञ्जावधिर् वृद्धिर् भवेत् षोडशमासतः ।
तेजस्वी बलवान्धीमांश्चक्षुष्मान् रोगवर्जितः ॥५५॥
वलीपलितनिर्मुक्तस्त्रिकालविषजिद्भवेत् ।
स्वर्णाभ्रकरसायनम्
पूर्ववन्मारयेत्स्वर्णं तस्माद् द्विगुणमभ्रकम् ॥५६॥
दशमूलवराभृङ्गीक्वाथैर् भाव्यं त्रिसप्तधा ।
प्रातर्माषत्रयं लेह्यं मध्वाज्यैः क्रामणं लिहेत् ॥५७॥
पलं गुडूचीत्रिफलाक्वाथं तदनु पार्वति ।
चतुर्विंशतिगुञ्जास्य वृद्धिः स्यात्परमावधिः ॥५८॥
मासषोडशयोगेन दिव्यतेजा महाबलः ।
घनकाञ्चनयोगेन स्वर्णकान्तार्हको भवेत् ॥५९॥
स्वर्णकान्तरसायनम्
पूर्ववन्मारयेत्स्वर्णं कान्तं स्वर्णद्विभागकम् ।
धात्रीफलैर् द्विसप्तैव भावयेन्मर्दयेत्क्रमात् ॥६०॥
सशर्करं भजेत् प्रातस्त्रिमाषं च पिबेदनु ।
धात्रीसत्वं घृतं क्षौद्रं कर्षमात्रं सुरेश्वरि ॥६१॥
चतुर्विंशतिका गुञ्जा वृद्धिः स्यात् परमावधिः ।
मासषोडशयोगेन वलीपलितवर्जितः ॥६२॥
तप्तकाञ्चनसच्छायः पञ्चबाण इवापरः ।
हेमकान्तास्वादनेन कान्ताभ्रकनकार्हकः ॥६३॥
स्वर्णाभ्रकान्तरसायनम्
पूर्ववन्मारयेत्स्वर्णं कान्तसत्त्वाभ्रसत्वकम् ।
समानि त्रीणि चैतानि भावयेच्च त्रिसप्तकम् ॥६४॥
मुण्डिनिर्गुण्डिकाभृङ्गवरानीरेण पार्वति ।
माषत्रयोन्मितं प्रातर्लिहेत्क्षौद्रघृताप्लुतम् ॥६५॥
मुण्डीचूर्णं कर्षमात्रं मध्वाज्याभ्यां लिहेदनु ।
गोक्षीरं पलमात्रं च पिबेत्तदनु पार्वति ॥६६॥
वल्लद्वादशसंख्याता परा वृद्धिर् भवेत् प्रिये ।
मासषोडशयोगे दिव्यकायो भवेन्नरः ॥६७॥
हेमाभ्रकान्तभजनाद् योग्यः स्याद्वज्रभक्षणे ।
वज्ररसायनम्
पूर्ववद्भस्मयेद् वज्रं धात्रीनीरेण मर्दयेत् ॥६८॥
भावयेत्सप्तधा धीमान्व्रीहिमात्रं लिहेत्प्रिये ।
घृतक्षौद्रयुतं चानुपिबेद्धात्रीरसं पलम् ॥६९॥
वल्लावधिर् भवेद्वृद्धिर्मासषोडशयोगतः ।
चिरजीवी वज्रकायो दिव्यदृष्टिर् महाबलः ॥७०॥
वज्रस्य सेवया योग्यो भवेद्वज्राभ्रभक्षणे ।
वज्राभ्ररसायनम्
पूर्ववन्मारयेद्व्योम वज्रं वज्राच्चतुर्गुणम् ॥७१॥
घनं धात्र्याः शतावर्या रसैर् भाव्यं त्रिसप्तधा ।
यवमात्रं लिहेत्प्रातर्मध्वाज्याभ्यां लिहेदनु ॥७२॥
धात्रीशतावरीनीरं क्रामणं पलमात्रकम् ।
चतुर्गुञ्जा परा वृद्धिर्भवेत्षोडशमासतः ॥७३॥
वाक्सिद्धिर् दिव्यदृष्टिः स्याद्देवतासदृशप्रभः ।
सेवया घनवज्रस्य कान्तवज्रार्हको भवेत् ॥७४॥
