नवसाहसाङ्कचरितम्‌ - चतुर्थः सर्गः

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य  विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच. शृङ्गारतिलक काव्याचे कवी आहेत,रुद्रभट्ट.


ततः सश्चेतस्यवनीपतिर्दधे शशिप्रभालोकमहोत्सवस्पृहां  ।
उपोढरागां उदधिस्तटोदरे नवोद्गतां विद्रुमकन्दलीं इव ॥४-१॥

शशिप्रभाशानलिनीमृणालतां उपागते मौक्तिकदाम्नि सादरः ।
तदागते दूत इव न्यवेशयत्स दर्शितप्रेमलवे विलोचने ॥४-२॥

पुनः पुनः षट्पदराजिमेचकां तदिन्द्रनीलाक्षरपङ्क्तिं ऐक्षत ।
स तत्क्षनान्मन्मथजातवेदसं तनीयसीं धूमलतां इवोद्गतां॥ ४-३॥

सुगन्धिहारादनुलेपनं करे समुन्मिषत्स्वेदलवे विलुम्पति ।
असङ्गताया अपि दीर्घचक्षुषः पयोधरस्पृशं इवाससाद स ॥४-४॥

तदीयनामाङ्कलिपिं शनैः शनैः सलीलं आवर्तयितुं प्रचक्रमे ।
परिस्फुरत्पल्लवपाटलाधरो रहस्यविद्यां इव मन्मथस्य स ॥४-५॥

अनेकरूपालिखनप्रगल्भया सुतीक्ष्णया वर्तिकयेव चिन्तया ।
सस्तां अनाप्तेक्षणसंस्तवां पुरा लिलेख चित्ते मुहुरन्यथान्यथा ॥४-६॥

अनङ्गचण्डातपतप्तयोस्तदा शशिप्रभाविभ्रमदर्शनं प्रति ।
द्वयोरभूदुत्सुकता वनान्तरे विलासिनस्तस्य च कैरवस्य च ॥४-७॥

उदग्रदिग्वारणहस्तहारिणा स दक्षिणेन स्फुरता च बहुना ।
स्थिरीकृताशो मनासापि दुर्लभां अदुर्लभां इन्दुमुखीं अमन्यत ॥४-८॥

पुरो विमुञ्चन्नयने यदृच्छया नृपस्तमालद्रुमकाननोदरे ।
अपश्यदत्रवासरे विलासिनीं पयोधमध्ये शशिनः कलां इव ॥४-९॥


_

नायकवाक्यम्

अथैष दीर्घा दर्शनार्चिषः किरन्मुखामृतांशोः किरणच्छटा इव ।
निरीक्ष्य तां उन्मदहंसगामिनीं रमाङ्गदं सस्मितं इत्यवोचथ् ॥४-१०॥

शनैश्चरन्ती विपिने तव स्थिता नितम्बिनी कच्चिदियं दृशः पथि? ।
अधीरतां दक्षिणमातरिश्वना लतेव नीता मसृणेन माधवी ॥४-११॥

युता सिताभैः सुमनोभिरेतया परिश्लथेयं कबरी नियम्यते ।
उदस्तभास्वत्करकान्तया श्रिया दिनस्य ताराशबलेव शर्वरी ॥४-१२॥

असत्कवेर्वागिव वीतसौष्ठवं निवेशयन्ती पदं अव्यवस्थया ।
असावनेकस्खलितैः समाकुला विमुच्य मार्गं किं इतः प्रतिष्ठते ॥४-१३॥

हठेन नेतुं वशतां इवात्मनो मनोऽभिरामासु विलासभङ्गिषु ।
धृतांशुका ताभिरियं पदे पदे लताभिरम्भोजमुखी निरुद्ध्यते ॥४-१४॥

विचिन्वती किं चिदिवेयं आदरादपक्षमपातस्तिमिते विलोचने ।
गतेऽवतंसोत्पलपत्रबन्धुतां इतस्ततः पद्मवने विमुञ्चति ॥४-१५॥

मृदु प्रयान्तीयं अनिम्ननिम्नयोः सितांशुका कां अपि कान्तिं अश्नुते ।
जले कला इव प्रतिबिम्बितैन्दवी वनानिलोदञ्चदवाञ्चदूर्मिणि ॥४-१६॥

प्रसादं अस्माकं अरण्यदुर्लभैर्विधेहि सालक्तकपादताडनैः ।
असावशोकैः क्षणं आश्रितैः श्रमातितीव मत्तालिरुतेन याच्यते ॥४-१७॥

अभेदमूढस्तबकाभिरावृता लताभिरीषल्लुलितालिपङ्क्तिभिः ।
इयं पुरो मारुतनर्तितालका न लक्ष्यते व्यक्तं अवामनस्तनी ॥४-१८॥

ऋजु क्वचित्क्वापि अनृजु प्रवर्तते क्वचित्स्खलत्युच्चशिलातले पथि ।
इयं शनैः शैलनदीव च क्वचित्विनम्रवानीरतलेन गच्छति ॥४-१९॥

स्थिते परिष्वज्य सरोजिनीं इमां वने घनेऽस्मिन्कुसुमोन्मदालिनि ।
प्रयाति सासूयं इयं कथंचन स्वहस्तसीमन्तितमार्गवीरुधि ॥४-२०॥

क्वचित्क्वचित्स्वेदलवोद्गमो मुखे समाहृतेयं कबरी यथा तथा ।
सयं च कम्पः कुचयोर्वधूरियं रतिश्रमव्याकुलितेव लक्ष्यते ॥४-२१॥

अनेन रूपातिशयेन लीलया विविक्तनेपथ्यपरिग्रहेण च ।
अरण्यसञ्चारपरा इयं एकिका कुतूहलं मे हृदये निषिञ्चति ॥४-२२॥

असौ पराधीनतयास्पदीकृता न बालिका न प्रतिभासते न मम ।
अयं स्फुरत्काञ्चनपद्मसोदरः सचामरोऽस्याः कथमन्यथा करः ॥४-२३॥

इयं किं उ स्याद्वनदेवतागता ? गता धरां व्य्ॐअवधूरियं किं उ ? ।
अवेक्षितुं हारं इहेयं आगता शशिप्रभावारविलासिनी किं उ ? ॥४-२४॥

इतः सश्चित्राकृतिरीक्षतो मृगः सितच्छदादाप्तं इतो विभूषणं  ।
इतश्च दृष्टेयं इति स्प्रसूयते प्रसक्तं आश्चर्यं इयं वनस्थली ॥४-२५॥


_

पाटलाया नायकदर्शनम्

इति प्रकृत्या मधुरोक्तिरुक्तवान्तयायताक्ष्या ददृशे विशाम्पतिः ।
तमालपत्रापिहिते शिलातले कुमुद्वतीकान्त इवाम्बरे स्थितः ॥४-२६॥


ततस्तदालोकनकौतुकेन सा स्थिता निमेषोज्झितपक्ष्मलेक्षणं  ।
विनिद्रसत्केसरपङ्कजा बभौ वने निवातस्तिमितेव पद्मिनी ॥४-२७॥


_

पाटलायाः स्वगतम्

अचिन्तयत्सेति च पाटलाधरः सितारविन्दच्छददीर्घलोचनः ।
मुखं सुधादीधितिसुन्दरं दधन्वने गतः कोऽयं अनङ्गविभ्रमः ॥४-२८॥

व्यनक्ति कल्याणमयीयं आकृतिर्महीयसीमस्य महानुभवतां  ।
असत्यं एतासु रुचा वितन्वती लतासु कार्तस्वरपल्लवोद्गमं॥ ४-२९॥

भुजेन चित्राङ्गदरत्नशोभिना सतारहारेण भुजान्तरेण च ।
वदत्ययं मध्यमलोकपालतां परार्ध्यचूडामणिना च मौलिना ॥४-३०॥

अनातपत्रोऽयं अत्र लक्ष्यते सितातपत्रैरिव सर्वतो वृतः ।
अचामरोऽप्येष सतेव वीज्यते विलासवालव्यजनेन कोऽपि अयं॥ ४-३१॥

प्रिया इयं आरूढगुणा सुवंशभूर्न चान्तिकं चापलतास्य मुञ्चति ।
इमे पृषत्का अपि पार्थिवश्रियो विलासकर्णोत्पलपल्लवा इव ॥४-३२॥

इतः शिलोत्सङ्गतले निषेदुषा दिवश्च्युतेनेव कुरङ्गलक्ष्मणा ।
अधस्तरुणां अमुना विनीयते क्षणं मृगव्योपनतः परिश्रमः ॥४-३३॥

अयं स न स्यान्नवसाहसाङ्क इत्यनङ्गलीलासु कृती भुवःपतिः ।
स येन मुक्तो निजनामलाञ्छितः शशिप्रभाकेलिकुरङ्गके शरः ॥४-३४॥

अयं स नो हार इवास्य दृश्यते करोदरे पल्लवपाटलत्विषि ।
इतः किं एतस्य न सैकते सः किं सितच्छदो लोचनगोचरं गतः ॥४-३५॥

सुवर्णपुङ्खे लिखितं शिलीमुखे तदस्य नामास्ति समानं आकृतेः ।
यदद्भुतां एकपदे पृषत्कतां अगादनङ्गस्य शशिप्राभां प्रति ॥४-३६॥

अनेन चेद्योगं उपैति दैवतः फनीन्द्रकन्या शशिनेव रोहिणी ।
अनल्पलावण्यतिरस्कृतोपमं वपुस्तदस्याः सफलत्वं एष्यति ॥४-३७॥

विधातुं एनां अहं एव वा क्षमा मितोदरीं अङ्कतलेऽस्य को विधिः ।
ममेदृशे यद्विषये विमत्सराः स्तुवन्ति सख्यो मसृणोक्तिसौष्ठवं॥ ४-३८॥

सहामुना किंचिदुपान्तवर्तिना वदत्यसऊद्गतदन्तदीधितिः ।
कुतूहलाक्षिप्तनिमेषलास्यया विलोकयन्मां इव दीर्घया दृशा ॥४-३९॥


_

पाटलायाःसमीपगमनम्

अथाधिगन्तुं किल तस्य पत्रिणो गतिं वनान्ते कथं अप्यलक्षितां  ।
तं अभ्यगात्सा नृपतिं सचामरा सरित्सफेना निधिं अम्भसां इव ॥४-४०॥

समुच्चरन्नूपुरसिन्न्चितैः पदैर्यथा यथा संमुखं आजगाम सा ।
तयायताक्ष्येव तथातथेरिता दृगस्य पश्चादपसारं आददे ॥४-४१॥

शनैस्ततस्तां सविधोपसर्पणीं निरीक्ष्य हारं पिदधे नराधिपः ।
निजोत्तरीयेण सितेन मारुतः शरद्धनेनेव शशाङ्कमण्डलं॥ ४-४२॥

पयोधरोत्सङ्गनिवासलालितं व्यधादिमं पन्नगराजकन्यका ।
इति प्ररोहद्बहुमानमन्थरो बभूव तस्मिन्नवनीपुरन्दरः ॥४-४३॥

अनल्पलावण्यविलासजन्मभूर्विचित्ररत्नद्युतिभास्वरोर्मिका ।
तमिद्धमुक्ताभरणं भुवःपतिं पयोधिवेलेव सुवेलं आप सा ॥४-४४॥

अवाप देवः श्रियं अन्तिकस्थया तया स वालव्यजनाङ्कहस्तया ।
निषेव्यमाणः स्फुटलक्ष्यदेहया नरेन्द्रलक्ष्म्येव यशःसमेतया ॥४-४५॥


_

पाटलाकृतः सत्कारः

विभिन्नचूर्णालकभक्ति कुर्वती विकीर्णचूडामणिचन्द्रिकं शिरः ।
अथानुभवेन निदेशितेव सा ननाम मानिन्यवशा विशांपतिं॥ ४-४६॥

दृशा नरेन्द्रेण निदेशिते स्वयं शिलातले नातिविदूरवर्तिनि ।
उपाविशत्सा रशनामणित्विषा निषिच्यमानेऽमरचापशोभिनि ॥४-४७॥


_

रमाङ्गदवाक्यम्

तयातिदीर्घैर्दशनानुपातिभिर्विकृष्यमाणां इव भूषणांशुभिः ।
इति क्षितीशेङ्गितवर्त्मदीपिकां उदीरयां आस गिरं रमाङ्गदः ॥४-४८॥

अनेन विन्ध्याद्रिविहारजन्मना श्रमेण कामं भवती कदर्थिता ।
प्रसुप्तजूटाहिमुखानिलोष्मणा जटाविटङ्केन्दुकलेव शूलिनः ॥४-४९॥

अमी सरोजप्रतिमे मुखे मुहुस्तवातपाताम्रकपोलभित्तिनि ।
समुन्मिषन्ति श्रमवारिबिन्दवो नताङ्गि लावण्यसुधालवासिव ॥४-५०॥

इतोऽवतंसोत्पललास्यदेशिके निरन्तरं गन्धवहे वहत्यपि ।
न घूर्णते खिन्नललाटसङ्गिनी तवालकश्रेणिरियं मनागपि ॥४-५१॥

अनेन पीनस्तनकम्पदायिना निरायतेनोद्वहता कदुष्णतां  ।
अथ प्रवालादपि पाटलच्छविर्न दूयते निःश्वसितेन तेऽधरः ॥४-५२॥

उदित्य पङ्क्त्या श्रमवारिविप्रुषां निरन्तराध्यासितरेखयानया ।
तवैष कण्ठः कुटजावदातया विलासमुक्तालततयेव भूष्यते ॥४-५३॥

इदं महच्चित्रं अमानुषं त्वया विगाह्यते यद्वनं अद्वितीयया ।
इमाः क्व विन्ध्यस्य भुवोऽतिदुर्गमाः क्व राजवेश्माभरणं भवादृशी ॥४-५४॥

नवोद्गताशोकपलाशकान्तिना निकामनिर्यन्नखचन्द्रिकेण च ।
बिभर्षि कस्येदं अनेन पाणिना वदावधूतेन्दुमरीचि चामरं॥ ४-५५॥

नृपस्य कस्यापि परिच्छदाङ्गना यदि त्वं उच्चैर्विभवो हि कोऽपि स ।
मरुत्पतिर्मेनकयेव तन्वि यस्त्वयापि वालव्यजनेन वीज्यते ॥४-५६॥

अथ र्धिमत्या परवत्यसि स्त्रिया कयापि कासौ जगदेकसुन्दरी ।
नतभ्रु यस्याः स्मरचापयष्टयो विधेयतां यान्ति भवद्विधा अपि ॥४-५७॥

परस्परस्पर्धि विलाससम्पदां त्रयं भवत्स्वामितया विकल्प्यते ।
मरुत्वतो वा रमणी रमाथ वा कलत्रं अर्धेन्दुविभूषणस्य वा ? ॥४-५८॥

इयं परिभ्रान्तिरगेन्द्रकन्दरे सखीव ते शंसति कार्यगौरवं  ।
भवादृशः श्वापददूषितेऽन्यथा चरन्त्यरण्ये किं अधीननीतयः ॥४-५९॥

अनेन खेलन्मददन्तिना वद त्वं आगता चण्डि कुतो दुरध्वना ।
विधाय विश्लेषविषादं आवयोः स्वकार्यनिष्ठे कथय क्व यास्यसि ? ॥४-६०॥


_

नायकवाक्यम्

इति साभिहिता मृगायताक्षी समुपोढप्रणयं यशोभटेन ।
सहसा न जगाद लज्जया नु श्रमतः किं तु नृपस्तु तां अवोचथ् ॥४-६१॥

श्रान्तासि कौतुकहृतेन कदर्थितासि प्रश्नैरनेन विहितो न तवोपचारः ।
आतिथ्यं एष कुरुते परं अङ्गलेखा- संवाहनैकचतुरो निचुलानिलस्ते ॥४-६२॥

एवं निसर्गमधुरेण सुधारसैक- निष्यन्दिना फणिवधूरथ सा हसन्ती ।
चन्द्रांशुना कुमुदिनीव दिनोष्मतप्ता वीतक्लमा नरपतेर्वचसा बभूव ॥४-६३॥


इति श्रीमृगाङ्कगुप्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये पाटलादर्शनं नाम चतुर्थः सर्गः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP