नारायणीय - अध्यायः २

विष्णू हि सर्वोच्च शक्ती असून, त्रिमूर्ती ब्रह्मा, विष्णू आणि महेश यांपैकी, भगवान विष्णूचे कार्य विश्वाचा सांभाळ आणि प्रतिपाळ करणे आहे
Vishnu,also known as Narayana is the Supreme Being or Ultimate Reality
In the Trimurti, Vishnu is responsible for the maintenance or 'preservation' of the universe.


कल्यतां मम कुरुष्व तावतीं कल्यते भवदुपासनं यया । स्पष्टमष्टविधयोगचर्यया पुष्टयाशु तव तुष्टिमाप्नुयाम् ॥
भ्रह्मचर्यदृढतादिभिर्यमैराप्ल्वादिनियमैश्च पाविताः । कुर्महे दृढममी सुखासनं पङ्कजाद्यमपि वा भवत्पराः ॥
तारमन्तरनुचिन्त्य सन्ततं प्राणवायुमभियम्य निर्मलाः । इन्द्रियाणि विषयादथापहृत्यास्महे भवदुपासनोन्मुखाः ॥
अस्फुटे वपुषि प्रयत्नतो धारयेम धिषणां मुहुर्मुहुः । तेन भक्तिरसमन्तराद्रतामुद्वहेम भवदङ्घ्रिचिन्तकाः ॥
विस्फुटावयवभेदसुन्दरं त्वद्वपुः सुचिरशीलनावशात् । अश्रमं मनसि चिन्तयामहे ध्यानयोगनिरतास्त्वदाश्रयाः ॥
ध्यायतां सकलमूर्तिमीदृशीमुन्मिषन्मधुरताहृतात्मनाम् । सान्द्रमोदरसरूपमान्तरं ब्रह्म रूपमयि तेऽविभासते ॥
तत्समास्वदनरूपिणीं स्थितिं त्वत्समाधिमयि विश्वनायक । आश्रिताः पुनरतः परिच्युतावारभेमहि च धारणादिकम् ॥
इत्थमभ्यसननिर्भरोल्लसत्त्वत्परात्मसुखकल्पितोत्सवाः । मुक्तभक्तकुलमौलितां गताः सञ्चरेम शुकनारदादिवत् ॥
त्वत्समाधिविजये तु यः पुनर्मङ्क्षु मोक्षरसिकः क्रमेण वा । योगवश्यमनिलं षडाश्रयैरुन्नयत्यज सुषुम्णया शनैः ॥
लिङ्गदेहमपि सन्त्यजन्नथो लीयते त्वयि परे निराग्रहः । ऊर्ध्वलोककुतुकी तु मूर्धतः सार्धमेव करणैर्निरीयते ॥
अग्निवासरवलर्क्षपक्षगैरुत्तरायणजुषा च दैवतैः । प्रापितो रविपदं भवत्परो मोदवान्ध्रुवपदान्तमीयते ॥
आस्थितोऽथ महरालये यदा शेषवक्त्रदहनोष्मणार्द्यते । ईयते भवदुपाश्रयस्तदा वेधसः पदमतः पुरैव वा ॥
तत्र वा तव पदेऽथवा वसन्प्राकृतप्रलय एति मुक्तताम् । स्वेच्छया खलु पुरापि मुच्यते संचिभिद्य जगदण्डमोजसा ॥
तस्य च क्षितिपयोमहोनिलद्योमहत्प्रकृतिसप्तकावृती । तत्तदात्मकतया विशन्सुखी याति ते पदमनावृतं विभो ॥
अर्चिरादिगतिमीदृशीं व्रजन्विच्युतिं न भजते जगत्पते । सच्चिदीत्मक भवद्गुणोदयानुच्चरन्तमनिलेश पाहि माम् ॥
व्यक्ताव्यक्तमिदं न किञ्चिदभवत्प्राक्प्राकृतप्रक्षये मायायां गुणसाम्यरुद्धविकृतौ त्वय्यागतायां लयम् ।
नो मृत्युश्च तदामृतं च समभून्नाह्नो न रात्रेः स्थितिस्तत्रैकस्त्वमशिष्यथाः किल परानन्दप्रकाशात्मना ॥
कालः कर्म गुणाश्च जीवनिवहा विश्वं च कार्यं विभो चिल्लीलारतिमेयुषि त्वयि तदा निर्लीनतामाययुः ।
तेषां नैव वदन्त्यसत्त्वमयि भोः शक्त्यात्मना तिष्ठताम् नो चेत्किं गगनप्रसुनसदृशां भूयो भवेत्सम्भवः ॥
एवञ्च द्विपरार्धकालविगतावीक्षां सिसृक्षात्मिकां बिभ्राणे त्वयि चुक्षुमे त्रिभुवनीभावाय माया स्वयम् ।
मायातः खलु कालशक्तिरखिलादृष्टं स्वभावोऽपि च प्रादुर्भूय गुणान्विकास्य विदधुस्तस्याः सहायक्रियाम् ॥
मायासन्निहितोऽप्रविष्टवपुषा साक्षीति गीतो भवान् भेदैस्तां प्रतिबिम्बतो विविशिवान्जीवोऽपि नैवापरः ।
कालादिप्रतिबोधिताथ भवता सञ्चोदिता च स्वयं माया सा खलु बुद्धितत्त्वमसृजद्योऽसौ महानुच्यते ॥
तत्रासौ त्रिगुणात्मकोऽपि च महान्सत्त्वप्रधानः स्वयं जीवेऽस्मिन्खलु निर्विकल्पमहमित्युद्बोधनिष्पादकः ।
चक्रेऽ स्मिन्सविकल्पबोधकमहन्तत्त्वं महान्खल्वसु संपुष्टं त्रिगुणैस्तमोतिबहुलं विष्णो भवत्प्रेरणात् ॥
सोऽहं च त्रिगुणक्रमात्त्रिविधतामासाद्यवैकारिको भूयस्तैजसतामसाविति भवन्नाद्येन सत्त्वात्मना ।
देवानिद्रियमानिनोऽकृत दिशावातार्कपाश्यश्विनो वह्नीन्द्राच्युतमित्रकान्विधुविधिश्रीरुद्रशारीरकान् ॥
भूमन् मानसबुद्ध्यहङ्कृतिमिलच्चित्ताख्यवृत्त्यन्वितं तच्चान्तः करणं विभो तव बलात्सत्त्वांशेवासृजत् ।
जातस्तैजसतो दशेन्द्रियगणस्तत्तामसांशात्पुनस्तन्मात्रं नभसो मरुत्पुरपते शब्दोऽजनि त्वद्बलात् ॥
शब्दाद्व्याम ततः ससर्जिथ विभो स्पर्शं ततो मारुतं तस्माद्रूपमतो महोऽथच रसं तोयं गन्धं महीम् ।
एवं माधव पूर्वपूर्वकलनादाद्याद्यधर्मान्वितं भूतग्राममिमं त्वमेव भगवन् प्राकाशयस्तामसात् ॥
एते भूतगणास्तथेन्द्रियगणा देवाश्च जाताः पृथङ् नो शेकुर्भुवनाण्डनिर्मितिविधादेवैरमीभिस्तदा ।
त्वं नानाविधसूक्तिभिर्नुतगुणस्तत्त्वान्यमून्याविशंश्चेष्टाशक्तिमुदीर्य तानि बटयन्हैरण्यमण्डं व्यधाः ॥
अण्डं तत्खलु पूर्वसृष्टसलिलेऽतिष्ठत्सहस्रं समा निर्बिन्दन्नकृथाश्चतुर्दशजगद्रूपं विराडाह्वयम् ।
साहस्रैः करपादमूर्धनीवहैर्निश्शेषजीवात्मको निर्भातोऽसि मरुत्पुराधिप स मां त्रायस्व सर्वामयात् ॥
एवं चतुर्दशजगन्मयतां गतस्य पातालमीश तव पादतलं वदन्ति ।
पादोर्ध्वदेशमपि देव रसातलं त गुल्फद्वयम्खलु महातलमद्भुतात्मन् ॥
जङ्घे तलातलमथो सुतलं च जान् किञ्चोरुभागयुगलं वितलातेले द्वे ।
क्षोणीतलं जघनमम्बरमङ्ग नाभिर्वक्षश्च शक्रनिलयस्तव चक्रेपाणे ॥
ग्रीवा महस्तव मुखं च जनस्तपस्तु फालं शिरस्तव समस्तमयस्य सत्यम् ।
एवं जगन्मयन्तयो जगदाश्रीतैरप्यन्यैर्निबद्धवपुषे भगवन् नमस्ते ॥
त्वद्ब्रह्मरन्ध्रपदमीश्वर विश्वकन्दच्छन्दांसि केशष् धनास्तव केशपाशाः ।
उल्लासिचिल्लियुगलं द्रुहिणस्य गेहं पक्ष्माणि रात्रिदिवसौ सविता च नेत्रे ॥
निश्शेषविश्वरचना च कटाक्षमोक्षः कर्णौ दिशोऽश्वियुगलं तव नासिके द्वे ।
लोभत्रपे च भगवन्नधरोत्तरोष्ठौ तारागणाश्च रदनाः शमनश्च दंष्ट्रा ॥
माया विलासहसितं श्वसितं समीरो जिह्वा जलं वचनमीश् शकुन्तपङ्क्तिः ।
सिद्धादयः स्वरगणा मुखरन्ध्रमग्निर् देवा भुजाः स्तनयुगं तव धर्मदेवः ॥
पृष्ठं त्वधर्मैह देव मनः सुधांशुरव्यक्तमेव हृदयाम्बुजमम्नुजाक्ष ।
कुक्षिः समुद्रनिवहा वसनं तु सन्ध्ये शेफः प्रजापतिरसौ वृष्णौ च मित्रः ॥
श्रोणीस्थलं मृगगणाः पदयोर्नखास्ते हस्त्य्ष्ट्रसैन्धवमुखा गमनं तु कालः ।
विप्रादिवर्णभवनं वदनाब्जबाहु चारूरुयुग्मचरणंकरुणाम्बुधे ते ॥
संसारचक्रमायि चक्रधर क्रियास्ते वीर्यं महासुरगणोऽस्थिकुलानि शैलाः ।
नाड्यः सरित्समुदयास्तरवश्च रोम जीयादिदं वपुरनिर्वचनीयमीश् ॥
ईदृग्जगन्मयवपुस्तव कर्मभाजां कर्मावसानसमये स्मरणीयमाहुः ।
तस्यान्तरात्मवपुषे विमलात्मने ते वातालयाधिप नमोऽस्तु निरुन्धि रोगान् ॥
एवं देव चतुर्दशात्मकजगद्रूपेण जातः पुनस् तस्योधर्वं खलु सत्यलोकनिकलये जातोऽसि धाता स्वयम् ।
यं शंसन्ति हिरण्यगर्भमखिलत्रैलोक्यजीवात्मकं योऽभूत्स्फीतरजोविकारविकसन्नानासिसृक्षारसः ॥
सोऽयं विश्वविसर्गदत्तहृदयः संपश्यमानः स्वयं बोधं खल्वनवाप्य विश्वविषयं हि चिन्ताकुलस्तस्थिवान् ।
तावत्त्वं जगतां पते तप तपेत्येवं हि वैहायसीं वाणीमेनमशिश्रवः श्रुतिसुखां कुर्वंस्तपःप्रेरणाम् ॥
कोऽसौ मामवदत्पुमानिति जलापूर्णे जगन्मण्डले दिक्षूद्वीक्ष्य किमप्यनीक्षितवता वाक्यार्थमुत्पश्यता ।
दिव्यं वर्षसहस्रमात्ततपसा तेन त्वमाराधितस् तस्मै दर्शितवानसि स्वनिलयं वैकुण्ठमेकाद्भुतम् ॥
माया यत्र कदापि नो विकुरुते भाते जगद्भ्यते बहिः शोकक्रोधविमोहसाध्वसमुखा भावास्तु दूरं गताः ।
सान्द्रानन्दझरी च यत्र परमज्योतिः प्रकाशात्मके तत्ते धाम विभावितं विजयते वैकुण्ठरूपं विभो ॥
यस्मिन्नाम चतुर्भुजा हरिमणिश्यामावदातत्विषो नानाभूषणरत्नदीपितदिशो राजद्विमानालयाः ।
भक्तिप्राप्ततथाविधोन्नतपदा दीव्यन्ति दिव्यो जनास् तत्ते धाम निरस्तसर्वशमलं वैकुण्ठरूपं जयेत् ॥
नानादिव्यवधूजनैरभिवृता विद्युल्लतातुल्यया विश्वोन्मादनहृद्यगात्रलतया विद्योतिताशान्तरा ।
त्वत्पादाम्बुजसौरमैककुतुकाल्लक्ष्मीः स्वयं लक्ष्यते यस्मिन्विस्मयनीयदिव्यविभवा तत्ते ओअदं देहि मे ॥
तत्रैवं प्रतिदर्शिते निजपदे रत्नासनाध्यासितं भास्वत्कोटिलसत्किरीटकटकाद्याकल्पदीप्राकृति ।
श्रीवत्साङ्कितमात्तकौस्तुभणिच्छायारुणं कारणं विश्वेषां तव रूपमैक्षत विधिस्तत्ते विभो भातु मे ॥
कालाम्भोदकलायकोमलरुची चक्रेण चक्रं दिशामावृण्वानमुदारमन्दहसितस्यन्दप्रसन्नाननम् ।
राजत्कम्बुगदारिपङ्कजधरश्रीमद्भुजामण्डलं स्रष्टुस्तुष्टिकरं वपुस्तव विभो मद्रोगमुद्वासयेत् ॥
दृष्ट्वा सम्भृतसम्भ्रमः कमलभूस्त्वत्पादपाथोरुहे हर्षावेशवशंवदो निपतितः प्रीत्या कृतार्थीभवन् ।
जानास्येव मनीषितं मम विभो ज्ञानं तदापादय द्वैताद्वैतभवत्स्वरूपपरमित्याचष्ट तं त्वां भजे ॥
आताम्रे चरणे विनम्रमथ तं हस्तेन हस्ते स्पृशन् बोधस्ते भविता न सर्गविधिभिर्बन्दोऽपि सञ्जायते ।
इत्याभाष्य गिरं प्रतोष्य्त नितरां तच्चित्तगूढः स्वयं सृष्टौ तं समुदैरयः स भगवन्नुल्लासयोल्लाघताम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP