उच्चावचप्रवाहवीचयः - सुभाषित २३६१ - २३८०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


७३. श्मशानम्

अर्धप्लुष्टं बहुभ्यः शवपिशितमुपाहृत्य हृष्टश्चिताभ्यो
जातग्रासातिरेकः स्फुटतरधमनीनद्धशुष्कार्द्रकायः ।
प्रेतः संतर्ज्य दृष्ट्या कुटिलपरुषया मज्जनिष्कर्षशुष्कैर्
आहन्त्याहारलुब्धान्मुहुरभिपततो जम्बुकानस्थिखण्डैः ॥२३६१॥

जयादित्यस्य ।

शिरां प्रेतः कश्चिद्दशति दशनाग्रेण सरसां
लिलिक्षुर्मस्तिष्कं कलयति च मूर्धानमितरः ।
करं धूत्वा धूत्वा ज्वलदनलदीप्ताङ्गुलिशिखं
चितास्थालीपक्वं हरति कुणपक्रव्यमपरः ॥२३६२॥

नीलाम्बरस्य ।

नृत्यद्वेतालमालावलयितविकटप्रान्तमुड्डामरोग्र
प्रक्रीडड्डाकिनीकं प्रतिपदमुदयत्पूतनोत्फाललीलम् ।
उत्खेलत्कोलकेलीकवलितविघसग्राससंसक्तगृध्रा
कृष्टन्नस्थिप्रमोदं न जनयति कथं दृश्यमानं श्मशानम् ॥२३६३॥

उमापतिधरस्य ।

उद्बुद्धेभ्यः सुदूरं घनरजनितमःपूरितेषु द्रुमेषु
प्रोद्ग्रीवं पश्य पादद्वयनमितभुवः श्रेणयः फेरवाणाम् ।
उल्कालोकैः स्फुरद्भिर्निजवदनदरीसर्पिभिर्वीक्षितेभ्यश्
च्योतत्सान्द्रं वसाम्भः क्वथितशववपुर्मण्डलेभ्यः पिबन्ति ॥२३६४॥

पाणिनेः । (सु.र. १५२९)

चञ्चत्पक्षाभिधातज्वलितहुतवहप्रौढधाम्नश्चितायाः
क्रोडाद्व्याकृष्टमूर्तेरहमहमिकया चण्डचञ्चुग्रहेण ।
सद्यस्तप्तं शवस्य ज्वलदिव पिशितं भूरि जग्ध्वार्धदग्धं
पश्यान्तः प्लुष्यमाणः प्रविशति सलिलं सत्वरं गृध्रवृद्धः ॥२३६५॥

तस्यैव । (सूक्तिमुक्तावलि ९४.६, सु.र. १५२८)

७४. समस्या

थूथूकृत्य वमद्भिरध्वगजनैरप्राप्तकण्ठं पयः
शुष्यत्तालुगलैर्विरुत्त्य लवणोदन्वानुपालभ्यते ।
केन क्षारखने वृथैव भवतो नामानृतं निर्मितं
पाथोधिर्जलधिः पयोधिरुदधिर्वारां निधिर्वारिधिः ॥२३६६॥

विद्यायाः ।

अये केयं धन्या धवलगृहवातायनगता
तुलाकोटिक्वाणैर्विषमविशिखं जागरयति ।
पुरा या प्राणेशे गतवति कृता पुष्पधनुषा
शरासारै रात्रिंदिवमकृपमुज्जागरकृशा ॥२३६७॥

कस्यचित। (सू.मु. ४९.११)

हरशिरसि शिरांसि यानि रेजुः
शिव शिव तानि लुठन्ति गृध्रपादाः ।
अयि खलु विषमः पुरा कृतानां
विलससि जन्तुषु कर्मणां विपाकः ॥२३६८॥

कस्यचित।

उपरि विधृतशारिप्रौढधन्विप्रसाराद्
इह पयसि नदीनां गाहितुं नैव शक्ताः ।
तटनिकटनिरूढाः प्रस्थितौ यस्य चण्डाः
सरलितकरदण्डाः कुम्भिनोऽम्भः पिबन्ति ॥२३६९॥

गङ्गाधरनाथस्य ।

सीताया हृदये शिरीषकुसुमप्राये पफालोच्चकैः
पौलस्त्यस्य सदैव कुण्ठकुलिशे वज्राधिके वक्षसि ।
आपुङ्खं निममज्ज तत्कथमहो नैतद्विजानीमहे
कः शाखी सखि यस्य पुष्पमभवत्पुष्पायुधस्यायुधम् ॥२३७०॥
७५. उच्चावचम्

धेनुः कामदुघा किमिच्छति तदा स्थातुं न मध्येगृहं
किं न प्रार्थयति स्थितिं करतले चिन्तामणिः सादरम् ।
उत्कः किं भवनाङ्गणान्तिकमलं कर्तुं न कल्पद्रुमः
पुंसः पुण्यवतो यदा किल भवेदाज्ञाविधेयो विधिः ॥२३७१॥

कस्यचित।

किमस्मान्विद्वेक्षि क्षपितबहुदोषव्यतिकरान्
गुणान्वैधेयानां श्रियमुदयिनीं वीक्ष्य धनिनाम् ।
परिच्छेदः शौचं विनयपरता चेन्द्रियजयो
विवेकोतः कृतं न खलु वयमर्थप्रतिमुखः ॥२३७२॥

छित्तपस्य ।

उत्थायोत्थाय पापेष्वभिरमति मतिर्मन्दबुद्धेर्यदा ते
नैवोद्वेगो न शान्तिर्न च भवति घृणा कुर्वतः कर्म निन्द्यम् ।
तत्किं नैव प्रभाते ज्वलदनलसमा रौरवी नाम रौद्री
तीक्ष्णायःकीलचक्रक्रकचपटुरवा राजधानी यमस्य ॥२३७३॥

श्रीमत्पुरुषोत्तमदेवस्य ।

शैलैर्बन्धयति स्म वानरहृतैर्वाल्मीकिरम्भोनिधिं
व्यासः पार्थशरैस्तथापि न तयोरत्युक्तिरुद्भाव्यते ।
वागर्थौ च तुलाधृताविव तथाप्यस्मत्प्रबन्धानयं
लोको दूषयितुं प्रसारितमुखस्तुभ्यं प्रतिष्ठे नमः ॥२३७४॥

धर्मकीर्तेः । (सु.र. १७२६)

प्रासादाः शिखरस्खलज्जलधराः खातानि वारां निधि
स्पर्धावन्त्युपयान्ति भूमिसमतां कालेन राज्ञामपि ।
क्षुद्रस्यापि कवेः सदर्थरचनाकीर्तिस्तु या वाङ्मयी
नादृष्ट्वा युगविप्लवं पुनरसौ प्रायः परिक्षीयते ॥२३७५॥

पुरुषोत्तमपादानाम् ।
७६. प्रतिराजस्तुतिः

आनन्दं विदुषां तनोति तनुते कर्णज्वरं विद्विषां
श्रीमानादिवराहपादसरसीजन्म प्रणामं मुहुः ।
सद्बन्धुर्गुणसिन्धुरन्धलगुडो धर्मस्य वर्त्मावनेः
श्रीमल्लक्ष्मणसेनदक्षिणभुजादण्डोऽपि दण्डे कटुः ॥२३७६॥

धर्माधिकरणमधोः ।

यो हेलोक्तिभिराहितो धनवतामुद्विग्नकान्तावचो
गुम्फैर्लब्धगतिः क्षुधाकुलशिशुक्रेङ्कारसंवर्धितः ।
पीत्वा जङ्गमकल्पभूरुहवर त्वद्वाचमेतां सुधा
सध्रीचीं बटुदास शाम्यतु स मे प्रोद्दामकर्णज्वरः ॥२३७७॥

साञ्चाधरस्य ।

पयोधिर्परिमाणेषु धनेषु च रणेषु च ।
वन्दीन्द्राणां नरेन्द्राणां बटुदासस्तरण्डकः ॥२३७८॥

राजवेतालस्य ।

अलमादिवराहेण बटुदासं परं स्तुमः ।
जगदुद्धरता येन न वक्रीकृतमाननम् ॥२३७९॥

उमापतिधरस्य ।

तत्प्राङ्गणान्तमधिरोहति कल्पवल्ली
चिन्तामणिर्लुठति पदतले च तस्य ।
येनेक्षितः सुकृतसागरपारदृश्वा
विश्वानुरञ्जनपटुर्बटुदासदेवः ॥२३८०॥

कविराजव्यासस्य ।

श्रीधरदासविनिर्मिते सदुक्तिकर्णामृते प्रवाहोऽयम् ।
पञ्चम उच्चावच इति विविधप्रमोदं तनोतु रसिकानाम् ॥

इति महामाण्डलिकश्रीश्रीधरदासकृतौ सदुक्तिकर्णामृते
उच्चावचप्रवाहो नाम पञ्चमः प्रवाहः ।

वीचयः ७६ । श्लोकाः ३८० ।

श्रीधरदासविनिर्मितसदुक्तिकर्णामृते प्रवाहाणाम् ।
पञ्चकमिह षट्सप्तत्यधिकशतचतुष्टयी वीचिः ॥
श्लोकानां च शतत्रयमशीत्युपेतं सहस्रयोर्द्वितयम् ।
ग्रन्थश्च षष्ठिसमधिकसप्तशताधिकसहस्रपञ्चतयम् ॥
शाकेऽत्र सप्तविंशत्यधिकशतोपेतदशशते शरदाम् ।
श्रीमल्लक्ष्मणसेनक्षितिपस्य रसकविंशेऽब्दे ॥
सवितुर्गत्या फाल्गुनविंशेषु परार्थहेतवे कुतुकात।
श्रीधरदासेनेदं सदुक्तिकर्णामृतं चक्रे ॥
भवतु नृपो धर्मपरः परमसमृद्धा च भवतु वसुधेयम् ।
धेयात्सुखानि लोके केशवचरणाम्बुजद्वितयम् ॥

इति महामाण्डलिकश्रीश्रीधरदासविनिर्मितसदुक्तिकर्णामृताख्यः
श्लोकसमुच्चयः समाप्तः ।

वीचयः ४७६ । प्रतिवीचिपञ्चश्लोकनियमेन श्लोकाः २३८० ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP