उच्चावचप्रवाहवीचयः - सुभाषित २३०१ - २३२०
सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.
६१. कृतार्थशान्तः
कान्तायाः करजैः कपोलफलके पत्रावली कल्पिता
केलिद्यूतपणीकृतो विहरता पीतः स बिम्बाधरः ।
स्वेदार्द्रीकृतचन्दनस्तनतटी सानन्दमालिङ्गिता
निर्विष्टा विषयाः शिवात्ममहसि न्यस्तं मनः संप्रति ॥२३०१॥
मुञ्जस्य ।
यल्लीलाकमलाहतौ प्रमुदितं यन्मन्मथस्यास्पदं
यत्कान्ताप्रणयापराधकलहे पर्याप्तकौतूहलम् ।
यत्प्रेमार्दवधूविलासतुलितभ्रूलास्यबद्धस्पृहं
तच्चेतः स्मरवैरिभग्नसदनप्रान्ते स्थितीर्वाञ्छति ॥२३०२॥
तस्यैव ।
जितेयं दोर्दर्पाज्जलधिपरिवेशा वसुमती
शिरः क्षौणीन्द्राणां निजचरणपीठे विलुठितम् ।
कृतं दत्तं भुक्तं कृतमपि कुले यत्समुचितं
कृतार्थं तीर्थेषु भ्रमणमधुना वाञ्छति मनः ॥२३०३॥
उमापतिधरस्य ।
अभ्यस्ताः स्फुटमेव शास्त्रगतयः सम्यक्कवित्वोदधेः
पारं चाधिगतं सतां परिषदि प्राप्तः प्रतिष्ठोदयः ।
निर्विण्णस्य ममाधुना ननु परः पन्था न दैन्यं विना
नेतुं वाञ्छति वासना सुरधुनीतीरेऽनुरूपं वयः ॥२३०४॥
वासुदेवस्य ।
कीर्तिर्लब्धा सदसि विदुषां शीलिताः क्षोणिपाला
वाक्सन्दर्भाः कतिचिदमृतस्यन्दिनो निर्मिताश्च ।
तीरे सम्प्रत्यमरसरितः क्वापि शैलोपकण्ठे
ब्रह्माभ्यासप्रवणमनसा नेतुमीहे दिनानि ॥२३०५॥
धोयीकस्य । (पवनदूत १०४)
६२. शान्तः
सूक्तिं कर्णसुधां व्यनक्तु सुजनस्तस्मै न मोदामहे
ब्रूतां वाचमसूयको विषमुचं तस्मै न खिद्यामहे ।
या यस्य प्रकृतिः स तां वितनुतां किं नस्तया चिन्तया
कुर्मस्तत्खलु कर्म जन्मनिगडच्छेदाय यज्जायते ॥२३०६॥
भर्तृहरेः । (Sस्१.२२)
यदासौ दुर्वारः प्रसरति मदश्चित्तकरिणस्
तदा तस्योद्दामप्रसररसरूढैर्व्यवसितैः ।
क्व तद्धैर्यालानं क्व च निजकुलाचारनिगडः
क्व सा लज्जारज्जुः क्व विनयकठोराङ्कुशमपि ॥२३०७॥
भर्तृहरेः । (Sस्१.२२)
सज्जन्मापि हि निष्फलं श्रुतमपि व्यर्थं गुणाः किं कृते
हा धिक्कष्टमनर्थकं गतमिदं निःशेषमस्मद्वयः ।
मार्गः कोऽपि निरत्ययं न वहति व्याघातबद्धग्रहो
धर्मार्थादिचतुष्पथे निवसति क्रूरो विधिर्गौल्मिकः ॥२३०८॥
महाव्रतस्य ।
महाशय्या भूमिर्मसृणमुपधानं भुजलता
वितानं चाकाशं व्यजनमनुकूलोऽयमनिलः ।
स्फुरद्दीपश्चन्द्रः सुरभिवनितासङ्गमुदितः
सुखं शान्तः शेते ननु च भवभीतो नृप इव ॥२३०९॥
भवभीतस्य । (Sस्४.८)
अवश्यं यातारश्चिरतरमुषित्वापि विषया
वियोगे को भेदस्त्यजति न जनो यत्स्वममून।
व्रजन्तः स्वातन्त्र्यादतुलपरितापाय मनसः
स्वयं त्यक्ता ह्येते शमसुखमनन्तं विदधति ॥२३१०॥
हरेः । (Sस्३.३, स्व३३८६, सु.र. १६१७, VऐS १५७)
६३. निष्क्रमः
पूर्वं तावत्कुवलयदृशां लोललोलैरपाङ्गैर्
आकर्षद्भिः किमपि हृदयं पूजिता यौवनश्रीः ।
संप्रत्यन्तर्निहितसदसद्भावलब्धप्रबोध
प्रत्याहारापहृतहृदयो वर्तते कोऽपि भावः ॥२३११॥
कस्यचित। (Sस्४.१६)
इयं बाला मां प्रत्यनवरतमिन्दीवरदल
प्रभाचौरं चक्षुः क्षिपति किमभिप्रेतमनया ।
गतो मोहोऽस्माकं स्मरसमरबाणव्यतिकर
ज्वरज्वाला शान्ता तदपि न वराकी विरमति ॥२३१२॥
ज्ञानशिवस्य । (सु.र. १६२०)
यदासीदज्ञानं स्मरतिमिरसंस्कारजनितं
तदा दृष्टं नारीमयमिदमशेषं जगदपि ।
इदानीमस्माकं पटुतरविवेकाञ्जनजुषां
समीभूता दृष्टिस्त्रिभुवनमपि ब्रह्म मनुते ॥२३१३॥
कस्यचित। (Sस्४.१४, स.क.आ. ५.११५; सु.र. १६११)
किमस्मान्वामाक्षि स्मरविजययात्राभ्युदयिकैर्
वृथा शान्तान्लाज्जैरिव हसितलेशैः स्नपयसि ।
इदानीं गोलोम्ना शुचिनि तनुकालावुजठरे
पतद्भैक्ष्याहारे वलति हि परं लाञ्छिनि मनः ॥२३१४॥
जलोकस्य ।
गतः कालो यत्र प्रणयिनि मयि प्रेमकुटिलः
कटाक्षः कालिन्दीलघुलहरिवृत्तिः प्रभवति ।
इदानीमस्माकं जरठकमठीपृष्ठकठिना
मोनोवृत्तिस्तत्किं व्यसनिनि मुधैव क्षपयसि ॥२३१५॥
वल्लणस्य । (Sस्४.१३, सूक्तिमुक्तावलि १३१.३३, सु.र. १५९९)
६४. निःस्पृहः
वासो वल्कलमास्तरः किसलयान्योकस्तरूणां तलं
मूलानि क्षतये क्षुधां गिरिनदीतोयं तृषाशान्तये ।
क्रीडा मुग्धमृगैर्वयांसि सुहृदो नक्तं प्रदीपः शशी
स्वाधीनेऽपि धने तथापि कृपणा याचन्त इत्यद्भुतम् ॥२३१६॥
कस्यचित। (सु.र. १५९८, Sस्२.२०)
नीताः पुण्याग्निगेहे शिशिररजनयः स्तोमसत्रे निदाघं
शीर्णे कुग्रामदेवीपरिसरसदने वासराः प्रावृषेण्याः ।
दृष्टं व्याभुग्नभीमभ्रुकुटि च वदनं सम्पदा गर्वितानां
तत्त्वं तृष्णे कृतार्थीभव कुरु विरतिं मुञ्च नः साधु यामः ॥२३१७॥
योगेश्वरस्य ।
निजं कर्म क्षीणं स खलु विपरीतो हतविधिः
सुकृत्ये वा तत्त्वे भृशमुपगता यत्ननिचयाः ।
इदानीमस्माकं स्फुरदुरुजराजर्जरमिदं
वपुर्जातं तृष्णे विरम विरमेत्यञ्जलिशतम् ॥२३१८॥
गोसोकस्य ।
वयमिह परितुष्टा वल्कलैस्त्वं च लक्ष्म्या
सम इह परितोषो निर्विशेषो विशेषः ।
स तु भवतु दरिद्रो यस्य तृष्णा विशाला
मनसि च परितुष्टे कोऽर्थवान्को दरिद्रः ॥२३१९॥
कृष्णमिश्रस्य । (स्व३४७५, शा.प. ३०८, द.रू.. उन्देर्४.२, VऐS १७७)
मातर्लक्ष्मि भजस्व कंचिदपरं मत्काङ्क्षिणां मा स्म भूर्
भोगेभ्यः स्पृहयालवस्तव वशाः का निःस्पृहाणामसि ।
सद्यःस्यूतपलाशपत्रपुटिकापात्रे पवित्रीकृतैर्
भिक्षासक्तुभिरेव सम्प्रति वयं काश्यां समीहामहे ॥२३२०॥
लक्ष्मीधरस्य । (Sस्४.११, सु.र. १६१२)
N/A
References : N/A
Last Updated : November 11, 2016
TOP