उत्तरभागः - अध्यायः ५७
`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।
वसुरुवाच॥
देवान् ऋषीन्पितॄंश्चान्यान्संतर्प्याचम्य वाग्यतः॥
हस्तमात्रं चतुष्कोणं चतुर्द्वारं सुशोभनम् ॥१॥
पुरं विलिख्य विधिजेतीरे तस्य महोदधेः॥
मध्ये तत्र लिखेत्पद्मष्टपत्रं सकर्णिकम् ॥२॥
एवं मंडलमालिख्य पूजयेत्तत्र मोहिनि॥
अष्टाक्षरविधानेन नारायणमजं विभुम् ॥३॥
अथ ते संप्रवक्ष्यामि कायशोधनमुत्तमम्॥
क्षकारं हृदये चिंत्यं रक्तं रेफसमन्वितम् ॥४॥
ज्वलंतं त्रिशिखं चैव दहंतं पापसंचयम्॥
चंद्रमंडलमध्यस्थमेकारं मूर्ध्नि चिंतयेत् ॥५॥
शुक्लवर्णं प्रवर्षंतममृतं प्लावयन्महीम्॥
एवं निर्द्धूतपापस्तु दिव्यदेहस्ततो भवेत् ॥६॥
अष्टाक्षरं ततो मंत्रं न्यसेद्देहात्मनेर्बुधः॥
वामपादं समारभ्य क्रमशश्चैव विन्यसेत् ॥७॥
पंचांगं वैष्णवं चैव चतुर्व्यूहं तथैव च॥
करशुद्धिं प्रकुर्वीत मूलमंत्रेण साधकः ॥८॥
एकैकं चैव वर्णं तु अंगुलीषु पृथक् पृथक्॥
ॐकारं पृथिवी शुक्लं वामपादे तु विन्यसेत् ॥९॥
नकारस्तु भावः श्यामो दक्षिणे तु व्यवस्थितः॥
मोकारं कालमेवाहुर्वामकट्यां निधापयेत् ॥१०॥
नाकारं पूर्वबीजं तु दक्षिणस्यां व्यवस्थितम्॥
राकारस्तेज इत्याहुर्नाभिदेशे व्यवस्थितः ॥११॥
वायव्योऽयं यकारस्तु वामस्कंधे समाश्रितः॥
णाकारः सर्वदा ज्ञेयो दक्षिणांसे व्यवस्थितः ॥१२॥
यकारोऽयं शिरस्थश्च यत्र लोका व्यवस्थिताः॥
ॐकारं हृदये न्यस्य विकारं वा शिरस्यथ ॥१३॥
ष्णकारं वै शिखायां तु वेकारं कवचे न्यसेत्॥
नकारं नेत्रयोस्तु स्यान्मकारं चास्त्रमीरितम् ॥१४॥
ललाटे वासुदेवस्तु शुक्लवर्णः समास्थितः॥
रक्तः संकर्षणश्चैव मुखे वह्न्यकसन्निभः ॥१५॥
प्रद्युम्नो हृदये पीतोऽनिरुद्धो मेहने स्थितः॥
सर्वांगे सर्वशक्तिश्च चतुर्व्यूहार्चितो हरिः ॥१६॥
ममाग्रेऽवस्थितो विष्णुः पृष्ठतश्चापि केशवः॥
गोविंदो दक्षिणे पार्श्वे वामे तु मधुसूदनः ॥१७॥
उपरिष्टात्तु वैंकुठो वाराहः पृथिवीतले॥
अवांतरदिशो यास्तु तासु सर्वासु माधवः ॥१८॥
गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि वा॥
नरसिंहकृता गुप्तिर्वासुदेवमयो ह्यहम् ॥१९॥
एवं विष्णुमयो भूत्वा ततः कर्म समारभेत्॥
यथा देहे तथा देवे सर्वतत्वानि योजयेत् ॥२०॥
फकारांतं समुद्दिष्टं सर्वविघ्नहरं शुभम्॥
तत्रार्कचंद्रवह्नीयनां मंडलानि विचिंतयेत् ॥२१॥
पद्ममध्ये न्यसेद्विष्णुं भुवनस्यांतरस्य तु॥
ततो विचिंत्य हृदये प्रणवं ज्योतिरुत्तमम् ॥२२॥
कर्णिकायां समासीनं ज्योतीरूपं सनातनम्॥
अष्टाक्षरं ततो मंत्रं न्यसेच्चैव यथाक्रमम् ॥२३॥
तेन व्यस्तसमस्तेन पूजनं परमं स्मृतम्॥
द्वादशाक्षरमंत्रेण यजेद्देवं सनातनम् ॥२४॥
ततोऽवधार्य हृदये कर्णिकायां बहिर्न्यसेत्॥
चतुर्भुजं महासत्वं सूर्यकोटिसमप्रभम् ॥२५॥
चिंतयित्वा महायोगं ततश्चावाहयेत्क्रमात्॥
मीनरूपावहश्चैव नरसिंहश्च वामनः ॥२६॥
आयांतु देवा वरदा मम नारायणाग्रतः॥
सुमेरुः पादपीठं ते पद्मकल्पितमासनम् ॥२७॥
सर्वतत्वहितार्थाय तिष्ठ त्वं मधुसूदन॥
पाद्यं ते पादयोर्देव पद्मनाभ सनातन ॥२८॥
विष्णो कमलपत्राक्ष गृहाण मधुसूदन॥
मधुपर्कं महादेव ब्रह्माद्यैः कल्पितं मया ॥२९॥
निवेदितं च भक्त्यार्घं गृहाण पुरुषोत्तम॥
मंदाकिन्यास्ततो वारि सर्वपापहरं शिवम् ॥३०॥
गृहाणाचमनीयं त्वं मया भक्त्या निवेदितम्॥
त्वमापः पृथिवी चैव ज्योतिस्त्वं वायुरेव च ॥३१॥
लोकसंधृतिमात्रेण वारिणा स्नापयाम्यहम्॥
देवतंतुसमायुक्ते यज्ञवर्णसमन्विते ॥३२॥
स्वर्णवर्णप्रभे देव वाससी प्रतिगृह्यताम्॥
शरीरं च न जानामि चेष्टां च तव केशव ॥३३॥
मया निवेदितं गंधं प्रतिगृह्य विलिप्यताम्॥
ऋग्यजुःसाममंत्रेण त्रिवृतं पद्मयोनिना ॥३४॥
सावित्रीग्रंथिसंयुक्तमुपवीतं तवार्प्यते॥
दिव्यरत्नसमायुक्ता वह्निभानुसमप्रभाः ॥३५॥
गात्राणि शोभयिष्यंति अलंकारास्तु माधव॥
सूर्याचंद्रसोमर्ज्योतिर्विद्युदग्न्योस्तथैव च ॥३६॥
त्वमेव ज्योतिषां देव दीपोऽयं प्रतिगृह्यताम्॥
वनस्पतिरसो दिव्यो गंधाढ्यः सुरभिश्च ते ॥३७॥
मया निवेदितो भक्त्या धूपोऽयं प्रतिगृह्यताम्॥
अन्नं चतुर्विधं स्वादु रसैः षड्भिः समान्विताम् ॥३८॥
मया निवेदितं भक्त्या नैवेद्यं तव केशव॥
पूर्वे दले वासुदेवं याम्ये संकीर्षणं न्यसेत् ॥३९॥
प्रद्युम्नं पश्चिमे कुर्यादनिरुद्धं तथोत्तरे॥
वाराहं च तथाग्रेये नरसिंहं च नैर्ऋते ॥४०॥
वायव्यां माधवं चैव तथैशाने त्रिविक्रमम्॥
तथाष्टाक्षरदेवस्य गरुडं परितो न्यसेत् ॥४१॥
वामपार्श्वे तथा चक्रं शंखं दक्षिणतो न्यसेत्॥
तथा महागदां चैव न्यसेद्देवस्य दक्षिणे ॥४२॥
ततः शार्ङ्गधनुर्विद्वान्न्यसेद्देवस्य वामतः॥
दक्षिणे चेषुधी दिव्ये खङ्गं वामे च विन्यसत् ॥४३॥
श्रियं दक्षिणतः स्थाप्य पुष्टिमुत्तरतो न्यसेत्॥
वनमालां च पुरतस्ततः श्रीवत्सकौस्तुभौ ॥४४॥
विन्यसेद्धृदयादीनि पूर्वादिषु चतुर्ष्वपि॥
ततोऽस्त्रं देवदेवस्य कोणे चैव तु विन्यसेत् ॥४५॥
इंद्रमग्निं यमं चैव निर्ऋतिं वरुणं तथा॥
वायुं धनदमीशानमनंतं ब्रह्मणा सह ॥४६॥
पूजयेत्तान्स्वकैर्मंत्रैरधश्चोर्ध्वं तथैव च॥
एवं संपूज्य देवेशं मंडलस्थं जनार्दनम् ॥४७॥
लभेदभिमतान्कामान्नरो नास्त्यत्र संशयः॥
अनेनैव विधानेन मंडलस्थं जनार्दनम् ॥४८॥
पूजितं यस्तु पश्येत्स प्रविशेद्विष्णुमव्ययम्॥
सकृदप्यर्चितो येन विधिनानेन केशवः ॥४९॥
जन्ममृत्युजरास्तीर्त्वा विष्णोः पदमवाप्नुयात्॥
यः स्मरेत्सततं भक्त्या नारायणमतंद्रितः ॥५०॥
अन्वहं तस्य वासाय श्वेतद्वीपः प्रकीर्तितः॥
ॐकारादिसमायुक्तं नमस्कारं तदीयकम् ॥५१॥
सनाम सर्वतत्त्वानां मंत्र इत्यभिधीयते॥
अनेनैव विधानेन गंधपुष्पं निवेदयेत् ॥५२॥
एकैकस्य प्रकुर्वीत यथोद्दिष्टं क्रमेण तु॥
मुद्रास्ततो निबध्नीयाद्यथोक्तिक्रमवेदितम् ॥५३॥
जपं चैव प्रकुवर्ति मूलमंत्रेण तत्ववित्॥
अष्टाविंशतिमष्टौ वा शतमष्टोत्तरं तथा ॥५४॥
काम्येषु च यथोक्तं स्याद्यथाशक्ति समाहितः॥
पद्मं शंखं च श्रीवत्सं गदां गरुडमेव च ॥५५॥
चक्रं खङ्गं च शार्ङ्गं च अष्टौ मुद्राः प्रकीर्तिताः॥
गच्छ गच्छ परं स्थानं पुराणपुरुषोत्तम ॥५६॥
यन्न ब्रह्मादयो देवा विंदंति परमं पदम्॥
अर्चनं ये न जानंति हरेर्मंत्रैर्यथोदितम् ॥५७॥
ते त्वत्र मूलमंत्रेण पूजयंत्यच्युतं शुभे ॥५८॥
इति श्रीबृहन्नारदीयपुराणे उत्तरभागे वसुमोहिनीसंवादे पुरुषोत्तममाहात्म्ये सप्तपञ्चाशत्तमोऽध्यायः ॥५७॥
N/A
References : N/A
Last Updated : May 09, 2012
TOP