नारायणीय - अध्यायः ११

विष्णू हि सर्वोच्च शक्ती असून, त्रिमूर्ती ब्रह्मा, विष्णू आणि महेश यांपैकी, भगवान विष्णूचे कार्य विश्वाचा सांभाळ आणि प्रतिपाळ करणे आहे
Vishnu,also known as Narayana is the Supreme Being or Ultimate Reality
In the Trimurti, Vishnu is responsible for the maintenance or 'preservation' of the universe.


श्रीकृष्णत्वत्पदोपासनमभयतमं बद्धमिथ्यार्थदृष्टेर्मर्त्यस्यार्तस्य मन्ये व्यपसरति भयं येन सर्वात्मैव ।
यत्तावत्त्वत्प्रणीतानिह भजनविधीनास्थितो मोहमार्गे धावन्नप्यावृताक्षः स्खलति न कुहचिद्देवदेवाखिलात्मन्॥
भूमन्कायेन वाचा मुहुरपि मनसा त्वद्बलप्रेरितात्मा यद्यत्कुर्वे समस्तं तदिह परतरे त्वय्यसावर्पयामि ।
जात्यापीह श्वपाकस्त्वयि निहितमनः कर्मवागिन्द्रियार्थप्राणो विश्वं पुनीते न तु विमुखमनास्त्वत्पदाद्विप्रवर्यः ॥
भीतिर्नाम द्वितीयाद्भवति ननु मनःकल्पितं च द्वितीयं तेनैक्याभ्यासशीलो हृदयमिह यथाशक्ति बुद्ध्या निरुन्ध्याम् ।
मायाविद्धे तु तस्मिन्पुनरपि न तथा भाति मायाधिनाथं तत्त्वां भक्त्या महत्या सततमनुभजन्नीशभीतिं विजह्याम् ॥
भक्तेरुत्पत्तिवृद्धी तव चरणजुषं सङ्गमेनैव पुंसामासाद्ये पुण्यभाजां श्रिय इव जगति श्रीमतां सङ्गमेन ।
तत्सङ्गो देवभूयान्मम खलु सततं तन्मुखादुन्मिषद्धिस्त्वन्माहात्म्यप्रकारैर्भवति च सुदृढा भक्तिरुद्धूतपापा ॥
श्रेयोमार्गेषु भक्तावधिकबहुमतिर्जन्मकर्माणि भूयो गायन्क्षेमाणि नामान्यपि तदुभयतः प्रद्रुतं प्रद्रुतात्मा ।
उद्यद्धासः कदाचित्कुहाचिदपि रुदन्क्वापि गर्जन्प्रगायन्नुन्मादीव प्रनृत्यन्नयि कुरु करुणां लोकबाह्यश्चरेयम् ॥
भूतान्येतानि भूतात्मकमपि सकलं पक्षिमत्स्यान्मृगादीन् मर्त्यान्मित्राणि शत्रूनपि यमितमतिस्त्वन्मयान्यानमानि ।
त्वत्सेवायां हि सिध्येन्मम तव कृपया भक्तिदार्ढ्यं विरागस्त्वत्तत्त्वस्यावबोधोऽपि च भुवनपतेयत्नभेदं विनैव ॥
नो मुह्यन्क्षुत्तृडाद्यैर्भवसरणिभवैस्त्वन्निलीनाशयत्वाच्चिन्तासातत्यशाली निमिषलवमपि त्वत्पदादप्रकम्पः ।
इष्टानिष्टेषु तुष्टिव्यसनविरहितो मायिकत्वावबोधाज्ज्योत्स्नाभिस्त्वन्नखेन्दोरधिकशिशिरितेनात्मना सञ्चरेयम् ॥
भूतेष्वेषु त्वदैक्यस्मृतिसमधिगतौ नाधिकारोऽधुना चेत्त्वत्प्रेम त्वत्कमैत्री जडमतिषु कृपा द्विट्सु भूयादुपेक्षा ।
आर्चायां वा समर्चाकुतुकमुरुतरश्रद्धया वर्धतां मे त्वत्संसेवी तथापि द्रुतमुपलभते भक्तलोकोत्तमत्वम् ॥
आवृत्य त्वत्स्वरूपं क्षितिजलमरुदाद्यात्मना विक्षिपन्ती जीवीन्भूयिष्ठकर्मावलिविवशगतीन्दुःखजाले क्षिपन्ती ।
त्वन्माया माभिभून्मामयि भुवनपतेकल्पते तत्प्रशान्त्यै त्वत्पादे भक्तिरेवेत्यवददयि विभोसिद्धयोगी प्रबुद्धः ॥
दुःखान्यालोक्य जन्तुष्वलमुदितविवेकोऽहमाचार्यवर्याल्लब्ध्वा त्वद्रूपतत्त्वं गुणचरितकथाद्युद्भक्तिभूमा ।
मायामेनां तरित्वा परमसुखमये त्वत्पदे मोदिताहे तस्यायं पूर्वरङ्गः पवनपुरपतेनाशयाशेषरोगान् ॥
वैदैः सर्वाणि कर्माण्यफलपरतया वर्णितानीति बुद्ध्वा तानि त्वय्यर्पितान्येव हि समनुचरन्यानि नैष्कर्म्यमीश।
मा भूद्वेदैर्निषिद्धे कुहचिदपि मनःकर्मवाचाः प्रवृत्तिर्दुर्वर्जं चेदवाप्तं तदपि खलु भवत्यर्पये चित्प्रकाशे ॥
यस्त्वन्यः कर्मयोमस्तव भजनमयस्तत्र चाभीष्टमूर्तिं हृद्यां सत्त्वैकरूपां दृषदि हृदि मृदि क्वापि वा भावयित्वा ।
पुष्पैर्मन्धैर्निवेद्यैरपि च विरचितैः शक्तितो भक्तिपूतैर्नित्यं वर्यां सपर्यां विदधदयि विभोत्वत्प्रसादं भजेयम् ॥
स्त्रीशूद्रास्त्वत्कथादिश्रवणविरहिता आसतां ते दयार्हास्त्वत्पादासन्नयातान्द्विजकुलजनुषो हन्त शोचाम्यशान्तान् ।
वृत्त्यर्थं ते यजन्तो बहुकथितमपि त्वामनाकर्णयन्तो दृप्ता विद्याभिजात्यैः किमु न विदधते तादृशः मा कृथा माम् ॥
पपोऽयं कृष्णरामेत्यभिलपति निजं गूहितुं दिश्चारित्रं निर्लज्जस्यास्य वाचा बहुतरकथनीयानि मे विघ्नितानि ।
भ्राता मे वन्ध्यशीलो भजति किल सदा विष्णुमित्थं बुधांस्ते निन्दन्त्युच्चैर्हसन्ति त्वयि निहितरतींस्तादृशं मा कृथा माम् ॥
श्वेतच्छायं कृते त्वां मुनिवरवपुषं प्रीणयन्ते तपोभिस्त्रेतायां स्रुक्स्रुवाद्यङ्कितमरुणतनुं यज्ञरूपं यजन्ते ।
सेवन्ते तन्त्रमार्गैर्विलसदरिगदं द्वापरे श्यामलाङ्गं नीलं सङ्कीर्तनाद्यैरिह कलिसमये मानुषास्त्वां भजन्ते ॥
सोऽयं कालेयकालो जयति मुररिपोयत्र सङ्कीर्तनाद्यैर्निर्यत्नैरेव मार्गैरखिलदनचिरात्त्वत्प्रसादं भजन्ते ।
जातास्त्रेताकृतादावपि हि किल कलौ सम्भवं कामयन्ते दैवात्तत्रैव जातान्विषयविषरसैर्मा विभोवञ्चयास्त्मान् ॥
भक्तास्तावत्कलौ स्पुर्द्रमिलभुवि ततो भूरिशस्तत्र चोच्चैः कावेरीं ताम्रपर्णीमन्किल कृतमालां च पुण्यां प्रतीचीम् ।
हा मामप्येतदन्तर्भवमपि च विभोकिञ्चिदञ्चिद्रसं त्वय्याशापाशैर्निबध्य भ्रमय न मगवन्पूरय त्वन्निषेवाम् ॥
दृष्ट्वा धर्मद्रुहं तं कलिमपकरुणं प्राङ्महीक्षित्परीक्षिद्धन्तुं व्याकृष्टखड्गोऽपि न विनिहतवान्सारवेदी मुणांशात् ।
त्वत्सेवाद्याशु सिध्येदसदिह न तथा त्वत्परे चैष भीरुर्यत्तु प्रागेव रोगादिभिरपहरते तत्र हा शिक्षयैनम् ॥
गङ्गा गीता च गायत्र्यपि च तुलसिका गोपिकाचन्दनं तत् सालग्रामाभिपूजा परपुरुषतथैकादशी नामवर्णाः ।
एतान्यष्टाप्ययत्नान्ययि कलिसमये त्वत्प्रसादप्रवृद्ध्या क्षिप्रं मुक्तिप्रदानीत्यभिदधुरृषयस्तेषु मां सज्जयेथाः ॥
देवर्षीणां पित्णामपि न पुनरृणी किङ्गरो वा स भूमन् योऽसौ सर्वात्मना त्वां शरणमुपगतः सर्वकृत्यानि हित्वा ।
तस्योत्पन्नं विकर्माप्यखिलमपनुदस्येव चित्तस्थितस्त्वं तन्मे पपोत्थतापान्पवनपुरपतेरुन्दि भक्तिं प्रणीयाः ॥
बन्धुस्नेहं विजह्यां तव हि करुणया त्वय्युपावेशितात्मा सर्वं त्वक्त्वा चरेयं सकलमपि जगद्वीक्ष्य मायाविलासम् ।
नानात्वाद्भृआन्तिजन्यात्सति खलु गुणदोषावबोधे विधिर्वा व्यासेधो वा कथं तौ त्वयि निहितमतेर्वीतवैषम्यबुद्धेः ॥
क्षुत्तृष्णालोपमात्रे सततकृतधियो जन्तघः सन्त्यनन्तास्तेभ्यो विज्ञानवत्त्वात्पुरुष इह वरस्तज्जनिर्दुर्लभैव ।
तत्राप्यात्मात्मनः स्यात्सुहृदपि च रिपुर्यस्त्वयि न्यस्तचेतास्तापोच्छित्तेरुपाथं स्मरति स हि सुहृत्स्वात्मवैरी ततोऽन्यः ॥
त्वत्कारुण्ये प्रवृत्ते क इव न हि गुरुर्लोकवृत्तेऽपि भूमन्सर्वाक्रान्तापि भूमिर्न हि चलति ततः सत्क्षमां शिक्षयेयम् ।
गृह्णीयामीशतत्तद्विषयपरिचतेऽप्यप्रसक्तिं समीराद् व्याप्तत्वं चात्मनो मे गगनगुरुवशाद्भातु निर्लेपता च ॥
स्वच्छः स्यां पावनोऽहं मधुर उदकवद्वह्निवन्मा स्म गृह्णां सर्वान्नीनोऽपि दोषं तरुषु तमिव मां सर्वभूतेष्ववेयाम् ।
पुष्टिर्नष्टिः कलानां शशिन इव तनोर्नात्मनोऽस्तीति विद्यां तोयादिव्यस्तमार्तण्डवदपि च तनुष्वेकतां त्वत्प्रसादात् ॥
स्नेहाद्व्याधास्तपुत्रप्रणयमृतकपोतीयितो मा स्म भूवं प्राप्तं प्राश्नन्सहेय क्षुधमपि शयुवत्सिन्धुवत्स्यामगाधः ।
मा पप्तं योषिदादौ शिखिनि शलभवद्भृङ्गवत्सारभागी भूयासं किन्तु तद्वद्धनचयनवशान्माहमीशप्रनेशम् ॥
मा बध्यासं तरुण्या गज इव वशया नार्जयेयं धनौघं हर्तान्यस्तं हि माध्वीहर इव मृगवन्मा गुहं ग्राम्यगीतैः ।
नात्यासज्जेय भोज्ये झष इव बडिशे पिङ्गलावन्निराशः सुप्यां भर्तव्ययोगात्कुरर इव विभोसामिषोऽन्यैर्न हन्यै ॥
वर्तेय त्यक्तमानः सुखमतिशिशुवन्निस्सहायश्चरेयं कन्याया एकशेषो वलय इव विभोवर्जितान्योन्यघोषः ।
त्वच्चित्तो नावबुध्यै परमिषुकृदिव क्ष्माभृदायानघोषं गेहेष्वन्यप्रणीतेष्वहिरिव निवसान्युन्दुरोर्मन्दिरेषु ॥
त्वय्येव त्वत्कृतं त्वं क्षपयसि जगदित्यूर्णनाभात्प्रतीयां त्वच्चिन्ता त्वत्स्वरूपं कुरुत इति दृढं शिक्षेये पेशकारात् ।
विड्भस्मात्मा च देहि भवति गुरुवरो यो विवेकं विरक्तिं धत्ते सञ्चिन्त्यमानो मम तु बहुरुजापीडितोऽयं विशेषात् ॥
ही ही मे देहमोहं त्यज पवनपुराधीशयत्प्रेमहेतोर्गेहे चित्ते कलत्रादिषु च विवाशितास्त्वत्पदं विस्मरन्ति ।
सोऽयं वह्नेः शुनो वा परमिह परतः साम्प्रतः चाक्षिकर्णत्वग्जिह्वाद्या विकर्षन्त्यवशमत इतः कोऽपि न त्वत्पदाब्जे ॥
दुर्वारो देहमोहो यदि पुनरधुना तर्हि निश्शेषरोगान् हृत्वा भक्तिं द्रधिष्ठां कुरु तव पदपङ्केरुहे पङ्कजाक्ष।
नूनः नानाभवान्ते समधिगतमिमं मुक्तिदं विप्रदेहं क्षुद्रे हा हन्त मा मा क्षिप विषयरसे पाहि मां मारुतेश॥
नानात्वस्थौल्यकार्श्यादि तु गुणजवपुस्सङ्गतोऽध्यासितं ते वह्नेर्दारुप्रभेदेष्विव महदणुतादीप्तताशान्ततादि ॥
आचार्याख्याधरस्थारणिसमनुमिलच्छिष्यरूपोत्तरारेण्यावेधोद्भासितेन स्फुटतरपरिबोधाग्निना दह्यमाने ।
कर्मालीवासनातत्कृततनुभुवनभ्रान्तिकान्तारपूरे दाह्याभावने विद्याशिखिनि च विरते त्वन्मयी खल्ववस्था ॥
एवं त्वत्प्राप्तितोऽन्यो नहि खलु निखिलक्लेशहानेरुपायो नैकान्तात्यन्तिकास्ते कृषिवदगदषाड्गुण्यषट्कर्मयोगाः ।
दुर्वैकल्यैरकल्या अपि निगमपथास्तत्फलान्यप्यवाप्ता मत्तास्त्वां विस्मरन्तः प्रसजति पतने यान्त्यनन्तान्विषादान् ॥
त्वल्लोकादन्यलोकः क्व नु भयरहितो यत्परार्धद्वयान्ते त्वद्भीतः सप्यलोकेऽपि न सुखवसतिः पद्मभूः पद्मनाभः।
एवम्भावे त्वधर्मार्जितबहुतमसां का कथा नारकाणां तन्मे त्वं छिन्धि बन्धं वरदकृपणबन्धोकृपापूरसिन्धो॥
याथार्थ्यात्त्वन्मस्यैव हि मम न विभोवस्तुतो बन्धमोक्षौ मायाविद्यातनुभ्यां तव तु विरचितौ स्वप्नबोधोपमौ तौ ।
बद्धे जीवद्विमुक्तिं गतवति च भिदा तावती तावेदेको भुङ्क्ते देहद्रुमस्थो विषयफलरसान्नापरो निर्व्यथात्मा ॥
जीवन्मुक्तत्वमेवंविधमिति वचसा किं फलं दूरदूरे तन्नामाशुद्धबुद्धेर्न च लघु मनसः शोधनं भक्तितोऽन्यत् ।
तन्मे विष्णोकृषीष्ठास्त्वयि कृतसकलप्रार्पणं भक्तिभारं येन स्यां मङ्क्षु किञ्चिद्गुरुवचनमिलत्त्वत्प्रबोधस्त्वदात्मा ॥
शब्दब्रह्मण्यपीह प्रयतितमनसस्त्वां न जानन्ति केचित् कष्टं वन्ध्यश्रमास्ते चिरतरमिह गां बिभ्रते निष्प्रसूतिम् ।
यस्याः विश्वाभिरामाः सकलमलाहरा दिव्यलीलावताराः सच्चित्सान्द्रं च रूपं तव न निगदितं तां न वाचं भ्रियासम् ॥
यो यावान्यादृशो वा त्वमिति किमपि नैवावगच्छामि भूमन्नेवञ्चानन्यभावस्त्वदनुभजनमेवाद्रिये चैद्यवैरिन्।
त्वल्लिङ्गानां त्वदङ्घ्रिप्रियजनसदसां दर्शनस्पर्शनादिर्भयान्मे त्वत्प्रपूजानतिनुतिगुणकर्मानुकीर्त्यादरोऽपि ॥
यद्यल्लभ्येत तत्तत्तव समुपहृतं देवदासोऽस्मि तेऽहं त्वद्गेहोन्मार्जनाद्यं भवतु मम मुहुः कर्म निर्मायमेव ।
सूर्याग्निब्राह्मणात्मादिसु लसितचतुर्बाहुमाराधये त्वां त्वत्प्रेमार्द्रत्वरूपो मम सततमभिष्यन्दतां भक्तियोगः ॥
एक्यं ते दानोहिमव्रतनियमतपस्साङ्ख्ययोगैर्दुरापं त्वत्सङ्गेनैव गोप्यः किल सुकृतितमाः प्रापुरानन्दसान्द्रम् ।
भक्तेष्वन्येषु भूयस्स्वपि बहुमनुषे भक्तिमेव त्वमासां तन्मे त्वद्भक्तिमेव द्रढय हर गदान्कृष्णवातालयेश॥
आदौ हैरण्यगभीं तनुमविकलजीवात्मिकामास्थितस्त्वं जीवत्वं प्राप्य मायागुणगणखचितो वर्तसे विश्वयोने।
तत्रोद्वृद्धेन सत्त्वेन तु गणयुगलं भक्तिभावं गतेनच्छित्वा सत्त्वं च हित्वा पुनरनुपहितो वर्तिताहे त्वमेव ॥
सत्त्वोन्मेषात्कदाचित्खलु विषयरसे दोषबोधेऽपि भूमन्भूयोऽप्येषु प्रवृत्तिः सतमसि रजसि प्रोद्धते दुर्निवारा ।
चित्तं तावद्गुणाश्च ग्रथितमिह मिथस्तानि सर्वाणि रोद्धुं तुर्ये त्वय्येकभक्तिः शरणमिति भवान्हंसारूपी न्यगादीत् ॥
सन्ति श्रेयांसि भूयांस्यपि रुचिभिदया कर्मिणां निर्मितानि क्षुद्रानन्दाश्च सान्ता बहुविधगतयः कृष्णतेभ्यो भवेयुः ।
त्वं चाचख्याथ सख्ये ननु महिततमां श्रेयसां भक्तिमेकां त्वद्भक्त्यानन्दतुल्यः खलु विषयजुषां सम्मदः केन वा स्यात् ॥
त्वद्भक्त्या तुष्टबुद्धेः सुखमिह चरतो विच्युताशस्य चाशाः सर्वाः स्युः सौख्यमय्यः सलिलकुहरगस्येव तोयैकमय्यः ।
सोऽयं खल्विन्द्रलोकं कमलजभवनं योगसिद्धीश्च हृद्या नाकाङ्क्षत्येतदास्तां स्वयमनुपतिते मोक्षसौख्येऽप्यनीहः ॥
त्वद्भक्तो बाध्यमानोऽपि च विषयरसैरिन्द्रियाशान्तिहेतोर्भक्त्यैवाक्रम्यमाणैः पुनरपि खलु तैर्दुर्बलैर्नाभिजय्यः ।
सप्तार्चिर्दीपितार्चिर्दहति किल यथा भूरिदारुप्रपञ्चं त्वद्भक्त्योघे तथैव प्रदहति दुरितं दुर्मदः क्वेन्द्रियाणाम् ॥
चित्तार्द्रीभाववमुच्चैर्वपुषि च पुलकं हर्षबाष्यं च हित्वा चित्तं शुध्येत्कथं वा किमु बहुतपसा विद्यया वीतभक्तेः ।
त्वद्गाथास्वादसिद्धाञ्जनसततमरीमृज्यमानोऽयमात्मा चक्षुर्वत्तत्त्वसूक्ष्मं भजति न तु तथाभ्यस्तया तर्ककोट्या ॥
ध्यानं ते शीलयेयं समतनुसुखबद्धासनो नासिकाग्रन्यस्ताक्षः पूरकाद्यैर्जितपवनपथश्चित्तपद्मं त्ववाञ्चम् ।
ऊर्ध्वाग्रं भवयित्वा रविविधुशिखिनः संविचिन्त्योपरिष्टातत्रस्थं भावये त्वां सजलजलधरश्यामलं कोमलाङ्गम् ॥
आनीलश्लक्ष्णकेशं ज्वलितमकरसत्कुण्डलं मन्दहासस्यन्दार्द्रं कौस्तुभश्रीपरिगतवनमालोरुहाराभिरामम् ।
श्रीवत्साङ्कं सुबाहुं मृदुलसदुदरं काञ्चनच्छायचेलं चारुस्निग्धोरुमम्भोरुहललितपदं भावयेयं भवन्तम् ॥
सर्वाङ्गेष्वङ्गरङ्गत्कुतुकमतिमुहुर्धारयन्नीशचित्तं तत्राप्येकत्र युञ्जे वदनसरसिजे सुन्दरे मन्दहासे ।
तत्रालीनं तु चेतः परमसुखचिदद्वैतरूपे वितन्व न्नन्यन्नो चिन्तयेयं मुहुरिति समुपारूढयोगो भवेयम् ॥
इत्थं त्वद्ध्यानयोगे सति पुनरणिमाद्यष्टसंसिद्धयस्ता दूरश्रुत्यादयोऽपि ह्यहमहमिकया सम्पतेयुर्मुरारे।
त्वत्सम्प्राप्तौ विलम्बावहमखिमिदं नाद्रिये कामयेऽहं त्वामेवानन्दपूर्णं पवनपुरपतेपाहि मां सर्वतापात् ॥
त्वं हि ब्रह्मैव साक्षात्परमुरुमहिमन्नक्षराणामकार स्तारो मन्त्रेषु राज्ञां मनुरसि मुनिषु त्वं भृगुर्नारदोऽपि ।
प्रह्लादो दानवानां पशुषु च सुरभिः पक्षिणां वैनतेयो नागानामस्यनन्तः सुरसरिदपि च स्रोतसां विश्वमूर्ते॥
ब्रह्मण्यानां बलिस्त्वं क्रतुषु च जपयज्ञोऽसो वीरेषु पार्थो भक्तानामुद्धवस्त्वं बलमसि बलिनां धाम तेजस्विनां त्वम् ।
नास्त्यन्तस्त्वद्विभूतेर्विकसदतिशयं वस्तु सर्वं त्वमेव त्वं जीवस्त्वं प्रधानं यदिह भवदृते तन्न किञ्चित्प्रपञ्चे ॥
धर्मं वर्णाश्रमाणां श्रुतिपथविहितं त्वत्परत्वेन भक्त्या कुर्वन्तोऽन्तर्विरागे विकसति शनकैः सन्त्यजन्तो लभन्ते ।
सत्तास्फूर्तिप्रियत्वात्मकमखिलपदार्थेषु भिन्नेष्वभिन्नं निर्मूलं विश्वमूलं परममहमिति त्वद्विबोधं विशुद्धम् ॥
ज्ञानं कर्मापि भक्तिस्त्रितयमिह भवत्प्रापकं तत्र तावद् निर्विण्णानामशेषे विषय इह भवेद्ज्ञानयोगेऽधिकारः ।
सक्तानां कर्मयोगस्त्वयि हि विनिहितो ये तु नात्यन्तसक्ता नाप्यत्यन्तं विरक्तास्त्वयि च धृतरसा भक्तियोगो ह्यमीषाम् ॥
ज्ञानं त्वद्भक्ततां वा लघु सुकृतवशान्मर्त्यलोके लभन्ते तस्मात्तत्रैव जन्म स्पृहयति भगवन्नाकगो नारको वा ।
आविष्टं मां तु दैवाद्भवजलनिधिपोतायिते मर्त्यदेहे त्वं कृत्वा कर्णधारं गुरुमनुगुणवातायितस्तारयेथाः ॥
अव्यक्तं मार्गयन्तः श्रुतिभिरपि नयैः केवलज्ञानलुब्धाः क्लिश्यन्तेऽतीव सिद्धिं बहुतरजनुषामन्त एवाप्नुवन्ति ।
दुरस्थः कर्मयोगोऽपि च परमफले नन्वयं भक्तियोग स्त्वामूलादेव हृद्यस्त्वरितमयिभवत्प्रापको वर्धतां मे ॥
ज्ञानायैवातियत्नं मुनिरपवदते ब्रह्मतत्त्वं तु शृण्वन्गाढं त्वत्पादभक्तिं शरणमयति यस्तस्य मुक्तिः कराग्रे ।
त्वद्ध्यानेऽपीह तुल्या पुनरसुकरता चित्तचाञ्चल्यहेतो रभ्यासादाशु शक्यं वशयितुं त्वत्कृपाचारुताभ्याम् ॥
निर्विण्णः कर्ममार्गे खलु विषमतमे त्वत्कथादौ च गाढं जातश्रद्धोऽपि कामानयि भुवनपतेनैव शक्नोमि हातुम् ।
तद्भूयो निश्चयेन त्वयि निहितमना दोषबुद्ध्या भजंस्तान् पुष्णीयां भक्तिमेव त्वयि हृदयगते मङ्क्षु नङ्क्ष्यन्ति सङ्गाः ॥
कश्चित्क्लेशार्जितार्थक्षयविमलमतिर्नुद्यमानो जनौधैः प्रागेवं प्राहि विप्रो न खलु मम जनः कालकर्मग्रहा वा ।
चेतो मे दुःखहेतुस्तदिह गुणगणं भावयत्सर्वकारी त्युक्त्वा शान्तो गतस्त्वां मम च कुरु विभोतादृशीं चित्तशान्तिम् ॥
एलः प्रागुर्वशीं प्रत्यतिविवशमनाः सेवमानश्चिरं तां गाढं निर्विद्य भूयो युवतिसुखमिदं क्षुद्रमेवेति गायन् ।
त्वद्भक्तिं प्राप्य पूर्णः सुखतरमचरत्तद्वदुद्धूय सङ्गं भक्तोत्तंसं क्रिया मां पवनपुरपतेहन्त मे रुन्धिरोगान् ॥
त्रैगुण्याद्भिन्नरूपं भवति हि भुवने हीनमध्योत्तमं यज्ञानं श्रद्धा च कर्ता वसतिरपि सुखं कर्म चाहारभेदाः ।
त्वत्क्षेत्रत्वन्निषेवादि तु यदिह पुनस्त्वत्परं तत्तु सर्वं प्राहुर्नैर्गुण्यनिष्ठं तदनुभजनतो मङ्क्षु सिद्धो भवेयम् ॥
त्वय्येव न्यस्तचित्तः सुखमयि विचरन्सर्वचेष्टास्त्वदर्थं त्वद्भक्तैः सेव्यमानानपि चरितचरानाश्रयन्पुंण्यदेशान् ।
दस्यौ विप्रे गृहादिष्वपि च सममतिर्मुच्यमानावमान स्पर्धासूयादिदोषः सततमखिलभूतेषु सम्पूजये त्वाम् ॥
त्वद्भावो यावदेषु स्फुरति न विशदं तावदेवं ह्युपास्तिं कुर्वन्नैकात्म्यबोधे झटिति विकसति त्वन्मयोऽहं चरेयम् ।
त्वद्धर्मस्यास्य तावत्किमपि न भगवन्प्रस्तुतस्य प्रणाशस्तस्मात्सर्वात्मनैव प्रदिश मम विभोभक्तिमार्गं मनोझम् ॥
तं चैनं भक्तियोगं द्रढयितुमयिमे साध्यमारोग्यमायुर्दिष्ट्या तत्रापि सेव्यं तव चरणमहो भेषजायेव दुग्धम् ।
मार्कण्डेयो हि पूर्वं गणकनिगदितद्वादशाब्दायुरुच्चैः सेवित्वा वत्सरं त्वां तव भटनिवहैर्द्रावयामास मृत्युम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP