उच्चावचप्रवाहवीचयः - सुभाषित २२६१ - २२८०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


५३. अनुशयः

क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न संतोषतः
सोढा दुःसहशीतवाततपनक्लेशा न तप्तं तपः ।
ध्यातं वित्तमहर्निशं न च पुनर्विष्णोः पदं शाश्वतं
तत्तत्कर्म कृतं यदेव मुनिभिस्तैस्तैः फलैर्वञ्चितम् ॥२२६१॥

भर्तृहरेः । (Sस्१.९ः स्व३१७८, शा.प. ४१५३, सु.र. १६३२)

नाथे श्रीपुरुषोत्तमे त्रिजगतामेकाधिपे चेतसा
सेव्ये स्वस्य पदस्य दातरि सुरे नारायणे तिष्ठति ।
यं कंचित्पुरुषाधमं कतिपयग्रामेशमल्पार्थदं
सेवायै मृगयामहे नरमहो मूढा वराका वयम् ॥२२६२॥

तस्यैव । (Sस्१.११)

उषस्येव भ्रान्तं हतजठरहेतोस्तत इतः
स्वयं च स्वं बिभ्रद्विचरति कुटुम्बं दिशि दिशि ।
बतास्माभिः काकैरिव कवलमात्रैकमुदितैर्
न चायुर्दुर्गत्योरवधिरिह लब्धः कथमपि ॥२२६३॥

वेशोकस्य ।

कौशल्या ननु रोधना जनकभूर्दूरीकृता किं तु न
प्राप्ता पञ्चवटी न वानरपतेरासादितं सौहृदम् ।
सामर्षेण न वारिराशिरचिरादुल्लङ्घितः केवलं
काकुत्स्थेन मया दशाननतिरस्कारास्पदीभूयते ॥२२६४॥

हरेः ।

जनस्थाने भ्रान्तं कनकमृगतृष्णान्धितधिया
वचो वैदेहीति प्रतिपदमुदश्रु प्रलपितम् ।
कृता लङ्काभर्तुर्वदनपरिपाटीषु घटना
मयाप्तं रामत्वं कुशलवसुता न त्वधिगता ॥२२६५॥

शूलपाणेः । (स्व३२६४, सा.द. उन्देर्४.१७, सूक्तिमुक्तावलि १२७.५, सु.र. १४७२)


५४. निर्वेदः

पित्रोर्नोपकृतं हिमांशुधवलं नोपार्जितं वा यशो
मित्राणामुपकारिता न विहिता दत्तं न च स्वेच्छया ।
गाढालिङ्गनलालसापि दयिता नालिङ्गिता केवलं
कालोऽभ्येति चलं च जीवितमिति क्षुण्णं मनश्चिन्तया ॥२२६६॥

कस्यचित।

नो खड्गप्रविदारिता करिघटा नोद्वेजिता वैरिणस्
तन्वङ्ग्या विपुले नितम्बफलके न क्रीडितं लीलया ।
नो जुष्टं गिरिराजनिर्झरचलज्झङ्कारि गाङ्गं पयः
कालोऽयं परिपिण्डलोलुपतया काकैरिव प्रेरितः ॥२२६७॥

कस्यचित।

न प्राप्ता भुवि वारिवृन्ददमनी विद्या विनोदोचिता
खड्गाग्रैः करिकुम्भपीठदलनैर्नैवानुनीतं यशः ।
कान्ताकोमलपल्लवाधररसः पीतो न चन्द्रोदये
तारुण्यं गतमेव निष्फलमहो शून्यालये दीपवत॥२२६८॥

कस्यचित। (सूक्तिमुक्तावलि ३४००)

नो मेघायितमर्थवारिविरहक्लिष्टेऽर्थिशस्ये मया
नोद्धृत्तप्रतिपक्षपर्वतकुले निर्घातवातायितम् ।
नो वा वामविलोचनामलमुखाम्भोजेषु भृङ्गायितं
मातुः केवलमेव यौवनवनच्छेदे कुठारायितम् ॥२२६९॥

भर्तृहरेः । (सु.र. १४९८)

नाक्रान्ताम्बुधिमेखला वसुमती लक्ष्मीः समावेशिता
नो विद्वद्भवनेषु पक्ष्मलदृशां नाश्रावि सूक्तामृतम् ।
जन्म व्यर्थफलोदयं बत परं गृह्णद्भिरस्मादृशैर्
व्याप्तं व्योम कियद्भुजङ्गमपतेर्भारः कियानर्पितः ॥२२७०॥

साञ्चाधरस्य ।

५५. विचारः

ददाति तावदमी विषयाः सुखं
स्फुरति यावदियं हृदि वासना ।
मनसि तत्त्वविदां च विवेचके
क्व विषयाः क्व सुखं क्व परिग्रहः ॥२२७१॥

कस्यचित। (सु.र. १६०७)

आयुर्वासरमासवत्सरगणे गच्छत्यदूरं पथैर्
आक्रामन्ति कृतान्तकासरखुरक्षुण्णा रजोराजयः ।
ईषल्लङ्घितशैशवा इति वयःसंधिं दधाना इति
व्यक्ता वर्जितयौवना इति तथा नन्दन्ति तन्द्रालवः ॥२२७२॥

जलचन्द्रस्य ।

तन्मित्रं यदयन्त्रणं स विभवो यः साधुसाधारणस्
तस्यां योषिति भावयेदभिरतिं भावानुरक्तैव या ।
तां चिन्तां मनसोद्वहेत सततं यस्याः फलं भुज्यते
तानीहेत फलानि यान्यविधुराण्याशा महीजन्मनः ॥२२७३॥

कस्यचित।

तत्पाण्डित्यं न पतति पुनर्येन संसारबन्धे
तत्सौहार्दं न चलति पुनर्यत्सुखे वासुखे वा  ।
सम्भोगास्ते रतिषु विदुषां ये न वाच्याः परेषां
तच्चैश्वर्यं जगति महतां यत्परेषां सुखाय ॥२२७४॥

कस्यचित।

सद्विद्या यदि कल्पशाखिभिरलं यद्यर्थिनः किं तृणैः
सन्तश्चेदमृतेन किं यदि खलास्तत्कालकूटेन किम् ।
किं कर्पूरशलाकया यदि दृशः पन्थानमेति प्रिया
संसारेऽपि सतीन्द्रजालघटनं यद्यस्ति तेनापि किम् ॥२२७५॥

कस्यचित। (स.क.आ. ४.७१)

५६. विचिकित्सितितम्

बीभत्सा विषया जुगुप्सिततमः कायो वयो गत्वरं
प्रायो बन्धुभिरध्वनीव पथिकैर्योगो वियोगावहः ।
हातव्योऽयमसार एव विरसः संसार इत्यादिकं
सर्वस्यैव हि वाचि चेतसि पुनः कस्यापि पुण्यात्मनः ॥२२७६॥

सिल्हणस्य । (Sस्१.२०, सु.र. १६१०)

तडिन्मालालोक्लं प्रतिविरतिदत्तान्धतमसं
भवे सौख्यं हित्वा शमसुखमुपादेयमनघम् ।
इति व्यक्तोद्गारं चटुलवचसः शून्यमनसो
वयं वीतव्रीडाः शुक इव पठामः परममी ॥२२७७॥

तस्यैव । (Sस्१.२१, सु.र. १६१४)
रेतःशोणितयोरियं परिणतिर्यद्वर्ष्म तच्चाभवन्
मृत्योरास्पदमाश्रयो गुरुशुचां रोगस्य विश्रामभूः ।
जानन्नप्यवशो विवेकविरहान्मज्जन्नविद्याम्बुधौ
शृङ्गारीयति पुत्रकाम्यति बत क्षेत्रीयति स्त्रीयति ॥२२७८॥

तस्यैव । (Sस्१.२६, सु.र. १६३४)

बीभत्साः प्रतिभान्ति किं नु विषयाः किं नु स्पृहायुष्मती
देहस्यापचयो मतौ निविशते गाढो गृहेषु ग्रहः ।
ब्रह्मोपास्यमिति स्फुरत्यपि हृदि व्यावर्तिका वासना
का नामेयमतर्क्यहेतुगहना दैवी सतां यातना ॥२२७९॥

तस्यैव । (Sस्१.७)

स्थिरापायः कायः प्रणयिषु सुखं स्थैर्यविमुखं
महारोगो भोगः कुवलयदृशः शष्पसदृशः ।
गृहावेशः क्लेशः प्रकृतिचपला श्रीरपि खला
यमः स्वैरी वैरी तदपि न हितं कर्म विहितम् ॥२२८०॥

कस्यचित। (स.क.आ. २.२०९, Sस्२.१२)

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP