संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : उत्तरभागः|
अध्यायः १७

उत्तरभागः - अध्यायः १७

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


पुत्र उवाच॥
तस्मादीर्ष्यां परित्यज्य मोहिनीमनुभोजय॥
न मातरीदृशो धर्मो लोकेषु त्रिषु लभ्यते ॥१॥

स्वहस्तेन प्रियां भर्तुर्भार्यां या तु प्रभोजयेत्॥
सपत्नीं तु सपत्नी हि किंचिदन्नं ददाति च ॥२॥

तदनंतं भवेद्देवि मातरित्याह नाभिजः॥
कुरु वाक्यं मयोक्तं हि स्वामिनि त्वं प्रसीद मे ॥३॥

तातस्य सौख्यं कर्तव्यमावाभ्यां वरवर्णिनी॥
भवेत्पापक्षयः सम्यक् स्वर्गप्राप्तिस्तथाक्षया ॥४॥

पुत्रस्य वचनं श्रुत्वा देवी संध्यावली तदा॥
अभिमंत्र्य परिष्वज्य तनयं सा पुनः पुनः ॥५॥

मूर्ध्नि चैनमुपाघ्राय वचनं चेदमब्रवीत्॥
करिष्ये वचनं पुत्र त्वदीयं धर्मसंयुतम् ॥६॥

इर्ष्यां मानं परित्यज्य भोजयिष्यामि मोहिनीम्॥
शतपुत्रा ह्यहं पुत्र त्वयैकेन सुतेन हि ॥७॥

नियमैर्बहुभिर्जातो देहक्लेशकरैर्भवान्॥
व्रतराजेन चीर्णेन प्राप्तस्त्वमचिरात्सुतः ॥८॥

नहीदृशं व्रतं लोके फलदायि प्रदृश्यते॥
सद्यः प्रत्ययकारीदं महापातकनाशनम् ॥९॥

किं जातैर्बहुभिः पुत्रैः शोकसंतापकारकैः॥
वरमेकः कुलालंबी यत्र विश्रमते कुलम् ॥१०॥

त्रैलोक्यादुपरिष्ठाहं त्वां प्राप्य जठरे स्थितम्॥
धन्यानि तानि शूलानि यैर्जातस्त्वं सुतोऽनघ ॥११॥

सप्तद्वीपपतिः शूरः पितुर्वचनकारकः॥
आह्लादयति यस्तातं जननीं वापि पुत्रकः ॥१२॥

तं पुत्रं कवयः प्राहुर्वाचाख्यमपरं सुतम्॥
एवमुक्त्वा तु वचनं देवी संध्यावली तदा ॥१३॥

वीक्षां चक्रेऽथ भांडानि षड्रसस्य तु हेतवे॥
तस्या वीक्षणमात्रेण परिपूर्णानि भूपते ॥१४॥

षड्रस्य सुखोष्णस्य मोहिनीभोजनेच्छया॥
अमृतस्वादुकल्पस्य जनस्य तु महीपते ॥१५॥

ततो दर्वीं समादाय कांचनीं रत्नसंयुताम्॥
परिवेषयदव्यग्रा मोडिन्याश्चारुहासिनी ॥१६॥

कांचने भाजने श्लक्ष्णे मानभोजनवेष्टिते॥
शनैः शनैश्च बुभुजे इष्टमन्नं सुसंस्कृतम् ॥१७॥

उपविश्यासने देवी शातकौभमये शुभे॥
वीज्यमाना वरारोहा व्याजनेन सुगीतिना ॥१८॥

धर्मांगदगृही तेन शिखिपुच्छभवेन तु॥
सा भुक्ता ब्रह्मतनया तदन्नममृतोपमम् ॥१९॥

चतुर्गुणेन शीतेन कृत्वा शौचमथात्मनः॥
जगृहे पुत्रदत्तं तु तांबूलं तत्सुगंधिमत् ॥२०॥

वरचंदनयुक्तेन हस्तेन वरवर्णिनी॥
ततः प्रहस्य शनकैः प्राह संध्यावलीं नृप ॥२१॥

जननी किं तु देवि त्वं वृषांगदनृपस्य तु॥
न मया हि परिज्ञाता श्रमस्वेदितया शुभे ॥२२॥

वदत्येवं ब्रह्मसुता यावत्संध्यावलीं नप॥
तावत्प्रणम्य नृपतेः पुत्रो वचनमब्रवीत् ॥२३॥

उदरे ह्यनया देव्या घृतः संवत्सरत्रयम्॥
तव भर्तुः प्रसादेन वृद्धिं संप्राप्तवानहम् ॥२४॥

संत्यनेकानि मातॄणां शतानि मम सुंदरि॥
अस्याः पीतं पयो भूरि कुचयोः स्नेहसंप्लुतम् ॥२५॥

अनया सा रुजा तीव्रा विधृता प्रायशो जरा॥
इयं मां जनयित्वैव जाता शिथिलबंधना ॥२६॥

तन्नास्ति त्रिषु लोकेषु यद्दत्वा चानृणो भवेत्॥
मातुः पुत्रस्य चार्वंगि सत्यमेतन्मयेरितम् ॥२७॥

सोऽहं धन्यतरो लोके नास्ति मत्तोऽधिकः पुमान्॥
उत्संगे वर्तयिष्यामि मातृसंघस्य नित्यशः ॥२८॥

नोत्संगे चेज्जनन्या हि तनयो विशति क्वचित्॥
मातृसौख्यं न जानाति कुमारी भर्तृजं यथा ॥२९॥

मातुरुत्संगमारूढः पुत्रो दर्पान्वितो भवेत्॥
हारमुत्तमदेहस्थं हस्तेनाहर्तुमिच्छति ॥३०॥

पाल्यमानो जनन्या हि पितृहीनोऽपि दर्पितः॥
समीहते जगद्धर्तुं सवीर्यं मातृजं पयः ॥३१॥

एतज्जठरसंसर्गि भवत्युत्संगशंकितः॥
अस्याश्चैवापराणां च विशेषो यदि मे न चेत् ॥३२॥

तेन सत्येन मे तातो जीवताच्छरदां शतम्॥
एवं ब्रुवाणे तनये मोहिनी विस्मयं गता ॥३३॥

कथमस्य प्रहर्तव्यं मया निर्घृणशीलया॥
विनीतस्य ह्यपापस्य औचित्यं पापिनो गृहे ॥३४॥

पितुः शुश्रूषणं यस्य न तस्य सदृशं क्षितौ॥
एवं गुणाधिकस्याहं कर्तुं कर्म जुगुप्सिताम् ॥३५॥

पुत्रस्य धर्मशीलस्य भूत्त्वा तु जननी क्षितौ॥
एवं विमृश्य बहुधा मोहिनी लोकसुंदरी ॥३६॥

उवाच तनयं बाला शीघ्रमानय मे पतिम्॥
न शक्नोमि विना तेन मुहूर्तमपि वर्तितुम् ॥३७॥

ततः स त्वरितं गत्वा प्रणम्य पितरं नृप॥
कनिष्ठा जननी तात शीघ्रं त्वां द्रष्टुमिच्छति ॥३८॥

प्रसादः क्रियतां तस्याः पूज्यतां ब्रह्मणः सुता॥
पुत्रवाक्येन नृपतिरतत्क्षणाद्गंतुमुद्यतः ॥३९॥

प्रहृष्टवदनो भूत्वा संध्यावल्या निवेशनम्॥
संप्रविश्य गृहे राजा ददर्श शयनस्थिताम् ॥४०॥

मोहिनीं मोहसंयुक्तां तप्तकांचनसप्रभाम्॥
उपास्य मानां प्रियया संध्यावल्या शनैः शनैः ॥४१॥

पुत्रवाक्यात्परित्यज्य क्रोधं सापत्न्यजं तथा॥
दृष्ट्वा रुक्मांगदं प्राप्तं शयने मोह्य सुंदरी ॥४२॥

प्रहृष्टवदना प्राह राजानं भूरिदक्षिणम्॥
इहोपविश्यतां कांत पर्यंके मृदुतूलके ॥४३॥

सर्वं निरीक्षितं भूप राज्यतन्त्रं त्वया चिरम्॥
अद्यापि नहि ते वांछा राज्ये परिनिवर्तते ॥४४॥

मन्ये दुष्कृतिनं भूप त्वामत्र धरणीतले॥
यः समर्थं सुतं ज्ञात्वा स्वयं पश्येन्नृपश्रियम् ॥४५॥

तस्मात्त्वत्तोऽधिको नास्ति दुःखी लोकेषु कश्चन॥
सुपुत्राणां पितॄणां हि सुखं याति क्षणं नृप ॥४६॥

दुःखेन पापभोक्तॄणां विषयासक्तचेतसाम्॥
सर्वाश्च प्रकृती राजंस्तवेष्टाः पूर्णपुण्यजाः ॥४७॥

धर्मांगदे पालयाने कथं त्वं वीक्षसेऽधुना॥
परित्यज्य प्रियासौख्यं कीनाश इव दुर्बलः ॥४८॥

यदि पालयसे राज्यं मया किं ते प्रयोजनम्॥
निष्प्रयोजनमानीता क्षीरसागरमस्तकात् ॥४९॥

विड्भोज्या हि भविष्यामि पक्षिणामामिषं यथा॥
यो भार्यां यौवनोपेतां न सेवेदिह दुर्मतिः ॥५०॥

कृत्याचरणसक्तस्तु कुतस्तस्य भवेत्प्रिया॥
असेविता व्रजेद्भार्या अदत्तं हि धनं व्रजेत् ॥५१॥

अरक्षितं व्रजेद्राज्यं अनभ्यस्तं श्रुतं व्रजेत्॥
नालसैः प्राप्यते विद्या न भार्या व्रतसंस्थितैः ॥५२॥

नानुष्ठानं विना लक्ष्मीर्नाभक्तैः प्राप्यते यशः॥
नोद्यमी सुखमाप्नोति नाभार्यः संततिं लभेत् ॥५३॥

नाशुचिर्द्धर्ममाप्नोति न विप्रोऽप्रियवाग्धनम्॥
अपृच्छन्नैव जानाति अगच्छन्न क्वचिद्व्रजेत् ॥५४॥


अशिष्यो न क्रियां वेत्ति न भयं वेत्ति जागरी॥
कस्माद्भूपाल मां त्यक्त्वा धर्मांगदगृहे शुभे ॥५५॥

वीक्ष्यसे राज्यपदवीं समर्थे तनये विभो ॥५६॥

एवं ब्रुबाणां तनयां विधेस्तु रतिप्रियां चारुविशालनेत्राम्॥
व्रीडान्वितः पुत्रसमीपवर्ती प्रोवाच वाक्यं नृपतिः प्रियां ताम् ॥५७॥

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते मोहिनीवचनं नाम सप्तदशोऽध्यायः ॥१७॥

N/A

References : N/A
Last Updated : May 09, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP