उच्चावचप्रवाहवीचयः - सुभाषित २३२१ - २३४०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


६५. वनगमनोत्सुकः

अये दिष्ट्या नष्टो मम गृहपिशाचीपरिचयः
परावृत्तं मोहात्स्फुरति च मनाग्ब्रह्मणि मनः ।
विकारोऽप्यक्षाणां गलित इव निर्भाति विषयात्
तथापि क्षेत्रज्ञः स्पृहयति वनाय प्रतिमुहुः ॥२३२१॥

भर्तृहरेः ।

रम्यं हर्म्यतलं वसतये श्रव्यं न गीतादि किं
किं वा प्राणसमासमागमसुखं नैवाधिकप्रीतये ।
किं तु प्रान्तपतत्पतङ्गपवनमालोलदीपाङ्कुर
च्छायाचञ्चलमाकलय्य सकलं सन्तो वनान्तं गताः ॥२३२२॥

विज्ञातात्मनः । (Sस्२.१५, स्व३३२६, शा.प. ४११४, सूक्तिमुक्तावलि १३१.५१)

आस्तामकण्ठकमिदं वसुधाधिपत्यं
त्रैलोक्यराज्यमपि देव तृणाय मन्ये ।
निःशङ्कसुप्तहरिणीकुलसङ्कुलासु
चेतः परं लुठति शैलवनस्थलीषु ॥२३२३॥

शालवाहस्य । (सु.र. १६०६, Sस्२.१६)

हरिणचरणक्षुण्णोपान्ताः सशाद्वलनिर्झराः
कुसुमशवलैर्विष्वग्वातैस्तरङ्गितपादपाः ।
मुदितविहगश्रेणीचित्रध्वनिप्रतिनादिता
मनसि न मुदं कस्यादध्युः शिवा वनभूतयः ॥२३२४॥

गुणाकरभद्रस्य । (सु.र. १५९५, Sस्२.१७)

कुरङ्गाः कल्याणं प्रतिविटपमारोग्यमटवि
स्रवन्ति क्षेमं ते पुलिनकुशलं भद्रमुपलाः ।
निशान्तादस्वन्तात्कथमपि च निष्कान्तमधुना
मनोऽस्माकं दीर्घामभिलषति युष्मत्परिचितिम् ॥२३२५॥

लक्ष्मीधरस्य । (सु.र. १६२६, Sस्२.१९)
६६. तपोवनम्

प्रत्यग्रगोमयविलिप्तवितर्दिकानि
पूर्णाहुतिप्रबलवह्निशिखाशतानि ।
शुश्रूषमाणमृगलोचनकन्यकानि
तान्यद्य तापसवनानि मनो हरन्ति ॥२३२६॥

नरसिंहस्य ।

एते नीवारवप्राः पृथुकुसुमसमित्पार्वतः
देवीयं जह्नुपुत्री सिकतिलशयितः शान्तनिःशङ्करङ्कः ।
कान्तारे दर्भदूर्वाचयशुचिनि वचः स्मार्तमावर्तयन्ति
ब्रह्माणो दुर्विपाकग्रहगहनतया यामिनीजागरूकाः ॥२३२७॥

मघोः ।

एतानि क्रतुपृष्ठवेदिविलुठद्विप्राणि वातप्रमी
च्छन्नोपान्ततरूणि पश्य दधते पुण्याश्रमाणि श्रियम् ।
यान्युत्क्षिप्य मनः पराञ्चति परं नारायणाराधन
श्रद्धामोदितमेकदैव धनिकद्वारे च दारेषु च ॥२३२८॥

तस्यैव ।

एते पुरः सुरभिकोमलहोमधूम
लेखानिपीतनवपल्लवशोणिमानः ।
पुण्याश्रमाः श्रुतिसमोहितसामगीति
साकूतनिश्चलकुरङ्गकुलाः स्फुरन्ति ॥२३२९॥

श्रीमल्लक्ष्मणसेनस्य ।

शार्दूली स्नेहगर्भं मुकुलितनयनं लेढि शावं हरिण्या
बन्धुप्रीत्या शिखण्डी तिरयति फणिनामातपं कीर्णबर्हः ।
सिंही रक्षत्यपत्यं स्वमिव कलभकं निर्गतायां करिण्यां
मैत्र्या येषां निवासे गहनगिरिदरीशायिनस्ते जयन्ति ॥२३३०॥

चन्द्रयोगिनः । (सूक्तिमुक्तावलि १०९.४२)

६७. तापस्वी


पाणिः पात्रं पवित्रं भ्रमणपरिगतं भैक्ष्यमक्षय्यमन्नं
वस्त्रं विस्तीर्णमाशादशकमपमलं तल्पमस्वल्पमुर्वी ।
येषां निःसङ्गताङ्गीकरणपरिणतिस्वस्तिसन्तोषिणस्ते
धन्याः संन्यस्तदैन्यव्यतिकरनिकराः कर्म निर्मूलयन्ति ॥२३३१॥

नग्नाचार्यस्य । (Sस्४.७)

धिग्धिक्तान्कृमिनिर्विशेषवपुषः स्फूर्जन्महासिद्धयो
निष्पन्दीकृतशान्तयोऽपि च तपःकारा गृहेष्वासने ।
तं विद्वांसमिह स्तुमः करपुटीभिक्षाल्पशाकेऽपि वा
बालावक्त्रसरोजिनीमधुनि वा यस्याविशेषो रसः ॥२३३२॥

वल्लणस्य । (Sस्४.१०, सु.र. १६०९)

वारांस्त्रीनभिषुण्वते विदधते वन्यैः शरीरस्थितीर्
ऐणेय्यां त्वचि संविशन्ति वसते चापि त्वचं तारवीम् ।
तत्पश्यन्ति च धाम नाभिपततो यच्चार्मणे  चक्षुषी
धन्यानां विरजस्तमा भगवती चर्येयमाह्लादते ॥२३३३॥

मुरारेः । (आर्२.२९)

वल्मीकार्धनिमग्नमूर्तिरुरगत्वग्ब्रह्मसूत्रान्तरः
कण्ठे जीर्णलताप्रतानवलयेनात्यर्थसंपीडितः ।
अंसव्यापिशकुन्तनीडनिचितं बिभ्रज्जटामण्डलं
यत्र स्थाणुरिवाचलो मुनिरसावभ्यर्कबिम्बं स्थितः ॥२३३४॥

कालिदासस्य । (Sःअक्७.११)

प्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षे वने
तोये काश्चन पद्मरेणुकपिशे पुण्याभिषेकक्रिया ।
ध्यानं रत्नशिलागुहासु विबुधस्त्रीसन्निधौ संयमो
यद्वाञ्छन्ति तओप्भिरन्यमुनयस्तस्मिंस्तपस्यन्त्यमी ॥२३३५॥

तस्यैव । (Sःअक्७.१२, स.क.आ. १.१०६)


६८. बहुविषयशान्तिः

नैकं जन्म तवैव वत्स न परं तुल्या च कर्मस्थितिर्
भोक्तव्येषु सुखेषु हृष्यसि मुधा दुःखेषु किं ताम्यसि ।
भ्रातः स्थैर्यमुपेहि नन्विह भवान्संसारदीर्घाध्वगः
सुच्छायास्तरवः क्वचिन्मरुभुवः क्वापि प्रचण्डातपाः ॥२३३६॥

दशरथस्य ।

नन्वात्मन्यवधीयतां गृहरसाद्वैराग्यमाधीयतां
चेतः सम्प्रति दम्यतां सुरसरित्तीरे सदा स्थीयताम् ।
भिक्षार्थं व्यवसीयतां समुचितं सत्कर्म संचियतां
कृष्णश्चेतसि धीयतां परतरं ब्रह्मानुसन्धीयताम् ॥२३३७॥

भर्तृहरेः । (Sस्३.११)

ते तावत्कृतिनः परार्थघटकाः स्वार्थस्य बाधेन ये
सामान्यास्तु परार्थमुद्यमकृतः स्वार्थाविरोधेन ये ।
तेऽमी मानुषराक्षसाः परहितं यैः स्वार्थतो हन्यते
ये तु घ्नन्ति निरर्थकं परहितं ते के न जानीमहे ॥२३३८॥

तस्यैव ।

विवेकः किं सोऽपि स्वरसवलिता यत्र न कृपा
स किं योगो यस्मिन्भवति न परानुग्रहरसः ।
स किं धर्मो यत्र स्फुरति न परद्रोहविरतिः
श्रुतं तत्किं साक्षादुपशमपदं यन्न नयति ॥२३३९॥

कस्यचित। (सु.र. १६२९, Sस्२.२५)

कृमिकुलचित्तं लालाक्लिन्नं विगन्धिजुगुप्सितं
निरुपमरसं प्रीत्या खादन्नरास्थि निरामिषम् ।
सुरपतिमपि श्वा पार्श्वस्थं विलोक्य न शङ्कते
न हि गणयति क्षुद्रो जन्तुः परिग्रहफल्गुताम् ॥२३४०॥

शूरस्य (नी.श. ९ (३०); सु.र. १६२८, Sस्२.९)

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP