उत्तरभागः - अध्यायः २०
`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।
वसिष्ठ उवाच॥
एवं सुरतमूढस्य राज्ञो रुक्मांगदस्य च॥
त्रीणि पंच च वर्षाणि व्यतीतानि सुखेन वै ॥१॥
संप्राप्ते नवमे वर्षे पुत्रो धर्मांगदो बली॥
जित्वा विद्याधरान्पंच मलये पर्वतोत्तमे ॥२॥
आजहार मणीन्पंच सर्वकामप्रदान् शुभान्॥
एकं कांचनदातारं कोटिकोटिगुणं शुभम् ॥३॥
द्वितीयं वस्त्रभूषादिलक्षकोटिप्रदं तथा॥
तृतीयममृतस्रावि पुनर्यौवनकारकम् ॥४॥
सभागृहप्रकर्तारं चतुर्थं चान्नसाधकम्॥
पंचमं व्योभगतिदं त्रैलोक्यपरिसर्पणम् ॥५॥
तान्मणीन्गृह्य मनसा विद्याधरसमन्वितः॥
स्त्रीभिर्विद्याधराणां च साश्रुनेत्राभिरावृतः ॥६॥
ववंदे चरणौ मातुः पितू रुक्मांगदस्य च॥
मणीन्पंच समर्प्याथ पादयोः प्राह संनतः ॥७॥
इमे जिता मया तात पञ्च विद्याधरा रणे॥
मलये भूधरश्रेष्ठे वैष्णवास्त्रेण भूपते ॥८॥
इमे ते भृत्यतां प्राप्ताः सस्त्रीका नृपसत्तम॥
मणीन्प्रयच्छ मोहिन्यै भुजभूषणहेतवे ॥९॥
सर्वकामप्रदा ह्येते पुनर्यौवनकारिणः॥
जीर्णदंताः पुनर्बाला भवंति मणिधारणात् ॥१०॥
वस्त्रहर्म्यसुवर्णानां स्वर्गतेरमृतस्य च॥
दातारो मासयुद्धेन साधितास्तव तेजसा ॥११॥
साधितानि मया कृच्छ्रात्सप्तद्वीपानि भूपते॥
करदानिसमस्तानि कृतानि तव तेजसा ॥१२॥
समुद्रे च प्रविष्टस्य गतः संवत्सरो मम॥
जिता भोगवती तात मया नागसमावृता ॥१३॥
आहृता नागकन्याश्च मया चायुतसंख्यकाः॥
तत्रापि हाररत्नानि सुबहून्याहृतानि च ॥१४॥
पुनश्चाहं गतस्तात दानवानां पुरं महत्॥
तान्निर्जित्यं च कन्यानां सुरूपाणां सुवर्चसाम् ॥१५॥
आहृतानि मया त्रीणि सहस्राणि च पंच च॥
दशकोट्यस्तु रत्नानां दीपकर्म निशागमे ॥१६॥
कुर्वतां ते महीपाल आनीतास्तव मंदिरे॥
ततोऽहं वारुणं लोकं रसातलतलस्थितम् ॥१७॥
गतो वीर्यबलोत्सिक्तस्त्वदंघ्रियुगसेवकः॥
तत्रोक्तो वरुणो देवः स्थीयतां मत्पिंतुर्वशे ॥१८॥
रुक्मांगदस्य नृपतेर्यदि जीवितुमिच्छसि॥
कुपितो मम वाक्येन वरुणो योद्धुमागतः ॥१९॥
तेन संवत्सरं युद्धं घोरं जातं रसातले॥
जितो नारायणास्त्रेण मया स जलनायकः ॥२०॥
न हतः प्रमदावाक्यैस्तस्य जीवितरक्षणे॥
निर्जितेनायुतं दत्तं वाजिनां वातरंहसाम् ॥२१॥
एकतः श्यामकर्णानां शुभ्राणां चंद्रवर्चसाम्॥
तृणतोयविहीना ये जीवंति बहुशः समाः ॥२२॥
एकां कन्यां सुरूपां मे पुरस्कृत्य स्वलंकृताम्॥
भार्यार्थे वरुणः प्रादात्साप्यानीता मया शुभा ॥२३॥
कुमारी तु समानीताः बहुवित्तसमन्विता॥
तन्नास्ति त्रिषु लोकेषु स्थानं तात सुदुर्गमम् ॥२४॥
यन्मया न जितं ह्यस्ति तवांघ्रिपरिसेवनात्॥
तदुत्तिष्ठ परीक्षस्व त्वत्प्रसादार्जितां श्रियम् ॥२५॥
अहं च संपदः सर्वास्त्वदधीना विशांपते॥
यः पुत्रस्तात वदति मया लक्ष्मीः समर्जिता ॥२६॥
न देया भूमिदेवेभ्यः सोऽपि वै नरकं व्रजेत्॥
आत्मसंभावनं तात न कर्तव्यं सुतेन हि ॥२७॥
कुठारदात्रसदृशः पुत्रः संपत्समुच्चये॥
पितुः शौर्येण पुत्रस्य वर्द्धते धनसंचयः ॥२८॥
तैजसं दात्रमादाय लुनाति तृणसंचयान्॥
वायुना पूरितं वस्त्रं तारयेन्नौगतं जले ॥२९॥
यथा दारुमयी योषा चेष्टते कुहकेच्छया॥
तथाहि पितृवीर्येण पुत्रास्तेजोबलान्विताः ॥३०॥
तस्मादियं माधवदेववल्लभा विलोकयस्वाद्य मयोपनीता॥
आत्मेच्छया यच्छतु रक्षताद्वा स्वसंपदो मातृसमूहवर्याः ॥३१॥
इति श्रीबृहन्नारदीयपुराणोत्तरभागे धर्मांगददिग्विजयो नाम विंशोऽध्यायः ॥२०॥
N/A
References : N/A
Last Updated : May 09, 2012
TOP