कान्तवज्ररसायनम्
पूर्ववद्भस्मयेद्वज्रं कान्तं वज्राच्चतुर्गुणम् ।
कान्तं त्रिसप्तधा भाव्यमश्वगन्धावरारसैः ॥७५॥
यवमात्रं क्षौद्रघृतैर्युक्तं लेह्यं दिनोदये ।
अश्वगन्धावराचूर्णं कर्षं गोपयसा पिबेत् ॥७६॥
चतुर्गुञ्जावधिर्ज्ञेया वृद्धिः स्यात्परमावधिः ।
मासषोडशयोगेन बालसूर्यसमद्युतिः ॥७७॥
महाबलो महातेजा वाक्सिद्धः सिद्धतां व्रजेत् ।
सेवया वज्रकान्तस्य वज्रकान्ताभ्रकार्हकः ॥७८॥
वज्राभ्रकरसायनम्
पूर्ववन्मारयेद्वज्रं कान्ताभ्राणि च हीरकात् ।
चतुर्गुणे च कान्ताभ्रे वराभृङ्गकुरण्डजैः ॥७९॥
रसैस्त्रिसप्तधा भाव्यं यवमात्रं लिहेत्प्रिये ।
समध्वाज्यं भृङ्गवराकुरण्डकरजोयुतम् ॥८०॥
पलं पिबेच्च गोक्षीरं चतुर्गुञ्जापरावधिः ।
मासषोडशयोगेन गृध्रदृष्टिर् महाबलः ॥८१॥
अव्याहतगतिर्धीरः सिद्धसंघेन वर्तते ।
कान्ताभ्रवज्रभजनाद्योग्यः स्याद्धेमवज्रयोः ॥८२॥
स्वर्णवज्ररसायनम्
पूर्ववन्मारयेद्वज्रं स्वर्णं वज्राद्द्विभागकम् ।
सुवर्णवज्रं वर्षाभूरसैर्भाव्यं त्रिसप्तधा ॥८३॥
व्रीहिमेयं लिहेत्क्षौद्रघृताभ्यां च पुनर्नवाम् ।
कर्षं पलं च गोक्षीरमनुपेयं सुरेश्वरि ॥८४॥
द्विगुञ्जावधि वृद्धिः स्यान्मासषोडशयोगतः ।
चिरकालं भवेज्जीवी वलीपलितवर्जितः ॥८५॥
वज्रहेमोपयोगेन स्वर्णाभ्रकुलिशार्हकः ।
स्वर्णाभ्रवज्ररसायनम्
पूर्ववद्भस्मयेद्धेमघनवज्राणि पार्वति ॥८६॥
हीरकाद् द्विगुणं स्वर्णं स्वर्णादभ्रं द्विभागकम् ।
मुसलीकन्दसारेण भावनीयं त्रिसप्तधा ॥८७॥
यवमात्रं लिहेत्प्रातर्मध्वाज्याभ्यां पिबेदनु ।
कर्षं स्यान्मुसलीचूर्णं गोक्षीरं पलमात्रकम् ॥८८॥
चतुर्गुञ्जावधिर् वृद्धिर्मासषोडशयोगतः ।
मृत्युं जयेज्जराहीनो वज्रकायो महाबलः ॥८९॥
एतस्य सेवया वज्रहेमकान्तार्हको भवेत् ।
स्वर्णवज्रकान्तरसायनम्
वज्रकान्तसुवर्णानि पूर्ववन्मारितानि च ॥९०॥
वज्रात्सुवर्णं द्विगुणं स्वर्णात्कान्तं द्विभागकम् ।
धात्रीभृङ्गरसैर्मर्द्यमेकविंशतिवारकम् ॥९१॥
यवमात्रं लिहेत्प्रातर्मध्वाज्याभ्यां पिबेदनु ।
धात्रीभृङ्गभवं चूर्णं कर्षं गोदुग्धकं पलम् ॥९२॥
गुञ्जाचतुष्टयी वृद्धिर्मासषोडशयोगतः ।
वलीपलितनिर्मुक्तो दिव्यतेजा महाबलः ॥९३॥
एतस्य सेवया कान्तस्वर्णवज्राभ्रकार्हकः ।
स्वर्णकान्तवज्राभ्रकरसायनम्
भस्मयेत् स्वर्णकान्ताभ्रवज्राणि च यथोक्तवत् ॥९४॥
ज्योतिष्मतीरसैर् भाव्यमेकविंशतिवारकम् ।
यवमात्रं लिहेत्प्रातर्मध्वाज्याभ्यां पिबेदनु ॥९५॥
अश्वगन्धाकन्दचूर्णं कर्षं गोदुग्धकं पलम् ।
गुञ्जाचतुष्टयी वृद्धिः परमावधिरीश्वरि ॥९६॥
मासषोडशयोगेन साक्षादिन्द्रसमो भवेत् ।
एतस्य सेवया देवि रसं सेवितुम् अर्हति ॥९७॥
रसभस्म
धान्याभ्रं पारदं मर्द्यं तप्तखल्वे दिनत्रयम् ।
त्रिफलारग्वधनिशाकुमारीकृष्णधूर्तजैः ॥९८॥
पुनर्नवाग्निजंबीरभवैर् नीरैर् विमर्दयेत् ।
पातयेत्पातनायन्त्रे त्वेवं मर्दनपातनम् ॥९९॥
कुर्यात्त्रिवारं शुद्धः स्यात्पारदो दोषवर्जितः ।
नियामकैर्मर्दयेत्तं मूषालेपं नियामकैः ॥१००॥
कृत्वा तं मर्दितं सूतं मूषायां निक्षिपेत्सुधीः ।
अन्ध्रयित्वा भूधराख्ये यन्त्रे पाच्यं सुरेश्वरि ॥१०१॥
एवं च सप्तधा कुर्यान्मर्दनं पुटपाचनम् ।
रसभस्म भवेच्छुभ्रं योज्यं योगे रसायने ॥१०२॥
आरोटकरसाः॑ अभ्रकजीर्णरसभस्म
अथ चारोटकरसं देहसिद्ध्येककारणम् ।
माषमात्रं लिहेत्प्रातर् मध्वाज्यत्रिफलैः सह ॥१०३॥
धारोष्णं गोपयः पेयं मात्रमनु प्रिये ।
अष्टगुञ्जावधिं वृद्धिं कृत्वा षोडशमासकम् ॥१०४॥
वलीपलितनिर्मुक्तो जीवेदाचन्द्रतारकम् ।
एतस्य सेवया देवि ह्यभ्रसूतार्हको भवेत् ॥१०५॥
मुखीकृते रसे देवि चतुःषष्टिकनिष्कके ।
अभ्रसत्वं निष्कमात्रं क्षिप्त्वा जम्बीरजैर्द्रवैः ॥१०६॥
तप्तखल्वे मर्दयेच्च दिनं कच्छपयन्त्रके ।
सबिडं च पचेत्पश्चात्तमादाय विमर्दयेत् ॥१०७॥
अभ्रसत्वं द्विनिष्कं च जम्बीराम्लेन पार्वति ।
तप्तखल्वे कच्छपाख्ये यन्त्रे पचनकर्म च ॥१०८॥
तृतीये च चतुर्निष्कं चतुर्थे पञ्चमे क्रमात् ।
अष्टनिष्काभ्रसत्वं च दद्यात्पञ्चमपातने ॥१०९॥
घनषोडशनिष्कं च षष्ठे द्वात्रिंशदंशकम् ।
सत्त्वं सप्तमे स्यात्सममेव हि पार्वति ॥११०॥
पारदेऽभ्रकसत्वस्य जारणा भवति प्रिये ।
एवं जारितसूतेन्द्रं भस्मीकुर्याच्च पूर्ववत् ॥१११॥
पलं चैतत्सूतभस्म व्योमसत्वं चतुष्पलम् ।
भृङ्गराजद्रवैर् मर्द्यं मूषायामन्धयेद्दृढम् ॥११२॥
कुक्कुटाख्ये पुटे पच्यात्स्वाङ्गशीतं समाहरेत् ।
त्रिफलाभृङ्गजैर् नीरैर् भावयेत्तत्त्रिसप्तधा ॥११३॥
मध्वाज्याभ्यां गुञ्जमात्रं लिहेत्प्रातर्विशुद्धधीः ।
पिबेदनु वराक्वाथं पलं नियतमानसः ॥११४॥
गुञ्जाषोडशिका वृद्धिः सेव्यं षोडशमासतः ।
आचन्द्रतारकं जीवेद्वलीपलितवर्जितः ॥११५॥
एतस्य सेवया कान्तसूतसेवार्हको भवेत् ।
कान्तजीर्णरसभस्म
मुखीकृते सूतराजे यथाभूदभ्रजारणा ॥११६॥
तथैव कान्तसत्वस्य जारणा भवति प्रिये ।
मारयेत् पूर्ववत्सूतं कान्तसत्वेन जारितम् ॥११७॥
एवंविधं सभस्म भागमेकं भवेत्पुनः ।
चतुर्भागं कान्तभस्म मर्दयेत्त्रिफलाम्बुना ॥११८॥
मूषायाम् अन्ध्रयेत् पश्चात्पचेत्कौक्कुटिके पुटे ।
तमादाय वरानीरैर् भावयेच्च त्रिसप्तधा ॥११९॥
मध्वाज्याभ्यां लिहेद्गुञ्जामात्रं प्रातरतन्द्रितः ।
अनुपेयं च गोक्षीरं पलमात्रं सुरेश्वरि ॥१२०॥
गुञ्जाषोडशिका वृद्धिर्मासषोडशयोगतः ।
दिव्यदृष्टिं खेचरत्वं प्राप्नुयाद् ऐन्द्रकं पदम् ॥१२१॥
एतस्य सेवया सूतघनकान्तार्हको भवेत् ।
मुखीकृतरसे कुर्यात्पूर्ववद्व्योमजारणम् ॥१२२॥
कान्ताभ्रकजीर्णरसभस्म
समं सूतस्य देवेशि पश्चात्कार्यं विचक्षणैः ।
पूर्ववत्कान्तसत्वस्य जारणा सूतराट्समा ॥१२३॥
कान्तसत्वाभ्रसत्वाभ्यां जारितः पारदो यदि ।
स रसः पक्षहीनः स्याच्चाञ्चल्यरहितः शिवः ॥१२४॥
तं रसं पूर्ववद् दिव्यैर् औषधैर् मारितं रसम् ।
पलं तद्द्विगुणं व्योमसत्वभस्म च तत्समम् ॥१२५॥
भस्म वैक्रान्तसत्वस्य मर्द्यमेवं त्रयं त्रिधा ।
भृङ्गधात्रीफलरसे ततो लघुपुटे पचेत् ॥१२६॥
भृङ्गधात्रीफलरसैश्छायायां भावयेद्रसम् ।
त्रिफलामधुसर्पिर्भिर् गुञ्जामात्रं लिहेदनु ॥१२७॥
पिबेत्पलं च गोक्षीरं वृद्धिः षोडशगुञ्जिका ।
मासषोडशयोगेन जीवेदाचन्द्रतारकम् ॥१२८॥
एतस्य सेवया सूतस्वर्णसेवार्हको भवेत् ।
स्वर्णजीर्णरसभस्म
हेमजीर्णं सूतराजं भस्मीकुर्याच्च पूर्ववत् ॥१२९॥
एवंविधं सूतभस्म पलं स्वर्णपलद्वयम् ।
भृङ्गधात्रीफलरसैश्छायायां भावयेत्त्रिधा ॥१३०॥
रुद्ध्वा तं संपुटे पच्यात्कुक्कुटाख्ये पुटे पचेत् ।
पुनस्त्रिसप्तधा भृङ्गधात्रीनीरैश्च भावयेत् ॥१३१॥
माषमात्रं लिहेत् प्रातर् मध्वाज्याभ्यां युतं रसम् ।
अनुपेयं च गोक्षीरं वृद्धिः षोडशमाषकम् ॥१३२॥
मासषोडशयोगेन देवतुल्यश्चिरायुषः ।
सेवया स्वर्णसूतस्य घनहेमरसार्हकः ॥१३३॥
स्वर्णाभ्रकजीर्णरसभस्म
मुखीकृतरसे चाभ्रसत्वं जार्यं समं पुरा ।
ततः स्वर्णं समं जार्यं तं सूतं भस्मयेत्ततः ॥१३४॥
पूर्वोक्तवत्सूतभस्म पलं स्वर्णपलद्वयम् ।
चतुष्पलं व्योमसत्वभस्म चैकत्र योजयेत् ॥१३५॥
नीलीपत्ररसे मर्द्यं वराक्वाथे दिनं प्रिये ।
रुद्ध्वा तं संपुटे पच्यादन्यैर् विंशतिगोमयैः ॥१३६॥
नीलीरसवराक्वाथैर् भावयेत्तं त्रिसप्तधा ।
गुञ्जोन्मेयं लिहेत्कल्ये मध्वाज्याभ्यां पिबेदनु ॥१३७॥
पलमात्रं वराक्वाथं वृद्धिः षोडशगुञ्जिका ।
मासषोडशयोगेन जीवेदाचन्द्रतारकम् ॥१३८॥
एतस्य सेवया कान्तहेमसूतार्हको भवेत् ।
स्वर्णकान्तजीर्णरसभस्म
समुखे पारदे कान्तसत्वं जार्यं यथोक्तवत् ॥१३९॥
जारयेच्च तथा स्वर्णं द्वाभ्यां जीर्णं समं समम् ।
विधिना भस्मयेत्सूतं कान्तहाटकजारितम् ॥१४०॥
तं रसं पलमेकं च हेमभस्म पलद्वयम् ।
चलं कान्तसत्वभस्म युञ्ज्याद्यथाविधि ॥१४१॥
शतावरीवरानीरे दिनं संमर्द्य संपुटे ।
रुद्ध्वा तं कुक्कुटपुटे पचेदादाय तं रसम् ॥१४२॥
त्रिः सप्तधा शतावर्या रसैर्भाव्यं वरारसैः ।
गुञ्जामात्रं घृतक्षौद्रयुक्तं लेह्यं पिबेदनु ॥१४३॥
शतावरीरसः पेयः पलमात्रं सुरेश्वरि ।
गुञ्जाषोडशिका वृद्धिर्मासषोडशयोगतः ॥१४४॥
वलीपलितनिर्मुक्तः प्रलयान्तं च जीवति ।
एतस्य सेवया स्वर्णकान्ताभ्ररसभुग् भवेत् ॥१४५॥
स्वर्णकान्ताभ्रजीर्णरसभस्म
घनकान्तसुवर्णानि चैकैकानि समानि वै ।
मुखीकृतस्य सूतस्य जारयेत्क्रमशः प्रिये ॥१४६॥
घनादिजारितं सूतं मारयेत्पूर्ववत्सुधीः ।
तस्माद्भस्मीकृतात् सूताद् द्विगुणं हेमभस्म च ॥१४७॥
हेमतुल्यं मृतं कान्तं कान्ततुल्यं मृतं घनम् ।
एतत् सर्वं वराक्वाथमुण्डीभृङ्गरसैर् दिनम् ॥१४८॥
मर्दयेत्संपुटे रुद्ध्वा पचेत्कौक्कुटिके पुटे ।
तदादाय वराभृङ्गमुण्डिनीरैश्च भावयेत् ॥१४९॥
त्रिः सप्तवारं छायायां प्रातर्गुञ्जोन्मितं लिहेत् ।
शर्करामधुसर्पिर्भिर् अनुपेयं च गोपयः ॥१५०॥
गुञ्जाषोडशिका वृद्धिर्मासषोडशयोगतः ।
वलीपलितनिर्मुक्तो जीवेदाचन्द्रतारकम् ॥१५१॥
एतस्य सेवया सूतवज्रसेवार्हको भवेत् ।
वज्रजीर्णरसभस्म
समुखे पारदे कुर्यात्पूर्ववद्वज्रजारणाम् ॥१५२॥
वज्रजीर्णं रसं देवि भस्मीकुर्याच्च पूर्ववत् ।
भस्मीभूतरसाद् वज्रभस्म च द्विगुणं प्रिये ॥१५३॥
कन्याभृङ्गवरानीरैर् दिनं मर्द्यं च संपुटे ।
कुक्कुटाख्ये पुटे पच्यात्तमादायाथ भावयेत् ॥१५४॥
कन्याभृङ्गवरानीरैर् भावयेच्च त्रिसप्तधा ।
यवमात्रं लिहेत्प्रातर्मध्वाज्याभ्यां पिबेदनु ॥१५५॥
गोक्षीरं पलमात्रं तु वृद्धिर्गुञ्जाचतुष्टयम् ।
मासषोडशयोगेन जीवेदाचन्द्रतारकम् ॥१५६॥
एतस्य सेवया वज्रसूतव्योमार्हको भवेत् ।
वज्राभ्रकजीर्णरसभस्म
घनजीर्णं वज्रजीर्णं भस्मीकुर्याद्रसं सुधीः ॥१५७॥
भस्मीभूताद् रसाद्वज्रं द्विगुणं व्योमभस्म च ।
चतुर्गुणं च तत्सर्वमेकीकृत्य विमर्दयेत् ॥१५८॥
वराक्वाथे रसैर्दिनं संपुटके पचेत् ।
कृते लघुपुटे पश्चाद्भाव्यं भृङ्गवरारसैः ॥१५९॥
त्रिसप्तधा समध्वाज्यं माषमात्रं पिबेदनु ।
गव्यं क्षीरपलं पेयं वृद्धिर्गुञ्जाष्टकावधिः ॥१६०॥
एवं षोडशमासेन जीवेदाचन्द्रतारकम् ।
एतस्य सेवया कान्तवज्रसूतार्हको भवेत् ॥१६१॥
कान्तवज्रजीर्णरसभस्म
कान्तं वज्रं समं जार्यं समुखे पारदे प्रिये ।
कान्तहीरकजीर्णं तं पारदं मारयेत्सुधीः ॥१६२॥
पूर्वोक्तविधिना कान्ते एतत्पारदभस्म च ।
पारदाद्द्विगुणं वज्रं वज्रात्कान्तं चतुर्गुणम् ॥१६३॥
पलाशपुष्पस्वरसैर्दिनं मर्द्यं च संपुटे ।
रुद्ध्वा कुक्कुटके पश्चात्तमादायाथ भावयेत् ॥१६४॥
पलाशपुष्पनीरेण भावयेत्तं त्रिसप्तधा ।
समध्वाज्यं माषमात्रं लिहेदनु पिबेत्पयः ॥१६५॥
अष्टगुञ्जावधिर् वृद्धिर् भवेत्षोडशमासतः ।
वलीपलितनिर्मुक्तो जीवेदाचन्द्रतारकम् ॥१६६॥
एतस्य सेवया वज्ररसकान्ताभ्रकार्हकः ।
कान्तवज्राभ्रकजीर्णरसभस्म
समुखे पारदे व्योमकान्तवज्राणि च क्रमात् ॥१६७॥
समानि जारयेत्पश्चाज्जीर्णं तं मारयेद्रसम् ।
पूर्ववत्पारदाद्वज्रं समं वज्रचतुर्गुणम् ॥१६८॥
कान्तं कान्तसमं व्योमसत्वं चैतानि मर्दयेत् ।
त्रिफलाभृङ्गजरसै रुद्ध्वा संपुटके पचेत् ॥१६९॥
लघुनाग्निपुटेनैव तमादायाथ भावयेत् ।
वराभृङ्गरसैर् एकविंशतिं वारमातपे ॥१७०॥
माषमात्रं समध्वाज्यं लिहेत्प्रातर्विशुद्धधीः ।
अनुपेयं च गोक्षीरं वृद्धिर्गुञ्जाष्टकं भवेत् ॥१७१॥
मासषोडशयोगेन जीवेदाचन्द्रतारकम् ।
एतस्य सेवया हेमवज्रसूतार्हको भवेत् ॥१७२॥
स्वर्णवज्रजीर्णरसभस्म
समुखे पारदे तुल्ये हेम वज्रं च जारयेत् ।
तं रसं भस्मयेद्देवि रसं वज्रं समं समम् ॥१७३॥
तयोः समं मृतं हेम वराक्वाथेन मर्दयेत् ।
तत्सर्वं संपुटे क्षिप्त्वा भूधराख्ये पुटे पचेत् ॥१७४॥
तमादाय वराक्वाथैर्भावयेच्च त्रिसप्तधा ।
माषमात्रं लिहेत्प्रातस्तिलाज्यमधुसंयुतम् ॥१७५॥
गोक्षीरमनुपेयं स्यादष्टगुञ्जावधि क्रमात् ।
मासषोडशपर्यन्तं जीयाद् आचन्द्रतारकम् ॥१७६॥
एतस्य सेवया व्योमहेमवज्ररसार्हकः ।
स्वर्णवज्राभ्रकजीर्णरसभस्म
समुखे पारदे व्योमहेमवज्राणि जारयेत् ॥१७७॥
पारदस्य समांशानि ततः सूतं विमारयेत् ।
रसतुल्यं मृतं वज्रं तयोस्तुल्यं च हाटकम् ॥१७८॥
सर्वतुल्यं रसं व्योम तत्सर्वं ब्रह्मबीजकैः ।
तैलैस्त्र्यहं पेषयित्वा संपुटेद्भूधरे पुटे ॥१७९॥
तं पलाशकषायेण भावनाश्चैकविंशतिः ।
तं रसं माषमात्रं च तैलं ब्रह्मद्रुबीजकम् ॥१८०॥
कर्षमात्रं पिबेच्चानु यावद्गुञ्जाष्टकावधि ।
मासषोडशयोगेन सिद्धो भवति शाश्वतः ॥१८१॥
एतस्य सेवया कान्तहेमवज्ररसार्हकः ।
स्वर्णकान्तवज्रजीर्णरसभस्म
मुखीकृते सूतराजे कान्तं स्वर्णं समं समम् ॥१८२॥
जारयेद्भस्मयेत्तं च तत्समं वज्रभस्म च ।
तयोस्तुल्यं मृतं हेम कान्तं सर्वसमं प्रिये ॥१८३॥
वराभृङ्गरसे पिष्ट्वा भूधरे संपुटे पचेत् ।
ततो भृङ्गवरानीरैरेकविंशतिभावनाः ॥१८४॥
वराक्षौद्रैर् लिहेत् प्रातर्माषमात्रं रसं सुधीः ।
गव्यं पयः पलं पेयं वृद्धिः षोडशमाषिका ॥१८५॥
मासषोडशयोगेन भवेत् सिद्धसमः प्रभुः ।
एतस्य सेवया व्योमकान्तहेमपवीरसम् ॥१८६॥
सेवितुं जायतेऽर्होऽसौ संयतात्मा महेश्वरः ।
स्वर्णकान्तवज्राभ्रकजीर्णरसभस्म
घनकान्तस्वर्णवज्रं जारयेत् समुखे रसे ॥१८७॥
प्रत्येकं पारदसममेव कार्यं सुरेश्वरि ।
ततस्तं मारयेद्युक्त्या रसतुल्यं मृतं पविम् ॥१८८॥
तयोस्तुल्यं मृतं हेम सर्वतुल्यं मृतं घनम् ।
घनतुल्यमयस्कान्तं सर्वतुल्यं सुरद्रुजैः ॥१८९॥
तैलैस्ततः संपुटे च क्षिप्त्वा भूधरके पचेत् ।
गुञ्जामात्रं रसं चैतं लिहेत् प्रातः शुचिः सुधीः ॥१९०॥
देवदारुजतैलेन कर्षमात्रं तु पार्वति ।
धारोष्णं गोपयः पेयं पलमात्रमनु प्रिये ॥१९१॥
गुञ्जाषोडशपर्यन्तं मासषोडशयोगतः ।
य इमं पारदं दिव्यं सेवते पथ्यभुक्सदा ॥१९२॥
व्याधिजन्मजरामृत्युवर्जितः सर्वसिद्धिभाक् ।
सर्वज्ञः सर्वगः सिद्धः सृजतीव पितामहः ॥१९३॥
विष्णुवत्त्रायते विश्वं हरतीव हरः स्वयम् ।
वाञ्छितार्थान् स्वयं दत्ते कल्पद्रुम इवापरः ॥१९४॥
कन्दर्प इव कामाक्षीः सहस्रं रमयेत् क्षणात् ।
सच्चिदानन्दरूपोऽयं रससेवी भवेद्ध्रुवम् ॥१९५॥
घनादिपञ्चयोगोत्थमेकत्रिंशद्रसायनम् ।
भवत्स्नेहेन कथितं रहस्यं देवदुर्लभम् ॥१९६॥
N/A
References : N/A
Last Updated : June 24, 2015
TOP