उत्तरभागः - अध्यायः २८
`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।
काष्ठीलोवाच॥
राक्षसं धावमानं तु कालांतकयमोपमम्॥
दृष्ट्वा सा राक्षसी प्राह भर्तारं मम शंकिता ॥१॥
प्रक्षिपस्वानलप्रख्यां शक्तिं हेमविभूषिताम्॥
ममायं पंचतां यातु दिगंबररिपुप्रिय ॥२॥
तस्या वाक्यान्मम पतिः पौरुषे तु व्यवस्थितः॥
मुमोच विपुलां शक्तिं रक्षोवक्षस्थल प्रति ॥३॥
ज्वलंती ज्वलनप्रख्या द्योतयंती दिशो दश॥
दिव्यांशुतीक्ष्ण वक्त्राता किंकिणीशतनादिता ॥४॥
रक्तचंदनलिप्तांगी रक्तवस्त्रोपशोभिता॥
हृदि तस्य निपत्यासौ शक्तिर्विप्रकरच्युता ॥५॥
कृत्वा भस्मावशेषं तु राक्षसं गगनं ययौ॥
पातयित्वा स्वभर्तारं विप्रहस्तेन राक्षसी ॥६॥
कृतकृत्यमिवात्मानं मेने हृष्टतनूरुहा॥
अथोवाच द्विजं हृष्टा राक्षसी शुभलोचनम् ॥७॥
एहि कांत गुहां रम्यां प्रविश त्वं यदृच्छया॥
भुंक्ष्व भोगान्मया सार्द्धं ये दिव्या ये च मानुषाः ॥८॥
तथेति प्राणनाथो मे प्राहहृष्टवपुस्तदा॥
ततः सादाय मे कांतं स्वां प्रविष्टा गुहां मुदा ॥९॥
असंवीक्ष्यैव तद्भस्म भर्तृदेहसमुद्भवम्॥
कुचाभ्यामुन्नताभ्यां सा मद्भर्तारमपीडयत् ॥१०॥
दर्शयामास तां तन्वीं कुमारीं शयने स्थिताम्॥
इयं तेनासितापांगी बिम्बोष्ठी कांचनप्रभा ॥११॥
भार्यार्थे समुपानीता वाराणस्या द्विजोत्तम॥
यस्याः सीमां न लंघंति पातकानि ह्यशेषतः ॥१२॥
शक्तिक्षेत्रं च तां प्राहुः पुण्यं पापक्षयंकरम्॥
या गृहं त्रिपुरारेश्च पञ्चगव्यूतिसंस्थिता ॥१३॥
यस्यां मृताः पुनर्मर्त्या गर्भवासं विशंति न॥
स त्वमस्या गृहं पित्र्यं पुनर्नय सुलोचनाम् ॥१४॥
इमानि तव रत्नानि शयनान्यासनानि च॥
मया सह समस्तानि विक्रीणीहि निजेच्छया ॥१५॥
त्वदर्थे राक्षसो घोरो मया ब्रह्मन्निषूदितः॥
मुग्धया तव रूपेण प्रेषितो यमसादनम् ॥१६॥
तस्मान्ममोपिरि विभो कृत्वा विश्वासमात्मना॥
भजस्व मां विशालाक्ष भक्तां वै कामरूपिणीम् ॥१७॥
एतच्छ्रुत्वा तु वचनं भर्ता मे चारुलोचने॥
राक्षस्याः कामतप्तायाः कुमार्याः सन्निधौ शुभे ॥१८॥
उवाच राक्षसीं तां तु सशंको मधुरं वचः॥
सुभगे नीतिशास्त्रेषु विश्वस्तव्या न योषितः ॥१९॥
कौमारं या पतिं हन्ति सा कथं मां न हिंसति॥
मत्तो रूपाधिकं मत्वा परं पुरुषलंपटा ॥२०॥
सोऽहं विश्वासभावेन विश्वस्तस्ते वरानने ॥२१॥
अद्य वाथ परेद्युर्वा पक्षे मासेऽथ वत्सरे॥
व्यापादय यथेच्छं वा त्वां प्रपन्नोऽस्मि भामिनि ॥२२॥
एवमेव त्वया कार्यं नाद्य चोपकृतं तव॥
आत्मा ते सर्वथा देयः प्रतीकारस्य हेतवे ॥२३॥
मदर्थे निहतो भर्ता त्वया निःशंकया यतः॥
ततोऽहं नोत्तरं वच्मि परं किंचित्सुलोचने ॥२४॥
तच्छ्रुत्वा वचनं तस्य मद्भर्तुः साब्रवीदिदम्॥
विश्वस्तहिंसनं ब्रह्मन् ब्रह्महत्या समं भवेत् ॥२५॥
यद्येवं राक्षसीं क्रूरां मन्यसे पतिघातिनीम्॥
पतिं तथापि गर्हेयं विश्वस्तं घातये कथम् ॥२६॥
सूक्ष्मा हि धर्मस्य गतिर्न ज्ञायेत कथंचन॥
केनापि कुत्रचिद्देवदैत्यराक्षसकादिना॥
केचिन्मनुष्याः पटवो धर्मसूक्ष्मत्वचिंतने ॥२७॥
येऽनित्येन शरीरेण नैष्कर्म्यं साधयंत्युत॥
श्रूयते च पुराणेषु किंचिदत्र निगद्यते ॥२८॥
धर्मस्यैवानुकूल्येन विष्णुना प्रभविष्णुना॥
दशावतारग्रहणे दुःखं प्राप्तमनेकधा ॥२९॥
क्व सीतार्थं श्रीनिवासो रामो लक्ष्मणसंयुतः॥
विलापं कुरुते नागपाशबन्धादिकर्मसु ॥३०॥
क्व देवदेवो वसुदेवसूनुर्विज्ञानरूपो निखलप्रपंची॥
हा कष्टमित्यस्रदृगादिचेष्टः पार्थोग्रसनादिकभृत्यकृत्यः ॥३१॥
ईशस्य कृत्यं द्विज दुर्विभाव्यं धर्मानुकूल्येन समास्थितस्य॥
व्यासः स्वयं वेदविभागकर्त्ता पाराशरिस्तत्त्वदृगिज्यमूर्तिः॥
कन्यात्वविध्वसकवीर्यजन्मा कानीनसंज्ञोऽनुजदारगामी ॥३२॥
परिवेत्ता च दिधिषूः शन्तनुः स्वःसरित्पत्तिः॥
दिधिषू तनयः साक्षाद्वसुः स्त्रीवादमृत्युभाक् ॥३३॥
ये गोलकसुताः कुण्डाः पांडवाः समयोनिगाः॥
तेषां संकीर्तनं पुण्यं पवित्रं पापनाशनम् ॥३४॥
यं ध्यायंति स्मरंत्यद्धा योगमूर्तिः सनातनः ॥३५॥
विष्णुर्वेश्यासमासक्तः प्रह्लादाद्युपदेशकृत्॥
श्रीनृसिंहोऽसुरध्वंसी देवदेवाधिदैवतम् ॥३६॥
संसारवासनाध्वंसी देवदेवाधिदैवतम्॥
संसारवासनाध्वंसी स्वर्णाक्षभवनस्थितिः ॥३७॥
जामदग्न्यः स्वयं सिद्धस्तपसा दग्धकिल्बिषः॥
ईश्वरः क्षत्रसंहारभ्रूणहत्यादिकर्मकृत् ॥३८॥
स्वयमेवर्षभो योगी लोकशिक्षापरो द्विजः॥
लोकग्लानिकरो जातः कुर्वन्धर्मानुरोधतः ॥३९॥
नारदो नारदो भूयो भूयो भूयोऽपि नारदः॥
नारायणपरो नारो नरो नरहितोऽमरः ॥४०॥
गौतमो गौतमो विप्र गोपचेष्टापरायणः॥
वेदबाह्यार्थसंयुक्तशास्त्री वेदोपकार कृत् ॥४१॥
वसुष्ठश्चोर्वशीजातोऽगस्त्योऽपि स्वयमीश्वरौ॥
येन लोकोपकारार्थं वासिष्ठं शास्त्रमुत्तमम् ॥४२॥
कृतं यस्मिन्पुराणानि वेदाः साम्यत्वमागताः॥
यः स्वयं रामचन्द्रस्य गुरुः सर्वेश्वरस्य च ॥४३॥
स कथं गाधिजाशप्तस्तिर्यग्योनिमुपागमत्॥
यो दमित्वा विभुर्विंध्यं वातापिं सागरं स्थितः ॥४४॥
स कथं मृतकादाता दुष्करं समुपासते॥
यो विधिः कर्मसाक्ष्यादिवन्द्यो मान्यः पितामहः ॥४५॥
मोहिनीमोहितो देहमुत्ससर्ज कथं स च॥
यः शिवः शिवदः साक्षात्प्रकृतीशः परात्परः ॥४६॥
स कथं देवपत्नीगः श्मशानाशुभचेष्टितः॥
तस्माद्द्विज सदाचारो निषेव्यो विधिना विधिः ॥४७॥
तमहंभावनायुक्तो नो हेयाद्यो विदां वरः॥
स शांतिमाप्नुयादग्र्यां धम्यामुभयसंस्थिताम् ॥४८॥
आपवर्ग्यः स्मृतो धर्मो धनं धर्मैकसाधनम्॥
तन्मया साधितो धर्मः सर्वोत्तमधनात्मना ॥४९॥
श्रृणु विप्रात्र धर्मस्य गतिं सूक्ष्मां वदाम्यहम्॥
यदा समागतो भर्ता मम कन्यां समाहरन् ॥५०॥
त्वां पश्यन् निजकर्मस्थं कोऽपि दोषो न तस्य वै॥
मया पृष्टः कथं नाम कन्येयं समुपाहृता ॥५१॥
तदा तेन मृषा वाक्यमुक्तं मद्भक्षणार्थकम्॥
तन्निशम्याह मां बद्धा स्वयं चास्थानि दर्शनात् ॥५२॥
ये वदंति च दांपत्ये भार्या मोक्षविरोधिनी॥
न ते तत्त्वदृशो ज्ञेया न सा भार्या विरोधिनी ॥५३॥
भार्या समुद्धरेत्पापात्पतंतं निरये पतिम्॥
सा भार्यान्या कर्मवल्लीरूपा संसारदायीनी ॥५४॥
पापं किमत्र तन्मत्तः सम्यक्छृणु स्वयं वर॥
अलीकं नैव वक्तव्यं प्राणैः कंठगतैरपि ॥५५॥
सत्यमेवाचरेत्सत्ये साक्षाद्धर्मे व्यवस्थितः॥
सत्ये समास्थितो ब्रह्मा सत्ये सन्तः समास्थिताः ॥५६॥
सत्ये समास्थितं विश्वं सर्वदा सचराचरम्॥
सत्यं ब्रूयादिति वचो वेदांतेषु प्रगीयते ॥५७॥
सत्यं ब्रह्मस्वरूपं हि तत्सत्यमभिधीमहि॥
सत्यं तु सर्वदा विप्र मंगलं मंगलप्रदम् ॥५८॥
असत्यमात्मक्षयदं सद्यः प्रत्ययकारकम्॥
स्त्रीषु सत्यं न वक्तव्यं तत्रापि श्रृणु कारणम् ॥५९॥
निधिं स्त्रियै न कथयेदित्यादौ दोषवारणम्॥
उक्तं तद्धर्मजनकं धर्मसूक्ष्मत्वदर्शकम् ॥६०॥
कुशा द्विजा जलं वह्निर्वेदा भूकालदिक्सुराः॥
साक्ष्ये यत्र विवाहेषु दांपत्यं तदुदीरितम् ॥६१॥
समंगीकरणं कर्म विवाहे तु विधीयते॥
स्त्रीपुंसोर्द्विजसंस्कारे निर्दिष्टं गुरुशिष्ययोः ॥६२॥
तस्मात्परस्परं ज्ञेयो गुरुशिष्यौ वधूवरौ॥
नानयोरणुमात्रोऽपि भेदो बोध्यो विजानता ॥६३॥
तत्तत्कर्मानुरूपत्वात्प्राधान्यस्त्रीनियोज्ययोः॥
क्वचिद्व्यत्ययदोषश्चेद्दैवमेवात्र कारणम् ॥६४॥
दैवाधीनं जगत्सर्वं सदेवासुरमानुषम्॥
दैवं तत्पूर्वजन्मानि संचिताः कर्मवासनाः ॥६५॥
प्राप्तं निषेवन्नन्योन्यं वर्तते कामकारकम्॥
शुभं वाप्यशुभं विप्र तं तु शांतं विदुर्बुधाः ॥६६॥
शांतः सत्यसमाचारो जंतुर्लोकप्रतारकः॥
एवमादि विदित्वा तु नायं भर्ता निपातितः ॥६७॥
कन्यात्वध्वंसकात्पापात्पूतो मदुपकारतः॥
गतिं प्रयातः कृतिनां त्वद्धस्तविनिपातितः ॥६८॥
मया तूपकृतं पत्ये जानंत्या धर्मसूक्ष्यताम्॥
त्वत्प्राणरक्षणे धर्मो ममाभूद्द्विजसत्तम ॥६९॥
तेन धर्मेण किं प्राप्तमिति सम्यङ्निबोध मे॥
राक्षसीं योनिमापन्ना राक्षसस्य प्रिया ह्यहम् ॥७०॥
कामरूपा ब्राह्मणी तु संजाता धर्मकारणात्॥
धर्मकामदुघा धेनुः संतोषो नंदनं वनम् ॥७१॥
विद्या मोक्षकरी प्रोक्ता तृष्णा वैतरणी नदी॥
वैतरण्यां पतन्भर्ता मयोद्धृत इहाभवत् ॥७२॥
अस्याश्चोपकृतं विप्र वर्णोत्तमनिवेशनात्॥
इयं त्वसंगिनी भार्या भविष्यति पितुर्गृहे ॥७३॥
अहं तवास्याश्च सदा रक्षिका धर्मबोधिनी॥
मत्संगमात्पूर्वमेव या भार्या विप्र तेऽभवत् ॥७४॥
इयं त्वत्संगिनी भार्या भविष्यति वरानना॥
सापि तिर्यग्गतिं प्राप्य मुच्यते मदनुग्रहात् ॥७५॥
अहं पुरा भवेऽभूवं रमणी लोकसुन्दरी॥
कंदलीति च विख्याता तनयौर्वमुनेर्द्विज ॥७६॥
तपः प्रभावात्संजाता यमला मिथुनंधरा॥
पुरुषो मे सहभवो दमितो धर्मकारणात् ॥७७॥
तेनैवौर्वेण शिष्टाहं दत्ता दुर्वाससे भवम्॥
तं पतिं प्राप्य विप्रेंद्र प्राक्कर्मवशागा ह्यहम् ॥७८॥
कलहाभिरता पत्या शप्ता भस्मत्वमागता॥
किंचित्पापावशेषेण राक्षसीं योनिमागता ॥७९॥
तत्र योनौ मया लब्धो भर्तायं राक्षसाधिपः॥
गोभिलो नाम तेजस्वी स त्वया विनिपातितः ॥८०॥
शोपोऽस्य पूर्ववयसिबभूव द्विजसत्तम॥
कस्याश्चिद्राजकन्यायाः स्त्रियाऽऽरब्धा मृतिस्तव ॥८१॥
अहं तु राक्षसीभावरहिता पूर्वकर्मणः॥
शुभस्य बलमापन्ना जाता तव सहायिनी ॥८२॥
दुःखिताहं कृता भर्त्रा कुमार्याहरणात्पुरा॥
भार्याथ पापिना ब्रह्मंस्तेन व्यापादितो मया ॥८३॥
विश्वस्तो हि यतस्त्वं वै मम सर्वेण चेतसा॥
ततस्त्वां गोपयिष्यामि सर्वभावेन कामुक ॥८४॥
एष ते शपथः सत्यः पंचभूतोपसाक्षिकः॥
कृत्स्नस्य पुरुषस्येह सन्निधौ व्याहृतो मया ॥८५॥
न करोषि द्विजश्रेष्ठ संविदं ह्यन्यथा क्वचित्॥
मद्वाक्ये भवता स्थेयं सर्वकृत्येषु मानद ॥८६॥
एतच्छ्रुत्वा तु वचनं राक्षस्या परिभाषितम्॥
प्रतिपेदे वचः सर्वं यत्कृतं हि तया तदा ॥८७॥
ततः सा राक्षसी सर्वं संप्रगृह्य गुहाधनम्॥
करेणुरूपिणी भूत्वा पृष्ठे कृत्वा पतिं मम ॥८८॥
तया सह विशालाक्ष्या रत्नावल्या मुदान्विता॥
ययावाकाशमार्गेण काशीमभि मुलोचने ॥८९॥
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते काष्ठीलोपाख्यानं नामाष्टाविंशोऽध्यायः ॥२८॥
N/A
References : N/A
Last Updated : May 09, 2012
TOP