उच्चावचप्रवाहवीचयः - सुभाषित २३४१ - २३६०
सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.
६९. अथाध्यात्मवित्
भवारण्यं भीमं तनुगृहमिदं छिद्रबहुलं
बली कालश्चौरो नियतमसिता मोहरजनी ।
गृहीत्वा ज्ञानासिं विरतिफलकं शीलकवचं
समाधानं कृत्वा स्थिरतरदृशो जागृत जनाः ॥२३४१॥
सिल्हणस्य ।
अये दूरभ्रान्तं विषयविषमारण्यविपथे
परिभ्रान्तं चेतो मम विधुरितं स्वैरमधुना ।
निरावर्ते नित्ये स्थिरनिरवधानभ्रममये
विवेकप्रभ्रश्यद्विकृतिपरमानन्दजलधौ ॥२३४२॥
भवानन्दस्य ।
ध्यायन्नेष तमादिदेवममरस्रोतस्वतीरोधसि
क्वापि क्लेशकषायिताभिरुपरिग्लानो मनोवृत्तिभिः ।
अभ्यासोपहताङ्गुलिक्रममिलन्निर्वेदवीणाकल
ध्वानावर्जितनिर्जितेन्द्रियगतिर्लीनः परे ब्रह्मणि ॥२३४३॥
शङ्करदेवस्य ।
मृत्पिण्डेन भुवैव किं तदनु तद्भेदेन किं मेरुणा
किं ब्रह्माण्डजरायुकोटरकुटीकीटैः सुराख्यैरपि ।
त्रैलोक्येऽपि दयालुसौख्यललितान्याश्चर्यमेतत्पुनश्
चेतोद्वैतसमाधिनीरधिसुधापूरप्लवं गाहते ॥२३४४॥
बल्लणस्य ।
नानाप्येकं यदिह दहरं पुण्डरीकं यदोक
स्तोके यस्याप्यनुभवविधौ न स्वदन्ते मधूनि ।
यस्योन्मेषाद्दिनमणिरुचोऽप्यन्धकारप्रकाराः
शश्वत्तस्मै प्रणम हृदय ब्रह्मणे शाश्वताय ॥२३४५॥
कस्यचित।
७०. भवितव्यता
सृजति तावदशेषगुणाकरं
पुरुषरत्नमलङ्करणं भुवः ।
तदनु तत्क्षणभङ्गि करोति चेद्
अहह कष्टमपण्डितता विधेः ॥२३४६॥
कस्यचित। (स्व३१२६, शा.प. ४०००, सूक्तिमुक्तावलि १३१.३९, सु.र. १४७३)
अध्वश्रमाय चरणौ विरहाय दारा
अभ्यर्थनाय वचनं न वपुर्जरायै ।
एतानि मे विदधतस्तस्य सर्वदैव
धातस्त्रपा न यदि किं न परिश्रमोऽपि ॥२३४७॥
राजशेखरस्य । (सु.र. १३२१)
आलम्बनाय धरणी न च नागभूमीः
स्वर्वासिनां च वसतिर्भवेदमुष्य ।
पूर्वार्जिताशुभवशीकृतपौरुषस्य
कल्पद्रुमोऽपि न समीहितमातनोति ॥२३४८॥
कस्यचित। (सु.र. १०९७)
गुणवत्पक्षपराङ्मुखि स्वजनकुलोच्छेदबद्धनिर्बन्धे ।
अपि वीरवंशवैरिणि भगवति भवितव्यते जयसि ॥२३४९॥
उमापतिधरस्य ।
विद्वत्ता धनसङ्गता चिरतरं नाकारि नाकारि चेज्
ज्योत्स्नासुन्दरविग्रहः प्रतिदिशं सम्पूर्णबिम्बः शशी ।
आमृत्यु स्तनजन्मयौवनमदो नाकारि वामभ्रुवां
धिक्धातारमकारि येन जगति व्यङ्गः स गङ्गाधरः ॥२३५०॥
कस्यचित।
७१. दैवं
करोतु नाम नीतिज्ञो व्यवसयमितस्ततः ।
फलं पुनस्तदेवास्य यद्विधेर्मनसि स्थितम् ॥२३५१॥
कस्यचित। (सूक्तिमुक्तावलि ११२.१०)
भुग्नाशस्य करण्डपिण्डिततनोर्ग्लानेन्द्रियस्य क्षुधा
कृत्वाखुर्विवरं स्वयं निपतितो नक्तं मुखे भोगिनः ।
तृप्तस्तत्पिशितेन सत्वरमसौ तेनैव यातः पथा
सुस्थास्तिष्ठत दैवमेव जगतः क्षान्तौ क्षये चाकुलम् ॥२३५२॥
कस्यचित। (स्व३१४३, सु.र. १३३४, ण्स्. २६)
वन्द्योऽसौ विधिरेव यस्य जगतो निर्माणमत्युज्ज्वलं
प्रत्याकारमपूर्ववस्तुरचनावैचित्र्यमत्यद्भुतम् ।
किं चात्यन्तमितो विचित्रमपरं शक्रस्य यद्वज्रिणस्
त्रैलोक्योदरवर्तिकर्मफलयोर्दृग्गोचरे कुञ्जिका ॥२३५३॥
दशरथस्य ।
य एको लोकानां परमसुहृदानन्दजनकः
कलाशाली श्रीमान्निधुवनविधौ मङ्गलघटः ।
सुधासूतिः सोऽयं त्रिपुरहरचूडामणिरहो
प्रयात्यस्तं हन्त प्रकृतिविषमा दैवगतयः ॥२३५४॥
कस्यचित। (सु.र. १३७०)
यद्भग्नं धनुरीश्वरस्य शिशुना यज्जामदग्न्यो जितस्
त्यक्ता यच्च गुरोर्गिरा वसुमतीबद्धो यदम्भोनिधिः ।
एकैकं दशकन्धरक्षयकृतो रामस्य किं वर्ण्यतां
दैवं वर्णय सोऽपि येन सहसा नीतः कथाशेषताम् ॥२३५५॥
श्रीहनूमतः । (सु.र. १३५९)
७२. कालः
घातयति महापुरुषान्सममेव बहूननादरेणैव ।
परिवर्तमान एकः कालः शैलानिवानन्तः ॥२३५६॥
बाणस्य । (ःच्५.२)
व्योमैकान्तविहारिणोऽपि विहगाः सम्प्राप्नुवन्त्यापदं
बध्यन्ते निपुणैरगाधसलिलान्मीनाः समुद्रादपि ।
दुर्णीतं किमिहास्ति किं सुचरितं कः स्थानलाभे गुणः
कालो हि व्यसनप्रसारितकरो गृह्णाति दूरादपि ॥२३५७॥
वसुभागस्य ।
भीमेनात्र विजृम्भितं धनुरिह द्रोणेन मुक्तं शुचा
कर्णस्यात्र हया हता रथपतिर्भीष्मोऽत्र योद्धुं स्थितः ।
विश्वं रूपमिहार्जुनस्य हरिणा संदर्शितं कौतुकाद्
उद्देशास्त इमे न ते सुकृतिनः कालो हि सर्वंकषः ॥२३५८॥
हलायुधस्य ।
दिवसरजनीकूलच्छेदैः पतद्भिरनारतं
वहति निकटे कालस्रोतः समस्तभयावहम् ।
इह हि पततो नास्त्यालम्बो न चापि निवर्तनं
तदपि भवतां मोहः कोऽयं यदेवमनाकुलः ॥२३५९॥
कस्यचित। (Sस्३.२)
दयालुर्नो बाले न च सुजनगोष्ठीषु रमते
विलासैर्नारीणां न हि भवति सम्भावितरसः ।
अनुद्विग्नः कालः कवलयति कृत्स्नं जगदहो
निसर्गक्रूराणां न खलु करुणार्द्रः परिचयः ॥२३६०॥
योगेश्वरस्य ।
N/A
References : N/A
Last Updated : November 11, 2016
TOP