नवसाहसाङ्कचरितम् - प्रथमः सर्गः
संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच. शृङ्गारतिलक काव्याचे कवी आहेत,रुद्रभट्ट.
अव्यात्स वो यस्य निसर्गवक्रः स्पृशत्यधिज्यस्मरचापलीलां ।
जटापिनद्धोरगराजरत्न- मरीचिलीढोभयकोटिरिन्दुः ॥१-१॥
जटाहिरत्नद्युतिपाटलोऽव्यात्स वः शशी शङ्करमौलिरत्नं ।
श्रुतावशोकाङ्कुरकौतुकेन यं कर्तुं इच्छत्यचलेन्द्रकन्या ॥१-२॥
कुम्भस्थली रक्षतु वो विकीर्ण- सिन्दूररेणुर्द्विरदाननस्य ।
प्रशान्तये विघ्नतमश्छटानां निष्ठ्यूतबालातपपल्लवेव ॥१-३॥
चक्षुस्तदुन्मेषि सदा मुखे वः सारस्वतं शाश्वतं आविरस्तु ।
पश्यन्ति येनावहिताः कवीन्द्रास्त्रिविष्टपाभ्यन्तरवर्ति वस्तु ॥१-४॥
_
प्राचीनकविवर्णनम्
तत्त्वस्पृशस्ते कवयः पुराणाः श्रीभर्तृमेण्ठप्रमुखा जयन्ति ।
निस्तृंशधारासदृशेन येषां वैदर्भमार्गेण गिरः प्रवृत्ताः ॥१-५॥
पूर्णेन्दुबिम्बादपि सुन्दराणि तेषां अदूरे पुरतो यशांसि ।
ये भर्तृमेण्ठादिकवीन्द्रसूक्ति- व्यक्तोपदिष्टेन पथा प्रयान्ति ॥१-६॥
सरस्वतीकल्पलतैककन्दं वन्दामहे वाक्पतिराजदेवं ।
यस्य प्रसादाद्वयं अप्यनन्य- कवीन्द्रचीर्णे पथि सञ्चरामः ॥१-७॥
दिवं यियासुर्मम वाचि मुद्रां अदत्त यां वाक्पतिराजदेवः ।
तस्यानुजन्मा कविबान्धवस्य भिनत्ति तां संप्रति सिन्धुराजः ॥१-८॥
_
कवेः शालीनतादि
नैते कवीन्द्राः कति काव्यबन्धे तदेष राज्ञा किं अहं नियुक्तः ।
किं वालुकापवर्तके धरेयं आरोप्यते सत्सु कुलाचलेषु ॥१-९॥
अहो महत्साहसं एतदेव यद्वर्णणीयो नवसाहसाङ्कः ।
दूरे परिच्छेदकथा हि सत्यं एतद्गुणानां उदधेरपां च ॥१-१०॥
भक्त्याथवास्यैव मम प्रबन्धे सूक्ष्मोऽयं उन्मीलति शक्तिलेशः ।
उल्लङ्घितो यत्कपिना पयोधिः सेवानुभवः स रघूद्वहस्य ॥१-११॥
समत्सरे चेतसि दुर्जनानां न जातुचित्सूक्तिगुणो गुणाय ।
निसर्गकृष्णेन्द्रवधूकपोले निरर्थकः कुङ्कुमपत्त्रभङ्गः ॥१-१२॥
किं अन्यदस्याश्चरितैर्नृपस्य मुक्तावदातैः कृतमण्डनायाः ।
मदीयसूक्तेर्मुकुलीभवन्तु स्वभावशुद्धानि सतां मनांसि ॥१-१३॥
नमोऽस्तु साहित्यरसाय तस्मै निषिक्तं अन्तः पृषतापि यस्य ।
सुवर्णतां वक्त्रं उपैति सधोर्दुर्वर्णतां याति च दुर्जनस्य ॥१-१४॥
श्रीसाहसाङ्कोज्ज्वलकीर्तिगर्भा ममाथवा कं न हरन्ति वाचः ।
कस्यात्र लोभाय न शुक्तयस्ता मुक्ता हि यासां उदरे स्फुरन्ति ॥१-१५॥
_
प्रतिज्ञा
एतान्यवन्तीश्वरपारिजात- जातानि तारापतिपाण्डुराणि ।
सम्प्रत्यहं पश्यत! दिग्वधूनां यशःप्रसूनान्यवतंसयामि ॥१-१६॥
_
अथ उज्जयिनीवर्णनम्
अस्ति क्षितऊज्जयिनीति नाम्ना पुरी विहायस्यमरावतीव ।
बबन्ध यस्यां पदं इन्द्रकल्पः श्रीविक्रमादित्य इति क्षितीशः ॥१-१७॥
आमञ्जुगुञ्जत्कलहंसपङ्क्ति- विकस्वराम्भोजरजःपिशङ्गा ।
आभाति यस्याः परिखा नितम्बे सशब्दजम्बूनदमेखलेव ॥१-१८॥
प्राकारवप्रच्छलतः शरीरं आवर्त्य लीलाशयनं मुरारेः ।
यत्रान्तरस्थायिनिधानरक्षां विधातुं उन्मग्न इवोरगेन्द्रः ॥१-१९॥
पदे पदे सान्द्रसुधोज्ज्वलानि गृहाणि या नाकसदां बिभर्ति ।
अभ्युद्गतानीव फणीन्द्रलोकं आपूर्य तद्भूमिभृतां यशांसि ॥१-२०॥
हिमच्छटाहारिभिरंशुजालैः प्रालम्बिमुक्ताफलजालकानि ।
विलासिनीविभ्रममन्दिराणि यस्यां हसन्तीव परस्परस्य ॥१-२१॥
गृहाणि यस्यां सवराङ्गनानि वराङ्गना रूपपुरस्कृताङ्ग्यः ।
रूपं समुन्मीलितसद्विलासं अस्त्रं विलासाः कुसुमायुधस्य ॥१-२२॥
यत्राननैरेणादृशां अभिख्यां सिताश्मवातायनपङ्क्तिरेति ।
अम्भोरुहैरुज्ज्वलहेमक्ëप्तैराकाशगङ्गाजलवेणिकेव ॥१-२३॥
विधूयमानाः पवनेन यस्यां नीलाश्मवेश्मारुणवैजयन्त्यः ।
भिन्नाञ्जनश्यामघनोद्गतानां तडिल्लतानां द्युतिं आवहन्ति ॥१-२४॥
उदेति कान्तामणिमेखलानां गृहे गृहे यत्र मुहुर्निनादः ।
आयाति योऽनङ्गजयद्विपस्य मदावतारोत्सवडिण्डिमत्वं॥ १-२५॥
मुखेन्दुभिः पौरविलासिनीनां कपोलकान्त्या कृतसंविभागः ।
न याति कार्श्यं बहुलेऽपि यत्र वातायनासन्नतरः शशाङ्कः ॥१-२६॥
न पक्षपातेन वदामि सत्यं उषस्सु यस्यां भवनाङ्गनेभ्यः ।
सम्मर्जनीभिः परतः क्रियन्ते विसूत्रितैकावलिमौक्तिकानि ॥१-२७॥
यस्यां असङ्क्षिप्तदृशां स्तनाङ्के कस्तूरिकापत्त्रलता चकास्ति ।
शरासनाभ्यासविधौ समाप्ते मुक्तेव गोधा मकरध्वजेन ॥१-२८॥
विलासिनीसद्मलसत्पताका- पटाञ्चले काञ्चनकिङ्किणीनां ।
निरन्तरैर्या रणितैरजस्रं आज्ञां इवोद्घोषयति स्मरस्य ॥१-२९॥
प्रतिक्षणं या गलितांशुकानां अनङ्गलीलाकलहोत्सवेषु ।
अनल्पकृष्णागुरुधूमभङ्ग्या वामभ्रुवां अर्पयतीव वासः ॥१-३०॥
यत्राष्टमीचन्द्रं उपेयिवांसं आलम्ब्य सौधेष्वसमग्रकान्तिं ।
केशाहृतैः केतकगर्भबर्हैरापूरयन्त्यर्धं अरालकेश्यः ॥१-३१॥
लीलाकटाक्षे मदिरेक्षणानां सम्मोहनास्त्रस्फुरितं निवेश्य ।
रत्या सह कृईडति पुष्पधन्वा यस्यां अशोकद्रुमवीथिकासु ॥१-३२॥
जाने जगन्मोहनकौतुकेन विधाय कूजामिषं अन्यपुष्टैः ।
अहर्निशं चूतवनेषु यस्यां अधीयते मान्मथं अस्त्रवेदं॥ १-३३॥
दिक्चक्रसंचारिमरीचिदण्ड= च्छलेन चामीकरतोरणानां ।
अवैमि दिक्पालपुरीर्विजित्य या हेमवेत्रग्रहणे नियुङ्क्ते ॥१-३४॥
उल्लासिषु स्वर्णगवाक्षपङ्क्तेर्या रश्मिदण्डेषु विघूर्णमानैः ।
भात्यग्रवेदिस्फटिकांशुजालैर्दोधूयमानोज्ज्वलचामरेव ॥१-३५॥
यस्यां गृहप्राङ्गनपद्मराग- रश्मिच्छटापाटलं अन्तरिक्षं ।
आलिङ्गितं किंशुकशोणभासा सन्ध्यातपेनेव सदा विभाति ॥१-३६॥
अवाप्य यस्यां गृहदीर्घिकाच्छ- वैडूर्यसोपानमयूखसख्यं ।
हारीतशङ्कां कलहंसशावा वामभ्रुवां प्रत्यहं अर्पयन्ति ॥१-३७॥
निकामं अच्छैः प्रमदाकपोलैर्यत्रेन्दुबिम्बाकृतिभिः क्रियन्ते ।
स्ववक्त्रसौन्दर्यविलोकनेषु विलासिनो दर्पणनिर्व्यपेक्षाः ॥१-३८॥
पराङ्मुखीनां अपि रत्नभित्तौ प्रसादवत्तद्वदनं विलोक्य ।
यस्यां युवानो हरिणेक्षणानां अलीककोपं सहसा विदन्ति ॥१-३९॥
कुर्वन्ति यस्यां कुसुमेषुकेलि- श्रमोन्मिषत्स्वेदलवास्तरुण्यः ।
कपोलकालागुरुपत्त्रवल्ली- कल्माषं अम्भो गृहदीर्घिकासु ॥१-४०॥
यस्यां समुन्मीलति सुन्दरीणां सा कापि सौभाग्यविशेषलक्ष्मीः ।
विलासमुक्तागुणवद्यदासां सदा प्रियस्तिष्ठति कण्ठलग्नः ॥१-४१॥
अवैमि गीतेन हृते कुरङ्गे पुरन्ध्रिभिः सौधतलस्थिताभिः ।
श्यामासु यस्यां लभते तदच्छ= कपोलबिम्बानुकृतिं मृगाङ्कः ॥१-४२॥
दुर्गेति सर्वत्र गता प्रसिद्धिं नगेन्द्रकन्येव सनीलकण्ठा ।
या लग्नकाञ्चीविषयेण कान्तिं सिंहासनेनातितरां बिभर्ति ॥१-४३॥
वृन्तादपास्तैर्मरुता विकीर्णैः सुगन्धिभिस्तीरतरुप्रसूनैः ।
शिप्रासरित्कूलतमालनीला विभाति यस्याः कबरीलतेव ॥१-४४॥
धूमेन या नैकमुखोगतेन संवेष्ट्यमाणा परितश्चकास्ति ।
मदात्तरत्नेति समत्सरेण कृतोपरोधेव महार्णवेण ॥१-४५॥
विलङ्घयन्ति श्रुतिवर्त्म यस्यां लीलावतीनां नयनोत्पलानि ।
बिभर्ति यस्यां अपि वक्रिमाणं एको महाकालजटार्धचन्द्रः ॥१-४६॥
ध्वजाग्रलग्नेन विलम्बता खं अनेकरत्नांशुकदम्बकेन ।
यस्यां स चण्डीपतिमण्डपोऽपि बिभर्ति मायूरं इवातपत्त्रं॥ १-४७॥
पुरा किल ब्रह्मकमण्डलोर्यतापूरितं पुण्यतमाभिरद्भिः ।
धत्तेऽत्र या तत्त्रिपुरान्तकस्य तडागं आदर्शं इवाङ्कदेशे ॥१-४८॥
यस्यां अनेकामरवेश्मराजिर्मणिध्वजाग्रोच्छलितैर्मयूखैः ।
लिखत्यमर्त्यप्रमदाकुचेषु विचित्रवर्णा इव पत्रलेखाः ॥१-४९॥
यस्यां विसूत्रोज्झितमेखलानि तथा शुकावर्तितसीत्कृतानि ।
शंसन्ति संकेतं उषस्सु यूनां शिप्रातटोद्यानलतागृहाणि ॥१-५०॥
मनोहरैः कामिजनस्य यस्यां नीरन्ध्रनिर्यन्मृगनाभिगन्धैः ।
सचन्दनैः काञ्चनकेलिशैलैः कुचैरिवोद्यानभुवो विभान्ति ॥१-५१॥
गतासु तीरं तिमिघट्टनेन ससंभ्रमं पौरविलासिनीषु ।
यत्रोल्लसत्फेनततिच्छलेन मुक्तार्द्रहासेव विभाति शिप्रा ॥१-५२॥
संसर्गं आसाद्य विलासिनीनां विलासवेश्मागुरुधूपधूमैः ।
बद्धास्पदाः सौधशिखासु यस्यां सुगन्धि तोयं जलदा वमन्ति ॥१-५३॥
सत्पुष्करोद्द्योतितरङ्गशोभि- न्यमन्दं आरब्धमृदङ्गवाद्ये ।
उद्यानवापीपयसीव यस्यां एणीदृशो लास्यगृहे रमन्ते ॥१-५४॥
माणिक्यवातायनकान्तिजाल- विलुप्तरथ्यातिमिरोत्करासु ।
श्यामासु यस्यां प्रमदाः कथं चित्सङ्केतं उत्कम्पिकुचाः प्रयान्ति ॥१-५५॥
नवाम्बुवाहप्रतिबिम्बवत्यां यत्रोच्चहर्म्यारुणरत्नभूमौ ।
व्यक्तिं लभन्ते सुरसुन्दरीणां सालक्तकाः प्रावृषि पादमुद्राः ॥१-५६॥
कृतावधानातिशयेन मन्ये या वेधसा मध्यमलोकरत्नं ।
स्वशिल्पविज्ञानपरप्रकर्ष- प्रकाशनायात्र विनिर्मितेव ॥१-५७॥
_
अथ नायकवर्णनम्
राजास्ति तस्यां स कुलाचलेन्द्र- निकुञ्जविश्रान्तयशस्तरङ्गः ।
भास्वान्ग्रहाणां इव भूपतीनां अवाप्तसंख्यो धुरि सिन्धुराजः ॥१-५८॥
निर्व्यूढनानाद्भुतसाहसं च रणे वृतं च स्वयं एव लक्ष्म्या ।
नाम्ना यं एके नवसाहसाङ्कं कुमारनारायणं आहुरन्ये ॥१-५९॥
सहेलं अभ्युद्धरता धरित्रीं मग्नां द्विषद्वारिनिधावगाधे ।
येनात्र नीता पृथुविक्रमेण व्यक्तिं जगत्यादिवराहलीला ॥१-६०॥
उद्दामदुग्धाब्धितरङ्गहासे यस्यारिकान्ताकुचमण्डलानि ।
हाराः पतत्साञ्जनबाष्पपङ्क- कलङ्कभीत्येव परित्यजन्ति ॥१-६१॥
सद्यः करस्पर्शं अवाप्य चित्रं रणे रणे यस्य कृपाणलेखा ।
तमालनीला शरदिन्दुपाण्डु यशस्त्रिलोकाभरणं प्रसूते ॥१-६२॥
पराङ्मुखेनापि सदा परस्वे पत्या भुवः सागरमेखलायाः ।
अहो यशः पूर्वमहीपतीनां अनाविलं येन बलाद्विलुप्तं॥ १-६३॥
चित्तं प्रसादश्च मनस्विता च भुजं प्रतापश्च वसुन्धरा च ।
अध्यासते यस्य मुखारविन्दं द्वे एव सत्यं च सरस्वती च ॥१-६४॥
यस्याप्सरोभिः परिगीयमानं आकर्ण्य बाह्वोर्विजयप्रपञ्चं ।
शचीकुचस्पर्शं इवाप्य धत्ते र्ॐओद्गमाध्यासितं अङ्गं इन्द्रः ॥१-६५॥
प्रसाधिता येन च बाल्य एव चतुर्भिरुत्साहवता चतस्रः ।
श्रुतेन बुद्धिः प्रभुता नयेन त्यागेन लक्ष्मीर्वसुधा बलेन ॥१-६६॥
रणे रणे मुक्तकृपः कृपाणं यः शातधारं कृतवान्कृतास्त्रः ।
अनेकराजन्यघटाकिरीट- माणिक्यशाणोपलपट्टिकासु ॥१-६७॥
भरेण भूमेः स्फुटं आ नमन्त्याः पांसुच्छटाः शेषफणामणीनां ।
न्यमीलयन्यद्विजयप्रयाणे नागाङ्गनानां नयनोत्पलानि ॥१-६८॥
अन्योन्यसंश्लेषविशीर्णहार- च्युतेन सेवावसरे नृपाणां ।
कीर्णासु मुक्तानिकरेण यस्य कक्ष्यासु वारप्रमदाः स्खलन्ति ॥१-६९॥
आक्षिप्य हारान्निजविक्रमाग्नि- स्फुलिङ्गशङ्कां अनुसन्दधन्ति ।
येनारिकान्ताकुचमण्डलेषु गुञ्जाफलान्याभरणीकृतानि ॥१-७०॥
कृपाणपातैर्दलतां अराति- करीन्द्रकुम्भस्थलमौक्तिकानां ।
धूलिच्छटा मांसलयन्ति यस्य समुद्गतान्याजिमुखे यशांसि ॥१-७१॥
इन्दुद्युतिः कुन्दसितान्दधाना गुणाननङ्गोत्सववैजयन्ती ।
येन द्विषां दूरं अनायि कण्ठादेकावली वामविलोचना च ॥१-७२॥
यस्मिन्वहत्यम्बुधिनेमिं उर्वीं मौर्वीकिणश्यामलदीर्घदोष्णि ।
विभाव्यते पौरवराङ्गनानां मध्यं परं धाम दरिद्रतायाः ॥१-७३॥
आक्रान्तदिङ्मण्डलकुन्तलेन्द्र- सान्द्रान्धकारान्तरितं रणे यः ।
स्वराज्यं अस्त्रारुणमण्डलाग्रो गृहीतवान्दीधितिमानिवाहः ॥१-७४॥
आकम्पितानां मरुतेव यस्य दोष्णाजिभूमावतिदक्षिणेन ।
अजायतारिप्रमदालतानां बाष्पोदबिन्दूत्करपुष्पमोक्षः ॥१-७५॥
विपक्षहृद्भङ्गकृता नितान्तं भ्रूलेखयाकुञ्चितयोल्लसन्त्या ।
नाकारमात्रेण परन्तपस्य यस्यान्वकारि क्रिययापि चापं॥ १-७६॥
दोश्चन्दनानोकहं आप्य यस्य समुल्लसत्सान्द्रयशःप्रसूना ।
गतातिवृद्धिं लवलीलतेव निबद्धमूला परमारलक्ष्मीः ॥१-७७॥
कृतानतिभ्यः सहसा ददाति यः साम्परायेष्वभयं रिपुभ्यः ।
यशश्च गृह्णाति तुषारहार- मृणालकर्पूरपरागपाण्डु ॥१-७८॥
प्रकाशिताशं परितः प्रजानां यस्योदयं धामनिधेर्वदन्ति ।
मुक्ताञ्जनध्वान्तपरिग्रहाणि नेत्राणि शत्रुप्रमदाजनस्य ॥१-७९॥
यस्य प्रयाणे पृतनाभरेण परिस्खलत्सप्तसमुद्रमुद्रा ।
परस्परक्षोदसमाकुलासु दोलायते भूः फणभृत्फणासु ॥१-८०॥
विभिन्नमानं कमलेक्षणानां व्यक्तानुभावं भुवनत्रयेऽपि ।
आहुर्जना दीर्घगुणाभिरामं यं एकचापं कुसुमायुधस्य ॥१-८१॥
असंशयं प्रागसृजद्विधाता यं एकं एव त्रिजगद्वदान्यं ।
कल्पद्रुमादीनथ तैस्तदीय- निर्माणशेषैः परमाणुलेशैः ॥१-८२॥
अकृत्रिमत्यागसमुद्गतानि विपक्वतालीदलपाण्डुराणि ।
आशालतानां वलयेषु भर्तुर्यशांसि यस्य स्तबकीभवन्ति ॥१-८३॥
यत्र प्रतापोर्जितराजचक्र- किरीटरत्नद्युतिचुम्बिताङ्घ्रौ ।
यथार्थतां याति ययातिपाण्डु- दिलीपतुल्यौजसि राजशब्दः ॥१-८४॥
उच्छिन्दतः क्ष्मासरसीं विगाह्य धर्मक्रियापङ्कजिनीवनानि ।
स्वैरप्रचारः कलिकुञ्जरस्य येनाङ्कुशेनेव बलान्निरुद्धः ॥१-८५॥
चिरं विभिन्नाः कुमुदेन्दुकुन्द- भासः समग्रा अपि यत्र ते ते ।
अन्योन्यं एकत्र निवाससौख्य- कुतूहलेनेव गुणा घटन्ते ॥१-८६॥
कान्त्यानुलिप्तानि विलोचनानां आ पाटलानां अतिरोदनेन ।
सकुङ्कुमानीव पुनो भवन्ति यस्यारिनारीकुचमण्डलानि ॥१-८७॥
श्रियि प्रतापे यशसि क्षमायां त्यागे विलासे विनये महिम्नि ।
किं अन्यदारोहति यस्य साम्यं न रन्तिदेवो न पृथुर्न पार्थः ॥१-८८॥
_
सचिववर्णनम्
साम्राज्यभारोद्वहनप्रगल्भो यशोभटाख्यः सचिवोऽस्ति यस्य ।
स्वसूक्तिचर्यास्वपरेण नाम्ना रमाङ्गदं यं कवयो वदन्ति ॥१-८९॥
_
कुलराजधानीवर्णनम्
विजित्य लङ्कां अपि वर्तते या यस्याश्च नायात्यलकापि साम्यं ।
जेतुः पुरी साप्यपरास्ति तस्य धारेति नाम्ना कुलराजधानी ॥१-९०॥
तस्यां स साहसजितावनिपालमौलि- रत्नांशुपल्लवितकाञ्चनपादपीठः ।
देवः क्षमावलयं एतदुदञ्चितैक- लीलातपत्रसुलभाभरणं भुनक्ति ॥१-९१॥
इति श्रीमृगाङ्कगुप्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये नगरीनरेन्द्रवर्णनो नाम प्रथमः सर्गः
N/A
References : N/A
Last Updated : November 11, 2016
TOP