संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : उत्तरभागः|
अध्यायः २५

उत्तरभागः - अध्यायः २५

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


वसिष्ठ उवाच॥
तद्वाक्यं ब्राह्मणाः श्रुत्वा मोहिन्या समुदीरितम्॥
तथ्यमित्येवमुक्त्वा तु राजानं वाक्यमब्रुवन् ॥१॥

ब्राह्मणा ऊचुः॥
यस्त्वया नृपते पुण्यः कृतोऽयं शपथः किल॥
एकादश्यां न भोक्तव्यं पक्षयोरुभयोरपि ॥२॥

न कृतः शास्त्रदृष्ट्या तु स्वबुद्ध्यैव प्रकल्पितः॥
साग्रीनां प्राशनं प्रोक्तमुभयोः संध्ययोः किल ॥३॥

होमोच्छिष्टप्रभोक्तारस्त्रयो वर्णाः प्रकीर्तिताः॥
विशेषाद्भूमिपालानां कथं युक्तमुपोषणम् ॥४॥

सर्वदोद्यतशस्त्राणां दुष्टसंयमिनां विभो॥
शास्त्रतोऽशास्त्रतो वापि यस्त्वया शपथः कृतः ॥५॥

परिपूर्णो भवत्यद्य वाक्येन हि द्विजन्मनाम्॥
व्रतभंगो न तेऽस्तीह भुक्ष्वं विप्रसमन्वितः ॥६॥

परितापो न ते कार्यो विप्रवाक्यं महत्तरम्॥
योऽन्यथा मन्यते वाक्यं विप्राणां नृपसत्तम ॥७॥

स याति राक्षसीं योनिं जन्मानि दश पञ्च च॥
तच्छ्रुत्वा वचनं रोद्रं राजा कोपसमन्वितः ॥८॥

उवाच स्फुरमाणौष्टस्तान्विप्रान्श्लक्ष्णया गिरा॥
सर्वेषामेव भूतानां भवंतो मार्गदर्शिनः ॥९॥

यतीनां विधवानां च श्लोकोऽयं पठ्यते द्विजाः॥
विमार्गगामिनां चैतन्मतं न सात्वतां क्वचित् ॥१०॥

यद्भवद्भिः समुद्दिष्टं राज्ञां नोपोषणं स्मृतम्॥
तत्र वाक्यानि श्रृणुत वैष्णवा चारलक्षणे ॥११॥

न शंखेन पिबेत्तोयं न हन्यात्कूर्मसूकरौ॥
एकादश्यां न भोक्तव्यं पक्षयोरुभयोरपि ॥१२॥

न पातव्यं हि मद्य तु न हन्तव्यो द्विजः क्वचित्॥
क्रीडेन्नाक्षैस्तु धर्मज्ञो नाश्नीयाद्धरिवासरे ॥१३॥

अभक्ष्य भक्षणं पापं परदाराभिमर्शनम्॥
एकादश्यां भोजनं च पतनस्यैव कारणम् ॥१४॥

अकार्यकरणं कृत्वा किं जीवेच्‌छरदां शतम्॥
को हि संचेष्टमानस्तु भुनक्ति हरिवासरे ॥१५॥

चतुष्पदेभ्योऽपि जनैर्नान्नं देयं हरेर्दिने॥
उत्तराशास्थितैर्विप्रैर्विष्णुधर्मपरायणैः ॥१६॥

सोऽहं कथं करोम्यद्य अभक्ष्यस्य तु भक्षणम्॥
नोपक्षीणशरीरोऽहं नामयावी द्विजोत्तमाः ॥१७॥

स कथं हि व्रतं त्यक्षे विमार्गस्थद्विजोक्तितः॥
धर्मभूषणसंज्ञेन रक्ष्यमाणे धरातले ॥१८॥

न च रक्षाविहीनोऽहं शत्रुः कोऽपिन मेऽस्ति च॥
एवं ज्ञात्वा द्विजश्रेष्ठा वैष्णवव्रतशालिनः ॥१९॥

भवद्भिर्नोचितं वक्तुं प्रतिकूलं व्रतापहम्॥
असंपरीक्ष्य ये दद्युः प्रायश्चित्तं द्विजातयः ॥२०॥

तेषामेव हि तत्पापं स्मृतिवैकल्यसम्भवम्॥
देवो वा दानवो वापि गन्धर्वो राक्षसोऽपि वा ॥२१॥

सिद्धो वा ब्राह्मणो वापि पितास्माकं स्वयं वदेत्॥
हरिर्वापि हरो वापि मोहिनीजनकोऽपि वा ॥२२॥

दिनकृल्लोकपालो वा नो भोक्ष्ये हरिवासरे॥
यो हि रुक्मांगदो राजा विख्यातो भूतले द्विजाः ॥२३॥

सत्यप्रतिज्ञां विफलां न कदाचित्करोति हि॥
द्युपतेः क्षीयते तेजो हिमवान्परिवर्त्तते ॥२४॥

जलधिः शोषमायाति पावकश्चोष्णतां त्यजेत्॥
तथापि न त्यजे विप्रा व्रतमेकादशीदिने ॥२५॥

प्रसिद्धिरेषा भुवनत्रयेऽपि आरट्यते मे पटहेन विप्राः॥
ग्रामेषु देशेषु परेषु वापि ये भुञ्जते रुक्मविभूषणस्य ॥२६॥

दण्ड्याश्च वध्याश्च सपुत्रकास्ते न चापि वासो विषये हि तेषाम्॥
हरेर्दिने सर्वमखप्रधाने पापापहे धर्मविवर्द्धने च ॥२७॥

मोक्षप्रदे जन्मनिकृंतनाख्ये तेजो निधौ सर्वजनप्ररूढे॥
एंवविधे प्रोद्गत एव शब्दे यद्यस्मि भोक्ता वृजिनस्य कर्त्ता ॥२८॥

अमेध्यलिप्तः पटहो भवेत्तदा संछादितो नीलमयेन वाससा॥
उत्पाद्य कीर्तिं स्वयमेव जतुर्निकृंतति प्राणभयाच्च पापात् ॥२९॥

यस्तस्य वासो निरये युगानां षष्टिर्भवेद्वा क्रिमिदंशसंज्ञे॥
वृथा हि सूता मम सा जनित्री भवेन्निराशा द्विजपितृदेवाः ॥३०॥

वैवस्वतो हर्षमुपाश्रयेच्च सलेखको मे व्रतभंग एव॥
किं तेन जातेन दुरात्मना हि ददाति हर्षं रिपुसुंदरीणाम् ॥३१॥

कुकर्मणा पापरतिः कुजातिः सर्वस्य नाशी त्वशुचिस्स मूढः॥
न मन्यते वेदपुराणशास्त्रानंते पुरीं याति दिनेशसूनोः ॥३२॥

कृत्वैव वांतिं पुनरत्ति तां यस्तद्वत्प्रतिज्ञाव्रतभङ्गकारी॥
वेदा न शास्त्रं न च तत्पुराणं न चापि सन्तः स्मृतयो न च स्युः ॥३३॥

ये माधवस्य प्रियकृत्ययोग्ये वदंति शुद्धेऽह्नि भुजिक्रियां तु॥
श्राद्धेन तेनापि न चास्ति तृप्तिः पितुश्च चीर्णेन हरेर्दिने तु ॥३४॥

व्रतेन यद्विष्णुपदप्रदेन साकं क्षयाहेन वदंतु मूढाः ॥३५॥

एतच्छ्रुत्वा तु तद्वाक्यं मोहिनी ज्वलितांतरा॥
कोपसंरक्तनयना भर्तारं पर्यभाषत् ॥३६॥

करोषि चेन्न मे वाक्यं धर्मबाह्यो भविष्यसि॥
धर्मबाह्यो हि पुरुषः पांशुना तुल्यतां व्रजेत् ॥३७॥

पांशुना पूर्यते गर्तः स गर्तखनको भवेत्॥
त्वया ममार्पितः पाणिर्वराय पृथिवीपते ॥३८॥

तामुल्लंघ्य प्रतिज्ञां स्वां पालयिष्यासि नो यदि॥
कृतकृत्या तदा यास्ये प्राप्तो धर्मो मया तव ॥३९॥

न चाहं ते प्रिया भार्या न च त्वं मे पतिर्नृप॥
उपधानं करिष्यामि स्वकं बाहुं न ते युधि ॥४०॥

धिक् त्वां धर्मक्षयकरं स्ववचोलोपकारकम्॥
म्लेच्छेष्वपि न दृश्येत त्वादृशो धर्मलोपकः ॥४१॥

सत्याच्चलितमद्यत्वां परित्यक्ष्ये सुपापिनम्॥
एवमुक्त्वा वरारोहा ह्युदतिष्ठत्त्वरान्विता ॥४२॥

यथा सती हरं त्यक्त्वा दिव्याभरणभूषिता॥
प्रस्थिता सा तदा तन्वी भूसुरैश्च समन्विता ॥४३॥

वरं मद्यस्य संस्पर्शो नास्य संगो नृपस्य वै॥
वरं नीलांबरस्पर्शो नास्य धर्मच्युतस्य हि ॥४४॥

एवं हि मोहिनी रुष्टा प्रलपंती तदा भृशम्॥
गौतमादिसमायुक्ता निर्जगाम गृहाद्ब्रहिः ॥४५॥

हा तात हा जगन्नाथ सृष्टिस्थित्त्यंतकारक॥
इत्येव शब्दं क्रोशंती ब्रह्मणोमानसोद्भवा ॥४६॥

एतस्मिन्नेव काले तु वाजिराजं समास्थितः॥
अटित्वा सकलामुर्वीं संप्राप्तो धर्मभूषणः ॥४७॥

संमुखोऽभूज्जनन्यास्तु त्वरायुक्तो विमत्सरः॥
कर्णाभ्यां तस्य शब्दोऽसौ विश्रुतः पितृवत्सलः ॥४८॥

मोहिनीवक्त्रसंभूतो विप्रवाक्योपबृंहितः॥
धर्मांगदो धर्ममूर्तिः रुक्मागदसुतस्तदा ॥४९॥

अवरुह्य हयात्तूर्णं ययौ तातपदांतिके॥
पुनरुत्थाय विप्रेन्द्रान्ननाम विहितांजलिः ॥५०॥

ततः शीघ्रगतिं दृष्ट्वा मोहिनीं रुष्टमानसाम्॥
आलक्ष्य तरसा मातः प्राह राजन् कृतांजलिः ॥५१॥

केनावमानिता देवि कथं रुष्टा पितुः प्रिये॥
एतैर्द्विजेंद्रैः सहिता क्व त्वं संप्रस्थिताधुना ॥५२॥

धर्मांगदवचः श्रुत्वा मोहिनी वाक्यमब्रवीत्॥
पिता तवानृती पुत्र करो येन वृथा कृतः ॥५३॥

यः कर्त्ता सुकृतं भूरि रक्ताशोकाकृतिः स्थितः॥
ध्वजांकुशांकितः श्रीमान्दक्षिणः कनकांगदः ॥५४॥

रुक्मांगदेन ते पित्रा न चाहं वस्तुमुत्सहे ॥५५॥

धर्मांगद उवाच॥
यद्ववीषि वचो देवि तत्कर्त्ताहं न संशयः॥
मा कोपं कुरु मातस्त्वं निवर्त्ततस्व पितुः प्रिये ॥५६॥

मोहिन्युवाच॥
अनेन समयेनाहं त्वत्पित्रा मंदराचले॥
कृता भार्या शिवः साक्ष्ये स्थितो यत्र सुराधिपः ॥५७॥

समयात्स च्युतः सम्यक्पिता ते रुक्मभूपणः॥
न प्रयच्छति मे देयं तस्य वृद्धिं विचिंतये ॥५८॥

न याचे कांचनं धान्यं हस्त्यश्वं ग्रामवाससी॥
येन तस्य भवेद्धानिर्न याचे तन्नृपात्मज ॥५९॥

येनासौ प्रीणयेद्देहं स्वकीयं देहिनां वर॥
तन्मया प्रार्थितं पुत्र स मोहान्न प्रयच्छति ॥६०॥

तस्यैव चोपकाराय शरीरस्य नृपात्मज॥
याचितः सुखहेतोस्तु मया नृपतिसत्तमः ॥६१॥

स्थितः सोऽद्यानृते घोरे सुरापानसमे विभुः ॥६२॥

सत्यच्युतं निष्ठुरवाक्यभाषिणं विमुक्तधर्मं त्वनृतं शठं च॥
परित्यजेयं जनकं तवाधमं नैव स्थितिर्मे भविता हि तेन ॥६३॥

तच्छ्रुत्वा मोहिनीवाक्यं पुत्रो धर्मांगदोऽब्रवीत्॥
मयि जीवति तातो मे न भवेदनृती क्वचित् ॥६४॥

निवर्तस्व वरारोहे करिष्येऽहं तवेप्सितम्॥
पित्रा मे नानृतं देवि पूर्वमुक्तं कदाचन ॥६५॥

स कथं मयि जाते तु वदिष्यति महीपतिः॥
यस्य सत्ये स्थिता लोकाः सदेवासुरमानुषाः ॥६६॥

वैवस्वतगृहं येन कृतं शून्यं हि पापिभिः॥
विजृंभते यस्य कीर्तिर्व्याप्तं ब्रह्मांडमंडलम् ॥६७॥

स कथं जायते भूपो मिथ्यावचनसंस्थितः॥
अश्रुतं भूपतेर्वाक्यं परोक्षे श्रद्दधे कथम् ॥६८॥

ममोपरि दयां कृत्वा निवर्तस्व शुभानने॥
एतद्धर्मांगदेनोक्तं वाक्यमाकर्ण्य मोहिनी ॥६९॥

न्यवर्तत महीपालपुत्रस्कंधावलंबिनी॥
यत्र रुक्मांगदः शेते मृतकल्पो रविप्रभः ॥७०॥

तस्मिन्निवेशयामास शयने कांचनान्विते॥
दीपरत्नैः सुप्रकाशे विद्रुमैश्चित्रिते वरे ॥७१॥

आखंडलास्त्रमणिभिः कृतपादे सुकोमले॥
दीर्घविस्तारसंयुक्ते ह्यनौपम्ये मनोहरे ॥७२॥

ततः कृतांजलिः प्राहपितरं श्लक्ष्णया गिरा॥
तातैषा जननी मेऽद्य त्वां वदत्यनृती त्विति ॥७३॥

कस्मात्त्वमनृती भूप भविष्यसि महीतले॥
सकोषरत्ननिचये गजाश्वरथसंयुते ॥७४॥

राज्ये प्रशास्यमाने तु सप्तोदधिसमन्विते॥
प्रदेहि सकलं ह्यस्यै यत्त्या श्रावितं विभो ॥७५॥

मयि चापधरे तात को व्यलीकं चरेत्तव॥
देहि शक्रपदं देव्यै जितं विद्धि पुरंदरम् ॥७६॥

वैरिंच्यं दुर्ल्लभं यच्च योगिगम्यं निरंजनम्॥
तच्चाप्यहं प्रदास्यामि तपसा तोष्य पद्मजम् ॥७७॥

समीहते यज्जननी मदीया रसातले वापि धरातले वा॥
त्रिविष्टपे वापि परे पदे वा दास्यामि जित्वा नरदेवदानवान् ॥७८॥

अहं हि दासस्तव भूप यस्माद्विक्रीयतां मामथवा तृणाय॥
हस्ते हि पापस्य दिवाप्रकीर्तेर्वत्स्यामि तत्कर्मकरः सुभुक्तः ॥७९॥

यद्दुष्करं भूमिपते त्रिलोक्यां नादेयमस्तीह तदिष्टंभावात्॥
तच्चापि राजेंद्र ददस्व देव्यै मज्जीवितं मज्जननीभवं वा ॥८०॥

तेनैव सद्यो नृपनाथ लोके सत्कीर्तियुक्तो भव सर्वदैव॥
विराजयित्वा स्वगुणैर्नृपौघान्करैरिवात्मप्रभवैः खशोभैः ॥८१॥

कीर्तिप्रभंगे वृजिनं भविष्यति प्रजावधे यन्मनुराह सत्यम्॥
संमार्जयित्वा विमलं यशः स्वं कथं सुखी स्यां नृपते ततः क्षमः ॥८२॥

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते पञ्चविंशोऽध्यायः ॥२५॥

N/A

References : N/A
Last Updated : May 09, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP