नवसाहसाङ्कचरितम् - त्रितीयः सर्गः
संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच. शृङ्गारतिलक काव्याचे कवी आहेत,रुद्रभट्ट.
अथ बहु चरतोऽस्य चापपाणेश्चकितवलन्मृगयूथवीक्षितस्य ।
वनभुवि सुलभः परिश्रमोऽभून्न तु हरिणः स हृतेन्द्रचापशोभः ॥३-१॥
धनुषि तनुभरं निधाय किंचित्तरुणतमालवने विनीतखेदः ।
मृगरुधिरकलङ्कितेन देवः समविषमेण पथा पुरः प्रतस्थे ॥३-२॥
_
विन्ध्यकन्दरप्रवेशः
अथ स चटुलषट्पदोपगीतं वनगजदानसुगन्धिगन्धवाहं ।
परिसरं अभिनृत्तनीलकण्ठं न्यविशत विन्ध्यनगेन्द्रकन्दरस्य ॥३-३॥
चटुलकृतकचग्रहः स गच्छन्वनलतया परिहासलोलयेव ।
नरपतिरवशः कृतः स कामं वियति मुखेन्दुं उदञ्चयां चकार ॥३-४॥
नमदवनिपतिः पतिः प्रजानां अयि! चपले नु विकृष्यते कचेषु ।
विरम मुहुरितीव मन्युगुञ्जद्- ध्वनिभिरसावलिभिर्लताभ्यधायि ॥३-५॥
कतिचिदलिनिपीतधूपगन्धाननतिविलम्बिपरार्ध्यमौलिरत्नान् ।
त्वरितं अथ रमाङ्गदोऽस्य केशान्विपिनलताविटपान्तराच्चकर्ष ॥३-६॥
_
हंसदर्शनम्
नृपतिरथ तदोन्मुखश्चरन्तं झटिति सितच्छदं अम्बरे ददर्श ।
दधतं अधिगतां कुतोऽपि चञ्च्वा बिसलतिकां इव तारहारलेखां॥ ३-७॥
विकसितकुमुदच्छदावदाते ततनिभृते पततां तती दधानं ।
विरचयितुं उपायनं नृपेन्दोर्नवघटिते इव दन्तपत्रलेखे ॥३-८॥
चितं अतनु विसर्पता समन्तात्किरणलतानिकरेण हारयष्टेः ।
सितमणिमयसूचिनिर्मितस्य स्थितं इव जङ्गमपञ्जरस्य मध्ये ॥३-९॥
तरलमणिरुचावृतं प्रकृत्या विदलितविद्रुमकन्दकाञ्चितुण्डं ।
प्रणयनिहितपादयावकाङ्कं कमलवनस्थितिलोलयेव लक्ष्म्या ॥३-१०॥
चरणयुगतले विभातकाल- स्फुटितजपाकुसुमाभिताम्रभासि ।
स्वयं इव नलिनीवनप्रसूतेः परिचयतः कृतकान्तिसंविभागं॥ ३-११॥
प्रतिपदं अतिदीर्घहारभारातवनमदुन्नमयन्तं उत्तमाङ्गं ।
शिरसि निपततो निकामं उष्णानहिमरुचः किरणानिवोत्क्षिपन्तं॥ ३-१२॥
विवृतमुखधृतस्य निष्पतद्भिस्तरलमणेररुणस्य कान्तिलेशैः ।
अविरतं अरविन्दवृन्दपीतान्मधुपृषतानिव भूयसोद्वमन्तं॥ ३-१३॥
परिखचितं अयत्नपूरिताशैरविरलमौक्तिकदामरश्मिजालैः ।
यश इव परभूतभृतां निरुद्ध्य प्रसभं उपाहृतं आत्मनो यशोभिः ॥३-१४॥
अभिनवबिसशङ्कयापहृत्य स्फटिकमयीं असमक्षं अक्षमालां ।
विहगं इव विमानहंसपङ्क्तेर्विघटितं एकतरं चतुर्मुखस्य ॥३-१५॥
च्युतं इव सितचामरं मघोनेः श्रमजडवारविलासिनीकराग्राथ् ।
अपहृतं इव लोलपत्रजालं सुरसरितः पवनेन पुण्डरीकं॥ ३-१६॥
हरहसितसितं दिवापि कान्ति- स्तबकं इवापतितं सुधाकरस्य ।
अपि पतितं इवान्तरिक्षपीलोर्मघवदिभस्य विलासकर्णशङ्खं॥ ३-१७॥
स च परिणतलोध्रधूलिशुक्लस्तरलं अवन्तिपतेश्चकार चेतः ।
किसलयं इव बालचन्दनस्य स्तिमितगतिर्मलयाचलेन्द्रवातः ॥३-१८॥
_
नायकवर्णनम्
अवददथ विबुद्धपुण्डरीक- प्रतिमं उपान्तचरे निधाय चक्षुः ।
दशनमणिमयूखभिन्नवर्णां गिरिं इति मालवराजपूर्णचन्द्रः ॥३-१९॥
सुरभिकुसुमचुम्बिनावनम्रां अलिपटलेन लतां इमां विना मे ।
खगं अमुं उपदर्शयेत्क एवं गगनरमापतिपाञ्चजन्यं अन्यः ॥३-२०॥
स्मरवरकरिहस्तशीकराणां विदधति रुचयो नवहारमौक्तिकानां ।
विदधति रुचयोऽस्य चन्न्चुकोटौ कवलितबालमृणालसूत्रलीलां॥ ३-२१॥
अयि! कथय सितच्छदः क्व चायं वननलिनीपुलिनान्तबद्धवासः ।
अवनिपतिकलत्रकण्ठयोग्यः क्व च शशिबन्धुरनर्घ एष हारः ॥३-२२॥
वनभुविपतितः कुतोऽयं अस्यां कथं अयं अस्य मुखातिथित्वं आप्तः? ।
गुरुविभवपदस्य कस्य वा स्यादयं इति मे न परिच्छिनत्ति चेतः ॥३-२३॥
अयं उचिततरः फणिस्त्रियो वा कुचकलशान्तरमर्त्ययोषितो वा ? ।
नियतं उदधिं उद्रं ईदृशानि क्षितितलं आभरणानि न स्पृशन्ति ॥३-२४॥
किं अपरं अनुगम्य एष हंसः श्रमजडपक्षतिरावयोर्वनान्ते ।
अयि! यदयं अवामनस्य भूमिर्मुखधृतहारलतः कुतूहलस्य्॥ ३-२५ अ॥
_
रमाङ्गदवाक्यम्
इति विरतवचस्युदीर्य तस्मिन्कृतिनि नृपे परमारवंशकेतौ ।
स्फुरदधरविकीर्णदन्तकान्ति- प्रसरं इदं जगदे रमाङ्गदेन ॥३-२६॥
जडरुचिरपि रोचते न कस्मै कथं अपि दीर्घगुणेन लब्धसङ्गः ।
नरवर यदनेन हारदाम्ना तव पतगः स्पृहणीय एष जातः ॥३-२७॥
उपवन इव सम्भवः कदाचिन्नृप घटते विपिनेऽपि हारयष्टेः ।
यदसुरसुरनागराजकन्या इह विहरन्ति नगेन्द्रकन्दरेषु ॥३-२८॥
शकुनिरयं इतो दिगन्तलग्नैरनुपममौक्तिकनिर्गतैर्मयूखैः ।
तव विरचयतीव सूत्रपातं सुकृतनिधान! भविष्यतः शुभस्य ॥३-२९॥
द्रुतं अयं अनुगम्यतां इदानीं अनुगमनेन यतोऽस्य हारलाभः ।
फलं अधिकं अतोऽपि नः कदाचित्किं अपि भवेदयं अस्य हेतुः ॥३-३०॥
तरुविटपलतान्तरेण गच्छन्भुवं अभजन्बहुमुक्तमेघवर्त्मा ।
अयं अतिगुरुहारभारजातां श्रमजडतामलं आत्मनो व्यनक्ति ॥३-३१॥
नयनपथं अयं यथा तवारात्त्वं अपि तथास्य सितच्छदस्य यातः ।
अवनितलमृगाङ्क! यद्वनान्तश्चकितं इवायं इतस्ततः प्रयाति ॥३-३२॥
निचुलवनं अतीत्य वर्ततेऽयं पुरत इमां अयं अब्जिनीं उपेतः ।
नवजलधरशङ्कयेव शङ्के तरुणतमालवनादितो निवृत्तः ॥३-३३॥
किसलयकलिताञ्जलिं त्वरावानयं उपसर्पति नीलसिन्दुवारं ।
क्षणं अयं इह बालचूतमौलौ विचकिलमाल्यविलासं आदधाति ॥३-३४॥
अयं अभिनवकर्णिकारयष्टिं झटिति घनस्तबकस्तनीं उपैति ।
अयं अतिचपलो निसर्गरक्तां स्थलनलिनीं अवधीर्य देव! यातः ॥३-३५॥
अयं इह हि लतां उपैति कौन्दीं कुसुमवतीं नवमाधवीं विलङ्घ्य ।
क्वणदलिवलयासु नासु तेन स्खलितं इतः सहकारमञ्जरीषु ॥३-३६॥
अभिसरति वनस्थलीं इवैतां मदनवतीमयमूढकामिलीलः ।
स्फुरदतनुशिलीमुखस्य चाग्रे विचरति कर्णे इवायं अर्जुनस्य ॥३-३७॥
श्रमं अपहरतस्तनूर्मिवातैरयं अतिथिर्वनपल्वलस्य जातः ।
तरुततिषु तिरोहितोऽयं एतास्वयं अरविन्दवनादिवोज्जिहीते ॥३-३८॥
कुरबकवनतः कदम्बराजिं व्रजति ततो मुचकुन्दकाननानि ।
इति नगं अवगाहते सहारस्त्वं इव ध्र्तक्लम एष राजहंसः ॥३-३९॥
कुरु विजयं इतो ममार्प्य एतद्धनुरधुना ससुवर्णपुङ्खबाणं ।
यदयं इतगतिर्गतोऽतिदूरं जलपतगः सह नः कुतूहलेन ॥३-४०॥
_
हंसानुगमनम्
इति कथयति चापं अर्पयित्वा समं इषुभिः स रमाङ्गदे नरेन्द्रस् ।
पतगं अनु तं आत्तहारं हरति न कं नववस्तुसंप्रयोगः ॥३-४१॥
ऋजु तं अथ विहायसा व्रजन्तं रभसवशादनुगच्छतो नृपस्य ।
समजनि भृशं आयतोऽस्य पन्थास्तरुविटपावटवर्जनेन वक्रः ॥३-४२॥
नृपतिरनुययौ वने विहङ्गं नृपतिं अभि प्रणयी रमाङ्गदोऽपि ।
श्रुतं इव विशदं शुचिर्विवेकः कृतिनि विवेकं इवान्तरः प्रसादः ॥३-४३॥
अथ कमलसरस्तरङ्गदोला- चलयविलोलरथाङ्गनामयुग्मं ।
मदकलकलहंसनादकृष्टः श्रमविवेशः सः सितच्छदः प्रपेदे ॥३-४४॥
विलुलितकबरीकलापमाल्या मृदुनवशैवलमेखला वहन्त्यः ।
रतिरणं अवसाय यत्र नित्यं सह रमणैरमराङ्गना रमन्ते ॥३-४५॥
सलिलगतधियाथ तेन दूरात्स गुरुरमुच्यत निःसहेन हारः ।
जडहृतहृदयाः कियच्चिरं वा गुणमहतां इह भारं उद्वहन्ति ॥३-४६॥
स च विततमरीचिचञ्चुलेखो विगलितहारलतामिषेण हंसः ।
परिणतबिसकाण्डभङ्गपीतं पय इव विस्तृतधारं उज्जगार ॥३-४७॥
अथ कनकमृणालिकायुगस्य द्युतिनिचयेन चितं विसर्पताधः ।
अशिशिरमहसो विसारिणा खे वलयितं अंशुलताकदम्बकेन ॥३-४८॥
तटभुवि तं अपश्यदापतन्तं पतिरवने रवतंसितायताक्षः ।
सितं अभिनवहेमदण्डशोभि स्फटिकशलाकं इवातपत्रं ऐन्द्रं॥ ३-४९॥
सरसि धवलिते ततः समन्तादमृतमरीचिरुचेव तस्य कान्त्या ।
व्यधित बलवती वियोगपीडा पदं अपदे हृदयेषु चक्रनाम्नां॥ ३-५०॥
अतिविततगुणैकधाम्नि तस्मिन्विधुरं अधःपतिते विशुद्धिभाजि ।
कथं अपि वसुधाधिपः प्रमोदं झटिति जगाम गुणिष्वमत्सरो हि ॥३-५१॥
अथ नभसि पिशङ्गसान्ध्यराग- च्छुरित इवाम्बरनिम्नगातरङ्गं ।
कियदपि सरसस्तटे स गत्वा कमलरजःकपिशे ददर्श हारं॥ ३-५२॥
स च सपदि रमाङ्गदोपनीतं कनकसरोरुहकान्तिना करेण ।
निजयश इव मूर्तं आददे तं भुवनतलाभयदानदीक्षितेन ॥३-५३॥
सुजनं इव गुणैरुपोढशोभं शुचितरबालमृणालसूत्रदीर्घैः ।
अहमहमिकया कृतप्रवेशं तरणिकरग्लपितैरिवेन्दुपादैः ॥३-५४॥
दधतं अरुणं अङ्गरागशेषं क्वचिदपि यष्टिषु तारमौक्तिकासु ।
घटितं इव नवातपेन किंचिद्बहुनवया शशलक्ष्मणस्त्विषा च ॥३-५५॥
अतिविततरुचिं वहन्तं अन्तस्तरलमणिं तरुणेन्द्रगोपश्¿भं ।
अविरलं असकृन्निवासलग्नं ललितवधूहृदयादिवानुरागं॥ ३-५६॥
कतिचिदपि लतान्तरे दधानं मृगमदलिप्ततलानि मौक्तिकानि ।
शबलजललवैरिवात्तजन्मान्ययं अरनदीयमुनातिथेर्घनस्य ॥३-५७॥
अनुगुणपदवीविनिर्गतासु प्रतिलतं आयतमौक्तिकप्रभासु ।
रजनिकरमरीचिसूचिदीर्घैर्बहुभिरिव ग्रथितं मृणालसूत्रैः ॥३-५८॥
अतिदृढं अनुरक्तया वितीर्णं मुखरमहोदधिमेखलां वहन्त्या ।
उरसि निहितबन्धुजीवं उर्व्या विचकिलमाल्यं इव स्वयंवराय ॥३-५९॥
अरुचदथ करे स तस्य बिभ्रद्युवतिरदच्छदकान्तिमध्यरत्नं ।
किं अपि मनसिजेन शासनाङ्कः प्रहितनिजायुधचित्रपुष्पमुद्रः ॥३-६०॥
शशिकररुचा स तेन रेजे मृदुकरपुष्करवर्तिना नरेन्द्रः ।
अमरपुरधुनीसमुद्धृतेन त्रिदशकरीव मृणालकन्दलेन ॥३-६१॥
उरसि नरपतेः पतंश्चकाशे कनकशिलाविपुले तदंशुपूरः ।
अखिलभुवनकोशराजलक्ष्म्या निहित इवाधिकं उत्क्या कटाक्षः ॥३-६२॥
विकृतिरुदधिशुक्तिएषु च्युतानां ध्रुवं इयं इन्दुकलासुधालवानां ।
जलदजलकणोद्भवेषु कामं निवसति कान्तिरियं न मौक्तिकेषु ॥३-६३॥
न किं अयं उडुमण्डलापवादः कुमुदवनानि पुरोऽस्य न त्रपन्ते ।
कथं अयं अवधिर्न मुक्तिभाजां इति तं अवेक्ष्य स चिन्तयां चकार ॥३-६४॥
स्फुरदुदरनिवेशितेन्द्रनीलां मदजलराजिं इव स्मरद्विपस्य ।
अवनिपतिरपश्यदक्षराणां ततिं अथ हारमृणालिकान्तराले ॥३-६५॥
अभिनवलिखितां इव प्रशतिं मदनमहानृपतेः स पार्थिवेन्द्रः ।
इति निबिडकुतूहलाकुलस्तां ललितपदाभरणां अवाचयच्च ॥३-६६॥
`मनसिजवरवीरवैजन्त्यास्त्रिभुवनदुर्लभविभ्रमैकभूमेः ।
कुचमुकुलविचित्रपत्रवल्ली- परिचित एष सदा शशिप्रभायाःऽऽ ॥३-६७॥
किं उ विपुलं इमं मनुष्यलोकं पुरं उत पर्वतपक्षशातनस्य ।
किं उ युवतिरियं भुजङ्गभर्तुर्भुवनं अलङ्कुरुते शशिप्रभेति ॥३-६८॥
वदति शशिमुखीं इतस्न दूरे तरुणविलेपनभिन्न एष हारः ।
सरितं इव वनान्तरे समीरः स्फुतितसरोरुहरेणुना पिशङ्गः ॥३-६९॥
कुसुमशरसखस्य कस्य चित्किं समजनि नाकतलाधिदेवतेयं ।
उत मुकुलितमन्मथावतारे पथि विचरेऽधिनाककन्यकानां॥ ३-७०॥
अपि कृतनयनोत्सवेन तन्वी तरुणसुधामधुरेण दर्शनेन ।
मुदं उपजनेद्वने किं एषा ? मम शरदिन्दुकलेव कैरवस्य ॥३-७१॥
इति कियदपि यावदेव चिन्ता- वशं अगमत्स मनुष्यलोकपालः ।
धनुरपि निचुलं विधाय तावत्कुसुमशरोऽस्य बभूव पार्श्ववर्ती ॥३-७२॥
अथ सम्भ्रमादनुचरेण निहिततमालपल्लवे ।
आस्त तरुकुसुमसंवलिते सरसः सः सैकतशिलातले नृपः ॥३-७३॥
आलक्ष्य स्तनसख्यलक्ष्मणि ततस्तस्मिन्कुरङ्गीदृशो मुक्तादाम्नि करोदरप्रणयितां आप्ते तुषारत्विषि ।
विस्मृत्या सहसा हृतं चतुरया क्रोडीकृतं चिन्तया चेतः श्रीनवसाहसाङ्कनृपतेरुत्कण्ठयाकृष्यत ॥३-७४॥
इति श्रीमृगाङ्कगुप्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये शशिप्रभाहारलाभो नाम तृतीयः सर्गः
N/A
References : N/A
Last Updated : November 11, 2016
TOP