नवसाहसाङ्कचरितम्‌ - एकादशः सर्गः

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य  विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच. शृङ्गारतिलक काव्याचे कवी आहेत,रुद्रभट्ट.


शत्रुजयार्थं प्रस्थानम्

अथ बिभ्रत्सरागेण हृदयेन कृशोदरीं  ।
सः प्रतस्थे महीनाथः करेण च धनुर्लतां॥ ११-१॥

इन्द्रनीलप्रतोलीतः स निर्गच्छन्पतिः श्रियः ।
तत्कान्तिश्यामतां गत्वा क्षणं कृष्ण इवाबभौ ॥११-२॥

आसन्नपद्मसरसा कुसुमानम्रशाखिना ।
सो नर्मदोपदिष्टेन गन्तुं प्रववृते पथा ॥११-३॥

यान्तं एकान्तशिशिराः समीरास्तं सिषेविरे ।
एलालवङ्गकङ्कोल- जातीफलसुगन्धयः ॥११-४॥

चक्रस्तस्यानिलस्पर्श- क्वणत्काञ्चनपल्लवाः ।
मौक्तिकस्तबकस्मेरा विस्मयं रत्नवीरुधः ॥११-५॥

अमन्दमारुताक्षेप- मुक्तमुक्ताफलच्छलाथ् ।
चलद्वंशलता मूर्ध्नि तस्य लाजानिवाकिरन् ॥ ११-६॥

अगलन्कुसुमव्याजात्तस्मिन्नभ्यर्णगामिनि ।
पातालकल्पवृक्षाणां आनन्दाश्रुलवा इव ॥११-७॥

अरविन्दमुखक्रोड- क्रीडन्मुखरषट्पदा ।
अनामयं इवापृच्छत्तं अभ्यागतं अब्जिनी ॥११-८॥

शशिप्रभाक्षिविस्तार- संवादिन्यः पदे पदे ।
तं किं अप्यार्द्रतां निन्युररण्यहरिणीदृशः ॥११-९॥

उपयुक्तामृतस्पर्धि- नारिकेलफलोदकान्  ।
आस्वादितलवाङ्गैला- पूगनागलतादलान् ॥ ११-१०॥

शय्यीकृतातनुस्वर्ण- कदलीबालपल्लवान्  ।
विष्टरीकृतविस्तीर्ण- चन्द्रकान्तशिलातलान् ॥ ११-११॥

तत्कालोचितकर्तव्य- व्यावृत्तैकरमाङ्गदान्  ।
आवृत्तिविहितप्रेयः- फणिराजसुताकथान् ॥ ११-१२॥

हृदयन्यस्तकर्पूर- मृणालनलिनीदलान्  ।
पुंःकोकिलकुलोल्लाप- जनितस्मरसञ्ज्वरा ॥११-१३॥

जाम्बूनदलतागुल्म- विहिताश्रयसौहृदान्  ।
गच्छन्सस्तत्र कति चिन्निवासान्व्यधिताध्वनि ॥११-१४॥


_

वङ्कुमुन्याश्रमप्राप्तिः


संप्राप पृथिवीपालः कालेन कियताप्यथ ।
सः कूलोपान्तविचरन्- यङ्कु वङ्कुतपोवनं॥ ११-१५॥


_

आश्रमवर्णनम्


हृतं कुतूहलेनालं तदालोकनजन्मना ।
पतिं मध्यमलोकस्य तं जगाद रमाङ्गदः ॥११-१६॥

सीमा सतीतिशब्दस्य सकुशाङ्काल्पपल्लवा ।
मैथिलीव श्रियं धत्ते कां अप्याश्रमभूरियं॥ ११-१७॥

इतो वान्ति हविर्धूम- लतालस्यप्रदा इमे ।
मरुतः पावनाः पक्व- पुरोडाशसुगन्धयः ॥११-१८॥

इतो हिरण्मयी भूमिस्तरवो हेमवल्कलाः ।
उन्निद्रहेमपद्मानि पयांसीव पदे पदे ॥११-१९॥

काकपक्षाङ्कमूर्धानः पश्यैते गुरुशिक्षया ।
बटवः खण्डयन्त्यत्र समिधश्च पदानि च ॥११-२०॥

अनया साम गायन्त्या स्वरसंशयवानयं  ।
इतः करोति कलहं शुकः सारिकया समं॥ ११-२१॥

इदं अत्राद्भुतं पश्य मदक्लिन्नं गजस्य यथ् ।
गण्डलेखां नखाग्रेण शनैः कण्डूयते हरिः ॥११-२२॥

प्रभामण्डलपर्यस्त- तमसः शतशः पथि ।
तवापतन्ति पाताल- रवयोऽमी महर्षयः ॥११-२३॥

एषां द्वितयं एताभिः कपिलाभिरलङ्कृतं  ।
उटजप्राङ्गणं गोभिर्जटाभिरभितः शिरः ॥११-२४॥

इतो गात्रपरावृत्ति- भग्नास्थि पुरुषेतरान्  ।
मुनेः शय्याकुशानत्ति बालः कस्तूरिकामृगः ॥११-२५॥

इतोऽप्ययं ऋषिः पश्य जपापाटलयानया ।
गवानुगम्यते सायं संध्येव दिवाकरः ॥११-२६॥

सहसैवातिथिः प्राप्तः कोऽप्ययं भवतां इति ।
एष प्रत्युटजं वक्ति ससंभ्रमं अयं शुकः ॥११-२७॥

अतः संप्रति वीक्षन्ते कौतुकोत्तानितेक्षणाः ।
त्वां इन्दुं इव पर्याप्त- मण्डलं मुनिकन्यकाः ॥११-२८॥

भूदत्तस्मरसाम्राज्यं मुखश्रीतर्जितेन्दु च ।
आसां इन्दीवराक्षीणां अलङ्कारो नवं वयः ॥११-२९॥

मुक्तास्त्रः स्त्रीषु कन्दर्पो देवात्रानुशयादिव ।
शङ्के संत्यज्य कोदण्डं आत्तदण्डस्तपस्यति ॥११-३०॥


_

वङ्कुमुनिदर्शनम्


तस्मिन्नित्युक्तवत्येव तथा सविधवर्त्मनि ।
ततः पृथ्वीशशाङ्केन वङ्कुमुनिरदृश्यत ॥११-३१॥

अंसावलम्बिनीर्बिभ्रत्सन्ध्याभ्रकपिशा जटाः ।
प्रसृता इव निर्गत्य परमज्योतिषः शिखाः ॥११-३२॥

दधद्यज्ञोपवीतेन सीमन्तितं उरःस्थलं  ।
जाह्नवीनिर्झरेणेव नभः प्रालेयपाण्डुना ॥११-३३॥

शुद्धैकगुणसंपृक्तां अक्षमालां दधत्करे ।
मूर्तां तीव्रतपःसिद्धिं आत्मनः फलितां इव ॥११-३४॥

योगक्षेमोपपत्त्यर्थं उपविष्टः कुशासने ।
नप्तेव मैथिलीभर्तुरतिथिर्नाम पार्थिवः ॥११-३५॥

प्रियस्ॐअः सदायुक्तः प्रियया चानसूयया ।
पात्रं अत्रिरिवोग्राणां तपसां तेजसां इव ॥११-३६॥

सो दृष्टिपथं आयाति ययातिप्रतिमे नृपे ।
तुतोष कस्य वा न स्यादाकृतिस्तस्य सा मुदे ॥११-३७॥

ततः कृतप्रणामस्य तस्य प्रणतभूभृतः ।
विदधे स विशाम्पत्युरातिथ्यं अत्तिथिप्रियः ॥११-३८॥

अथादूरे सुखासीनः सुखासीने महीभृति ।
इति सूनृतया वाचा स वक्तुं उपचक्रमे ॥११-३९॥

अद्य नः पुण्यबीजेन मुक्तो यत्सत्यं अङ्कुरः ।
ललाम लोकत्रितये येन त्वं अवलोकितः ॥११-४०॥

तव शंसति सौभाग्यं अभिजातेयं आकृतिः ।
इन्दोः सुधानिधानत्वं ज्योत्स्नया यत्प्रतीयते ॥११-४१॥

यथा प्रदेशं आयातैर्व्यक्तिं वज्राङ्कुशादिभिः ।
चक्रवर्तीत्यनुक्तोऽपि चिह्नैस्त्वं अनुमीयसे ॥११-४२॥

त्वदर्शनोत्सवेनैव कृतार्थं चक्षुरद्य नः ।
विमुञ्चति शरच्चन्द्रे चिररूढं अपि स्पृहां॥ ११-४३॥

हेतुद्वितयं एवात्र परमानन्दसम्पदः ।
परब्रह्मोपलब्धिर्वा सङ्गतं वा भवादृशां॥ ११-४४॥

अकृत्वा भवतः प्रश्नं न स्थातुं अहं उत्सहे ।
धीरतां मम भिन्दन्ति यत्कौतुकरसोर्मयः ॥११-४५॥

त्वया महीभृतां अत्र वंशः केषां अलङ्कृतः? ।
श्रोत्रपीयूषगण्डूषः कानि नामाक्षराणि ते ? ॥११-४६॥

अनेन गुणिना सार्धं धनुषानुचरेण च ।
केन कार्यातिभारेण त्वं एतां आगतो भुवं ? ॥११-४७॥


_

रमाङ्गदवाक्यम्

इत्युक्त्वा विरते तस्मिन्राज्ञा सस्मितं ईक्षितः ।
स्थित्वा क्षणं उवाचेदं इङ्गितज्ञो रमाङ्गदः ॥११-४८॥


_

अर्बुदाचलवर्णनम्

ब्रह्माण्डमण्डपस्तम्भः श्रीमानस्त्यबुदो गिरिः ।
उपोढहंसिका यस्य सरितः सालभञ्जिका ॥११-४९॥

यः सूर्यांशुशलाकस्य विश्वस्योपरि तिष्ठतः ।
व्य्ॐअनीलातपत्रस्य दण्डत्वं अधिरोहथ् ॥११-५०॥

आदातुं अवतंसाय स्वर्णदीहेमपुष्करं  ।
यः सेन्द्रनीलकटको भुवो भुज इवोद्धृतः ॥११-५१॥

शिखरासन्ननक्षत्रो लक्ष्यते यः प्रतिक्षपं  ।
सशीकर इवोदस्तो हस्तः पातालदन्तिना ॥११-५२॥

यस्य शृङ्गेन्द्रनीलांशु- श्यामं आदित्यमण्डलं  ।
क्षणं पुटकिनीपत्र- छत्राकृति विलोक्यते ॥११-५३॥

नीलकण्ठप्रिया कामं कृतपञ्चाननस्थितिः ।
यस्याग्रभूमिर्गौरीव गुहापीतपयोधरा ॥११-५४॥

अधःसंनद्धमेधेषु स्थिता यस्याग्रसानुषु ।
प्रावृड्विलासालास्यानां अनभिज्ञाः कलापिनः ॥११-५५॥

इन्दुः कटकमाणिक्यं यस्य तुङ्गस्य भूभृतः ।
भुवो यस्य च कान्ताया मेखलामणिरंशुमान्॥ ११-५६॥

क्व चित्क्व चित्पतन्त्या यः कृष्णसारः शशित्विषा ।
कण्डूयत इवासन्नं शृङ्गेण हि मृगीं निशि ॥११-५७॥

पाण्डुः शरद्धनैरूर्ध्वं अधस्तालीवनासितः ।
यः कैलास इवाश्लिष्टः पौलस्त्यभुजसम्प्रदा ॥११-५८॥

हरयः शेरते यस्य मत्तेभवधनिःसहाः ।
गुहासु नखनिर्मुक्त- मुक्तादन्तुरभूमिषु ॥११-५९॥

अलकच्युतमन्दार- मकरन्दसुगन्धिभिः ।
अमर्त्यमिथुनक्रीडा निकुञ्जैर्यस्य सूच्यते ॥११-६०॥

उदञ्चदिन्द्रचापानि नानारत्नांशुपल्लवैः ।
सानूनि यस्य सेवन्ते द्वये चित्रशीनः ॥११-६१॥

पत्या सह वनान्तेषु विहरन्त्याद्रिकन्यया ।
नीयन्ते शोणतां यस्य शिलाः सालक्तकैः पदैः ॥११-६२॥

प्रतिभान्ति पुरस्तेऽपि यस्य वल्मीकवामनाः ।
शैलाः सुवेलकैलास- महेन्द्रमलयादयः ॥११-६३॥


_

वसिष्ठाश्रमवर्णनम्

अतिस्वाधीननीवार- फलमूलसमित्कुशं  ।
मुनिस्तपोवनं चक्रे तत्रेक्ष्वाकुपुरोहितः ॥११-६४॥

हृता तस्यैकदा धेनुः कामसर्गाधिसूनुना ।
कार्तवीर्यार्जुनेनेव जमदग्नेरनीयत ॥११-६५॥

स्थूलाश्रुधारासंतान- स्नपितस्तनवल्कला ।
अमर्षपावकस्याभूद्भर्तुः समिदरुन्धती ॥११-६६॥

अथाथर्वविदां आद्यः समन्त्रां आहुतिं ददौ ।
विकसद्विकटज्वाला- जटिले जातवेदसि ॥११-६७॥

ततः क्षणत्सकोदण्डः किरीटी काञ्चनाङ्गदः ।
उज्जगामाग्नितः कोऽपि सहेमकवचः पुमान्॥ ११-६८॥

दूरं संतमसेनेव विश्वामित्रेण सा हृता ।
तेनानिन्ये मुनेर्धेनुर्दिनश्रीरिव भानुना ॥११-६९॥

ततस्तापसकन्याभिरानन्दाश्रुलवाङ्कितः ।
कपोलः पाणिपर्यङ्कात्साश्रुलेखादपास्यत ॥११-७०॥


_

परमारवंशवर्णनम्

परमार इति प्रपात्स मुनेर्नाम चार्थवथ् ।
मीलितान्यनृपच्छत्रं आतपत्रं च भूतले ॥११-७१॥

प्रवर्तितातिविस्तीर्ण- सप्ततन्तुपरम्परः ।
पुराणकूर्मशेषं यश्चकाराम्भोनिधेः पयः ॥११-७२॥

स्थापितैर्मणिपीठेषु मुक्ताप्रालम्बमालिभिः ।
भूरियं यज्वना येन हेमयूपैरपूर्यत ॥११-७३॥

प्रशान्तचिन्तासन्ताने चिरेण नमुचिद्विषि ।
अमोच्यतास्तदैत्येन येनेर्ष्याकलहं शची ॥११-७४॥

वंशः प्रवऋते तस्मादादिराजान्मनोरिव ।
नीतः सुवृत्तैर्गुरुतां नृपैर्मुक्ताफलैरिव ॥११-७५॥

तस्मिन्पृथुप्रतापोऽपि निर्वापितमहीतलः ।
उपेन्द्र इति सञ्जज्ञे राजा सूर्येन्दुसंनिभः ॥११-७६॥

सदागतिप्रवृत्तेन सीतोच्छ्वसितहेतुना ।
हनुमतेव यशसा यस्यालङ्घ्यत सागरः ॥११-७७॥

शङ्कितेन्द्रेण दधता पूतां अवभृतैस्तनुं  ।
अकारि यज्वना येन हेमयूपाङ्किता मही ॥११-७८॥

अत्यच्छदशनोद्गच्छत्- अंशुलेखातरङ्गिभिः ।
दीर्घैर्यस्यारिनारीणां निःश्वासैश्चामारयितं॥ ११-७९॥

तस्मिन्गते नरेन्द्रेषु तदन्येषु गतेषु च ।
तत्र वाक्पतिराजाख्यः पार्थिवेन्दुरजायत ॥११-८०॥

दीर्घेण चक्षुषा लक्ष्मीं भेजे कुवलयस्य यः ।
नारीणां दिशतानन्दं दोष्णा सत्तारकेण च ॥११-८१॥

शिथिलीकृतजीवाशा यस्मिन्कोपोन्नतभ्रुवि ।
निन्युः शिरांसि स्तब्धानि न धनूंषि नतिं नृपाः ॥११-८२॥

वैरिसिंह इति प्रापज्जन्म तस्माज्जनाधिपः ।
कीर्तिभिर्यस्य कुन्देन्दु- विशदाभिः सटायितं॥ ११-८३॥

पौल्ॐईरमणस्येव यस्य चापे विलोकिते ।
चकितैः सरसीव क्ष्मा राजहंसैरमुच्यत ॥११-८४॥

श्रीसीयक इति क्षेत्रं यशसां उदभूत्ततः ।
दिलीपप्रतिमः पृथ्वी- शुक्तिमुक्ताफलं नृपः ॥११-८५॥

लक्ष्मीरधोक्षजस्येव शशिमौलेरिवाम्बिका ।
वडजेत्यभवद्देवी कलत्रं यस्य भूरिव ॥११-८६॥

अखण्डमण्डलेनाप्य प्रजापुण्यैर्महोदयं  ।
कलिसंतमसं येन व्यनीयत नृपेन्दुना ॥११-८७॥

वशीकृताक्षमालो यः क्ष्मां अत्यायतां दधन्  ।
राज्याश्रमं अलंचक्रे राजार्षिः कुशचीवरः ॥११-८८ ]॥

स्मितज्योत्स्नादरिद्रेण बाष्पस्राविमुखेन्दुना ।
शशंसुर्विजयं यस्य रुद्रपाटीपतिस्त्रियः ॥११-८९॥

अकङ्कणं अकेयूरं अनूपुरं अमेखलं  ।
हूणावरोधवैधव्य- दीक्षादानं व्यधत्त यः ॥११-९०॥


_

नायकवर्णनम्

अयं नेत्रोत्सवस्तस्माज्जज्ञे देवः पितृप्रियः ।
जगत्तमोऽपहो नेत्रादत्रेरिव निशाकरः ॥११-९१॥

श्रीमद्वाकपतिराजोऽभूत्- अग्रजोऽस्याग्रणीः सतां  ।
सगरापत्यदत्ताब्धि- परिखायाः पतिर्भुवः ॥११-९२॥

अतीते विक्रमादित्ये गतेऽस्तं सातवाहने ।
कविमित्रे विशश्राम यस्मिन्देवी सरस्वती ॥११-९३॥

चक्रिरे वेधसा नूनं निर्व्याजौदार्यशालिनः ।
ते चिन्तामणयो यस्य निर्माणे परमाणवः ॥११-९४॥

यशोभिसिन्दुशुचिभिर्यस्याच्छतरवारिजैः ।
अपूर्यता इयं ब्रह्माण्ड- शुक्तिर्मुक्ताफलैरिव ॥११-९५॥

श्रियं नीलाब्जकान्त्या यः प्रणयिभ्यो ददौ दृशा ।
अरातिभ्यश्च सहसा जह्रे निस्त्रिंशलेखया ॥११-९६॥

अंसः सवल्कलग्रन्थिः सजटापल्लवं शिरः ।
चक्रे येनाहितस्त्रीणां अक्षसूत्राङ्कितः करः ॥११-९७॥

पुरं कालक्रमात्तेन प्रस्थितेनाम्बिकापतेः ।
मौर्वीकिणाङ्कवत्यस्य पृथ्वी दोष्णि निवेशिता ॥११-९८॥

प्रशस्ति परितो विश्वं उज्जयिन्यां पुरि स्थितः ।
अयं ययातिमन्धातृ- दुष्यन्तभरतोपमः ॥११-९९॥

अनेनास्तः कपोलेषु पाण्डिमा रिपुयोषितां  ।
समाहृत्येव तद्भर्तृ- यशसो बाहुशलिना ॥११-१००॥

सदा समकरस्यास्य लक्ष्मीकुलगृहस्य च ।
सिन्धुराज इति व्यक्तं नाम दुग्धोदधेरिव ॥११-१०१॥

अनेन विहितान्यत्र यत्साहसशतान्यतः ।
नवीनसाहसाङ्कोऽयं वीरगोष्ठीषु गीयते ॥११-१०२॥

विन्ध्यान्तश्चरतानेन मृगयासक्तचेतसा ।
कन्या शशिप्रभा नाम नागसूतिरदृश्यत ॥११-१०३॥

अदृश्यैरथ सा नागैरस्य पार्श्वादनीयत ।
तां अन्वेष्टुं प्रविष्टेन कुतूहलबलादिह ॥११-१०४॥

समणिस्तम्भं अग्रेऽथ धाम हिरण्मयं  ।
तत्र मूर्ता ततः सिन्धुरिन्दुसूतिर्विलोकिता ॥११-१०५॥

अकृतातिथ्यं एतस्य भक्तिनम्रस्य सा ततः ।
नीता पृष्टेन चैतेन स्ववार्तायां अभिज्ञतां॥ ११-१०६॥

ततो वज्राङ्कुशोद्यान- हेमाब्जाहृतिसाहसं  ।
हेतुः शशिप्रभावाप्तेर्विवृत्यावेदितस्तया ॥११-१०७॥

असूचयत्प्रसङ्गेन त्रिविष्टपरिपोरथ ।
उदग्रं असुरेन्द्रस्य वीर्यं वज्राङ्कुशस्य सा ॥११-१०८॥

ततस्तं प्रत्यमर्षोऽस्य झटित्यङ्कुरितो हृदि ।
अन्यत्र वीरवृत्तेर्यदयं एकान्तमत्सरी ॥११-१०९॥

पन्थाः पुरोऽसुरस्यास्य प्राञ्जलेः शंसितस्तया ।
असूच्यताग्रतश्चैतत्- अमोघं दर्शनं तव ॥११-११०॥

अथेदं रत्नवलयं दत्त्वास्मै समं आशिषा ।
कान्ता तिरोहिता सा च पुरुकुत्सस्य भूपतेः ॥११-१११॥

अथैतेन गृहीतेयं यात्रा वज्राङ्कुशं प्रति ।
एषा च सुकृतैर्दृष्टा पादपद्मद्वयी तव ॥११-११२॥


_

वङ्कुमुनिवाक्यम्

इत्युक्त्वा सूक्तिचतुरो विरराम रमाङ्गदः ।
आददे मुनिरप्युद्यत्- दन्तांशुशबलं वचः ॥११-११३॥

अहो पुराणराजार्षि- सन्तानकथयैतया ।
पुण्यया हृतं आत्मानं अधुना मन्महे वयं॥ ११-११४॥

अवश्यम्भाविनी तत्र सिद्धिः साहसिकस्य ते ।
शल्यं त्रिविष्टपस्यास्य हृदयादुद्धरिष्यसि ॥११-११५॥

एष वज्राङ्कुशस्याजौ नाकृत्वान्तं निवर्तिता ।
भुजो भुवनभर्तुस्ते दिङ्नागकरपीवरः ॥११-११६॥

वधूस्तवाचिरेणात्र भविष्यति शशिप्रभा ।
यथा कुवलयाश्वस्य दिवःकन्या मदालसा ॥११-११७॥

स्थिरो भव मितं कालं स्थित्वास्मिन्नस्तपोवने ।
त्वया विनीयतां एष दीर्घध्वजनितः श्रमः ॥११-११८॥


_

सिन्धुराजवाक्यम्

इत्युक्ते मुनिना स अथ राजेन्दुरिदं अब्रवीथ् ।
आज्ञा विलङ्घ्यते तात तव केन जगद्गुरोः ॥११-११९॥

अथ क्रमोन्मीलितसौहृदासु कथास्वनेकासु मिथःकृतासु ।
विश्रम्यतां इत्यवदन्महर्षिः पतिं पृथिव्याः प्रथितप्रभावः ॥११-१२०॥

देवस्ततः स मुनिकल्पितं इन्द्रनील- पर्यङ्कवत्कनकवेदिसनाथमध्यं  ।
अध्यास्त रत्नसदनं परितो वितान- व्यालम्बितमौक्तिकलतं नवसाहसाङ्कः ॥११-१२१॥   

इति  श्रीमृगाङ्कदत्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते Vअङ्कुमहर्षिदर्शनं नाम दशमः सर्गः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP