नवसाहसाङ्कचरितम् - पञ्चदशः सर्गः
संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच. शृङ्गारतिलक काव्याचे कवी आहेत,रुद्रभट्ट.
अथ सान्द्रघर्मजलबिन्दु- लुलिततिलकः प्रचक्रमे ।
हेमकमलसुभगे सरितः सलिले निमङ्क्तुं असितेक्षणाजनः ॥१५-१॥
श्रमं एत्य मुञ्चत मदम्बु- रभसपरिरम्भलीलया ।
एवं अवददिव दीर्घदृशः कलहंसयूथनिनदेन जाह्नवी ॥१५-२॥
मरुतावधूतकलधौत- कमलमकरन्दगन्धिना ।
ऊर्मिदलनशिशिरेण बलादबलाजनस्य नुनुदे परिश्रमः ॥१५-३॥
परिविद्धरेखं अधितीर- विरचितपदे वधूजने ।
कान्तिं उदवहदमर्त्यसरित्तटरूढकाञ्चनलतेव कां चन ॥१५-४॥
सितचक्षुषां असितरत्न- रुचिमुषि मृणालिनीदले ।
स्थूलजललवनिभेन दधे नवमौक्तिकार्ध इव जाह्नुकन्यया ॥१५-५॥
उदितत्रपा इव विलास- मसृणगमनेन सुब्र्हुवां ।
जग्मुरमरसरितः पुलिनं सहसा विहाय कलहंसपङ्क्तयः ॥१५-६॥
धवलाभ्रकछुरितभित्ति- लिखितललिताङ्गनालिपिं ।
अप्सु कुवलयदृशां प्रतिमाः सितरत्नदर्पणनिभासु लेभिरे ॥१५-७॥
अथ वल्लभार्पितकराग्र- निहितनिजपाणिपल्लवाः ।
वारिविकचकनकाब्जरजः- कपिशोर्मिमालं अबला जगाहिरे ॥१५-८॥
सुदृशां निमज्ज्य सुरसिन्धु- पयसि नियमस्थितैरिव ।
ऊर्मितरलितमयूखशिखैर्मणिनूपुरैः सपदि मौनं आददे ॥१५-९॥
कुचलुप्तपत्रलतयाथ विगलितविसूत्रहारया ।
प्रापि रतिरमणविलासतुला ललितभ्रुवां जलविहारलीलया ॥१५-१०॥
नवकुङ्कुमारुणपुरन्ध्रि- कुचकलशताडितं पयः ।
रागं अभजत न कस्य भवेत्सुलभाङ्गखेलदबलस्य विक्रिया ॥१५-११॥
विकिरन्विहस्य मणिशृङ्ग- धृतं उदकं एत्य पृष्ठतः ।
साचिमुकुलितदृशा ददृशे दयितो मुहुर्वलितकण्ठं एकया ॥१५-१२॥
परिणाहवत्कुचनिषिद्ध- करणवलनोत्कदोर्लतं ।
लोलमुखरमणिकङ्कणया विदधे जले मुरजवाद्यमन्यया ॥१५-१३॥
हरिणीदृशो हृतपुरन्ध्रि- कुचकलशकुङ्कुमाङ्किता ।
क्षिप्रं अधिजघनं ऊर्मिलता शिथिलेव हेमरशना विदिद्युते ॥१५-१४॥
सलिलं किरन्तं अवलोक्य रमणं अपराङ्गनामुखे ।
चित्रं अविरलधृताश्रुलवे निमिमील का चिदबला विलोचने ॥१५-१५॥
द्रुतं अत्रुटद्विबुधसिन्धु- निबिडलहरीकराहतं ।
हारवलयं अरविन्ददृशां कुशलं कुतोऽस्ति गुणिनां जडान्तरे ॥१५-१६॥
शुशुभे कयापि करयन्त्र- निहितशुचिवारिधारया ।
मुक्तसितकुसुमसायकया मकराङ्कचापलतयेव बालया ॥१५-१७॥
परिवेषविभ्रमनिवेशि- मनसिजतुषारदीधितेः ।
कोऽपि करकिसलये कमिता विदधे मृणालवलयं मृगीदृशः ॥१५-१८॥
हृदयेशमुक्तजलधौत- मलयजविलेपनैर्ह्रिया ।
लक्ष्यनवनखपदावपरा नलिनीदलेन पिदधे पयोधरौ ॥१५-१९॥
अभितोऽङ्गनामुखमृगाङ्कं उडुनिकरकान्तिं आददे ।
केलितरलतरुणीनिबिड- स्तनताडिते पयसि बुद्बुदोतकरः ॥१५-२०॥
विदधे वधूर्निजकराग्र- गलितमणिकङ्कणाङ्किते ।
मेघशकल इव सेन्द्रधनुर्वलयोदरे नयनं अब्जिनीदले ॥१५-२१॥
असिताञ्जनाङ्कं अभिजात- कुवलयदृशां दृशोऽन्तराथ् ।
नीरमहृत न हि शुद्धिमतां तटवृत्तिराश्रितकलङ्कमार्जने ॥१५-२२॥
तरलोर्मिलङ्घितनितम्ब- फलकलुलिताच्छवासः ।
फेनपटलं असिताब्जदृशः क्षणं एकं अंशुकविलासं आददे ॥१५-२३॥
सुदृशः स्फुटं नवनखाङ्कं उरसि जलधतकुङ्कुमे ।
कान्तनिहितनयनं पिदधे पृथुहारतारतरलांशुपल्लवः ॥१५-२४॥
लुलिताञ्जनस्य नयनस्य सहभुवं इवेक्षितुं श्रियं ।
लग्नजलसरलितैरलकैर्लुलुठे ललाटतटसीम्नि सुभ्रुवः ॥१५-२५॥
दधतीव कापि रुचिं आप मनसिजविलासवल्लकीं ।
अंसविनिहितमृणाललता- तलवर्त्यलाबुपरिवर्तुलस्तनी ॥१५-२६॥
सलिलाहतित्रुटितहार- परिगलितमौक्तिकभ्रमाथ् ।
मुग्धयुवतिरपरा निदधे दृशं अब्जिनीदलपुटोदबिन्दुषु ॥१५-२७॥
धवलोदरैर्भयवशेन तरलवलितैर्विलोचनैः ।
नीलनलिनदलदामदृशां शफरैः समं सुचिरं अप्सु बभ्रमे ॥१५-२८॥
गलिताङ्गदा गुरुतरङ्ग- दलितमणिकर्णपूरकाः ।
स्रस्तकनकवलयाः सुदृशः श्लथबन्धरत्नरशनाश्चकाशिरे ॥१५-२९॥
अतिकम्पं ऊर्मिकुटिलभ्रु बहलनवकुङ्कुमारुणं ।
स्त्रैणकरतलनिरस्तं अभूदुपजातकोपं इव जाह्नवीजलं॥ १५-३०॥
अकरोत्पदं पृथुनितम्ब- विलुलितजलार्द्रवेणिषु ।
नीरलवशबलगण्डतलास्वबलासु कुण्डलितकार्मुकः स्मरः ॥१५-३१॥
च्युतरत्नभूषणमरीचि- रचितसुरचापमण्डलं ।
केशकुसुमशबलं शुशुभे सुदृशां अनङ्गमददीपनं पयः ॥१५-३२॥
अथ ताभिरेकतपनीय- सरसिजसनाथपाणिभिः ।
श्रीभिरिव समुदतारि ततः पुनरुक्तचाटुपटुभिः प्रियैः सह ॥१५-३३॥
सजलांशुकान्तिविशदाङ्ग- जनितनिबिडत्रपाकुलाः ।
व्यक्तनवनखपदाभरणाः प्रियलोचनान्यरमयन्मृगीदृशः ॥१५-३४॥
अथ ता गृहीतशरदिन्दु- धवलसिचयाः प्रसाधनां ।
चक्रुरधिवपुरमर्त्यसरित्- पुलिनस्थलीकनकवल्लिधामसु ॥१५-३५॥
तिलकाङ्किताः प्रचुरपुष्प- परिमलमुचो मृगीदृशः ।
ऊढनवललितपत्रलता दधुरङ्गजोपवनराजिविभ्रमं॥ १५-३६॥
न चिरादलङ्कृतिविशेष- विहितरुचयोऽतिपेशलाः ।
लक्ष्यनवनवरसाः शुचयः कविपुङ्गवोक्तय इवाङ्गना बभुः ॥१५-३७॥
वहति स्म निर्मलकपोल- लिखितमृगनाभिपत्रकं ।
कापि निभृतमधुपावलिमत्कलधौतकोकनदकान्तं आननं॥ १५-३८॥
अधिकर्णं उद्गतमयूख- मरकतमनोहरोदरं ।
बालं इव मदनकल्पतरोर्दलं एकया कनकपत्रं आददे ॥१५-३९॥
धृतयावकाङ्कं अपि कान्त- वदनपरिचुम्बनोचिते ।
रागमधुररुचके निदधे दयिते च का चन चकोरलोचना ॥१५-४०॥
हरिणाङ्कसुन्दरं अनेक- विशदगुणगुम्फिताकृतिं ।
हारं अवहदपरा न परं हृदि कान्तं अप्यसमबाणदीपनं॥ १५-४१॥
इतरा पदाङ्कं इव मत्त- मदनकरिणोऽलिकोदरे ।
सान्द्रमृगमदनमषीरचितं तिलकं कुरङ्गतिलकानना दधे ॥१५-४२॥
हृतसुप्तहेमशतपत्र- रुचिमुकुलिताङ्गुलीदले ।
का चिदितरकरसङ्घटितं निदधे विलासमणिकङ्कणं करे ॥१५-४३॥
उदितासु काञ्चिगुणमध्य- मरकतमरीचिसूचिषु ।
व्यक्तिं अलभत न र्ॐअलता स्मरदीपकज्जलशिखा मृगीदृशां॥ १५-४४॥
सरसागसेव रमणेन चरणनलिनानुषङ्गिणा ।
पुष्पशरतरलिता दधिरे मणिनूपुरेण मृगलोचना रुचिं॥ १५-४५॥
दधतीभिरिन्दुकरजाल- शबलतिमिरोर्मिविभ्रमं ।
ऊढधवलकुसुमाभिरलं कबरीलताभिरबलाश्चकाशिरे ॥१५-४६॥
प्रियपाणिपङ्कजधृतेषु सकलशशिबिम्बबन्धुषु ।
वक्त्रकमलं अविलोलदृशो मणिदर्पणेषु ददृशुः पुरन्ध्रयः ॥१५-४७॥
प्रकटं दधज्झटिति रागं अलघुं अथ वारुणीं प्रति ।
कान्तिनिकर इव तिग्मरुचेर्वनिताजनोऽभिमुखतां समाददे ॥१५-४८॥
उदियाय मानतिमिरौघ- विघटनपटुर्मनोऽम्बरे ।
बालकुवलयदृशां विशदे शनकैर्मनोभुवकुरङ्गलाञ्छनः ॥१५-४९॥
अरुणाङ्गुलीदलनिरुद्ध- नवकनककोशकर्णिकैः ।
सान्द्रमधुपरिमलई रुरुचे करपङ्कजैरथ चकोरचक्षुषां॥ १५-५०॥
मणिशुक्तिषु क्षणं उपोढ- कुवलयसुगन्धिसीधुषु ।
न्यस्यदसमशरयन्त्रं इव भ्रमति स्म भृङ्गकुलं उत्सुकोत्सुकं॥ १५-५१॥
रुरुचेऽलिमण्डलं उदंशु- कमलचषकोपरि स्थितं ।
एकं इव रतिपतेरुदितं तपनीयदण्डं असितोष्णवारणं॥ १५-५२॥
विधृता करे प्रियतमेन कतिपयशिलीमुखान्विता ।
चित्तं अकृत विवशं सुदृशां कुसुमेषुकार्मुकलतेव वारुणी ॥१५-५३॥
अतिरागिणि प्रणयिणीव मधुनि परिचुम्बितानने ।
व्यक्तिं अलभत मदो हृदये पुलकः कपोलफलके च सुभ्रुवां॥ १५-५४॥
प्रतिमागतेन्दुकरजाल- धवलितं इव श्रियं दधे ।
पाननमितमुखमुग्धवधू- विगलद्विलासहसितछटं मधु ॥१५-५५॥
मधु कापि पाटलकपोल- तरलकलधौतकुण्डला ।
लोलनिजमुखतुषारकर- प्रतिबिम्बगर्भं अभिकार्पितं पपौ ॥१५-५६॥
अतिरक्तं आयततरेण विलसदसितोत्पलश्रिया ।
कामं अपिबदपरेन्दुमुखी चषकेण सीधु, नयनेन वल्लभं॥ १५-५७॥
अगमत्त्रयस्य समं एव परिमलरसज्ञतां अलिः ।
कल्पविटपिमधुनः प्रमदा मुखमारुतस्य विकचोत्पलस्य ॥१५-५८॥
अधराग्रचुम्बनं अवाप्य कमलदलदीर्घचक्षुषां ।
श्वासतरलं अजनिष्ट मुदा मुहुरात्तलास्यं इव कापिशायनं॥ १५-५९॥
मदं आसवेन रमेण नखपदं इवार्पितं हृदि ।
नातिविशदपदबन्धमथो नवसाहसाङ्कचरितं जगुः स्त्रियः ॥१५-६०॥
मदिरार्पिताधरदलेन युवतिरमृतछटोपमा ।
प्रेमरसमृदुषु दीर्घदृशां हृदयेषु पल्लवयति स्म मन्मथं॥ १५-६१॥
दयिताहिते युवजनेन विलसदतिपाटलद्युतौ ।
कामसुहृदि विहितः प्रणयः प्रथमं मधुन्यधरपल्लवे ततः ॥१५-६२॥
अवधूतमानमधुपान- रसरभसतः प्रसन्नतां ।
प्रापुरतिपृथुदृशां सहसा हृदयानि चाच्छमणिभाजनानि च ॥१५-६३॥
दयितां अनङ्गमदसूतिं असितनलिनावतंसकां ।
सान्द्ररुचियुवजनो मदिरां परिचुम्बति स्म न परं वधूं अपि ॥१५-६४॥
अनयन्सहैव शिथिलत्वं उभयं उभयेन योषितां ।
व्रीडं अरुणरुचिना मधुना मणिकाञ्चिदाम च करेण कामिनः ॥१५-६५॥
सुदृशां मदादथ परिस्रुदरुणितसितोदराः कराथ् ।
पेतुरमरसरितः पुलिने मणिशुक्तयः प्रियतमे च दृष्टयः ॥१५-६६॥
नवपल्लवारुणं उवाह धृततरुणवारुणीमदः ।
रागं अथ शुचिनि गण्डतले नयनोदरे च मदिरेक्षनाजनः ॥१५-६७॥
अपरिस्फुटोक्तिललितासु मदमुकुलदीर्घदृष्टिषु ।
तासु शबलकुसुमांसलसत्- कबरीलतासु पदं आदधे स्मरः ॥१५-६८॥
आपानभूरवसितासवरागदीर्घ- सेन्दीवरस्फटिकशुक्तिशता चकासे ।
कौतूहलान्मदविलोलवधूविलास- व्यालोकनोन्मिषितवक्त्रपरम्परेव ॥१५-६९॥
अविरलमणिदीपोद्द्योतदूरापसर्पत्- तिमिरं अमरसिन्धोः कूलकच्छं प्रविश्य ।
अथ सममसुनाथैस्ताः सलीलं निषेदुः सरसकनकजम्बूपल्लवप्रस्तरेषु ॥१५-७०॥
सान्द्रोन्मीलत्सौरभाण्युद्वहन्त्यो विद्युल्लेखपिङ्गलान्यङ्कानि ।
लक्ष्मीं हेमाम्भोजमाला इवापुः सारङ्गाक्ष्यः प्रेयसां कण्ठलग्नाः ॥१५-७१॥
ततो विसूत्रच्युतहारयष्टिः शीर्णाङ्गदो भङ्गुरकर्णपूरः ।
मदेन सद्यो मदिरेक्षणानां रतोत्सवः पल्लवितो बभूव ॥१५-७२॥
नानाङ्गरागशबले श्लथबन्धलोल- धम्मिल्लमाल्यकुसुमप्रकरावकीर्णे ।
पुष्पेषुतल्पे इव वक्षसि वल्लभानां निद्रां अवापुरथ ताः सुरतश्रमेण ॥१५-७३॥
कन्दर्पस्य त्रिलोकीहठविजयमहासाहसोत्साहहेतुर्धुन्वंस्तत्पक्ष्मधूलिव्यतिकरकपिशः काञ्चनाम्भोरुहाणि ।
तन्वानस्तीररूढत्रिदशतरुलतालास्यं आलस्यभाजां तासां संभोगकेलिक्लमभरं अहरज्जाह्नवीवीचिवातः ॥१५-७४॥
इति श्रीमृगाङ्कदत्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये पातालगङ्गावगाहनो नाम पञ्चदशः सर्गः
N/A
References : N/A
Last Updated : November 11, 2016
TOP