उच्चावचप्रवाहवीचयः - सुभाषित २२२१ - २२४०
सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.
४५. क्षुद्रोदयदुःखितः
सुखं जीवन्ति जातान्धाः पर्वताः सरितोऽपि च ।
क्षुद्राभ्युदयसाक्षिभ्यामक्षिभ्यां हा हता वयम् ॥२२२१॥
कस्यचित।
धन्याः खलु नीचानां तृष्णातापार्तिविधुरमनसापि ।
भ्रुकुटितरङ्गकुटिलां न दृष्टिसरितं विगाहन्ते ॥२२२२॥
शङ्करधरस्य ।
अलङ्घ्यं सर्वेषामिह खलु फलं कर्मजनितं
विपत्कर्म प्रैष्या व्यथयति न जातासि हृदयम् ।
यदज्ञाः कुर्वन्ति प्रसभमुपहासं धनमदाद्
इदं त्वन्तर्गाढं परमपरितापं जनयति ॥२२२३॥
धर्माकरस्य ।
हे लोचनद्वय चलज्जलबुद्बुदाभ
किं न प्रयासि कटकामणिवद्विलीय ।
यद्दैवलब्धवसुमूर्खमुखावलेप
मुद्रामुदीक्षितुमयं तव जन्मलाभः ॥२२२४॥
वाक्कोकस्य ।
विद्यावानपि जन्मवानपि तथा युक्तोऽपि तैस्तैर्गुणैर्
यन्नाप्नोति मनः समीहितफलं दैवस्य सा वाच्यता ।
एतावत्तु हृदि व्यथां वितनुते यत्प्राक्तनैः कर्मभिर्
लक्ष्मीं प्राप्य जडोऽप्यसाधुरपि च स्वां योग्यतां मन्यते ॥२२२५॥
कस्यचित। (सु.र. १४८२)
४६. दारिद्र्यम्
लग्नः शृङ्गयुगे गृही सतनयो वृद्धौ गुरू पार्श्वयोः
पुच्छाग्रे गृहिणी खुरेषु शिशवो लग्ना वधूः कम्बले ।
एकः शीर्णजरद्गवो विधिवशात्सर्वस्वभूतो गृहे
सर्वेणैव कुटुम्बकेन रुदता सुप्तः समुत्थाप्यते ॥२२२६॥
कस्यचित। (सु.र. १३१७)
प्रायो दरिद्रशिशवः परमन्दिराणां
द्वारेषु दत्तकरपल्लवलीनदेहाः ।
लज्जानिगूढवचसो बहुभोक्तुकामा
भोक्तारमर्धनयनेन विलोकयन्ति ॥२२२७॥
कस्यचित। (सु.र. १३२०)
हलमगु बलस्यैकोऽनड्वान्हरस्य न लाङ्गलं
पदपरिमिता भूमिर्विष्णोर्न गौर्न च लाङ्गलम् ।
प्रभवति कृषिर्नैवाद्यापि द्वितीयगवं विना
जगति सकले नेदृग्दृष्टं दरिद्रकुटुम्बकम् ॥२२२८॥
कस्यचित।
मद्गेहे मुषलीव मूषकवधूर्मूषीव मार्जारिका
मार्जारीव शुनी शुनीव गृहिणी वाच्यः किमन्यो जनः ।
किं च क्षुत्क्लमघूर्णमाननयनैरुन्निद्रमुर्वीं गतैः
कर्तुं वाग्व्ययमक्षमैः स्वजननी बालैः समालोक्यते ॥२२२९॥
दुर्गतस्य । (स्व३१९७, कस्यापि)
जरदम्बरसंवरणग्रन्थविधौ ग्रन्थकार एकोऽहम् ।
परिमितकदन्नबण्टनविद्यापारंगता गृहिणी ॥२२३०॥
भानोः । (सु.र. १३१३, वीरस्य)
४७. सचटुदारिद्र्यम्
अम्बा तुष्यति न मया न स्नुषया सापि नाम्बया न मया ।
अहमपि न तया न तया वद राजन्कस्य दोषोऽयम् ॥२२३१॥
कस्यचित। (स.क.आ. ४.१९४, स्व३१८५, शा.प. ४११)
आ जन्मनः सहजतुल्यविवर्तमान
दौर्गत्यतोऽस्ति परमो न सुहृन्ममान्यः ।
येनात्मनोऽपरिगणय्य विनाशमाशु
देव त्वदाश्रयणपुण्यधनः कृतोऽस्मि ॥२२३२॥
दङ्कस्य ।
दुर्गतिरेका वनिता
ममापि पितुरियं पितामहस्यापि ।
तत्कुरु नाथ यथायं
जनपरिवादः प्रशान्तिमभ्येति ॥२२३३॥
कस्यचित।
दारिद्र्यगृध्रपरिभुक्तसमस्तमांसं
स्नायूपरुद्धसकलास्थिचयावशेषम् ।
पीयूषवृष्टिमिव नाथ निधेहि दृष्टिं
कङ्कालजालमिदमङ्कुरमातनोति ॥२२३४॥
कस्यचित।
दारिद्र्यं नृपतिः स नो निजपतिर्यस्य प्रसादादभूद्
याच्ञा जीवितमंशुकं दश दिशः सद्मानि देवालयाः ।
मद्विद्वेषिणि लब्धसंनिधिरिति त्वय्याश्रये कुप्यता
मद्वृत्त्यैव पुरस्कृतास्त्वदरयस्तेनाधुना का गतिः ॥२२३५॥
वित्तपालस्य ।
४८. दरिद्रगृही
शीलं शातयति श्रुतं शमयति प्रज्ञां निहन्त्यादराद्
दैन्यं दीपयति क्षमां क्षपयति व्रीडामपि व्यस्यति ।
चेतो जर्जरयत्यपास्यति धृतिं विसातरयत्यर्थितां
पुंसः क्षीणधनस्य किं न कुरुते वैरी कुटुम्बग्रहः ॥२२३६॥
दामोदरस्य ।
उत्तिष्ठ क्षणमेकमुद्वह सखे दारिद्र्यभारं गुरुं
श्रान्तस्तावदहं चिरान्मरणजं सेवे त्वदीयं सुखम् ।
इत्युक्तो धनवर्जितेन विदुषा गत्वा श्मशानं शवो
दारिद्र्यान्मरणं वरं सुखमिति ज्ञात्वा स तूष्णीं स्थितः ॥२२३७॥
वसुकल्पस्य । (स्व३१९५)
क्षुत्क्षामाः शिशवः शवा इव तनुर्मन्दादरो बान्धवो
लिप्ता जर्जरकर्करीजललवैर्नो मां तथा बाधते ।
गेहिन्याः स्फुटितांशुकं घटयितुं कृत्वा सकाकुस्मितं
कुप्यन्ती प्रतिवेशिनी प्रतिमुहुः सूचीं यथा याचिता ॥२२३८॥
कस्यचित। (सु.र. १३०७)
तस्मिन्नेव गृहोदरे रसवती तत्रैव सा कण्डनी
तत्रोपस्करणानि तत्र शिशवस्तत्रैव वासः स्वयम् ।
सर्वं सोढवतोऽपि दुःस्थगृहिणः किं ब्रूमहे तां दशां
अद्य श्वो विजनिष्यमाणगृहिणी तत्रैव यत्कुन्थति ॥२२३९॥
वैनतेयस्य । (सु.र. १३१०)
आस्तां किं बहुभिः परोपकृतयः संसारसारं फलं
सिद्धं तत्प्रतिकूलवर्तिनि विधौ न स्तोकमप्यत्र नः ।
एते स्मः किल मानुषा वयमपि व्यर्थं व्यपेतायुषो
येषां स्वोदरपूर्तिरेव हि किमप्यष्टौ महासिद्धयः ॥२२४०॥
कस्यचित।
N/A
References : N/A
Last Updated : November 11, 2016
TOP