नारायणीय - अध्यायः ९

विष्णू हि सर्वोच्च शक्ती असून, त्रिमूर्ती ब्रह्मा, विष्णू आणि महेश यांपैकी, भगवान विष्णूचे कार्य विश्वाचा सांभाळ आणि प्रतिपाळ करणे आहे
Vishnu,also known as Narayana is the Supreme Being or Ultimate Reality
In the Trimurti, Vishnu is responsible for the maintenance or 'preservation' of the universe.


वैवस्वताख्यमनुपुत्रनभागजातनाभागनामकनरेन्द्रसुतोऽम्बरीषुः ।
सप्तार्णवावृतमहीदयितोऽपि रेमे त्वत्सङ्गिषु त्वयि च मग्नमनाः सदैव ॥
त्वत्प्रीतयेसकलमेव वितन्वतोऽस्य भक्त्यैव देव नचिरादभृथाः प्रसादम् ।
येनास्य याचनमृतेऽप्यभिरक्षणार्थं चक्रं भवान्प्रविततार सहस्रधारम् ॥
स द्वादशीव्रतमथो भ्वदर्चनार्थं वर्षं दधौ मधुवने यमुनोपकण्ठे ।
पत्न्या समं सुमनसा महतीं वितन्दन् पूजां द्विजेषु विसृजन्पशुषष्टिकोटिम् ॥
तत्राथ पारणदिने भवदर्चनान्ते दुर्वाससास्य मुनिना भवनं प्रपेदे ।
भोक्तुं वृतश्च स नृपेण परार्तिशीलो मन्दं जगाम यमुनां नियमान्विधास्यन् ॥
राज्ञाथ पारणमुह्ङ्र्तसमाप्तिखेदाद् वारैव पारणमकारि भवत्परेण ।
प्राप्तो मुनिस्तदथ दिव्यदृशा विजानन् क्षिप्यन्क्रुधोद्धृतजटो विततान कृत्याम् ॥
कृत्यां च तामसिधरां भुवनं दहन्तीमग्रेऽभिवीक्ष्य नृपतिर्न पदाच्चकम्पे ।
त्वद्भक्तबाधमभिवीक्ष्य सुदर्शनं ते कृत्यानलं शलभयन्मुनिमन्वधावीत् ॥
धावन्नशेषभुवनेषु भिया स पश्यन् विश्वत्र चक्रमपि ते गतवान्विरिञ्चम् ।
कः कालचक्रमतिलङ्घयतीत्यपास्तः शर्वं ययौ स च भवन्तमवन्दतैव ॥
भूयो भवन्निलयमेत्य मुनिं नमन्तं प्रोचे भवानहमृषे ननु भक्तदासः ।
ज्ञानं तपश्च विनयान्वितमेव मान्यं याह्यम्बरीषपदमेव भजेति भूमन् ॥
तावत्समेत्य मुनिना स गृहीतपादो राजापसृत्य भवदस्त्रमसाव नौषी ते ।
चक्रे गते मुनिरदादखिलाशिषोऽस्मै त्वद्भक्तिमागसि कृतेऽपि कृपां च शंसन् ॥
राजा प्रतीक्ष्य मुनिमेकसमामनाश्वा सम्भोज्य साधु तमृषिं विसृजन्प्रसन्नम् ।
भुक्त्वा स्वयं त्वयि ततोऽपि दृढं रतोऽभूत् सायुज्यमाप च स मां पवनेश पायाः ॥
गीर्वाणैरर्थ्यमानो दशमुखनिधनं कोसलेष्वृश्यशृङ्गे पुत्रीयामिष्टिमिष्ट्वा ददुषि दशरथक्ष्माभृते पायसाग्र्यम् ।
तद्भुक्त्या तत्पुरन्ध्रीष्वपि तिसृषु समं जातगर्भासु जातो रामस्त्वं लक्ष्मणेन स्वयमथ भरतेनापि शत्रुघ्ननाम्ना ॥
कोदण्डी कौशिकस्य क्रतुवरमवितुं लक्ष्मणेनानुयातो यातोऽभूस्तातवाचा मुनिकथितमनुद्वन्द्वशान्ताध्वखेदः ।
न्णां त्राणाय बाणैर्मुनिवचनबलात्ताटकां पाटयित्वा लब्ध्वास्मादस्त्रजालं मुनिवनमगमो देव सिद्धाश्रमाख्यम् ॥
