नारायणीय - अध्यायः ४

विष्णू हि सर्वोच्च शक्ती असून, त्रिमूर्ती ब्रह्मा, विष्णू आणि महेश यांपैकी, भगवान विष्णूचे कार्य विश्वाचा सांभाळ आणि प्रतिपाळ करणे आहे
Vishnu,also known as Narayana is the Supreme Being or Ultimate Reality
In the Trimurti, Vishnu is responsible for the maintenance or 'preservation' of the universe.


दशो विरिञ्चतनयोऽथ मनोस्तनूजां  लब्ध्वा प्रसूतिमिह षोडश चाप कन्याः ।
धर्मे त्रयोदश ददौ पिऋषु स्वधां च स्वाहां हविर्भुजि सतीं गिरिशे त्वदंशे ॥
मूर्तिर्हि धर्मगृहिणी सुषुवे भवन्तं नारायणं नरसखं महितानुभावम् ।
यज्जन्मनि प्रमुदिताः कृततुर्यघोषाः पुष्पोत्करान्प्रववृषुर्नुनुवुः सुरौघाः ॥
दैत्यं सहस्रकवचं कवचैः परीतं साहस्रवत्सरतपस्समराभिलव्यैः ।
पर्यायनीर्मिततपस्समरौ भवन्तौ शिष्टैककङ्कटममुं न्यहतां सललिम् ॥
अन्वाचरन्नुपदिशन्नपि मोक्षधर्मं त्वं भ्रातृमान्बदरिकाश्रममध्यवात्सीः ।
शक्रोऽथ ते शमतपोबलनिस्सहात्मा दिव्याङ्गनापरिवृतं प्रजिघाय मारम् ॥
कामो वसन्तमलयानिलबन्धुशाली कान्ताकटाक्षविशिखैर्विकसद्विलासैः ।
विध्यन्मुहुर्मुहुरकम्पमुदीक्ष्य च त्वां भीतस्त्वायाथ जगदे मृदुहासभाजा ॥
भीत्यालमङ्गजवसन्तसुराङ्गना वो मन्मानसं त्विह जुषुध्वमिति ब्रुवाणः ।
त्वं विस्मयेन परितः स्तुवतामथैषां प्रदर्शयः स्वपरिचारककातराक्षीः ॥
सम्मोहनाय मिलिता मदनादय्स्ते त्वद्दासिकापरिमलैः किल मोहमापुः ।
दत्तां त्वया च जगृहुस्त्रपयैव सर्व स्वर्वासिगर्वशमनीं पुनरुर्वशीं ताम् ॥
दृष्ट्वोर्वशीं त्वं कथां च निशम्य शक्रः पर्याकुलोऽजानि भवन्महिमावमर्शात् ।
एवं प्रशान्तरमणीयतरोऽवतारस् त्वत्तोऽधिको वरद कृष्णतनुस्त्वमेव ॥
दक्षस्तु धातुरतिलालनया रजोन्धो नात्यादृतस्त्वयि च कष्टमशान्तिरासीत् ।
येन व्यन्रुन्ध स भवत्तनुमेव शर्वं यज्ञो च वैरपिशुने स्वसुतां व्यमानीत् ॥
क्रुद्धेशमर्दितमखः स तु कृत्तशीर्षो देवप्रसादितहरादथ लब्धजीवः ।
त्वत्पूरितक्रतुवरः पुनराप शान्तिं स त्वं प्रशान्तिकर पाहि मरुत्पुरेश् ॥
उत्तानपादनृपतेर्मनुनन्दनस्य जाया बभूव सुरुचिर्नितरामभीष्टा ।
अन्या सुनीतिरिति भर्तुनराद्दता सा त्वामेव नित्यमगतिः शरणं गताभूत् ॥
अङ्के पितुः सुरुचिपुत्रकमुत्रमं तं दृष्ट्वा ध्रुवः किल सुनीतिसुतोऽधिरोक्ष्यन् ।
आचिक्षिपे किल शिशुः सुतरां सुरुच्या दुस्सन्त्यजा खलु भवद्विमुखैरसूया ॥
त्वन्मोहिते पितरि पश्यति दारवश्ये दूरं दुरुक्तिनिहतः स गतो निजाम्बाम् ।
सापि स्वकर्मगतिसन्तरणाय पुंसां त्वत्पादमेव शरणं शिशवे शशंस ॥
आकर्ण्य सोऽपि भवदर्चनिश्चितात्मा मानी निरेत्य नगरात्किल पञ्चवर्षः ।
सन्दृष्टनारदनिवेदितमन्त्रमार्गस् त्वामारराध तपसा मधुकाननान्ते ॥
ताते विषण्णहृदये नगरीं गतेन श्रीनारदेन परिसान्त्वितचित्तवृत्तौ ।
बालस्त्वदर्पितमनाः क्रमवर्धितेन निन्ये कठोरतपसा किल पञ्च मासान् ॥
तावत्तपोबलनिरुच्छ्वसिते दिगन्ते देवार्थितस्त्वमुदयत्करुणार्द्रचेताः ।
त्वद्रूपचिद्रसनिलीनमतेः पुरस्तादाविर्बभूविथ विभो गरुडाधिरूढः ॥
त्वद्दर्शनप्रमदभारतरङ्गितं तं दृग्भ्यां निमग्नमिव रूपरसायने ते ।
तुष्टूषमाणमवगम्य कपोलदेशे संस्पृष्टवानसि दरेण तथादरेण ॥
तावद्विबोधविमलं प्रणुवन्तमेणमाभाषथास्त्वमवगम्य तदीयभावम् ।
राज्यं चिरं समनुभूय भजस्व भूयः सर्वोत्तरं ध्रुव पदं विनिवृत्तिहीनम् ॥
इत्यूचुषि त्वयि गते नृपनन्दनोऽसावानन्दिताखिलजनो नगरीमुपेतः ।
रेमे चिरं भवदनुग्रहपूर्णकामस् ताते गते च वनमादृतराज्यभारः ॥
यक्षेण देव निहते पुनरुत्तमेऽस्मिन् यक्षैः स युद्धनिरतो विरतो मनूक्या ।
शान्त्या प्रसन्नहृदयाद्धनदादुपेतात् त्वद्भक्तिमेव सुदृढामवृणोन्महात्मा ॥
अन्ते भवत्पुरुषनीतविमानयातो मात्रा समं ध्रुवपदे मुदितोऽयमास्ते ।
एवं स्वभृत्यजनपालनलोलधीस्त्वं वातालयाधिप निरुन्धि ममामयौघान् ॥
जातस्य ध्रुवकुल एव तुङ्गकीर्तेरङ्गस्य व्यजनि सुतः स वेननामा ।
यद्दोषव्यथितमतिः स राजवर्यस्त्वत्पादे विहितमना वनं गतोऽभूत् ॥
पापोऽपि क्षितितलपालनाय वेनः पौराद्यैरुपनिहितः कठिरवीर्यः ।
सर्वेभ्यो निजबलमेव सम्प्रशंसन् भूचक्रे तव यजनान्ययं न्यरौत्सीत् ॥
सम्प्राप्ते हितकथनाय तापसौधे मत्तोऽन्यो भवनपतिर्न कश्चनेति ।
त्वन्निन्दावचनपरो मुनीश्वरैस्तैः शापाग्नौ शलभदशामनायि वेनः ॥
तन्नाशात्खलजनभीरुकैर्मुनीन्द्रै स्तन्मात्रा चिरपरिरक्षिते तदङ्गे ।
त्यक्ताघे परिमथितादथोरुदण्डाद् दोर्दण्डे परिमथिते त्वमाविरासीः ॥
विख्यातः पृथुरिति तापसोपदिष्टैः सूताद्यैः परिणुतभाविभूरिवीर्यः ।
वेनार्त्या कबलितसम्पदं धरित्रीमाक्रान्तां निजधनुषा समामकार्षी ॥
भूयस्तां निजकुलमुख्यवत्सयुक्तैर् देवाद्यैः समुचितचारुभाजनेसु ।
अन्नादीन्यभिलषितानि यानि तानि स्वच्छन्दं सुरभितनूमदूदुहस्त्वम् ॥
आत्मानं यहति सखैस्त्वयि त्रिधामन्नारब्धे शततमवाजिमेधयागे ।
स्पर्धालुः शतमख एत्य नीचवेषो हृत्वाश्वं तव तनयात्पराजितोऽभूत् ॥
देवेन्द्रं मुहुरिति वाजिनं हरन्तं वह्नौ तं मुनवरमण्डले जुहूषौ ।
रुन्धाने कमलभवे क्रतोः समाप्तौ साक्षात्त्वं मधुरिपुमैक्षथाः स्वयं स्वम् ॥
तद्दतं वरमुपलभ्य भक्तिमेकां गङ्गान्ते विहितपदः कदापि देव ।
सत्रस्थं मुनिनिवहं हितानि शंसन्नैक्षिष्ठाः सनकमुखान्मुनीन्पुरस्तात् ॥
विज्ञानं सनकमुखोदितं दधानः स्वात्मानं स्वयमगमो वनान्तसेवी ।
तत्तादृक्पृथुवपुरीश सत्वरं मे रोगौघं प्रशमय वातगेहवासिन् ॥
पृथोस्तु नप्ता पृथुधर्मकर्मठः प्राचीनबर्हिर्युवतौ शतद्रुतौ ।
प्रचेतसो नाम सुचेतसः सुतानजीजनत्त्वत्करुणाङ्कुरानिव ॥
पितुः सिसृक्षानिरतस्य शासनाद्भवत्तपस्यानिरता दशापि ते ।
पयोनिधिं पश्चिममेत्य तत्तटे सरोवरं सन्ददृशुर्मनोहरम् ॥
तदा भवत्तीर्थमिदं समागतो भवो भवत्सेवकदर्शनादृतः ।
प्रकाशमासाद्य पुरः प्रचेतसामुपादिशद्भक्ततमस्तव स्तवम् ॥
स्तवं जपन्तस्तममी जलान्तरे भवन्तमासेविषतायुतं समाः ।
भवत्सुखास्वादरसादमीष्वियान्बभूव कलो ध्रुववन्न शीघ्रता ॥
तपोभिरेषामतिमात्रवर्धिभिः स यज्ञहिंसानिरतोऽपि पावितः ।
पितापि तेषाम्गृहयातनारदप्रदर्शितात्मा भवदात्मतां ययौ ॥
कृपाबलेनैव ततः प्रचेतसां प्रकाशमागाः पतगेन्द्रवाहनः ।
विराजिचक्रादिवरायुधांशुभिर्भुजाभिरष्टाभिरुदञ्चितद्युतिः ॥
प्रचेतसां तावदयाचतामपि त्वमेव कारुण्यभराद्वारानदाः ।
भवद्विचिन्तापि शिवायदेहिनां भवत्वसौ रुद्रनुतिश्च कामदा ॥
अवाप्य कान्तां तनयां महीरुहां तया रमध्वं दशलक्षवत्सरीम् ।
सुतोऽस्तु दक्षो ननु तत्क्षणाच्च मां प्रयास्यथेति न्यगदो मुदैव तान् ॥
ततश्च ते भूतलरोधिनस्तरून्क्रूधा दहन्तो द्रुहिणेन वारिताः ।
द्रुमैश्च दत्तां तनयामवाप्य तां त्वदुक्तकालं सुखिनोऽभिरेमिरे ॥
अवाप्य दक्षं च सुतं कृताध्वराः प्रचेतसो नारदलब्धया धिया ।
अवापुरानन्दपदं तथाविधुस्त्वमीश वातालयनाथ पाहि माम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP