उच्चावचप्रवाहवीचयः - सुभाषित २०२१ - २०४०
सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.
५. पारावतः
असौ गिरेः शीतलकन्दरस्थः
पारावतो मन्मथचाटुदक्षः ।
धर्मालसाङ्गीं मधुराणि कूजन्
संवीजते पक्षपुटेन कान्ताम् ॥२०२१॥
पाणिनेः ।
किंचित्कुञ्चितचञ्चुचुम्बनसुखस्फारीभवल्लोचनं
स्वप्रेमोचितचारुचाटुकरणैश्चेतोऽर्पयन्ती मुहुः ।
कूजन्ती विनतैकपक्षतिपुटेनालिङ्ग्य लीलालसं
धन्यं कान्तमुपान्तवर्तिनमियं पारावती सेवते ॥२०२२॥
मतिराजस्य ।
कलक्वणितगर्भेण कण्ठेनाघूर्णितेक्षणः ।
पारावतः परिभ्रम्य रिरंसुश्चुम्बति प्रियाम् ॥२०२३॥
दण्डिनः । (शा.प. ५७०)
प्रातर्वारविलासिनीजनरणन्मञ्जीरमञ्जुस्वनैर्
उद्बुद्धः परिधूय पक्षतिपुटं पारावतः सस्पृहम् ।
किंचित्कुञ्चितलोचनां सहचरीं संचुम्ब्य चञ्च्वा चिरं
मनान्दोलितकण्ठकुण्ठितगलः सोत्कण्ठमुत्कूजति ॥२०२४॥
विक्रमादित्यस्य । (सु.र. ११५४)
पक्षाभ्यां सहितौ प्रसार्य चरणावेकैकशः पार्श्वयोर्
एकीकृत्य शिरोधरोपरि शनैः पाण्डूदरे पक्षती ।
निद्राशेषविशेषरक्तनयनो निर्याय नीडोदराद्
आसृक्कान्तविदारिताननपुटःउ पारावतो जृम्भते ॥२०२५॥
शृङ्गारस्य । (सु.र. ११५३, भृङ्गारस्य)
६. बकः
गत्वा पुरः कतिचिदेव पदानि वेगाद्
आकुञ्चितैकचरणो निभृतीकृताक्षः ।
स्वैरं विदूरविततीकृतकन्धरोऽयं
मीनं सरोऽम्भसि निभालयते बलाकः ॥२०२६॥
कामदेवस्य ।
बलाकाः पान्थानां शिशिरसरसीसीम्नि सरतां
अमी नेत्रानन्दं ददति चरणाचोटितमुखाः ।
धुनाना मूर्धानं गलबिलविशत्स्फारशफर
स्फुरत्पुच्छानच्छद्युतिशवलबाष्पारुणदृशः ॥२०२७॥
मधुकण्ठस्य । (सु.र. ११८५)
हरति पुरत्तः पार्श्वे पश्चाद्वलन्तमनारतं
शफरमपरित्राणं गृह्णन्बकस्तटिनीतटे ।
प्रविचलगरुत्पालिर्दत्तापरापरसत्वर
त्रिचतुरखरत्रोटीकोटिप्रहार इतस्ततः ॥२०२८॥
पियाकस्य ।
उद्ग्रीवस्तिमितेक्षनस्तत इतः पश्यन्निलीय स्थितं
पादोद्घृष्टिपरस्परप्रतिभयभ्रान्तं चलत्पक्षतिः ।
द्राक्त्रोटीपुरकोटिकुण्ठितरयं प्राक्तिर्यगूर्ध्वीकृतं
गर्भान्तःप्रणयीचकार शफरं कासारचारी बकः ॥२०२९॥
कस्यचित।
पयसि सरसः स्वच्छे मत्स्याञ्जिघृक्षुरितस्ततो
वलितनयनं मन्दं मन्दं पदं निदधद्बकः ।
वियति विधृतैकाङ्घ्रिस्तिरग्विवर्तितकन्धरो
दलमपि चलत्सप्रत्याशं मुहुर्मुहुरीक्षते ॥२०३०॥
योगेश्वरस्य । (सु.र. ११६४, कस्यचित्)
७. नानापक्षिणः
उत्प्लुत्य दूरं परिधूय पक्षा
वधो निरीक्ष्य क्षणबद्धलक्ष्यः ।
मध्येजलं चञ्चति दत्तझम्पः
समत्स्य उत्सर्पति मत्स्यरङ्कः ॥२०३१॥
कस्यचित। (सु.र. ११५५)
नीडादपक्रम्य विधूय पक्षौ
वृक्षाग्रमारुह्य ततः क्रमेण ।
उद्ग्रीवमुत्पुच्छमुदेकपादम्
उच्चूडमुकूजति ताम्रचूडः ॥२०३२॥
मधोः । (सु.र. ११५६)
इह सरसि सलीलं चारुपत्रे विधुन्वन्
दरतरलिततिर्यक्चञ्चुकण्डूयिताङ्गः ।
अनुसरति सरागः प्रेयसीमग्रयाताम्
अनुपदसमुदञ्चत्कण्ठनालो मरालः ॥२०३३॥
शिशोकस्य ।
चञ्चच्–चञ्चल चञ्चुवाञ्छितचलच्चूडाग्रमुग्रं पतच्
चक्राकारकरालकेशरशटास्फारस्फुरत्कन्धरम् ।
वारं वारमुदङ्घ्रिलङ्घनप्रेङ्खन्नखक्षुण्णयोः
कामं कुक्कुटयोर्द्वयं द्रुतपदं क्रूरक्रमं युध्यते ॥२०३४॥
कस्यचित। (शा.प. ५७२, सु.र. ११७१)
उत्पुच्छः प्रमदोल्लसद्वपुरधोविस्रंसिपक्षद्वयः
स्वैरालोकगतिक्रमेण परितो भ्रान्त्वा सलीलं मुहुः ।
उत्कण्ठालसकूजितः कलरुतां भूयो रिरंसारस
न्यग्भूतां चटकः प्रियामभिसरत्युद्वेपमानः स्वयम् ॥२०३५॥
सोह्लोकस्य । (सु.र. ११८३)
८. गिरयः
माद्यद्दिग्गजगण्डभित्तिकषणैर्भग्नस्रवच्चन्दनः
पादालक्तमौक्तिकशिलः सिद्धाङ्गनानां गतैः ।
क्रन्दत्कन्दरगह्वरो जलनिधेरास्फालितो वीचिभिः
सेव्योऽयं मलयाचलः किमपि मे चेतः करोत्युत्सुकम् ॥२०३६॥
श्रीहर्षस्य । (ण्न्१.९)
एताः स्थानपरिग्रहेण शिवयोरत्यन्तकान्तश्रियः
प्रालेयाचलमेखलावनभुवः पुष्णन्ति नेत्रोत्सवम् ।
व्यावल्गद्बलवैरिवारणवरप्रत्यग्रदन्ताहति
श्वभ्रप्रस्रवदभ्रसिन्धुसवनप्रस्निग्धदेवद्रुमाः ॥२०३७॥
कस्यचित। (सु.र. १५९३)
छन्नोपान्ता निकुञ्जैस्तरुणशुककुलश्यामलैः कीचकानां
शैलेयप्रस्तराभिः सुभगपरिसराः पीवरीभिः शिलाभिः ।
एते ते रुद्धरेवारयमुखरतया यौवनोद्दामकाम
व्यापारोत्ताललीला चतुरवनचरीबन्धवो विन्ध्यपादाः ॥२०३८॥
योगेश्वरस्य ।
इमास्ता विन्ध्याद्रेः शुकहरितवंशीवनघना
भुवः क्रीडालोलद्विरदरदनाभुग्नतरवः ।
लताकुञ्जे यासामुपनदि रतक्लान्ततरुणी
कपोलस्वेदाम्भःपरिचयनुदो वान्ति मरुतः ॥२०३९॥
तस्यैव । (स.क.आ. ३.९, सु.र. १५८८, दक्षस्य)
करिकवलितमृष्टैः शाखिशाखाग्रपत्रैर्
अरुणसरणयोऽमी सर्वतो भीषयन्ते ।
चलितशबरसेनादत्तगोशृङ्गचण्ड
ध्वनिचकितवराहव्याकुला विन्ध्यपादाः ॥२०४०॥
कमलायुधस्य । (स.क.आ. २.३०, सूक्तिमुक्तावलि १०३.१४, सु.र. १५८७)
N/A
References : N/A
Last Updated : November 11, 2016
TOP