मारीचं द्रावयित्वा मखशिरसि शरैरन्यरक्षांसि निघ्नन् कल्यां कुर्वन्नहल्यां पथि पदरजसा प्राप्य वैदेहगेहम् ।
भिन्दानश्चान्द्रचूडं धनुरवनिसुतामिन्दिरामेव लब्ध्वा रायं प्रातिष्ठथास्त्वं त्रिभिरपि च समं भ्रातृवीरैः सदारैः ॥
आरुन्धाने रुषान्धे भृगुकुलतिलके संक्रमय्य स्वतेजो याते यातोऽस्ययोध्यां सुखमिह निवसन्कान्तया कान्तमूर्ते ।
शत्रुघ्नेनैकदाथो गतवति भरते मातुलस्याधिवासं तातात्रब्धोऽभिषेकस्तव किल विहतः केकयाधीशपुत्र्या ॥
तातोक्या यातुकामो वनमनुजवधूसंयुतश्चापधारः पौरानारूध्य मार्गे गुहनिलयगतस्त्वं जटाचीरधारी ।
नावा सन्तीर्य गङ्गामधिपदवि पुनस्तं भरद्वाजमारान्नत्वा तद्वाक्यहेतोरतिसुखमवसश्चित्रकूटे गिरीन्द्रे ॥
श्रुत्वा पुत्रार्तिखिन्नं खलु भरतमुखात्स्वर्गयातं स्वतातं तप्तो दत्त्वाम्बु तस्मै निदधिथ भरते पादुकां मेदिनीं च ।
अत्रिं नत्वाथ गत्वा वनमतिविपुलां दण्डकां चण्डकायं हत्वा दैत्यं विराधं सुगतिमकलयश्चारु भोः शारभङ्गीम् ॥
नत्वागस्त्यं समस्ताशरनिकरसपत्राकृतिं तापसेभ्यः प्रत्यश्रौषीः प्रियैषी तदनु च मुनिना वैष्णवे दिव्यचापे ।
ब्रह्मास्त्रे चापि दत्ते पथि पितृसुहृदं दीक्ष्य जटायुं मोदाद्गोदातटान्ते परिरमसि पुरा पञ्चवत्यां वधूट्या ॥
प्राप्तायाः शूर्पणख्या मदनचलधृतेरर्थनैर्निस्सहात्मा तां सौमित्रौ विसृज्य प्रबलतमरुषा तेन निर्लुननासाम् ।
दृष्ट्वैनां रुष्टचित्तं खरमभिपतितं दुषणं च त्रिमूर्धं व्याहिंसीराशरानप्ययुतसमधिकांस्तत्क्षणादक्षतोष्मा ॥
सोदर्याप्रोक्तवार्ताविवशदशमुखादिष्टमारीचमायासारङ्गं सारसाक्ष्या स्पृहितमनुगतः प्रावधीर्बाणघातम् ।
तन्मायाक्रन्दनिर्यापितभवदनुजां रावणस्तामहार्षीत् तेनार्तोऽपि त्वमन्तः किमपि मुदमधास्तद्वधोपायायलाभात् ॥
भूयस्तन्वीं विचिन्वन्नहृत दशमुखस्त्वद्वधूं मद्वधेनेत्युक्त्वा याते जटायौ दिवमथ सुहृदः प्रातनोः प्रेतकार्यम् ।
गृह्णानं तं कबन्धं जघनिथ शबरीं प्रेक्ष्य पम्पातटे त्वं सम्प्राप्तो वातसूनुं भृशमुदितमनाः पाहि वातालयेश ॥
नीतः सुग्रीवमैत्रीं तदनु दुन्दुभेः कायमुच्चैः क्षिप्त्वाङ्गुष्ठेन भूयो लुलविथ युगपत्पत्रिणा सप्त सालान् ।
हत्वा सुग्रीवघातोद्यतमतुलबलं वालिनं व्याजवृत्त्या वर्षावेलामनैषीर्विरहतरलैतस्त्वं मतङ्गाश्रमान्ते ॥
सुग्रीवेणानुजोक्त्या सभयमभियता व्यूहितां वाहिनीं तामृक्षाणां वीक्ष्य दिक्षु द्रुतमथ दयितामार्गणायावनम्राम् ।
सन्देशं चान्गुलीयं पवनसुतकरे प्रादिशो मोदशाली मार्गे मार्गे ममार्गे कपिभिरपि तदी त्वत्प्रिया सप्रयासः ॥
त्वद्वार्ताकर्णनोद्यद्गरुदुरुजवसम्पातिसम्पातिवाक्यप्रोत्तीर्णार्णोधिरन्तर्नगरि जनकजां वीक्ष्य दत्त्वाङ्गुलीयम् ।
प्रक्षुद्योद्यानमक्षक्षपणचणरणः सोढबन्धो दशास्यं दृष्ट्वा प्लुष्ट्वा च लङ्कां झटिति स हनुमान्मौलिरत्नं ददौ ते ॥
त्वं सुग्रीवाङ्गदादिप्रबलकपिचमूचक्रविक्रान्तभूमि चक्रोऽभिक्रम्य पारेजळ्हि निशिचरेन्द्रानुजाश्रीयमाणः ।
तत्प्रोक्तां शत्रुवार्तां रहसि निशमयन्प्रार्थनापार्थ्यरोषप्रास्ताग्नेयास्त्रतेजस्त्रमदुदधिगिरा लब्धवान्मध्यमार्गम् ॥
कीशैराशान्तरोपाहृतगिरिनिकरैः सेतुमाधाप्य यातो यातून्यामर्द्य दंष्ट्रानखशिखरिशिलासालशस्त्रैः स्वसैन्यैः ।
व्याकुर्वन्सनुजस्त्वं समरभुवि परं विक्रमं शक्रजेत्रा वेगान्नागास्त्रबद्धः पतगपतिगरुन्मारुतैर्मोचितोऽभूः ॥
सौमित्रिस्त्वत्र शक्तिप्रहृतिगलदसुर्वातजानीतशैलघ्राणात्प्रणानुपेतो व्यकृणुत कुसृतिश्लाघिनं मेघनादम् ।
मायाक्षोभेषु वैभीषणवचनहृतस्तम्भनः कुम्भकर्णं सम्प्राप्तं कम्पितोर्वीतलमखिलचमूभक्षिणं व्यक्षिणोस्त्वम् ॥
गृह्णन्जम्भारिसम्प्रेषितरथकवचौ रावणेनाभियुध्यन् ब्रह्मास्त्रेणास्य भिन्दन्गलततिमबलामग्निशुद्धां प्रगृह्णन् ।
देव श्रेणीवरोज्जीवितसमरमृतैरक्षतैरृक्षसङ्घैर्लङ्काभर्त्रा च साकं निजनगरमगाः सप्रियः पुष्पकेण ॥
प्रीतो दिव्याभिषेकैरयुतसमधिकान्वत्सरान्पर्यरंसीर्मैथिल्यां पापवाचा शिव शिव किल तां गर्भिणीमभ्यहासीः ।
शत्रुघ्नेनार्दयित्वा लवणनिशिचरं प्रार्दयः शूद्रपाशं तावद्वाल्मीकिगेहे कृतवसतिरुपासूत सीत सुतौ ते ॥
वाल्मीकेस्त्वत्सुतोद्गापितमधुरकृतेराज्ञया यज्ञवाटे सीतां त्वय्यासुकामे क्षितिमविशदसौ त्वं च कालार्थितोऽभूः ।
हेतोः सौमित्रिघाती स्वयमथ सरयूमग्ननिश्शेषभृत्यैः साकं नाकं प्रयातो निजपदमगमो देव वैकुण्ठमाद्यम् ॥
सोऽयं मर्त्यावतारस्तव खलु नियतं मर्त्यशिक्षार्थमेवं विश्लेषार्तिर्निरागस्त्यजनमपि भवेत्कामधर्मातिसक्त्या ।
नो चेत्स्वात्मानुभूतेः क्वनु तव मनसो विक्रिया चक्रपाणे स त्वं सत्त्वैकमूर्ते पवनपुरपते व्याधुनु व्याधितापान् ॥
अत्रेः पुत्रतया पुरा त्वमनसूयायां हि दत्ताभिधो जातः शिष्यानिषन्धतन्द्रितमनाः स्वस्थश्चरन्कान्तया ।
दृष्टो भक्ततमेन हेहयमहीपालेन तस्मै वरानष्टैश्वर्यमुखान्प्रदाय ददिथ स्वेनैव चान्ते वधम् ॥
सत्यं कर्तुमथार्जुनस्य च वरं तच्छक्तिमात्रानतं ब्रह्मद्वेषि तदाखिलं नृपकुलं हन्तुं च भूमेर्भरम् ।
सञ्जातो जमदग्नितो भृगुकुले त्वं रेणुकायां हरे रामो नाम तदात्मजेष्ववरजः पित्रोरधाः सम्मदम् ॥
लब्धाम्नायगणश्चतुर्दशवया गन्धर्वराजे मनागासतां किल मातरं प्रति पितुः क्रोधाकुलस्याज्ञया ।
ताताज्ञातिगसोदरैः सममिमां छित्वाथ शान्तात्पितुस्तेषां जीवनयोगमापिथ वरं माता च तेऽदाद्वरम् ॥
पित्रा मातृमुदे स्तवाहृतवियद्धेनोर्निजादाश्रमात् प्रस्थायाथ भृगोर्गिरा हिमगिरावाराध्य गौरीपतिम् ।
लब्ध्वा तत्परशुं तदुक्तदनुजच्छेदी महास्त्रादिकं प्राप्तो मित्रमथाकृतवृअणमुनिं प्राप्यागमः स्वाश्रमम् ॥
आखेटेपगतोऽर्जुनः सुरगवीसम्प्राप्तसम्पद्गणैस्त्वत्पित्रा परिपूजितः पुरगतो दुर्मन्त्रिवाचा पुनः ।
गां क्रेतुं सचिवं न्ययुङ्क्त कुधिया तेनापि रुन्धन्मुनिप्राणक्षेपसरोषगोहतचमूचक्रेण वत्सो हृतः ॥
शुक्रोज्जीविततातवाक्यचलितक्रोधोऽथ सख्या समं बिभ्रुद्ध्यातमहोदरोपनिहितं चापं कुठारं शरन् ।
आरूढः सहवाहयन्तृकरथं माहिष्मतीमाविशन् वाग्भिर्वत्समदाशुषि क्षितिपतौ सम्प्रास्तुथाः सङ्गरम् ॥
पुत्राणामयुतेनसप्तदशभिश्चाक्षौहिणीभिर्महासेनानीभिरनेकमित्रनिवहिर्व्याजृम्भितीयोधनः ।
सद्यस्त्वत्ककुठारबाणविदलन्निश्शेषसैन्योत्करो भीतिप्रद्रुतनष्टशिष्टनयस्त्वामापतद्धेहयः ॥
लीलावारितनर्मदाजलवलल्लङ्केशगर्वापहश्रीमद्बाहुसहस्रमुक्तबहुशस्त्रास्त्रं निरुन्धन्नमुम् ।
चक्रे त्वय्यथ वैष्णवेऽपि विकले बुद्ध्वा हरिं त्वां मुदा ध्यायन्तं छितस्र्वदोषमवधीः सोऽगात्परं ते पदम् ॥
भूयोऽमर्षितहेहयात्मजगणैस्ताते हते रेणुकामाघ्नानां हृदयं निरीक्ष्य बहुशो घोरां प्रतिज्ञां वहन् ।
ध्यानानीतरथायुधस्त्वमकृथा विप्रद्रुहः क्षत्रियान् दिक्चक्रेषु कुठारयन्विशिखयन्निःक्षात्रियां मेदिनीम् ॥
तातोज्जीवनकृन्नृपालककुलं त्रिःसप्तकृत्वो जयन् सन्तर्प्याथ समन्तपञ्चकमहारक्तहृदौधे पित्न् ।
यज्ञे क्ष्मामपि काश्यपादिषु दिशन्साल्वेन युध्यन्पुनः कृष्णोऽमुं निहनिष्यतीति शमितो युद्धात्कुमारैर्भवान् ॥
न्यस्यास्त्राणि महेन्द्रभूभृति तपस्तन्वन्पुनर्मज्जितां गोकर्णावधि सागरेण धरणीं दृष्ट्वार्थितस्तापसैः ।
ध्यातेष्वासघृतानलास्त्रचकितं सिन्धुं स्रुवक्षेपणादुत्सार्योद्धृतकेरलो भृगुपते वातेश संरक्ष माम् ॥
सान्द्राननन्दतनो हरे ननु पुरा दैवासुरे सङ्गरे त्वत्कृत्ता अपि कर्मशेषवशतो ये ते न याता गतिम् ।
तेषां भूतलजन्मनां दितिभुवां भारेण दुरार्दिता भूमिः प्राप विरिञ्चमाश्रितपदं देवैः पुरैवागतैः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP