नवसाहसाङ्कचरितम् - त्रयोदशः सर्गः
संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच. शृङ्गारतिलक काव्याचे कवी आहेत,रुद्रभट्ट.
ततस्तथा पञ्चशरप्रतारितः सजृम्भं उन्मीलयति स्म लोचने ।
कृताङ्गुलिश्लेषविवर्तितोल्लसत्- भुजांससम्पीडितकुण्डलो नृपः ॥१३-१॥
सः सङ्गतं यन्मृगशावचक्षुषः श्रमाप्तनिद्रः स्फुटं अन्वभूदिव ।
झटित्यभूज्जाग्रदवस्थयास्य तत्पुरातनालेख्यं इवास्फुटं हृदि ॥१३-२॥
कुचाङ्गरागः कृशमध्यया तया मयि ध्रुवं सङ्क्रमितो भवेदिति ।
शनैः स निद्राकलुषेण चक्षुषा पराममर्शाङ्गं अनङ्गमोहितः ॥१३-३॥
अपास्य वामेतरकर्णभूषणं तथा शरैरेनं अवाकिरत्स्मरः ।
यथास्य धैर्यं गलति स्म मानसात्सविक्रियं शुक्तिपुटादिव उदकं॥ १३-४॥
दृशं विषादस्तिमितां उपान्तगे निवेश्य तेनाथ निशश्वसे ।
यथा मुहुः श्यामलतां जगाहिरे वितानमुक्ताफलजालकस्रजः ॥१३-५॥
_
रमाङ्गदवाक्यम्
कया नु सारङ्गदृशासि कारितः कपोलपत्रावलिकल्पनश्रमं ।
तं इत्यवोचत्परिहासवानथो(?) रमाङ्गदः किंचिदिव श्लथाङ्गदं॥ १३-६॥
ततः स मुक्तासितं आदधत्स्मितं जितप्रवालत्विषि दन्तवाससि ।
शशंस तस्मै भुजगेन्द्रकन्यका- समागमं स्वप्नजं अब्जलोचनः ॥१३-७॥
तदाश्रयैवानुचरेण वर्धिता कथासुधेवास्य ततो विलासिनः ।
अभूत्परं मन्मथतापशान्तये न पद्मिनीपत्रमरुन्न चन्दनं॥ १३-८॥
अजायतान्तःकरणेन ताम्यता न हेमपद्माहरणाय सत्वरं ।
भुजः सदा रक्षणदीक्षितः क्षितेरमन्दं अस्पन्दत चास्य दक्षिणः ॥१३-९॥
_
वङ्कुमुनेरागमनम्
ततः पिनद्धोज्ज्वलहेमवल्कलं वहन्तं अंसार्धविलम्बिनीर्जटाः ।
सनाथवामेतरपाणिपङ्कजं परिस्फुरन्त्या स्फटिकाक्षमालया ॥१३-१०॥
विशालनेत्राभरणैरनुद्रुतं सदैव दर्भाङ्कुरलालितैर्मृगैः ।
सशिष्यं अभ्यागतं अङ्गनान्तिके विशाम्पतिर्वङ्कुमहर्षिं ऐक्षत ॥१३-११॥
विमुक्तपर्यङ्कतलः ससंभ्रमं निरीक्ष्य सद्यो मणिमन्दिराद्बहिः ।
किरीटरत्नद्युतिदीप्तभूतलं प्रणामं अस्मै सश्चकार सादरं॥ १३-१२॥
ततः कृताशीर्मणिवेदिकास्तृते मुनिर्न्यषीदत्सकुरङ्गचर्मणि ।
सश्चासनत्वं तदनुज्ञयानयन्नृपचन्द्राश्चन्द्रमणेः शिलातलं॥ १३-१३॥
_
मुनिप्रश्नः
अपि श्रमेणायतमार्गजन्मना तनुर्महाराज तवेयं उज्झिता ।
मुनिः प्रहर्षेण कृतार्हणस्तदा स राजचूडामणिं इत्यपृच्छत ॥१३-१४॥
_
भूपतिवाक्यम्
अथादधद्वक्त्र इवाम्शुकाञ्चलं तुषारपाण्डुप्रसृतैर्द्विजांशुभिः ।
अकृत्रिमप्रश्रयपेशलं वचः स भूपतिर्वक्तुं इति प्रचक्रमे ॥१३-१५॥
अमी सहन्ते मम तात न श्रमं प्रणामलग्नास्तव पादपांसवः ।
कियच्चिरं चन्द्रमरीचिचुम्बिते पदं निधत्ते कुमुदे दिनक्लमः ॥१३-१६॥
_
कपिदर्शनम्
नृलोकपातालतलाश्रये मिथः कथानुबन्धे शिथिलीभवत्यथ ।
पर्याणपर्युत्सुकमानसो मुनिः स यावदाप्रष्टुं इयेष पार्थिवः ॥१३-१७॥
अनेन तावद्ददृशे पुरःस्थितो विशाललाङ्गूललतो वलीमुखः ।
अधःस्थलीनिर्गतजह्नुकन्यको हिमोज्ज्वलः पाद इवाम्बिकागुरोः ॥१३-१८॥
करेण बिभ्रन्मधुमत्तकेरली- कपोलवत्पाटलकान्ति दाडिमं ।
अहर्मुखाकृष्टपतङ्गमण्डलः फलाशया बाल इवाञ्जनीसुतः॥ १३-१९॥
_
फलार्पणम्
द्वयोरिवार्थः खलु धर्मकामयोस्तयोस्त्रिलोकस्पृहणीययोः कपिः ।
मुनीन्द्रभूचन्द्रमसोः स्थितोऽन्तरे तपस्विभिः स्मेरमुखैरदृश्यत ॥१३-२०॥
अथार्पितं तेन फलं तदाददे स विस्मितो मध्यमलोकवासवः ।
जपारुणं मारुतिनेव मैथिली- शिखण्डरत्नं दशकण्ठशासनः ॥१३-२१॥
अकृत्रिमश्रीनिलयेन रागिणा नरेन्द्रचिह्नाङ्कितहस्तशोभिना ।
सुवृत्ततां उद्वहता स्वभावतः सस्तेन रेजे भृशं आत्मना यथा ॥१३-२२॥
अजातपाकस्य नवातपाधिकां पुनः पुनस्तस्य विलोक्य शोणतां ।
नवप्रवालोपमं एणचक्षुषः स्मरन्स बिम्बोष्टःअं अवाप शून्यतां॥ १३-२३॥
अथास्य सीदन्मणिबन्धनात्करादवाञ्चतः कम्पविसूत्रिताङ्गुलेः ।
पपात पश्चादिव हेमकुट्टिमे तदस्फुतद्द्रागिव दाडिमीफलं॥ १३-२४॥
तदन्तरात्किंशुककान्तितस्करः स्फुरन्मणीनां निकरोऽथ निर्ययौ ।
उदर्चिषः पुष्पशरासनक्रुधा कणोत्करस्त्र्यम्बकलोचनादिव ॥१३-२५॥
अथ द्वयेनावनिपाकशासनः स विस्मयस्याग्रमहीं अनीयत ।
वनौकसा तेन विनीतवृत्तिना विकीर्णभासा मणिदाडिमेन च ॥१३-२६॥
सश्चाद्भुतप्राभृततोषितः करे चकार रेवामणिकङ्कणं कपेः ।
घनात्ययऋतोर्निजं इन्दुपाण्डुरे पयोदखण्डे हरिवाडिवायुधं॥ १३-२७॥
ततः सुधासूतिं इवोज्झिताकृतिर्नवाञ्जनश्यामलयाङ्गलेखया ।
नृपः क्षणादेव विचित्रभूषणं पुमांसं अग्रे न हरिं तं ऐक्षत ॥१३-२८॥
कृतानतिर्विस्मितमानसे मुनौ रमाङ्गदे सादरमुक्तलोचनः ।
व्यधात्प्रणामं सः कृताञ्जलिर्नृपे कपोलवेल्लत्कलधौतकुण्डलः ॥१३-२९॥
_
मुनिकृतः प्रश्नः
अलङ्कृतः कस्य वदान्वयस्त्वया पदं क्व ते किं च कपिर्भवानभूथ् ।
तं एवं आह स्म सविस्मयोर्मिणा नृपेण साकूतविलोकितो मुनिः ॥१३-३०॥
_
शशिखण्डवाक्यम्
ततः स मुग्धेन्दुमयूखबन्धुभिः प्रसादयन्दन्तमरीचिभिर्दिशः ।
नवाम्बुभारालसनीरदावली- निनादधीरां इति वाचं आदे ॥१३-३१॥
शिखण्डकेतोः शशिखण्ड इत्यहं मुनिन्द्र विद्याधरशासितुः सुतः ।
सुराङ्गनाध्यासितरत्नकन्धरे ममाधिवासः शशिकान्तपर्वते ॥१३-३२॥
रथाङ्गपाणेः प्रतिमा समुद्रतः स्वयं महानीलमयी विनिर्गता ।
इति प्रवादः परं ईक्षितुं च तां गता मणिद्वीपं इतः पुरस्त्रियः ॥१३-३३॥
ममापि तस्यां अधिकं कुतूहलं तदेहि यावः कृत एष तेऽञ्जलिः ।
कदा चिदेवं सहसोपसृत्य मां प्रिया ययाचे प्रणिपत्य मालती ॥१३-३४॥
ततः खं इन्दीवरनीलं एकतस्तया सहोत्पत्य जवेन गच्छतः ।
सस्तात शैलेन्द्रभरक्षमः क्षणात्पपात मे लोचनगोचरेऽर्णवः ॥१३-३५॥
उपोढनानामणिमौक्तिकोत्करैः करैरिवोर्ध्वं प्रसरद्भिरूर्मिभिः ।
अनर्घ्यं अर्घ्यं जगदेकचक्षुषे समुद्यतो दातुं इवांशुमालिने ॥१३-३६॥
नवप्रवालद्युतिपाटलोदरः करो मुरारेरिव शार्ङ्गलाञ्छितः ।
अलङ्कृतो जह्नुमहर्षिकन्यया पृथुर्जटाजूट इवान्धकद्विषः ॥१३-३७॥
उदग्रकल्लोलकदर्थितग्रहैरगाधपातालतलावगाहिभिः ।
दिशो निरुन्धन्नवमेघनादिभिर्निमग्नदिङ्नागमदाविलैर्जलैः ॥१३-३८॥
समेधितश्रीरभितस्तलोत्थितैः स्फुरन्मणिस्त्ॐअमयूखदामभिः ।
युगान्तजीमूतशतोदयार्पितैः पुल्ॐअकन्यापतिकार्मुकैरिव ॥१३-३९॥
उपान्तविश्रान्तपयोदमण्डलैर्जलद्विपप्रस्तुतवप्रकेलिभिः ।
चिरोल्लसद्द्वीपधिया समीक्षितैर्विशालनेत्रैस्तिमिभिः कृताद्भुतः ॥१३-४०॥
सुजातकाठिण्यपयोधराः स्पृहां उपाहरन्तीः पथि तादृशोः पथि ।
क्व चिद्दधानः शरदिन्दुपेशलाः शिलासु शुक्तीर्जलमानुषीरिव ॥१३-४१॥
निजौघसीमन्तितसानुकर्दमैर्बृहद्दरीपुञ्जितरत्नराशिभिः ।
अधः प्रविष्टोद्धृतकच्छपोद्धृतैर्महाचलैरुल्लिखिताम्बरः क्व चिथ् ॥१३-४२॥
सवेगवेलानिलवेल्लिताः क्व चिन्नवोद्गता विद्रुमकन्दलीर्दधन् ।
शिखा इवोर्ध्वं तरुणार्कलोहिता विनिर्गता वाडवजातवेदसः ॥१३-४३॥
क्व चित्सुधापाण्डुनि फेनमण्डले निलीनदूर्वादलनीलनीरदः ।
सनाथतां नीत इवोपरि स्फुटं फणीन्द्रपर्यङ्कशयेन शार्ङ्गिणा ॥१३-४४॥
क्व चिन्मणीनां कुमुदोदरत्विषः सितेतरेन्दीवरमेचकाः क्व चिथ् ।
क्व चिद्दधानः शुकचञ्चुपाटलास्तटेषु मुक्ताशबलोदराः शिलाः ॥१३-४५॥
तथैव तस्योपरि गत्वरस्य मे तमालनीलेन पथा पय्ॐउचां ।
त्वराविशीर्णश्लथबन्धनाञ्चितः पपात सीमन्तमणिर्मृगीदृशः ॥१३-४६॥
प्रधावमानेन मयान्तरान्तरा नखाग्रनिर्लूनमयूखपल्लवः ।
सश्चान्तरं दीधितिमानिवोदधेर्विवेश कोशाम्रतरुच्छटारुणः ॥१३-४७॥
निवर्तमानं तु हठाद्विकृष्यता तुरङ्गहस्तेन निरुन्धता नभः ।
क्षणादिव क्वापि रसातलोदरे करीव चिक्षेप कृतारवोऽर्णवः ॥१३-४८॥
_
स्त्रीदर्शनम्
मयाथ तत्र भ्रमता सविस्मयं तं उद्वहन्ती मणिं उत्प्रभं करे ।
अदृश्यतैका विशती तपोवनं स्मरस्य मूर्ता ममतेव कन्यका ॥१३-४९॥
ततः प्रियामौलिमणिर्न मेऽर्पितः पुनः पुनः प्रार्थितयापि यत्त्वया ।
अहं तदस्या मकराङ्किते बलादपाहरं मन्मथरत्नपादुके ॥१३-५०॥
किं आश्रमं शून्यं इदं तपोधनैरनेन हा धिङ्मुषितास्मि दस्युना ।
अथेति बाष्पोद्गमगद्गदैः पदैर्नुहुर्वदन्ती करुणं रुरोद सा ॥१३-५१॥
_
मुनिदर्शनम्
ततस्तदीये रुदितध्वनौ श्रुते ससंभ्रमं कोऽपि महातपा मुनिः ।
विनिर्ययौ रत्नशिलागृहाद्बहिस्तमालभासस्तरणिर्घनादिव ॥१३-५२॥
अनेन केनापि तवाश्रमे बलादिदं हि ताताभरणं हृतं मम ।
इति क्रुधं तद्वचसा स आददे हविर्निषेकेण शिखां इवानलः ॥१३-५३॥
_
शापवर्णनम्
निबद्धभीमभ्रुकुटिर्विलोकयन्दृशा तदोल्काकपिशोग्रतारया ।
सस्तीव्रकोपस्फुरिताधरोऽवदद्वचो ममाक्षिप्य कृतानतेरिति ॥१३-५४॥
प्रसूनं अप्यत्र न जातु वीरुधां हरत्ययं नः पवनस्तपोवने ।
त्वया तु संप्रत्यबलाविभूषणे शठात्मनाशाय करः प्रसारितः ॥१३-५५॥
अकारि कापेयं इदं त्वयेदृशं यदद्य सद्यः कपिरेव तद्भव ।
ततः स मां इत्यशपत्कमण्डलोरपः समादाय दवानलोपमः ॥१३-५६॥
_
कोपशान्तिः
अथास्य कोपः प्रशशाम मानसे शनैः कृपा सानुशये प्रसीदति ।
अपां कणस्तिष्ठति वीचिकम्पिते न पद्मिनीपत्रपुटोदरे चिरं॥ १३-५७॥
इहानुतापो भगवन्विमुच्यतां इयं मदीया भवितव्यतेदृशी ।
तदुच्यतां शापनिशामुखोद्गतं कदा ममेदं तिमिरं व्यरंस्यति ॥१३-५८॥
मयैवं उक्तः सस्तदैवं ऊचिवान्यदा पुरो वङ्कुमुनेरिहागतः ।
करे तवाधास्यति वत्स कङ्कणं स नार्मदं सीयकराजनन्दनः ॥१३-५९॥
ततः प्रभृत्येव वलीमुखाकृतेः समाः सहस्रं वसतो रसातले ।
अनेन मे संप्रति पार्थिवेन्दुना तवाश्रमे शापतमस्तिरस्कृतं॥ १३-६०॥
_
प्रतिक्रियाकरणेच्छा
कृतं यदेतेन मुनीन्द्र लीलया प्रतिक्रियां तत्र न कर्तुं अस्म्यलं ।
हिमत्विषः प्रत्युपकारगोचरो मरीचिलीढक्रशिमा किं अंशुमान्॥ १३-६१॥
तथाप्ययं देव निजप्रयोजने लघीयसि क्वापि नियोज्यतं जनः ।
अनूरुं उर्वीतलरत्नदीपकः किं आर्यमा नाधित सूतकर्मणि ॥१३-६२॥
तेनैवं उक्तः प्रणयोन्मुखेन न्र्पस्त्रपानम्रमुखो बभूव ।
अतादृशानां स्तुतयः प्रकृत्या मदं यदुद्दीपयितुं यतन्ते ॥१३-६३॥
_
निजवृत्तकथनम्
एवं सुधारससमृद्धिमनोहरेण श्लाघ्येन तेन शशिखण्डसमागमेन ।
कां अप्यवापदुमया घटितस्य लक्ष्मीं सः क्ष्मापतिर्झटिति जूट इवाष्टमूर्तेः ॥१३-६४॥
तेनाथ सूनृतवचःश्रुतये सः पृष्टः पृथ्वीतलागमनहेतुं अजानतेव ।
आख्यातवान्स्मितसुधास्नपितौष्ठबिम्बस्तस्मै निजव्यतिकरं नरलोकपालः ॥१३-६५॥
विद्याधरस्तदनु सः प्रहितोऽपि राज्ञा नैव स्वधामगमनाभिमुखो बभूव ।
पूर्वोपकारिणि जनेऽनुपकृत्य किं चिद्यान्तो यदुन्नतधियः किं अपि त्रपन्ते ॥१३-६६॥
देव प्रसीद समितिः क्रियतां इदानीं भृत्यः स्वपादरजसां अयं अग्रयायी ।
तस्येति वल्गु वचनं वचसा महर्षेः सम्राट्ततः सः कथं अप्युररीचकार ॥१३-६७॥
_
विद्याधरसैन्यागमनम्
आमन्द्रशङ्खपटहस्वनसूचितं प्राक्- सैन्यं क्षणान्निजं अथ स्मृतमात्रं एव ।
धौतासिपत्रबहुलांशुलतोपगूढं पातालसंतमसं अस्य पुरो बभूव ॥१३-६८॥
_
प्रस्थानम्
तेनोपपादितं अथो रथं उत्पातकं अध्यास्य कार्मुकसनाथकरो नरेन्द्रः ।
वज्राङ्कुशं प्रति स वङ्कुमुनिप्रयुक्तः प्रस्थानमङ्गलविधिर्मसृणं प्रतस्थे ॥१३-६९॥
लग्नेनाङ्गे युगपदुटजद्वारदेशाददूरे पश्यन्तीनां मुनिमृगदृशां लोचनांशूत्करेण ।
उद्दामाजिक्रतुमखविधेर्दीक्षया सः क्षितीशो मेध्यां एणत्वचं इव दधन्सः क्षणं लक्ष्यते स्म ॥१३-७०॥
चलितयतिसमाधि त्रस्तसारङ्गशावं निभृतशुकभृतोच्चैर्नडिं उड्डीनबर्हि ।
हरिणमिथुनमुक्तान्योन्यकण्डूयनं तन्मुनिवनं अभितोऽभूत्सैन्यकोलाहलेन ॥१३-७१॥
अथ पथि नवसाहसाङ्कः स विद्याधरैर्वन्दितः प्रमुदितमुनिकन्यकामुक्तनीवारलाजाञ्जलिः ।
श्रियं अधित रमाङ्गदेनान्वितस्तूर्यघोषोर्मिभिः कुलगिरिकुहरप्रतिध्वानं दीर्घैर्निरुन्धन्दिशः ॥१३-७२॥
इति श्रीमृगाङ्कदत्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये विद्याधराधिपसमागमो नाम त्रयोदशः सर्गः
N/A
References : N/A
Last Updated : November 11, 2016
TOP