उत्तरभागः - अध्यायः ७७
`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।
मोहिन्युवाच॥
श्रुतं मया द्विजश्रेष्ठ सेतुमाहात्म्यमुत्तमम्॥
अधुना श्रोतुमिच्छामि नर्मदातीर्थसंग्रहम् ॥१॥
वसुरुवाच॥
श्रृणु मोहिनि वक्ष्यामि नर्मदोभयतीरगम्॥
चतुःशतं मुख्यतमं प्रोक्तं तीर्थकदंबकम् ॥२॥
एकादशोत्तरे तीरे दक्षिणे च त्रिविंशतिः॥
पंचत्रिंशत्तमः प्रोक्तो रेवासागरसंगमः ॥३॥
ॐकारतीर्थं परितोनगादमरकंटकात्॥
क्रोशद्वये सर्वदिक्षु सार्द्धकोटित्रयी स्थिता ॥४॥
कोटिरेका तु तीर्थानां कपिलासंगमे स्थिता॥
अशोकवनिकायां च तीर्थलक्षं प्रतिष्ठितम् ॥५॥
शतमंगारगर्तायाः कुब्जांया अयुतं तथा॥
सहस्रं वायुसंगे तु सरस्वत्याः शतं स्थितम् ॥६॥
शतद्वयं शुक्लतीर्थे सहस्रं विष्णुतीर्थके॥
माहिष्मत्यां च साहस्रं शूलभेदेऽयुतं विदुः ॥७॥
देवग्रामे सहस्रं चोलूके सप्तशती स्थिता॥
तीर्थान्यष्टोत्तरशतं मणिनद्याश्च संगमे ॥८॥
वैद्यनाथे च तावंति तावंत्येव घटेश्वरे॥
सार्द्धलक्षं च तीर्थानां स्थितं रेवाब्धिसंगमे ॥९॥
अष्टाशीतिसहस्राणि व्यासे द्वीपशतानि च॥
संगमे तु करंजायाः स्थितमष्टोत्तरायुतम् ॥१०॥
एरंडीसंगमे तद्वत्तीर्थान्यष्टाधिकं शतम्॥
धूतपापेऽष्टषष्टिश्च सार्द्धकोटिश्च कोकिले ॥११॥
सहस्रं रोमकेशे च द्वादशार्के सहस्रकम्॥
लक्षाष्टके सहस्रे द्वे शुक्लतीर्थे नरेश्वरि ॥१२॥
संगमेषु तु सर्वेषु शतमष्टाधिकं विदुः॥
कावेर्याः संगमे नंदे तीर्थपंचशतीस्थिता ॥१३॥
भृगोः क्षेत्रे च तीर्थानां कोटिरेका व्यवस्थिता॥
भारभूत्यां च तीर्थानां शतमष्टोत्तरं स्थितम् ॥१४॥
अक्रूरेशे सार्द्धशतं विमलेशे दशायुतम्॥
सा सार्द्धकोटिरित्येषा तीर्थसंज्ञा च नार्मदे ॥१५॥
दशादित्यस्य नव च कपिलस्याष्ट वै विधोः॥
नंदिनः कोटिसंज्ञानि तथैवाष्ट शुभानने ॥१६॥
नागाग्निसिद्धावर्तानि सप्तसंख्यानि मोहिनि॥
केदारेन्द्रियवारीशनंदिदैवानि पंच वै ॥१७॥
यमेशा वैद्यनाथाश्च वामनांगारकेश्वराः॥
सारस्वता मुनीशाश्च दारुकेशाश्च गौतमाः ॥१८॥
चत्वार एव गदितास्त्रयो वै विमलेश्वराः॥
सहस्रयज्ञभीष्मेशास्स्वर्णतीर्थानि चापि हि ॥१९॥
धौतपापकरंजेशऋणमुक्तिगुहाह्वयम्॥
दशाश्वमेधनंदाख्यं मन्मथेशाख्यभार्गवम् ॥२०॥
पराशरायोनिसंज्ञं व्यासाख्यपितृनंदिकम्॥
गोपेशमारुतेशाख्यं जंगलेशाख्यशुक्लकम् ॥२१॥
अक्षरेशं पिप्पलेशं मांडव्यदीपकेश्वरम्॥
उत्तरेशमशोकेशं योधनेशं च रौहिणम् ॥२२॥
लुकेशं च द्विसंख्याकं प्रत्येकं गदितं शुभे॥
सैकोनविंशतिशतं तीर्थान्येकैकशः शुभे ॥२३॥
स्तबकेषु च नीर्थानि द्विशतं च चतुर्द्दशम्॥
शैवान्येतानि तीर्थानि वैष्णवानि द्विविँशतिः ॥२४॥
ब्राह्माणि सर्वतीर्थानि शाक्तान्यष्टौ च विंशतिः॥
तेषु सप्त च मातॄणां त्रीणि ब्राह्याः शुभानने ॥२५॥
वैष्णव्या द्वे तथा भद्रे रौद्री शेवेषु संस्थिता॥
तथैकं क्षेत्रपालस्य तीर्थमुक्तं शुभानने ॥२६॥
अवांतराणि गुह्यानि प्रकटानि च मोहिनि॥
सार्द्धत्रिकोटितीर्थानि गदितानीह वायुना ॥२७॥
दिवि भुव्यंतरिक्षे च रेवायां तानि संति च॥
यस्त्वेतेषु महाभागे यत्र कुत्रापि मानवः ॥२८॥
स्नानं करोति शुद्धात्मा स लभेदुत्तमां गतिम्॥
स्नानं दानं जपो होंवो वेदाध्ययनमर्चनम् ॥२९॥
सर्वमक्षयतां याति नर्मदायास्तटे कृतम्॥
त्र्यहात्सारस्वतं तोयं सप्ताहाद्यामुनं सति ॥३०॥
गांगं सकृत्प्लवात्पुण्यं दर्शनादेव नार्मदम्॥
इत्येष कथितो देवि नर्मदातीर्थसंग्रहः ॥३१॥
स्मरतामपि मर्त्यानां महापातकशांतिदः॥
य इमं श्रृणुयान्मर्त्यो नर्मदातीर्थसंग्रहम् ॥३२॥
श्रावयेद्वा पठेद्भद्रे सोऽपि पापैः प्रमुच्यते॥
यद्गृहे लिखितं चैतन्माहात्म्यं नर्मदाभवम् ॥३३॥
विद्यतेऽभ्यर्चितं तत्र न मारीनाग्निजं भयम्॥
न राजचौरशत्रुभ्यो भयं रोगभयं न च ॥३४॥
तदूगृहं पूर्य्यते लक्ष्म्या धनैर्द्धान्यैर्निरंतरम्॥
पुत्रपौत्रादिकानां च विवाहाद्यैः सुमंगलम् ॥३५॥
इति श्रीबृहन्नारदीयपुराणे बृहदुपाख्याने उत्तरभागे वसुमोहिनीसंवादे नर्मदातीर्थमाहात्म्यं नाम सप्तसप्ततितमोऽध्यायः ॥७७॥
इति नर्मदातीर्थमाहात्म्यम्॥
N/A
References : N/A
Last Updated : May 09, 2012
TOP