नारायणीय - अध्यायः १०
विष्णू हि सर्वोच्च शक्ती असून, त्रिमूर्ती ब्रह्मा, विष्णू आणि महेश यांपैकी, भगवान विष्णूचे कार्य विश्वाचा सांभाळ आणि प्रतिपाळ करणे आहे
Vishnu,also known as Narayana is the Supreme Being or Ultimate Reality
In the Trimurti, Vishnu is responsible for the maintenance or 'preservation' of the universe.
हा हा दुर्जनभूरिभारमथितां पाथोनिधौ पातुकाम्एतां पालय हन्त मे विवशतां संपृच्छ देवानिमान् ।
इत्यादिप्रचुरप्रलापविवशामालोक्य धाता महीं देवानां वदनानि वीक्ष्य परितो दध्यौ भवन्तं हरे ॥
ऊचे चाम्बुजभूरमूनयि सुराः सत्यं धरित्र्या वचो नन्वस्या भवतां च रक्षणविधौ दक्षो हि लक्ष्मीपतिः ।
सर्वे शर्वपुरस्सरा वयमितो गत्वा पयोवारिधिं नत्वा तं स्तुमहे जवादिति युयः साकं तवाकेतनम् ॥
ते मुग्धानिलशालिदुग्धजलधेस्तीरं गताः सङ्गता यावत्त्वत्पदचिन्तनैकमनसस्तावत्स पाथोजभूह् ।
त्वद्वाचं हृदये निशम्य सकलानानन्दयन्नचिवानाख्यातः परमात्मना स्वयमहं वाक्यं तदाकर्ण्यताम् ॥
जाने दीनदशामहं दिविषदां भूमेश्च भीमैर्नृपैस्तत्क्षेपाय भवामि यादवकुले सोऽहं समग्रात्मना ।
देवा वृष्णिकुले भवन्तु कलया देवाङ्गनाश्चावनौ मत्सेवार्थमिति त्वदीयवचनं पाथोजभूरूचिवान् ॥
श्रुत्वा कर्णरसायनं तव वचः सर्वेषु निर्वापितस्वान्तेष्वीश गतेषुइ तावककृपापीयूषतृप्तात्मसु ।
विख्याते मथुरापुरे किल भवत्सान्निध्यपुण्योत्तरे धन्यां देवकनन्दनामुदवहद्राजा स शूरात्मजः ॥
उद्वाहावसितौ तदीयसहजः कंसोऽथ सम्मानयन्नेतौ सूततया गतः पथि रथे व्योमोत्थया त्वद्गिरा ।
अस्यास्त्वामतिदुष्टमष्टमसुतो हन्तेति हन्तेरितः सत्त्रासात्स तु हन्तुमन्तिकगताः तन्वीं कृपाणीमधात् ॥
गृह्णानश्चिकुरेषु तां खलमतिः शौरेश्चिरं सान्त्वनैर्नो मुञ्चन्पुनरात्मजार्पणगिरा प्रीतोऽथ यातो गृहान् ।
आद्यं त्वत्सहजं तथार्पितमपि स्नेहेन नाहन्नसौ दुष्टानामपि देव पुष्टकरुणा दृष्टा हि धीरेकदा ॥
तावत्त्वन्मनसैव नारदमुनिः प्रोचे स भोजेश्वरं यूयं नन्वसुराः सुराश्च यदवो जानासि किं न प्रभो ।
मायावी स हरिर्भवद्वधकृते भावी सुरप्रार्थनादित्याकर्ण्य यदूनदूधुनदसौ शौरेश्च सूनूनहन् ॥
प्राप्ते सप्तमगर्भतामहिपतौ त्वत्प्रेरणान्मायया नीते माधव रोहिणीं त्वमपि भोः सच्चित्सुखैकात्मकः ।
देवक्या जठरं विवेशिथ विभो संस्तूयमानः सुरैः स त्वं कृष्ण विधूय रोगपटलीं भक्तिं परां देहि मे ॥
आनन्दरूप भगवन्नयि तेऽवतारे प्राप्ते प्रदीप्तभवदङ्ग निरीयमाणैः ।
कान्तिव्रजैरिव घनाघनमण्डलैर्द्या मावृण्वती विरुरुचे किल वर्षवेला ॥
आशासु शीतलतरासु पयोदतोयैराशासिताप्तिविवशेषु च सज्जनेषु ।
नैशाकरोदयविधौ निशि मध्यमायां क्लेशापहस्त्रिजगतां त्वमिहाविरासीः ॥
बाल्यसृशापि वपुषा दधुषा वुभूतीरुद्यत्किरीटकटकाङ्गदहारभासा ।
शङ्खारिवारिजगदापरिभासितेन मेघासितेन परिलेसिथ सूतिगेहे ॥
वक्षःस्थलीसुखनिलानविलासिलक्ष्मीमन्दाक्षलक्षितकटाक्षविमोक्षभेदैः ।
तन्मन्दिरस्य खलकंसकृतामलक्ष्मीमुन्मार्जयन्निव विरेजिथ वासुदेव ॥
शौरिस्तु धीरमुनिमण्डलचेतसोऽपि दूरस्थितं वपुरुदीक्ष्य निजेक्षणाभ्याम् ।
आनन्दबष्पपुलकोद्गमगद्गदार्द्रस्तुष्टाव दृष्टिमकरन्दरसं भवन्तम् ॥
देव प्रसीद परपूरुष तापवल्लीनिर्लूनिदात्र समनेत्र कलाविलासिन् ।
खेदानपाकुरु कृपागुरुभिः कटाक्षैर्इत्यादि तेन मुदितेन चिरं नुतोऽभूः ॥
मात्रा च नेत्रसलिलास्तृतगात्रवल्ल्या स्तोत्रैरभिष्टुतगुणः करुणालयस्त्वम् ।
प्राचीनजन्मयुगलं प्रतिबोध्य ताभ्यां मातुर्गिरा दधिथ मानुषबालवेषम् ॥
त्वत्प्रेरिस्ततदनु नन्दतनूजया ते व्यत्यासमारचयितुं स हि शूरसूनुः ।
त्वां हस्तयोरधित चित्ताविधार्यमार्यैरम्भोरुहस्थकलहंसकिशोररम्यम् ॥
जाता तदा पुशुपसद्मनि योगनिद्रा निद्राविमुद्रितमथाकृत पौरलोकम् ।
त्वत्प्रेरणात्किमिह चित्रमचेतनैर्यद्द्वारैः स्वयं व्यघटि सङ्गटितैः सुगाढम् ॥
शेषेण भूरिफणवारितवारिणाथ स्वैरं प्रदर्शितपथो मणिदीपितेन ।
त्वां धारयन्स खलु धन्यतमः प्रतस्थे सोऽयं त्वमीश मम नाशय रोगवेगान् ॥
भवन्तमयमुद्वहन्यदुकुलोद्वहो निस्सरन् ददर्श गगनोच्चलज्जलभरां कलिन्दात्मजाम् ।
अहि सलिलसञ्चयः स पुनरैन्द्रजालोदितो जलौघ इव तत्क्षणात्प्रपदमेयतामाययौ ॥
प्रसुप्तपशुपालिकां निभृतमारुदद्बालिकामपावृतकवाटिकां पशुपवाटिकामाविशन् ।
भवन्तमयमर्पयन्प्रसवतल्पके तत्पदाद् वहन्कपटकन्यकां स्वपुरमागतो वेगतः ॥
ततस्त्वदनुजारवक्षपितनिद्रवेगद्रवद्भटोत्करनिवेदितप्रसववार्तयैवार्तिमान् ।
विमुक्तचिकुरोत्करस्त्वरितमापतन्भोजराडतुष्ट इव दृष्टवान्भगिनिकाकरे कन्यकाम् ॥
ध्रुवं कपटशालिनो मधुहरस्य माया भवेदसाविति किशोरिकां भगिनिकाकरालिङ्गिताम् ।
द्विपो नलिनिकान्तरादिव मृणालिकामाक्षिपन्नयं त्वदनुजामजामुपलपट्टके पिष्टवान् ॥
ततो भवदुपासको झटिति मृत्युपाशादिव प्रमुच्य तरसैव सा समधिरूढरूपान्तरा ।
अधस्तलमजग्मुषी विकसदष्टबाहुस्फुरन्महायुधमहो गता किल विहायसा दिद्युते ॥
नृशंसतर कंस ते किमु मया विनिष्पिष्टया बभूव भवदन्तकः क्वचन चिन्त्यतां ते हितम् ।
इति त्वदनुजा विभो खलमुदीर्य तं जग्मुषी मरुद्गणपणायिता भुवि च मन्दिराण्येयुषी ॥
प्रगे पुनरगात्मजावचनमीरिति भूभुजा प्रलम्बबकपूतनाप्रमुखदानवा मानिनः ।
भवन्निधनकाम्यया जगति बभ्रमुर्निर्भयाः कुमारकविमारकाः किमिव दुष्करं निष्कृपैः ॥
ततः पशुपमन्दिरे त्वयि मुकुन्द नन्दप्रियाप्रसूतिशयनेशये रुवति किञ्चिदञ्चत्पदे ।
विबुध्य वनिताजनैस्तनयसम्भवे घोषिते मुदा किमु वदाम्यहो सकलमाकुलं गोकुलम् ॥
अहो खलु यशोदया नवकलायचेतोहरं भवन्तमलमन्तिके प्रथममापिबन्त्या दृशा ।
पुनः स्तनभरं निजं सपदि पाययन्त्या मुदा मनोहरतनुस्पृशा जगति पुण्यवन्तो जिताः ॥
भवत्कुशलकाम्यया स खलु नन्दगोपस्तदा प्रमोदभरसंकुलो द्विजकुलाय किं नाददात् ।
तथैव पशुपालकाः किमु न मङ्गलं तेनिरे जगत्रितयमङ्गल त्वमिह पाहि मामामयात् ॥
तदनु नन्दममन्दशुभास्पदं नृपपुरीं करदानकृते गतम् ।
समवलोक्य जगाद्भवत्पिता विदितकंससहायजनोद्यमः ॥
अयि सखे तव बालकजन्म मां सुखयतेऽद्य निजात्मजजन्मवत् ।
इति भवत्पितृतां व्रजनायके समधिरोप्य शशंस तमादरात् ॥
इह च सन्त्यनिमित्तशतानि ते कटकसीम्ने ततो लघु गम्यताम् ।
इति च तद्वचसा व्रजनायको भवदपायभिया द्रुतमाययौ ॥
अवसरे खलु तत्र च काचन व्रजपदे मधुराकृतिरङ्गना ।
तरलषट्पदलालितकुन्तला कपटपोतक ते निकटं गता ॥
सपसि सा हृतबालकचेतना निशिचरान्वयजा किल पूतना ।
व्रजवधूष्विह केयमिति क्षणं विमृशतीषु भवन्तमुपाददे ॥
ललितभावविलासहृतात्मभिर्युवतिभिः प्रतिरोद्धुमपारिता ।
स्तनमसौ भवनान्तनिषेदुषी प्रददुषी भवते कपटात्मने ॥
समधिरुह्य तदङ्कमशङ्कितस्त्वमथ बालकलोपनरोषितः ।
महदिवाम्रफलं कुचमण्डलं प्रतिचुचूषिथ दुर्विषदूषितम् ॥
असुभिरेव समं धयति त्वयि स्तनमसौ स्तनितोपमनिस्वना ।
निरपतद्भयदायि निजं वपुः प्रतिगता प्रविसार्य भुजावुभौ ॥
भयदघोषणभीषणविग्रहश्रवणदर्शनमोहितवल्लवे ।
व्रजपदे तदुरःस्थलखेलनं ननु भवन्तमगृह्णत गोपिकाः ॥
भुवनमङ्कल नामभिरेव ते युवतिभिर्बहुधा कृतरक्षणः ।
त्वमयि वातनिकेतननाथ मामगदयन्कुरु तावकसेवकम् ॥
व्रजेश्वरः शौरिवचो निशम्य समाव्रजन्नध्वनि भीतचेताः ।
निष्पिष्टनिश्शेषतरुं निरीक्ष्य कञ्चित्पदार्थं शरणं गतस्त्वाम् ॥
निशम्य गोपीवचनादुदन्तं सर्वेऽपि गोपा भयविस्मयान्धाः ।
त्वत्पातितं घोरपिशाचदेहं देहुर्विदूरेऽथ कुठारकृत्तम् ॥
त्वत्पीतपूतस्तनतच्छरीरात्समुच्चलन्नुच्चतरो हि धूमः ।
शङ्कामधादागरवः किमेषु किं चान्दनो गौग्गुलवोऽथवेति ॥
मदङ्गसङ्गस्य फलं न दूरं क्षणेन तावद्भवतामपि स्यात् ।
उत्युल्लपन्वल्लवतल्लजेभ्यस्त्वं पूतनामातनुथाः सुगन्धिम् ॥
चित्रं पिशाच्या न हतः कुमारश्चित्रं पुरैवाकथि शौरिणेदम् ।
इति प्रशंसन्किल गोपलोको भवन्मुखालोकरसे न्यमाङ्क्षीत् ॥
दिने दिनेऽथ प्रतिवृद्धलक्ष्मीरक्षीणमङ्गल्यशतो व्रजोऽयम् ।
भवन्निवासादयि वासुदेव प्रमोदसान्द्रः परितो विरेजे ॥
गृहेषु ते कोमलरूपहासमिथःकथासङ्कुलिताः कमन्यः ।
वृत्तेषु कृत्येषु भवन्निरीक्षासमागताः प्रत्यहमत्यनन्दन् ॥
अहो कुमारो मयि दत्तदृष्टिः स्मितः कृतं मां प्रति वत्सकेन ।
एह्येहि मामित्युपसार्य पाणिं त्वयाश किं किं न कृतं वधूभिः ॥
भवद्वपुःस्पर्शनकौतुकेन करात्करं गोपवधूजनेन ।
नीतस्त्वमाताम्रसरोजमालाव्यालम्बिलोलम्बतुलामलासीः ॥
निपाययन्ती स्तनमङ्कगं त्वां विलोकयन्ती वदनं हसन्ती ।
दशां यशोदा कतमां न भेजे स तादृशः पाहि हरे गदान्माम् ॥
कदापि जन्मर्क्षदिने तव प्रभो निमन्त्रितज्ञातिवधूमहीसुरा ।
महानसस्त्वां सविधे निधाय सा महानसादौ ववृते व्रजेश्वरी ॥
ततो भवत्त्राणनियुक्तबालकप्रभीतिसङ्क्रन्दनसङ्कुलारवैः ।
विमिश्रमश्रावि भवत्समीपतः परिस्फुटद्दारुचटच्चटारवः ॥
ततस्तदाकर्णनसंभ्रमश्रमप्रकम्पिवक्षोजभरा व्रजाङ्गनाः ।
भवन्तमन्तर्ददृशुः समन्ततो विनिष्पतद्दारुणदारुमध्यगम् ॥
शिशोरहो किं किमभूदिति द्रुतं प्रधाव्य नन्दः पशुपाश्च भूसुराः ।
भवन्तमालोक्य यशोदया धृतं समाश्वसन्नश्रुजलार्द्रलोचनाः ॥
कस्को नु कौतस्कुत एष विस्मयो विशङ्कटं यच्छकटं विपाटितम् ।
न कारणं किञ्चिदिहेति ते स्थिताः स्वनासिकादत्तकरास्त्वदीक्षकाः ॥
कुमारकस्यास्य पयोधरार्थिनः प्ररोदने लोलपदाम्बुजाहतम् ।
मया मया दृष्टमनो विपर्यगादितीश ते पालकबालका जगुः ॥
भिया तदा किञ्चिदजानतामिदं कुमारकाणामतिदुर्घटं वचः ।
भवत्प्रभावाविदुरैरितीरितं मनागिवाशङ्क्यात दृष्टपूतनैः ॥
प्रवालताम्रं किमिदं पदं क्षतं सरोजरम्यौ नु करौ विरोजितौ ।
इति प्रसर्पत्करुणातरङ्गितास्त्वदङ्गमापस्पृशुरङ्गनाजनाः ॥
अये सुतं देहि जगत्पतेः कृपातरङ्गपातात्परिपातमद्य मे ।
इति स्म सङ्गृह्य पिता त्वदङ्गुकं गुहुर्मुहुः श्लिष्यति जीतकण्टकः ॥
अनोनिलीनः किल हन्तुमागतः सुरारिरेवं भवता विहिंसितः ।
रजोऽपि नोदृष्टममुष्य तत्कथं स शुद्धसत्त्वे त्वयि लीनवान्ध्रुवम् ॥
प्रपूजितैस्तत्र ततो द्विजातिभिर्विशेषतो लम्भितमङ्गलाशिषः ।
व्रजं निजैर्बाल्यरसैर्विमोहयन्मरुत्पुराधीश रुजां जहीहि मे ॥
त्वमेकदा गुरुमरुत्पुरनाथ वोढुं गाढाधिरूडःअगरिमाणमपारयन्ती ।
माता नोधाय शयने किमिदं बतेति ध्यायन्त्यचेष्टत गृहेषु निविष्टशङ्का ॥
तावद्विदूरमुपकर्णितघोरघोषव्याजृम्भिपांसुपटलीपरिपूरिताशः ।
वात्यावपुः स किल दैत्यवरस्तृणावर्ताख्यो जहार जनमानसहारिणं त्वाम् ॥
उद्दामपांसुतिमिराहतदृष्टिपाते द्रष्टुं किमप्यकुशले पशुपाललोके ।
हा बालक्स्य किमिति त्वदुपान्तमाप्ता माता भवन्तमविलोक्य भृशं रुरोद् ॥
तावत्स दानववरोऽपि च दीनमूर्तिर्भावत्कभारपरिधारणलूनवेगः ।
सङ्कोचमाप तदनु क्षतपांसुघोषे घोषे व्यतायत भवज्जननीनिनादः ॥
रोदोपकर्णनवशादुपगम्य गेहं क्रन्दत्सु नन्दमुखगोपकुलेषु दीनः ।
त्वां दानवस्त्वखिलमुक्तिकरं मुमुक्षुस्त्वय्यप्रमुञ्चति पपात्वियत्प्रदेशात् ॥
रोदाकुलास्तदनु गोपगणा बहिष्ठपाषाणपृष्ठभुवि देहमतिस्थविष्ठम् ।
प्रैक्षन्त हन्त निपन्तममुष्य वक्षस्यक्षीणमेव च भवन्तमलं हसन्तम् ॥
ग्रावप्रपातपरिपिष्टगरिष्ठदेहभ्रष्टासुदुष्टदनुजोपरि धृष्टहासम् ।
आघ्नानमम्बुजकरेण भवन्तमेत्य गोप दधुर्गिरिवरादिव नीलरत्नम् ॥
एकैकमाशु परिगृह्य निकामनन्दन्नन्दादिगोपपरिरब्धविचुम्बताङ्गम् ।
आदातुकामपरिशङ्कितगोपनारीहस्ताम्बुजप्रपतितं प्रणुमो भवन्तम् ॥
भूयोऽपि किन्नु कृणुमः प्रणतार्तिहारी गोविन्द एव परिपालयतात्सुतं नः ।
इत्यादि मातरपितृप्रसुखैस्तदानीं सम्प्रार्थितस्त्वदवनाय विभो त्वमेव ॥
वातात्मकं दनुजमेवमयि प्रधून्वन् वातोद्भवान्मम गदान्किमु नो धुनोषि ।
किं वा करोमि पुरनप्यनिलालयेश निश्शेषरोगशमनं मुहुरर्थये त्वाम् ॥
गूढं वसुदेवगिरा कर्तुं ते निष्क्रियस्य संस्कारान् ।
हृद्गतहोरातत्त्वो गर्गमुनिस्त्वद्गृहान्विभो गतवान् ॥
नन्दोऽथ नन्दितात्मा बृन्दिष्ठं मानयन्नमुं यमिनाम् ।
मन्दस्मितार्द्रमूचे त्वत्संस्कारान्विधातुमुत्सुकधीः ॥
यदुवंशाचार्यत्वात्सुनिभृतमिदमार्य कार्यमिति कथयन् ।
गर्गो निर्गतपुलकश्चक्रे तव साग्रजस्य नामानि ॥
कथमस्य नाम कुर्वे सहस्रनाम्नो ह्यनन्तनाम्नो वा ।
इति नूनं गर्गमुश्चक्रे तव नाम नाम रहसि विभो ॥
कृषिधीतुणकाराभ्यां सत्तानन्दात्मतां किलाभिलपत् ।
जगदघकर्षित्वं वा कथयदृषिः कृष्णनाम ते व्यतनोत् ॥
अन्यांश्च नामभेदान्न्यीकुर्वन्नग्रजे च रामादीन् ।
अतिमानुषानुभावं न्यगदत्त्वामप्रकाशयन्पित्रे ॥
स्निह्यति यत्सव पुत्रे सुह्यति स न मायिकैः पुनः शोकैः ।
द्रुह्यति यः स तु नश्येदित्यवदत्ते महत्त्वमृषिवर्यः ॥
जेष्यति बहुतरदैत्यान्नेष्यति निजबन्धुलोकममलपदम् ।
श्रोष्यसि सुविमलकीर्तीरस्येति भवद्विभूतिमृषिरूचे ॥
अमुनैव सर्वदुर्गं तरितास्थ कृतास्थमन्त्र तिष्ठध्वम् ।
हरिरेवेत्यनभिलपन्नित्यादि त्वामवर्णयत्स मुनिः ॥
गर्गेऽथ निर्गतेऽस्मिन्नन्दितनन्दादिनन्द्यमानस्त्वम् ।
मद्गदमुद्गतकरुणो निर्गमय श्रीमरुत्पुराधीश ॥
अयि सबल मुरारे पाणिजानुप्रचारैः किमपि भवनभागान्भूषयन्तौ भवन्तौ ।
चलितचरणकञ्जे मञ्जुमञ्जीरशिञ्जाश्रवणकुतुकभाजौ चेरतुश्चारु वेगात् ॥
मृदु मृदु विहसन्तावुन्मिषद्दन्तवन्तौ वदनपतितकेशौ दृश्यपादाब्जदेशौ ।
भुजगलितकरान्तव्यालगत्कङ्कणाङ्कौ मतिमहरतमुच्चैः पश्यतां विश्वन्णाम् ॥
अनुसरति जनौघे कौतुकव्याकुलाक्षे किमपि कृतनिनादं व्याहसन्तौ द्रवन्तौ ।
बलितवदनपद्मं पृष्ठतो दत्तदृष्टी किमिव न विदधाथे कौतुकं वासुदेव ॥
दुतगतिषु पतन्तावुत्थितौ लिप्तपङ्कौ दिवि मुनिभिरपङ्कैः सस्मितं वन्द्यमानौ ।
द्रुतमथ जननीभ्यां सानुकम्पं गृहीतौ मुहुरपि परिरब्धौ द्राग्युवां चुम्बितौ च ॥
स्नुतकुचभरमङ्के धारयन्ती भवन्तं तरलमति यशोदा स्तन्यदा धन्यधन्या ।
कपटपशुप मध्ये मुग्धहासाङ्कुरं ते दशनमुकुलहृद्यं वीक्ष्यं वक्त्रं जहर्ष ॥
तदनु चरणचारी दारकैः साकमारान्निलयततिषु खेलन्बालचापल्यशाली ।
भवनशुकबिडालान्वत्सकांश्चानुधावन् कथमपि कृतहासैर्गोपकैर्वारितोऽभूः ॥
हलधरसहितस्त्वं यत्र यत्रोपयातो विवशपतितनेत्रास्तत्र तत्रैव गोप्यः ।
विगलितगृहकृत्या विस्मृतापत्यभृत्या मुरहर मुहुरत्यन्ताकुला नित्यमासन् ॥
प्रतिनवनवनीतं गोपिकादत्तमिच्छन् कलपदमुपगायन्कोमलं क्वापि नृत्यन् ।
सदययुवतिलोकैरर्पितं सर्पिरश्नन् क्वचन नवविपक्वं दुग्धमत्यापिबस्त्वम् ॥
मम खलु बलिगेहे याचनं जातमास्ताम्इह पुनरबलानामग्रतो नैव कुर्वे ।
इति विहितमतिः किं देव सन्त्यज्य याच्ञां दधिघृतमहरस्त्वं चारुणा चोरणेन ॥
तव दधिघृतमोषे घोषयोषाजनानामभजत हृदि रोषो नावकाशं न शोकः ।
हृदयमपि मुषित्वा हर्षसिन्धौ न्यधास्त्वं स मम शमय रोगान्वातगेहाधिनाथ ॥
शाखाग्रेऽथ विधुं विलोक्य फलमित्यम्बां च तातं मुहुः सम्प्रार्थ्याथ तदा तदीयवचसा प्रोत्क्षिप्तबाहौ त्वयि ।
चित्रं देव शशी स ते करमगात्किं ब्रूमहे सम्पतज्ज्योतिर्मण्डलपूरिताखिलवपुः प्रागा विराड्रूपताम् ॥
किं किं बतेदमिति संभ्रमभाजमेनं ब्रह्मार्णवे क्षणममुं परिमज्ज्य तातम् ।
मायां पुनस्तनयमोहमयीं वितन्वन्नानन्दचिन्मय जगन्मय पाहि रोगात् ॥
अयि देव पुरा किल त्वयि स्वयमुत्तानशये स्तनन्धये ।
परिजृम्भणतो व्यपावृते वदने विश्वमचष्ट वल्लवी ॥
पुनरप्यथ बालकैः समं त्वयि लीलानिरते जगत्पते ।
फलसञ्चयवञ्चनक्रुधा तव मृद्भोजनमूचुरर्भकाः ॥
अयि ते प्रलयावधौ विभो क्षितितोयादिसमस्तभक्षिणः ।
मृदुपाशनतो रुजा भवेदिति भीता जननी चुकोप सा ॥
अयि दुर्विनयात्मक त्वया किमु मृत्सा बत वत्स भक्षिता ।
इति मातृगिरं चिरं विभो वितथां त्वं प्रतिजज्ञिषे हसन् ॥
अयि ते सकलैर्विनिश्चिते विमतिश्चेद्वदनं विदार्यताम् ।
इति मातृविभर्त्सितो मुखं विकसत्पद्मनिभं व्यदारयः ॥
अयि मृल्लवदर्शनोत्सुकां जननीं तां बहु तर्पयन्निव ।
पृथिवीं निखिलां न केवलं भुवनान्यप्यखिलान्यदीदृशः ॥
कुहचिद्वनमम्बुधिः क्वचित्क्वचिदभ्रं कुहचिद्रसातलम् ।
मनुजा दनुजाः क्वचित्सुरा ददृशे किं न तदा त्वदानने ॥
कलशाम्बुधिशायिनं पुनः परवैकुण्ठपदाधिवासिनम् ।
स्वपुरश्च निजार्भकात्मकं कतिधा त्वां न ददर्श सा मुखे ॥
विकसद्भुवने मुखोदरे ननु भूयोऽपि तथाविधाननः ।
अनया स्फुटमीक्षितो भवाननवस्थां जगतां बतातनोत् ॥
धृततत्त्वधियं तदा क्षणं जननीं तां प्रणयेन मोहयन् ।
स्तनमम्ब दिशेत्युपासजन्भगवन्नद्भुतबाल पाहि माम् ॥
एकदा दधिविमाथकारिणीं मातरं समुपसेदिवान्भवान् ।
स्तन्यलोलुपतया निवारयन्नङ्कमेत्य पपिवान्पयोधरौ ॥
अर्धपीतकुचकुड्मले त्वयि स्निग्धहासमधुराननाम्बुजे ।
दुग्धमीश दहने परिस्नुतं धर्तुमाशु जननी जगाम ते ॥
सामिपीतरसभङ्गसङ्गतक्रोधभारपरिभूतचेतसा ।
मन्थदण्डमुपगृह्य पाटितं हन्त देव दधिभाजनं त्वया ॥
उच्चल ध्वनितमुच्चकैस्तदा संनिशम्य जननी समाद्रुता ।
त्वद्यशोविसरवद्ददर्श सा सद्य एव दधि विसृतं क्षितौ ॥
वेदमार्गपरिमार्गितं रुषा त्वामवीक्ष्य परिमार्गयन्त्यसौ ।
सन्ददर्श सुकृतिन्युलूखले दीयमाननवनीतमोतवे ॥
त्वां प्रगृह्य बत भीतिभावनाभासुराननसरोजमाशु सा ।
रोषरूषितमुखी सखीपुरो बन्धनाय रशनामुपाददे ॥
बन्धुमिच्छति यमेव सज्जनस्तं भवन्तमयि बन्धुमिच्छती ।
सा नियुज्य रशनागुणान्बहून्व्द्यङ्गुलोनमखिलं किलैक्षत ॥
विस्मितोत्स्मितसखीजनेक्षितां स्विन्नसन्नवपुषं निरीक्ष्य ताम् ।
नित्यमुक्तवपुरप्यहो हरे बन्धमेव कृपयान्वमयथाः ॥
स्थीयतां चिरमुलूखले खलेत्यागता भवनमेव सा यदा ।
प्रागुलूखलबिलान्तरे तदा सर्पिरर्पितमदन्नवास्थिथाः ॥
यद्यपाशसुगमो भवान्विभो संयतः किमु सपाशयानया ।
एवमादि दिविजैरभिष्टुतो वातनाथ परिपाहि मां गदात् ॥
मुदा सुरौधैस्त्वमुदारसम्मदैरुदीर्य दामोदर इत्यभिष्टुतः ।
मृदूदरः स्वैरमुलूखले लगन्नदूरतो द्वौ ककुभावुदैक्षथाः ॥
कुबेरसूनुर्नलकूबराभिधः परो मणिग्रीव इति प्रथां गतः ।
महेशसेवाधिगतश्रियोन्मदौ चिरं किल त्वद्विमुखावखेलताम् ॥
सुरापगायां किल तौ मदोत्कटौ सुरापगायद्बहुयौवतावृतौ ।
विवाससौ केलिपरौ स नारदो भवत्पदैकप्रवणो निरैक्षत ॥
भिया प्रियालोकमुपात्तवाससं पुरो निरीक्ष्यापि मदान्धचेतसौ ।
इमौ भवद्भक्त्युपशान्तिसिद्धये मुनिर्जगौ शान्तिमृते कुतः सुखम् ॥
युवामवाप्तौ ककुभात्मतां चिरं हरिं निरीक्ष्याथ पदं स्वमाप्नुतम् ।
इतीरितौ तौ भवदीक्षणस्पृहां गतौ व्रजान्ते ककुभौ बभूवतुः ॥
अतन्द्रमिन्द्रद्रुयुगं तथाविधं समेयुषा मन्थरगामिना त्वया ।
तिरायितोलूखलरोधनिर्धुतौ चिराय जीर्णौ परिपातितौ तरू ॥
अभाजि शाखिद्वितयं यदा त्वया तदैव तद्गर्भतलान्निरेयुषा ।
महात्विषा यक्षयुगेन तत्क्षणादभाजि गोविन्द भवानपि स्तवैः ॥
इहान्यभक्तोऽपि समेष्यति क्रमाद्भवन्तमेतौ खलु रुद्रसेवकौ ।
मुनिप्रसादाद्भवदङ्घ्रिमागतौ गतौ वृणानौ खलु भक्तिमुत्तमाम् ॥
ततस्तरूद्दारणदारुणारवप्रकम्पिसम्पातिनि गोपमण्डले ।
विलज्जितत्वज्जननीमुखेक्षिणा व्यमोक्षि नन्दने भवान्विमोक्षदः ॥
महीरुहोर्मध्यगतो बतार्भको हरेः प्रभावादपरिक्षतोऽधुना ।
इति ब्रवाणैर्गमितो गृहं भवान्मरुत्पुराधीश्वर पाहि मां गदात् ॥
भवत्प्रभावाविदुरा हि गोपास्तरुप्रपातादिकमत्र गोष्टःए ।
शेतुमुत्पातगणं विशङ्क्य प्रयातुमन्यत्र मनो वितेनुः ॥
तत्रोपनन्दाभिधगोपवर्यो जगौ भवत्प्रेरणयैव नूनम् ।
इतिः प्रतीच्यां विपिनं मनोज्ञं बृन्दावनं नाम विराजतीति ॥
बृहद्वनं तत्खलु नन्दमुख्या विधाय गौष्ठीनमथ क्षणेन ।
त्वदन्वितत्वज्जननीनिविष्टगरिष्टयानानुगता विचेलुः ॥
अनोमनोज्ञध्वनिधेनुपालीखुरप्रणादान्तरतो वधूभिः ।
भवद्विनोदालपितीक्षराणि प्रपीय नाज्ञायत मार्गदैर्घ्यम् ॥
निरीक्ष्य बृन्दावनमीश नन्दत्प्रसूनकुन्दप्रमुखद्रुमौघम् ।
अमोदथाः शाद्वलसान्द्रलक्ष्म्या हरिन्मणीकुट्टिमपुष्टशोभम् ॥
नवाकनिर्व्युढनिवासभेदेष्वशेषगोपेषु सुखासितेषु ।
वनश्रियं गोपकिशोरपालीविमिश्रितः पर्यगलोकथास्त्वम् ॥
अरालमार्गागतनिर्मलापां मरालकुजाकृतनर्मलापाम् ।
निरन्तरस्मेरसरोजवक्त्रां कलिन्दकन्यां समलोकयस्त्वम् ॥
मयूरकेकाशतलोभनीयं म्यूखमीलशबलं मणीनाम् ।
विरिञ्चलोकस्पृशमुच्चशृङ्गैर्गिरिं च गोवर्धनमैक्षथास्त्वम् ॥
समं ततो गोपकुमारकैस्त्वं समन्ततो यत्र वनान्तमागाः ।
ततस्ततस्तां कृटिलामपश्यः कलिन्दजां रागवतीमिवैकाम् ॥
तथाविधेऽस्मिन्विपिने पशव्ये समुत्सुको वत्सगणप्रचारे ।
चरन्सरामोऽथ कुमारकैस्त्वं समीरगेहाधिप पाहि रोगात् ॥
तरलमधुकृद्बृन्दे बृन्दावनेऽथ मनोहरे पशुपशिशुभिः साकं वत्सानुपालनलोलुपः ।
हलधरसखो देव श्रीमन् विचेरिथ धारयन् गवलमुरलीवेत्रं नेत्राभिरामतनुद्युतिः ॥
विहितजगतीरक्षं लक्ष्मीकराम्बुजलीलितं ददति चरणद्वन्द्वं बृन्दावने त्वयि पावने ।
किमिव न बभौ सम्पत्सम्पूरितं तरुवल्लरीसलिलधरणीगोत्रक्षेत्रादिकं कमलापते ॥
विलसदुलपे कान्तारान्ते समीरणशीतले विपुलयमुनातीरे गोवर्धनाचलमूर्धसु ।
ललितमुरलीनादः सञ्चारयन्खलु वात्सकं क्वचन दिवसे दैत्यं वत्साकृतिं त्वमुदैक्षथाः ॥
रभसविलसत्पुच्छं विच्छायतोऽस्य विलोकयन् किमपि वलितस्कन्धं रन्ध्रप्रतीक्षमुदीक्षितम् ।
तमथ चरणे बिभ्रद्विभ्रामयन्मुहुरुच्चकैः कुहचन महावृक्षे चिक्षेपिथ क्षतजीवितम् ॥
निपतति महादैत्ये जात्या दुरात्मनि तत्क्षणं निपतनजवक्षुण्णक्षोणीरुहक्षतकानने ।
दिवि परमिलद्बृन्दा बृन्दारकाः कुसुमोत्करैः शिरसि भवतो हर्षाद्वर्षन्ति नाम तदा हरे ॥
सुरभिलतमा मूर्धन्यूर्ध्वं कुतः कुसुमावली निपतति तवेत्युक्तो बालैः सहेलमुदैरयः ।
झटिति दनुजक्षेपेणोर्ध्वं गतस्तरुमण्डलात् कुसुमनिकरः सोऽयं नूनं समेति शनैरिति ॥
क्वचन दिवसे भूयो भूयस्तरेपरुषातपे तपनतनयापाथः पातुं गता भवदादयः ।
चलितगरुतं प्रेक्षामासुर्बकं खलु विस्मृतं क्षितिधरगरुच्छेदे कैलासशैलमिवापरम् ॥
पिबति सलिलं गोपव्राते भवनतमभिद्रुतः स किल निगिनलन्नग्निप्रख्यं पुनर्द्रुतमुद्वमन् ।
दलयितुमगात्त्रोट्याः कोट्या तदा यु भवान्विभो खलजनभिदाचुञ्चुश्चञ्चू प्रगृह्य ददार तम् ॥
सपदि सहजां सन्द्रष्टुं वा मृतां खलु पूतनामनुजमघमप्यग्रे गत्वा प्रतीक्षितुमेव वा ।
शमननिलयं याते तस्मिन्बके सुमनोगणे किरति सुमनोबृन्दं बृन्दावनाद्गृहमैयथाः ॥
ललितमुरलीनादं दूरान्निशम्य वधूजनैस्त्वरितमुपगम्यारादारूढमोदमुदीक्षितः ।
जनितजननीनन्दानन्दः समीरणमन्दिरप्रथितवसते शौरे दूरीकुरुष्व ममामयान् ॥
कदाचन व्रजशिशुभिः समं भवान् वनाशने विहितमतिः प्रगेतराम् ।
समावृतो बहुतरवत्समण्डलैः सतेमनैर्निरगमदीश जेमनैः ॥
विनिर्यतस्तव चरणाम्बुजद्वयादुदाञ्चितं त्रिभुवनपावनं रजः ।
महर्षयः पुलकधरैः कलेबरैरुदूहिरे धृतभवदीक्षणोत्सवाः ॥
प्रचारयत्यविरलशाद्वले तले पशून्विभो भवति समं कुमारकैः ।
अघासुरो न्यरुणदघाय वर्तनीं भयानकः सपदि शयानकाकृतिः ॥
महाचलप्रतिमतनोर्गुहानिभप्रसारितप्रथितमुखस्य कानने ।
मुखोदरं विहरणकौतुकाद्गताः कुमारकाः किमपि विदूरगे त्वयि ॥
प्रमादतः प्रविशति पन्नगोदरं क्वथत्तनौ पशुपकुले सवात्सके ।
विदन्निदं त्वमपि विवेशिथ प्रभो सुहृज्जनं विशरणामाशु रक्षितुम् ॥
गलेदरे विपुलितवर्ष्मणा त्वया महोरगे लुठति निरुद्धमारुते ।
द्रुतं भवान्विदलितकण्ठमण्डलो विमोचयन्पशुपशून्विनिर्ययौ ॥
क्षणं दिवि त्वदुपगमार्थमास्थितं महासुरप्रभवमहो महो महत् ।
विनिर्गते त्वयि तु निलीनमञ्जसा नभःश्तले ननृतुरथो जगुः सुराः ॥
सविस्मयैः कमलभवादिभिः सुरैर्अनुद्रुतस्तदनु गतः कुमारकैः ।
दिने पुनस्तरुणदशामुपेयुषि स्वकैर्भवानतनुत भोजनोत्सवम् ॥
विषाणिकामपि मुरलीं नितम्बके निवेशयन्कबलधरः कराम्बुजे ।
प्रहासयन्कलवचनैः कुमारकान् बुभोजिथ त्रिदशगणैर्मुदा नुतः ॥
सुखाशनं त्विह तव गोपमण्डले मखाशनात्प्रियमिव देवमण्डले ।
इति स्तुतस्त्रिदशवरैर्जगत्प्रभो मरुत्पुरीनिलय गदात्प्रपाहि माम् ॥
अन्यावतारनिकरेष्वनिरीक्षितं ते भूमातिरेकमभिवीक्ष्य तदाघमोक्षे ।
ब्रह्मा परीक्षितुमनाः स परोक्षभावं निन्येऽथ वत्सकगणान्प्रवितत्य मायाम् ॥
वत्सानवीक्ष्य विवशे पशुपोत्करे तानानेतुकाम इव धातृमतानुवर्ती ।
त्वं सामिभुक्तकबलो गतवांस्तदानीं भुक्तांस्तिरोधित सरोजभवः कुमारान् ॥
वत्सायितस्तदनु गोपगणायितस्त्वं शिक्यादिभाण्डमुरलीगवलादिरूपः ।
प्राग्वद्विहृत्य विपिनेषु चिराय सायं त्वं माययाथ बहुधा व्रजमाययाथ ॥
त्वामेव शिक्यागवलादिमयं दधानो भूयस्त्वमेव पशुवत्सकबालरूपः ।
गोरूपिणीभिरपि गोपवधूमयीभिरासादितोऽसि जननीभिरतिप्रहर्षात् ॥
जीवं हि कञ्चिदभिमानवशात्स्वकीयं मत्वा तनूज इति रागभरं वहन्त्यः ।
आत्मानमेव तु भवन्तमवाप्य सूनुं प्रीतिं ययुर्न कियतीं वनिताश्च गावः ॥
एवं प्रतिक्षणविजृम्भितहर्षभारनिश्शेषगोपगणलालितभूरिमूर्तिम् ।
त्वामग्रजोऽपि बुबुधे किल वत्सरान्ते ब्रह्मात्मनोरपि महान्युवयोर्विशेषः ॥
वर्षावधौ नवपुरातनवत्सपालान् दृष्ट्वा विवेकमसृणे द्रुहिणे विमूढे ।
प्रादीदृशः प्रतिनवान्मकुटान्गदादिभूशांश्चतुर्भुजयुजः सजलाम्बुदाभान् ॥
प्रत्येकमेव कमलापरिलालिताङ्गान् भोगीन्द्रभोगशयनान्नयनाभिरामान् ।
लीलानिमीलितदृशः सनकादियोगिव्यासेवितान्कमलभूर्भवतो ददर्श ॥
नारायणाकृतिमसङ्ख्यतमां निरीक्ष्य सर्वत्र सेवकमपि स्वमवेक्ष्य धाता ।
मायानिमग्नहृदयो विमुमोह याव्तदेको बभूविथ तदा कबलार्धपाणिः ॥
नश्यन्मदे तदनु विश्वपतिं मुहुस्त्वांनत्वा च नूतवति धातरि धाम याते ।
पोतैः समं प्रमुदितैः प्रविशन्निकेतं वातालयाधिप विभो परिपाहि रोगात् ॥
अतीत्य बाल्यं जगतां पते त्वमुपेत्य पौगण्डवयो मनोज्ञम् ।
उपेक्ष्य वत्सावनमुत्सवेन प्रावर्तथा गोगणपालनायाम् ॥
उपक्रमस्यानुगुणैव सेयं मरुत्पुराधीष तव प्रवृत्तिः ।
गोत्रापरित्राणकृतेऽवतीनस्तदेव देवारभथास्तदा यत् ॥
कदापि रामेण समं वनान्ते वनश्रियं वीक्ष्य चरन्सुखेन ।
श्रीदामनाम्नः स्वसखस्य वाचा मोदादगा धेनुककाननं त्वम् ॥
उत्तालतालीनिवहे त्वदुक्त्या बलेन धूतेऽथ बलेन दोर्भ्याम् ।
मृदुः खरश्चाभ्यपतत्पुरस्तात्फलोत्करो धेनुकदानवोऽपि ॥
समुद्यतो धैनुकपालनेऽहं वधं कथं धैनुकमद्य कुर्वे ।
इतीव मत्वा ध्रुवमग्रजेन सुरौघरोद्धारमजीघतस्त्वम् ॥
तदीयभृत्यानपि जम्बुकत्वेनोपागतानग्रजसंयुतस्त्वम् ।
जम्बूफलानीव तदा निरास्थस्तालेषु खेलन्भगवन् निरास्थः ॥
विनिघ्नति त्वय्यथ जम्बुकौघं सनामकत्वाद्वरुणस्तदानीम् ।
भयाकुलो जम्बुकनामधेयं श्रुतिप्रसिद्धं व्यधितेति मन्ये ॥
तवावतारस्य फलं मुरारे सञ्जातमद्येति सुरैर्नुतस्त्वम् ।
सत्यं फलं जातमिहेति हासी बालैः समं तालफलान्यभुङ्क्थाः ॥
मधुद्रवस्रुन्ति बृहन्ति तानि फलानि मेदोभरभृन्ति भुक्त्वा ।
तृप्तैश्च दृप्तैर्भवनं फलौघं वहद्भिरागाः खलु बालकैस्त्वम् ॥
हतो हतो धेनुक इत्युपेत्य फलान्यदद्भिर्मधुराणि लोकैः ।
जयेति जीवेति नुतो विभो त्वं मरुत्पुराधीश्वर पाहि रोगात् ॥
त्वत्सेवोत्कः सौभारिर्नाम पूर्वं कालिन्द्यन्तर्द्वादशाब्दं तपस्यन् ।
मीनव्राते स्नेहवान्भोगलोले तार्क्ष्यं साक्षादैक्षताग्रे कदाचित् ॥
त्वद्वाहं तं सक्षुधं तृक्षसूनुं मीनं कञ्चिज्जक्षतं लक्षयन्सः ।
तप्तश्चित्ते शप्तवानत्र चेत्त्वं जन्तून्भोक्ता जीवितं चापि भोक्ता ॥
तस्मिन्काले कालियः क्ष्वेलदर्पात्सर्पाराते कल्पितं भागम्श्नन् ।
तेन क्रोधात्त्वत्पदाम्भोजभाजा पक्षक्षिप्तस्तद्दुरापं पयोऽगात् ॥
घोरे तस्मिन्सूरजानीरवासे तीरे वृक्षा विक्षताः क्ष्वेलवेगात् ।
पक्षिव्राताः पेतुरभ्रे पतन्तः कारुण्यार्द्रं त्वन्मनस्तेन जातम् ॥
काले तस्मिन्नेकदा सीरपाणिं मुक्त्वा याते यामुनं काननान्तम् ।
त्वय्युद्दामग्रीष्मभीष्मोष्मतप्ता गोगोपाला व्यापिबन्क्ष्वेलतोयम् ॥
नश्यज्जीवान्विच्युतान्क्ष्मातले तान्विश्वान्पश्यन्नच्युत त्वं दयार्द्रः ।
प्राप्योपान्तं जीवयामासिथ द्राक्पीयूषाम्भोवर्षिभिः श्रीकटाक्षैः ॥
किं किं जातो हर्षवर्षातिरेकः सर्वाङ्गेष्वित्युत्थिता गोपसङ्घाः ।
दृष्ट्वाग्रे त्वां त्वत्कृतं तद्विदन्तस्र्वामालिङ्गन्दृष्टनानाप्रभावाः ॥
गावश्चैवं लब्धजीवाः क्षणेन स्फीतानन्दास्त्वां च दृष्ट्वा पुरस्तात् ।
द्रागावव्रुः सर्वतो हर्षबाष्पं व्यामुञ्चन्त्यो मन्दमुद्यन्निनादाः ॥
रोमाञ्चोऽयं सर्वतो नः शरीरे भूयस्यन्तः काचिदानन्दमूर्छा ।
आश्चर्योऽयं क्ष्वेलवेगो मुकुन्देत्युक्तो गोपैर्नन्दितो वन्दितोऽभूः ॥
एवं भक्तान्मुक्तजीवानपि त्वं मुग्धापाङ्कैरस्तरोगांस्तनोषि ।
तादृग्भूतस्फीतकारुण्यभूमा रोगीत्पाया वायुगेहाधिवास ॥
अथ वारिणि घोरतरं फणिनं प्रतिवारयितुं कृतधीर्भगवन् ।
द्रुतमारिथ तीरगनीपतरुं विषमीरुतशोषितपर्णचयम् ॥
अधिरुह्य पदाम्बुरुहेण च तं नवपल्लवतुल्यमोज्ञरुचा ।
हदवारिणि दूरतरं न्यपतः परिघूर्णितघोरतरङ्गगणे ॥
भुवनत्रयभारभृतो भवतो गुरुभारविक्रम्पिविजृम्भिजला ।
परिमज्जयति स्म धनुःशतं तटिनी झटिति स्फुटघोषवती ॥
अथ दिक्षु विदिक्षु परिक्षुभितभ्रमितोदरवारिनिनादभरैः ।
उदकादुदगादुरगाधिपतिस्त्वदुपान्तमशान्तरुषान्धमनाः ॥
फणशृङ्गसहस्रविनिःसृमरज्वलदग्निकणोग्रविषाम्बुधरम् ।
पुरतः फणिनं समलोकयथा बहुशृङ्गिणमञ्जनशैलमिव ॥
ज्वलदक्षिपरिक्षरदुग्रविषश्वसनिष्मभरः स महान्भुजगः ।
परिदश्य भवन्तमनन्तबलं समवेष्टयदस्फुटचेष्टमहो ॥
अविलोक्य भवन्तमथाकुलिते तटगामिनि बालकधेनुगणे ।
व्रजगेहतलेऽप्यनिमित्तशतं समुदीक्ष्य गता यमुनां पशुपाः ॥
अखिलेषु विभो भवदीयदशामवलोक्य जिहासुषु जीवभरम् ।
फणिबन्धनमाशु विमुच्य जवादुदगम्यत हासजुषा भवता ॥
अधिरुह्य ततः फणिराजफणान्ननृते भवता मृदुपादरुचा ।
कलशिञ्चितनूपुरमञ्चुमिलत्करकङ्कणसंकुलसंक्वणितम् ॥
जहृषुः पशुपास्तुतुषुर्मुनयो ववृषुः कुसुमानि सुरेन्द्रगणाः ।
त्वयि नृत्यति मारुतगेहपते परिपाहि स मां त्वमदान्तगदात् ॥
रचिरकम्पितकुण्डलमण्डलः सुचिरमीश ननर्तिथ पन्नगे ।
अमरताडितदुन्दुभिसुन्दरं वियति गायति दैवतयौवते ॥
नमति यद्यदमुष्य शिरो हरे परिविहाय तदुन्नतमुन्नतम् ।
परिमथन्पदपङ्करुहा चिरं व्यहरथाः करतालमनोहरम् ॥
त्वदवभग्नविभुग्नफणागणे गलितशोणितशोणितपाथसि ।
फणिपताववसीदति सन्नतास्तदबलास्तव माधव पादयोः ॥
अयि पुरैव चिराय परिश्रुतत्वदनुभावविलीनहृदो हि ताः ।
मुनिभिरप्यनवाप्यपथैः स्तवैर्नुनुवुरीश भवन्तमयन्त्रितम् ॥
फणिवधूगणभक्तिविलोकनप्रविकसत्करुणाकुलचेतसा ।
फणिपतिर्भवताच्युत जीवितस्त्वजि समर्पितमूर्तिरवानमत् ॥
रमणकं व्रजे चारिधिमध्यगं फणिरिपुर्न करोति विरोधिताम् ।
इति भवद्वचनान्यतिमानयन्फणिपतिर्निरगादुरगैः समम् ॥
फणिवधूजनदत्तमणिव्रजज्वलितहारदुकूलविभूषितः ।
तटगतैः प्रमदाश्रुविमिश्रितैः समगथाः स्वजनैर्दिवसावधौ ॥
निशि पुनस्तमसा व्रजमन्दिरं व्रजितुमक्षम एव जनोत्करे ।
स्वपति तत्र भवच्चरणाश्रये दवकृशानुररुन्ध समन्ततः ॥
प्रबुधितानथ पालय पालयेत्युदयदार्तरवान्पशुपालकान् ।
अवितुमाशु पपाथ महानलं किमिह चित्रमयं खलु ते मुखम् ॥
शिखिन वर्णत एव हि पीतता परिलसत्युधना क्रिययाप्यसौ ।
इति नुतः पशुपैर्मुदितैर्विभो हर हरे दुरितैः सह मे गदान् ॥
रामसखः क्वापि दिने कामद भगवन् गतो भवान्विपिनम् ।
सूनुभिरपि गोपानां धेनुभिरभिसंवृतो लसद्वेषु ॥
सन्दर्शयन्बलाय स्वैरं बृन्दावनश्रियं विमलाम् ।
काण्डीरैः सह बालैर्भाण्डीरकमागमो वटं क्रीडन् ॥
तावत्तावकनिधनस्पृहयालुर्गोपमूर्तिरदयालुः ।
दैत्यः प्रलम्बनामा प्रलम्बबाहुं भवन्तमापेदे ॥
जानन्नप्यविजानन्निव तेन समं निषद्धसौहार्दः ।
वटनिकटे पटुपशुपव्यानद्धं द्वन्द्वयुद्धमारब्धाः ॥
गोपान्विभज्य तन्वन्सङ्घं बलभद्रकं भवत्कमपि ।
त्वद्बलभीरुं दैत्यं त्वद्बलगतमन्वमन्यथा भगवन् ॥
कल्पितविजेतृवहने समरे परौऊथगं स्वदयिततरम् ।
श्रीदामानमधत्थाः पराजितो भक्तदासतां प्रथयन् ॥
एवं बहुषु विभूमन् बालेषु वहत्सु वाह्यमानेषु ।
रामविजितः प्रलम्बो जहार तं दूरतो भवद्भीत्या ॥
त्वद्दूरं गमयन्तं तं दृऋष्ट्वा हलिनि विहितगरिमभरे ।
दैत्यः स्वरूपमागाद्यद्रूपात्स हि बलोऽपि चकितोऽभूत् ॥
उच्चतया दैत्यतनोस्त्वन्मुखमालोक्य दूरतो रामः ।
विगतभयो दृढमुष्ट्या भृशदुष्टं सपदि पिष्टवानेनम् ॥
हत्वा दानववीरं प्राप्तं बलमालिलिङ्गिथ प्रेम्णा ।
तावन्मिलतोर्य्वयोः शिरसि कृता पुष्पवृष्टिरमरगणैः ॥
आलम्बो भुवनानां प्रालम्बं निधनमेवमारचयन् ।
कालं विहाय सद्यो लोलम्बरुचे हरे हरेः क्लेशान् ॥
त्वयि विहरणलोले बालजालैः प्रलम्बप्रमथनसविलम्बे धेनवः स्वैरचाराः ।
तृणकुतुकनिविष्टा दूरदूरं चरन्त्यः किमपि विपिनमैषीकाख्यमीषांबभूवुः ॥
अनधिगतनिदाघक्रौर्यबृन्दावनान्ताद् बहिरिदमुपयाताः काननं धेनवस्ताः ।
तव विरहविषण्णा ऊष्मलग्रीष्मतापप्रसरविसरदम्भस्याकुलाः स्तम्भमापुः ॥
तदनु सह सहायैर्दूरमन्विष्य शौरे गलितसरणिमुञ्जारण्यसञ्जातखेदम् ।
पशुकुलमभिवीक्ष्य क्षिप्रमानेतुमारात् त्वयि गतवति ही ही सर्वतोऽग्निर्जजृम्भे ॥
सकलहरिति दीप्ते घोरभाङ्कारभीमे शिखिनि विहतमार्गा अर्धदग्धा इवार्ताः ।
अहह भुवनबन्धो पाहि पाहीति सर्वे शरणमुपगतास्त्वां तापहर्तारमेकम् ॥
अलमलमतिभीत्य सर्वतो मीलयध्वं दृशमिति तव वाचा मीलिताक्षेषु तेषु ।
क्वनु दवदहनोऽसौ कुत्र मुञ्जाटवी सा सपदि ववृतिरे ते हन्त भण्डीरदेशे ॥
जय जय तव माया केयमीशेति तेषां नुतिभिरुदितहासो बद्धनानाविलासः ।
पुनरपि विपिनान्ते प्राचरः पाटलादिप्रसवनिकरमात्रग्राह्यघर्मानुभावे ॥
त्वयि विमुखमिवोच्चैस्तापभारं वहन्तं तव भजनवदन्तः पङ्कमुच्छोषयन्तम् ।
तव भुजवदुदञ्चद्भूरितेजःप्रवाहं तपसमयमनैषीर्यामुनेषु स्थलेषु ॥
तदनु जलदजालैस्त्वद्वपुस्तुल्यभाभिर्विकसदमलविद्युत्पीतवासोविलासैः ।
सकलभुवनभाजां हर्षदां वर्षवेलां क्षितिधरकुहरेषु स्वैरवासी व्यनैषीः ॥
कुहरतलनिविष्टं त्वां गरिष्ठं गिरीन्द्रः शिखिकुलनवकेकाकाकुभिः स्तोत्रकारी ।
स्फुटकुटजकदम्बस्तोमपुष्पाञ्जलिं च प्रविदधदनुभेजे देव गोवर्धनोऽसौ ॥
अथ शरदमुपेतां तां भवद्भक्तचेतोविमलसलिलपूरां मानयन्काननेषु ।
तृणाममलवनान्ते चारु सञ्चारयन्गाः पवनपुरपते त्वं देहि मे देहसौख्यम् ॥
त्वद्वपुर्नवकलायकोमलं प्रेमदोहनमशेषमोहनम् ।
ब्रह्मा तत्त्वपरचिन्मुदात्मकं वीक्ष्य सम्मुमुहुरन्वहं स्त्रियः ॥
मन्मथोन्मथितमानसाः क्रमात्त्वद्विलोकनरतास्ततस्ततः ।
गोपिकास्तव न सेहिरे हरे काननोपगतिमप्यहर्मुखे ॥
निर्गते भवति दत्तदृष्टयस्त्वद्गतेन मनसा मृगेक्षणाः ।
वेणुनादमुपकर्ण्य दूरतस्त्वद्विलासकथयाभिरेमिरे ॥
काननान्तमितवान्भवानपि स्निग्धपादपतले मनोरमे ।
व्यत्ययाकलितपादमास्थितः प्रत्यपूरयत वेणुनालिकाम् ॥
मारबाणधुतखेचरीकुलं निर्विकारपशुपक्षिमण्डलम् ।
द्रावणं च दृषदामपि प्रभो तावकं व्यजनि वेणुकूजितम् ॥
वेणुरन्ध्रतरलाङ्गुलीदलं तालसञ्चलितपादपल्लवम् ।
तत्स्थितं तव परोक्षमप्यहो संविचिन्त्या मुमुहुर्व्रजाङ्गनाः ॥
निर्विशङ्कभवदङ्गदर्शिनीः खेचरीः खगमृगान्पशूनपि ।
त्वत्पदप्रणयि काननं च ता धन्यधन्यमिति नन्वमानय ॥
आपिषेयमधरामृतं कदा वेणुभुक्तरसशेषमेकदा ।
दूरतो बत कृतं दुराशयेत्याकुला मुहुरिमाः समामुहन् ॥
प्रत्यहं च पुनरित्थमङ्गनाश्चित्तयोनिजनितादनुग्रहात् ।
बद्धरागविवशास्त्वयि प्रभो नित्यमापुरिह कृत्यमूढताम् ॥
रागस्तावज्जायते हि स्वभावान्मोक्षोपाये यत्नतः स्यान्न वा स्यात् ।
तासां त्वेकं तद्द्वयं लब्धमासीद्भाग्यं भाग्यं पाहि मां मार्य्तेश ॥
मदनातुरचेतसोऽन्वहं भवदङ्घ्रिद्वयदास्यकाम्पया ।
यमुनातटसीम्नि सैकतीं तरलाक्ष्यो गिरिजां समार्चिचन् ॥
तव नामकथारताः समं सुदृशः प्रातरुपागता नदीम् ।
उपहारशतैरपूजयन्दयितो नन्दसुतो भवेदिति ॥
इति मासमुपाहितव्रतास्तरलाक्षीरभिवीक्ष्य ता भवान् ।
करुणामृदुलो नदीतटं समयासीत्तदनुग्रहेच्छया ॥
नियमावसितौ निजाम्बरं तटसीमन्यवमुच्य तास्तदा ।
यमुनाजलखेलनाकुलाः पुरतस्त्वामवलोक्य लज्जिताः ॥
त्रपया नमिताननास्वथो वनितास्वम्बरजालमन्तिके ।
निहितं परिगृह्य भूरुहो विटपं तं तरसाधिरूढवान् ॥
इह तावदुपेत्य नीयतां वसनं वः सुदृशो यथायथम् ।
इति नर्ममृदुस्मिते त्वयि व्रुवति व्यामुमुहे वधूजनैः ॥
अयि जीव चिरं किशोर नस्तव दासीरवशीकरोषि किम् ।
प्रदिशाम्बरमम्बुजेक्षणेत्युदितस्त्वं स्मितमेव वत्तवान् ॥
अधिरुह्य तटं कृताञ्जलीः परिशुद्धाः स्वगतीर्निरीक्ष्य ताः ।
वसनान्यखिलान्यनुग्रहं पुनरेवं गिरमप्यदा मुदा ॥
विदितं ननु वो मनीषितं वदितारस्त्विह योग्यमुत्तरम् ।
यमुनापुलीने सचन्द्रिकाः क्षणदा इत्यबलास्त्वमूचिवान् ॥
उपकर्ण्य भवन्मुखच्युतं मधुनिष्यन्दि वचो मृगीदृशः ।
प्रणयादयि वीक्ष्य वीक्ष्य ते वदनाब्जं शनकैर्गृहं गताः ॥
इति नन्वनुगृह्य बल्लवीर्तिपिनान्तेषु पुरेव सञ्चरन् ।
करुणाशिशिरो हरे हर त्वरया मे सकलामयावलिम् ॥
ततश्च बृन्दावनतोऽतिदूरतो वनं गतस्त्वं खलु गोपगोकुलैः ।
हृदन्तरे भक्ततरद्विजाङ्गिनाकदम्बकानुग्रहणाग्रहं वहन् ॥
ततो निरीक्ष्याशरणे वनान्तरे किशोरलोकं क्षुधितं तृषाकुलम् ।
उदूरतो यज्ञपरान्द्विजान्प्रति व्यसर्जयो दीदिवियाचनाय तान् ॥
गतेष्वथो तेष्वभिधाय तेऽभिधां कुमारकेष्वोदनयाचिषु प्रभो ।
श्रुतिस्थिरा अप्यभिनिन्युरश्रुतिं न किञ्चिदूचुश्च महीसुरोत्तमाः ॥
अनादरात्खिन्नधियो हि बालकाः समाययुर्युक्तमिदं हि यज्वसु ।
चिरादभक्ताः खलु ते महीसुराः कथं हि भक्तं त्वयि तैः समर्प्यते ॥
निवेदयध्वं गृहिणीजनाय मां दिशेयुरन्नं करुणाकुला इमाः ।
इति स्मितार्द्रं भवतेरिता गतास्ते दारका दारजनं ययाचिरे ॥
गृहीतनाम्नि त्वयि सम्भ्रमाकुलाश्चतुर्विधं भोज्यरसं प्रगृह्य ताः ।
चिरं धृतत्वत्प्रविलोकनाग्रहाः स्वकैर्निरुद्धा अपि तूर्णमाययुः ॥
विलोलपिञ्छं चिकुरे कपोलयोः समुल्लसत्कुण्डलमार्द्रमीक्षिते ।
निधाय बाहुं सुहृदंससीमनि स्थितं भवन्तं समलोकयन्त ताः ॥
तदा च काचित्त्वदुपागमोद्यता गृहीतहस्ता दयितेन यज्वना ।
तदैव सञ्चिन्त्य भवन्तमञ्जसा विवेश कैवल्पमहो कृतिन्यसौ ॥
आदाय भोज्यान्यनुगृह्य ताः पुनस्त्वदङ्गसङ्गस्पृहयोज्झतीर्गृहम् ।
विलोक्य यज्ञाय विसर्जयन्निमाश्चकर्थ भर्त्नपि तास्वगर्हणान् ॥
निरूप्य दोषं निजमङ्गनाजने विलोक्य भक्तिं च पुनर्विचारिभिः ।
प्रबुद्धतत्त्वैस्त्वमभिष्टुतो द्विजैर्मरुत्पुराधीश निरुन्धि मे गदान् ॥
कदाचिद्गोपालान्विहितमखसम्भारविभवान् निरीक्ष्य त्वं शौरे मघवमदमुद्ध्वंसितुमनाः ।
विजानन्नप्येतान्विनयमृदु नन्दादिपशुपानपृच्छः को वायं जनक भवतामुद्यम इति ॥
बभाषे नन्दस्त्वां सुत ननु विधेयो मघवतो मखो वर्षे वर्षे सुखयति स वर्षेण पृथिवीम् ।
नृणां वर्षायत्तं निखिलमुपजीव्यं महितले विशेषादस्माकं तृणसलिलजीवा हि पशवः ॥
इति श्रुत्वा वाचं पितुरयि भवानाह सरसं धिगेतन्नो सत्यं मघवजनिता वृष्टिरिति यत् ।
अदृष्टं जीवानां सृजति खलु वृष्टिं समुचितां महारण्ये वृक्षाः किमिव बलिमिन्द्राय ददते ॥
इदं तावत्सत्यं यदिह पशपो नः कुलधनं तदाजीव्यायासौ बलिरचलभर्त्रे समुचितः ।
सुरेभ्योऽप्युत्कृष्टा ननु धरणिदेवाः क्षितितले ततस्तेऽप्याराध्या इति जगदिथ त्वं निजजनाम् ॥
भवद्वाचं श्रुत्वा बहुमतियुतास्तेऽपि पशुपा द्विजेन्द्रानर्चन्तो बलिमददुरुच्चैः क्षितिभृते ।
व्यधुः प्रादक्षिण्यं सुभृशमनमन्नादरयुतास्त्वमादः शैलात्मा बलिमखिलमाभीरपुरतः ॥
अवोचश्चैवं तान्किमिह वितथं मे निगदितं गिरीन्द्रो नन्वेषु स्वबलिमुपभूङ्क्ते स्ववपुषा ।
अयं गोत्रो गोत्रद्विषि च कुपिते रक्षितुमलं समस्तानित्युक्ता जहृषुरखिला गोकुलजुषः ॥
परिप्रीता याताः खलु भवदुपेता व्रजजुषो व्रजं यावत्तावन्निजमखविभङ्गं निशमयन् ।
भवन्तं जानन्नप्यधिकरजसाक्रान्तहृदयो न सेहे देवेन्द्रस्त्वदुपरचितात्मोन्नतिरपि ॥
मनुष्यत्वं यातो मधुभिदपि देवेष्वविनयं विधत्ते चेन्नष्टस्त्रिदशसदसां कोऽपि महिमा ।
ततश्च ध्वंसिष्ये पशुपहतकस्य श्रियमिति प्रवृत्तस्त्वां जेतुं स किल मघवा दुर्मदनिधिः ॥
त्वदावासं हन्तुं प्रलयजलदानम्बरभुवि प्रहिण्वन्बिभ्राणः कुलिशमयमभ्रेभगमनः ।
प्रतस्थेऽन्यैरन्तर्दहनमरुदाद्यैर्विहसितो भवन्माया नैव त्रिभूवनपते मोहयति कम् ॥
सुरेन्द्रः कुद्धश्चेद्द्विजकरुणया शैलकृपया प्यनातङ्कोऽस्माकं नियत इति विश्वास्य पशुपान् ।
अहो किं नायातो गिरिभिदिति सञ्चिन्त्य निवसन् मरुद्गेहाधीश प्रणुद मुरवैरिन् मम गदान् ॥
ददृशिरे किल तत्क्षणमक्षतस्तनितजृम्भितकम्पितदिक्तटाः ।
सुषमया भवदङ्गतुलां गता व्रजपदोपरि वारिधरास्त्वया ॥
विपुलकरकमिश्चैस्तोयधारानिपातैर्दिशि दिशि पशुपानां मण्डले दण्ड्यमाने ।
कुपितहरिकृतान्नः पाहि पाहीति तेषां वचनमजित शृण्वन्मा बिभीतेत्यभाणीः ॥
कुल इह खलु गोत्रो दैवतं गोत्रशत्रोर्विहतिमिह स रुन्ध्यत्को नुः वः संशायोऽस्मिन् ।
इति सहसितवादी देव गोवर्धनाद्रिं त्वरितमुदमुमूलो मूलतो बाल दोर्भ्याम् ॥
तदनु गिरिवरस्य प्रोद्धृतस्यास्य तावत् सिकतिलमृदुदेशे दूरतो वारितापे ।
परिकरपरिमिश्रान्धेनुगोपानधस्तादुपनिदधदधत्था हस्तपद्मेन शैलम् ॥
भवति विधृतशैले बालिकाभिर्वयस्यैर्अपि विहितविलासं केलिलापादिलोले ।
सविधमिलितधेनूरेकहस्तेन कण्दूयति सति पशुपालास्तोषमैषन्त सर्वे ॥
अतिमहान्गिरिरेषु तु वामके करसरोरुहि तं धरते चिरम् ।
किमिदमद्भुतमद्रिबलं न्विति त्वदवलोकिभिराकथि गोपकैः ॥
अहह धार्ष्ट्यममुष्य वटोर्गिरिं व्यथितबाहुरसाववरोपयेत् ।
इति हरिस्त्वयि बद्धविगर्हणो दिवससःतकमुग्रमवर्षयत् ॥
अचलति त्वयि देव पदात्पदं गलितसर्वजले च घनोत्करे ।
अपहृते मरुता मरुतां पतिस्त्वदभिशङ्कितधीः समुपाद्रवत् ॥
शममुपेयुषि वर्षभरे तदा पशुपधेनुकुले च विनिर्गते ।
भुवि विभो समुपाहितभूधरः प्रमुदितैः पशुपैः परिरेभिषे ॥
धरणिमेव पुरा धृतवानसि क्षितिधरोद्धरणे तव कः श्रमः ।
इति नुतस्त्रिदशैः कुमलापते गुरुपुरालय पालय मां गदात् ॥
आलोक्य शैलोद्धरणादिरूपं प्रभावमुच्चैस्तव गोपलोकाः ।
वीश्वेश्वरं त्वामभिमत्य विश्वे नन्दः भवज्जातकमन्वपृच्छन् ॥
गर्गोदितो निर्गदितो निजाय वर्गाय तातेन तव प्रभावः ।
पूर्वाधिक्स्त्वय्यनुराग एषामैधिष्ट तावद्बहुमानभारः ॥
ततोऽवमानोदिततत्त्वबोधः सुराधिराजः सह दिव्यगव्या ।
उपेत्य तुष्ट स नष्टगर्वः स्पृष्ट्वा पदाब्जं मणिमौलिना ते ॥
स्नेहस्तुनैस्त्वां सुरभिः पयोभिर्गोविन्दनामाङ्कितमभ्यषिञ्चत् ।
एरावतोपाहृतदिव्यगङ्गापाथोभिरिन्द्रोऽपि च जातहर्षः ॥
जगत्त्रयेशे त्वयि गोकुलेशतयाभिषिक्ते सति गोपवाटः ।
नोकेऽपि वैकुण्ठपदेऽप्यलभ्यां श्रियं प्रपेदे भवतः प्रभावात् ॥
कदाचिदन्तर्यमुनं प्रभाते स्नायन्पिता वारुणपूरुषेण ।
नीतस्तमानेतुमगाः पुरीं त्वं तां वारुणीं कारणमर्त्यरूपः ॥
ससम्भ्रमं तेन जलाधिपेन प्रपूजितस्त्वं प्रतिगृह्य तातम् ।
उपागतस्तत्क्षणमात्मगेहं पितावदत्तच्चरितं निजेभ्यः ॥
हरिं विनिश्चित्य भवन्तमेतान्भवत्पदालोकनबद्धतृष्णान् ।
निरीक्ष्य विष्णो परमं पदं तद्दुरापमन्यैस्त्वमदीदृशस्तान् ॥
स्फुरत्परानन्दरसप्रवाहप्रपूर्णकैवल्यमहापयोधौ ।
चिरं निमग्नाः खलु गोपसङ्घास्त्वयैव भूमन् पुनरुद्धृतास्ते ॥
करबदरवदेवं देव कुत्रावतारे निजपदमनवाप्यं दर्शितं भक्तिभाजाम् ।
तदिह पशुपरूपी त्वं हि साक्षात्परात्मन् पवनपुरनिवासिन् पाहि मामामयेभ्यः ॥
गोपीजनाय कथितं नियमावसाने मरोत्सवं त्वमथ साधयितुं प्रवृत्तः ।
सान्द्रेण चान्द्रमहसा शिशिरीकृताशे प्रापूरयो मुरलिकां यमुनावनान्ते ॥
सम्भूर्छनाभिरुदितस्वरमण्डलाभिः सम्मूर्छयन्तमखिलं भुवनान्तरालम् ।
त्वद्वेणुनादमुपकर्ण्य विभो तरुण्यस्तत्तादृशं कमपि चित्तविमोहमापुः ॥
ता गेहकृत्यनिरतास्तनयप्रसक्ताः कान्तोपसेवनपराश्च सरोरुहाक्ष्यः ।
सर्वं विसृज्य मुरलीरवमोहितास्ते कान्तारदेशमयि कान्ततनो समेताः ॥
काश्चिन्निजाङ्गपरिभूषणमादधाना वेणुप्रणादमुपकर्ण्य कृतार्धभूषाः ।
त्वामागता ननु तथैव विभूषिताभ्यस्ता एव संरुरुचिरे तव लोचनाय ॥
हारं नितम्बभूवि काचन धारयन्ती काञ्चीं च कण्ठभुवि देव समागता त्वाम् ।
हारित्वमात्मजघनस्य मुकुन्द तुभ्यं व्यक्तं बभाष इव मुग्धसुखी विशेषात् ॥
काचित्कुचे पुनरसज्जितकञ्चुलीका व्यामोहतः परवधूभिरलक्ष्यमाणा ।
त्वामाययौ निरुपमप्रणयातिभारराज्याभिषेकविधये कलशीधरेव ॥
काश्चिद्गृहात्किल निरेतुमपारयन्त्यस्त्वामेव देव हृदये सुदृढं विभाव्य ।
देहं विधूय परचित्सुखरूपमेकं त्वामाविशन्परमिमा ननु धन्यधन्याः ॥
जारात्मना न परमात्मतया स्मरन्त्यो नार्यो गताः परमहंसगतिं क्षणेन ।
तत्त्वां प्रकाशपरमात्मतनुं कथञ्चिच्चित्ते वहन्नमृतमश्रममश्नुवीय ॥
अभ्यागताभिरभितो व्रजसुन्दरीभिर्मुग्धास्मितार्द्रवदनः करुणावलोकी ।
निस्सीमकान्तिजलधिस्त्वमवेक्ष्यमाणो विश्वैकहृद्य हर मे परमेश रोगान् ॥
उपयातानां सुदृशां कुसुमायुधबाणपातविवशानाम् ।
अभिवाञ्छितं विधातुं कृतमतिरपि ता जगाथ वाममिव ॥
गगनगतं मुनिनिवहं श्रावयितुं जगिथ कुलवधूधर्मम् ।
धर्म्यं खलु ते वचनं कर्म तु नो निर्मलस्य विश्वास्यम् ॥
आकर्ण्य ते प्रतीपां वाणीमेणीदृशः परं दीनाः ।
मा मा करुणासिन्धो परित्यजेत्यतिचिरं विलेपुस्ताः ॥
तासां रुदितैर्लपितैः करुणाकुलमानसो मुरारे त्वम् ।
ताभिः समं प्रवृत्तो यमुनापुलिनेषु काममभिरन्तुम् ॥
चन्द्रकरस्यन्दलसत्सुन्दरयमुनातटान्तवीथीषु ।
गोपीजनोत्तरीयैरापादितसंस्तरो न्यषीदस्त्वम् ॥
सुमधुरनर्मालपनैः करसंग्रहणैश्च चुम्बनोल्लासैः ।
गाढालिङ्गनसङ्गैस्त्वमङ्गनालोकमाकुलीचकृषे ॥
वासोहरणदिने यद्वासोहरणं प्रतिश्रुतं तासाम् ।
तदपि विभो रसविवशस्वान्तानां कान्तसुभ्रुवामदधाः ॥
कन्दलितधर्मलेशं कुन्दमृदुस्मेरवक्त्रपाथोजम् ।
नन्दसुत त्वां त्रिजगत्सुन्दरमुपगूह्य नन्दिता बालाः ॥
विरहेश्वङ्गारमयः शृङ्गारमयश्च सङ्गमेऽपि त्वम् ।
नितरामङ्गारमयस्तत्र पुनः सङ्गमेऽपि चित्रमिदम् ॥
राधातुङ्गपयोधरसाधुपरिरम्भलोलुपात्मानम् ।
आराधये भवन्तं पवनपुराधीश शमय सकलगदान् ॥
स्फुरत्परानन्दरसात्मकेन त्वया समासादितभोहलीलाः ।
असीममानन्दभरं प्रपन्ना महान्तमापुर्मदमम्बुजाक्ष्यः ॥
निलीयतेऽसौ मयि मय्यमायं रमापतिर्विश्वमनोभिरामः ।
इतिस्म सर्वाः कलिताभिमाना निरीक्ष्य गोविन्द तिरोहितोऽभूः ॥
राधाभिधां तावदजातगर्वामतिप्रियां गोपवधूं मुरारे ।
भवानुपादाय गतो विदूरं तया सह स्वैरविहारकारी ॥
तिरोहितेऽथ त्वयि जाततापाः समं समेताः कमलायताक्ष्यः ।
वने वने त्वां परिमार्गयन्त्यो विषादमापुर्भगवन्नपारम् ॥
हा चूत हा चम्पक कर्णिकार हा मल्लिके मालति बालवल्ल्यः ।
किं वीक्षितो नो हृदयैकचोर इत्यादि तास्त्वत्प्रवणा विलेपुः ॥
निरीक्षितोऽयं सखि पङ्कजाक्षः पुरो ममेत्याकुलमालपन्ती ।
त्वां भावनाचक्षुषि वीक्ष्य काचित्तापं सखीनां द्विगुणीचकार ॥
त्वदात्मिकास्ता यमुनातटान्ते तवानुचक्रुः किल चेष्टितानि ।
विचित्य भूयोऽपि तथैव मानात्त्वया वियुक्तां ददृशुश्च राधाम् ॥
ततः समं ता विपिने समन्तात्तमोवतारावधि मार्गयन्त्यः ।
पुनर्विमिश्रा यमुनातटान्ते भृशं विलेपुश्च जगुर्गुणांस्ते ॥
तथाव्यथासंकुलमानसानां व्रजाङ्गनानां करुणैकसिन्धो ।
जगत्त्रयीमोहनमोहनात्मा त्वं प्रादुरासीरयि मन्दहासी ॥
सन्दिग्धसन्धर्शनमात्मकान्तं त्वां वीक्ष्य तन्व्यः सहसा तदानीम् ।
किं किं न चक्रुः प्रमदातिभारात्स त्वं गदात्पालय मारुतेश ॥
तव विलोकनाद्गोप्पिकाजनाः प्रमदसंकुलाः पङ्कजेक्षण ।
अमृतधारय संप्लुता इव स्तिमिततां दधुस्त्वत्पुरोगताः ॥
तदनु काचन त्वत्कराम्बुजं सपदि गृह्णती निर्विशङ्कितम् ।
घनपयोधरे सन्निधाय सा पुलकसंवृता तस्थुषी चिरम् ॥
तव विभो पुरा कोमलं भुजं निजगलान्तरे पर्यवेष्टयत् ।
गलसमुद्गतं प्राणमारुतं प्रतिनिरुन्धतीवातिहर्षुला ॥
अपगतत्रपा कापि कामिनी तव मुखाम्बुजात्पूगचर्वितम् ।
प्रतिगृहय्य तद्वक्त्रपङ्कजे निदधती गता पूर्णकामताम् ॥
विकरुणो वने संविहाय मामपगतोऽसि का त्वामि स्पृशेत् ।
इति सरोषया तवदेकया सजललोचनं वीक्षितो भवान् ॥
इति मुदाकुलैर्वल्लवीजनैः सममुपागतो यामुने तटे ।
मृदुकुचाम्बरैः कल्पितासने घुसृणभासुरे पर्यशोभथाः ॥
कतिविधा कृपा केऽपि सर्वतो धृतदयोदयाः केचिदाश्रिते ।
कतिचिदीदृशा मादृशेष्वत्पीत्यभिहितो भवान्वल्लवीजनैः ॥
अयि कुमारिका नैव शङ्क्यतां कठिनता मयि प्रेमकातरे ।
मयि यु चेतसो वोऽनुवृत्तये कृतमिदं मयेत्युचिवान्भवान् ॥
अयि निशम्यतां जीववल्लभाः प्रियतमो जनो नेदृशो मम ।
तदिह रम्यतां रम्ययामिनीष्वनुपरोधमित्यालपो विभो ॥
इति गिराधिकं मोदमेदुरैर्व्रजवधूजनैः साकमारमन् ।
कलितकौतुको रासखेलने गुरुपुरीपते पाहि मां गदात् ॥
केशपाशधृतपिच्छिकावितति सञ्चलन्मकरकुण्डलं
हारजालवनमालिकाललितमङ्गरागघनसौरभम् ।
पीतचेलधृतकाञ्चिकाञ्चितमुदञ्चदंशुमणिनूपुरं
रासकेलिपरिभूषितं तव हि रूपमीश कलयामहे ॥
तावदेव कृतमण्डने कलितकञ्चुलीककुचमण्डले
गण्डलोलमणिकुण्डले युवतिमण्डलेऽथ परिमण्डले ।
अन्तरा सकलसुन्दरीयुगलमिन्दिरारमण सञ्चरन्
मञ्जुलां तदनु रासकेलिमयि कञ्जनाभ समुपादधाः ॥
वासुदेव तव भासमानमिह रासकेलिरससौरभं
दूरतोऽपि खलु नारदागदितमाकलय्य कुतुकाकुला ।
वेषभूषणविलासपेशलविलासिनीशतसमावृता
नाकतो युगपदागता वियति वेगतोऽथ सुरमण्डली ॥
वेणुनादकृततानदानकलगानरागगतियोजना-
लोभनीयमृदुपादपातकृततालमेलनमनोहरम् ।
पाणिसंक्वणितकङ्कणं च मुहुरंसलम्बितकराम्बुजंष्
श्रोणिबिम्बचलदम्बरं भजत रासकेलिरसडम्बरम् ॥
श्रद्धया विरचितानुगानकृततारतारमधुरस्वरे
नर्तनेऽथ ललिताङ्गहारलुलिताङ्गहारमणिभूषणे ।
सम्मदेन कृतपुष्पवर्षमलमुन्मिषद्दिविषदां कुलं
चिन्मये त्वयि निलीयमानमिव संमुमोह सवधूकुलम् ॥
स्विन्नसन्नतनुवल्लरी तदनु कापि नाम पशुपाङ्गना
कान्तमंसमवलम्बते स्म तव तान्तिभारमुकुलेक्षणा ।
काचिदाचलितकुन्तला नवपटीरसारनवसौरभं
वञ्चनेन तव सञ्चुचुम्ब भुजमञ्चितोरुपुलकाङ्कुरम् ॥
कापि गण्डभुवि सन्निधाय निजगण्डमाकुलितकुण्डलं
पुण्यपूरनिधिरन्ववाप तव पूगचर्वितरसामृतम् ।
इन्दिराविहृतिमन्दिरं भुवनसुन्दरं हि नटनान्तरे
त्वामवाप्य दधुरङ्गनाः किमु न सम्मदोन्मददशान्तरम् ॥
गानमीश विरतं क्रमेण किल वाद्यमेलनमुपारतं
ब्रह्मसम्मदरसाकुलाः सदसि केवलं ननृतुरङ्गनाः ।
नाविदन्नपि च नीविकां किमपि कुन्तलीमपि च कञ्चुलीं
ज्योतिषामपि कदम्बकं दिवि विलम्बितं किमपरं ब्रुवे ॥
मोदसीम्नि भुवनं विलाप्य विहृतिं समाप्य च ततो विभो
केलिसम्प्तृदितनिर्मलाङ्गनवघर्मलेशसुभगात्मनाम् ।
मन्मथासहनचेतसां पशुपयोषितां सुकृतचोदितस्-
तावदाकलितमूर्तिरादधिथ मारवीरपरमोत्सवान् ॥
केलिभेदपरिलोलिताभिरतिलालिताभिरबलालिभिः
स्वैरमीश ननु सूरजापयसि चारु नाम विहृतिं व्यधाः ।
काननेऽपि च विसारिशीतलकिशोरमारुतमनोहरे
सूनसौरभमये विलेसिथ विलासिनीशतविमोहनम् ॥
कामिनीरिति हि यामिनीषु खलु कामनीयकनिधे भवान्
पूर्णसम्मदरसार्णवं कमपि योगिगम्यमनुभावयन् ।
ब्रह्मशङ्करमुखानपीह पशुपाङ्गनासु बहुमानयन्
भक्तलोकगमनीयरूप कमनीय कृष्ण परिपाहि माम् ॥
इति त्वयि रसाकुलं रमितवल्लभे वल्लवाः कदापि पुनरम्बिकाकमितुरम्बिकाकानने ।
समेत्य भवता समं निशि निषेव्य दिव्योत्सवं सुखं सुषुपुरग्रसीद्व्रजपमुग्रनागस्तदा ॥
समुन्मुखमथोल्मुकैरभिहतेऽपि तस्मिन्बलादमुञ्चति भवत्पदे न्यपति पाहि पाहीति तैः ।
तदा खलु पदा भवान्समुपगम्य पस्पर्श तं बभौ स च निजां तनुं समुपसाद्य वैद्याधरीम् ॥
सुदर्शनधर प्रभो ननु सुदर्शनाख्योऽस्म्यहं सुनीन्क्वचिदपाहसं त इह मां व्यधुर्वाहसम् ।
भवत्पदसमर्पणादमलतां गतोऽस्मीत्यसौ स्तुवन्निजपदं ययौ व्रजपदं च गोपा मुदा ॥
कदापि खलु सीरिणा विहरति त्वयि स्त्रीजनैर्जहार्धनदानुगः स किल शङ्खचूडोऽबलाः ।
अतिद्रुतमनुद्रुतस्तमथ मुक्तनारीजनं रुरोजिथ शिरोमणिं हलभृते च तस्याददाः ॥
दिनेषु च सुहृज्जनैः सह वनेषु लीलापरं मनोभवमनोहरं रसितवेणुनादामृतम् ।
भवन्तममरीदृशाममृतपारणादायिनं विचिन्त्य किमु नालपन्विरहतापिता गोपिकाः ॥
भोजराजभृतकस्त्वथ कश्चित्कष्टदुष्टपथदृष्टिररिष्टः ।
निष्ठुराकृतिरपष्ठुनिनादस्तिष्ठते स्म भवते वृषरूपी ॥
शाक्वरोऽथ जगतीधृतिहारी मूर्तिमेष बृहतीं प्रदधानः ।
पङ्क्तिमाशु परिघूर्ण्य पशूनां छन्दसां निधिमवाप भवन्तम् ॥
तुङ्गशृङ्गमुखमाश्वभियन्तं ससङ्गृहय्य रभसादभियं तम् ।
भद्ररूपमपि दैत्यमभद्रं मर्दयन्नमदयः सुरलोकम् ॥
चित्रमद्य भगवन् वृषघातात्सुस्थिराजनि वृषस्थितिरुर्व्याम् ।
वर्धते च वृषचेतसि भूयान्मोद इत्यभिनुतोऽसि सुरस्त्वम् ॥
औक्षकाणि परिधावत दूरं वीक्ष्यतामयमिहोक्षविभेदी ।
इत्थमात्तहसितैः सह गोपैर्गेहगस्त्वमव वातपुरेश ॥
यत्नेषु सर्वेष्वपि नावकेशी केशी स भोजेशितुरिष्टबन्धुः ।
त्वं सिन्धुजावाप्य इतीव मत्वा संप्राप्तवान्सिन्धुजवाजिरूपः ॥
गन्धर्वतामेष गतोऽपि रूक्षैर्नादैः समुद्वेजितसर्वलोकः ।
भवद्विलोकावधि गोपवाटीं प्रमर्द्य पापः पुनरा पतत्त्वाम् ॥
तार्क्ष्यार्पिताङ्घ्रेस्तव तार्क्ष्य एष चिक्षेप वक्षोभुवि नाम पादम् ।
भृगोः पदाघातकथं निशम्य स्वेनापि शक्यं तदितीव मोहात् ॥
प्रवञ्चयन्नस्य खुराञ्चलं द्रागमुं च विक्षेपिथ दूरदूरम् ।
संमूर्छितोऽपि हतिमूर्छितेन क्रोधोष्मणा खादितुमाद्रुतस्त्वाम् ॥
त्वं वाहदण्डे कृतधीश्च बाहादण्डं न्यधास्तस्य मुखे तदानीम् ।
तद्वृद्धिरुद्धश्वसनो गतासुः सप्तीभवन्नप्ययमैक्यमागात् ॥
आलम्भमात्रेण पशोः सुराणां प्रसादके नूत्न इवाश्वमेधे ।
कृते त्वया हर्षवशात्सुरेन्द्रास्त्वां तुष्टुषुः केशवनामधेयम् ॥
कंसाय ते शौरिसुतत्वमुक्त्वा तं तद्वधोत्कं प्रतिरुध्य वाचा ।
प्राप्तेन केशिक्षपणावसाने श्रीनारदेन त्वमभिष्टुतोऽभूः ॥
कदापि गोपैः सह काननान्ते निलायनक्रीडनलोलुपं त्वाम् ।
मयात्मजः प्राप दुरन्तमायो व्योमाभिधो व्योमचरोपरोधी ॥
स चोरपालायितवल्लवेषु चोरायितो गोपशिशून्पशूंश्च ।
गुहासु कृत्वा पिदधे शिलाभिस्त्वया च बुद्ध्वा परिमर्दितोऽभूत् ॥
एवंविधैश्चाद्भुतकेलिभेदैरानन्दमूर्छामतुलां व्रजस्य ।
पदे पदे नूतनयन्नसीमं परात्मरूपिन् पवनेश पायाः ॥
कंसोऽथ नारदगिरा व्रजवासिनं त्वामाकर्ण्य दीर्णहृदयः स हि गान्दिनेयम् ।
आहूय कार्मुकमखच्छलतो भवन्तमानेतुमेनमहिनोदहिनाथशायिन् ॥
अक्रूर एष भवदङ्घ्रिपरश्चिराय त्वद्दर्शनाक्षममनाः क्षितिपालभीत्या ।
तस्याज्ञयैव पुनरीक्षितुमुद्यतस्त्वाम्आनन्दभारमतिभूरितरं बभार ॥
सोऽयं रथेन सुकृती भवतो निवासं गच्छन्मनोरथगणांस्त्वयि धार्यमाणान् ।
आस्वादयन्मुहुरपायभयेन दैवं संप्रार्थयन्पथि न किञ्चिदपि व्यजानात् ॥
द्रक्ष्यामि देवशतगीतगतिं म्पुमांसं स्प्रक्ष्यामि किंस्विदपिनाम परिष्वजेय ।
किं वक्ष्यते स खलु मां क्व नु वीक्षितः स्यादित्थं निनाय स भवन्मयमेव मार्गम् ॥
भूयः क्रमादभिविशन्भवदङ्घ्रिपूतं बृन्दावनं हरविरिञ्चसुराभिवन्द्यम् ।
आनन्दमग्न इव लग्न इव प्रमोहे किं किं दशान्तरमवाप न पङ्कजाक्ष ॥
पश्यन्नवन्दत भवद्विहृतिस्थलानि पांसुष्ववेष्टत भवच्चरणाङ्कितेषु ।
किं ब्रूमहे बहुजना हि तदापि जाता एवं तु भक्तिरला विरलाः परात्मन् ॥
सायं स गोपभवनानि भवच्चरित्रगीतामृतप्रसृतकर्णरसायनानि ।
पश्यन्प्रमोदसरितेव किलोह्यमानो गच्छन्भवद्भवन न्निधिमन्वयासीत् ॥
तावद्ददर्श पशुदोहविलोकलोलं भक्तोत्तमागतिमिव प्रतिपालयन्तम् ।
भूमन् भवन्तमयमग्रजवन्तमन्तर्ब्रह्मानुभूतिरससिन्धुमिवोद्वमन्तम् ॥
सायन्तनाप्लवविशेषविविक्तगात्रौ द्वौ पीतनीलरुचिराम्बरलोभनीयौ ।
नातिप्रपञ्चधृतभूषणचारुवेषौ मन्दस्मितार्द्रवदनौ स युवां ददर्श ॥
दूराद्रथात्समवरुह्य नमन्तमेनमुत्थाप्य भक्तकुलमौलिमथोपगूहन् ।
हर्षान्मिताक्षरगिरा कुशलानुयोगी पाणिं प्रग्र्ह्य सबलोऽथ गृहं निनेथ ॥
नन्देन साकममितादरमर्चयित्वा तं यादवं तदुदितां निशमय्य वार्ताम् ।
गोपेषु भूपतिनिदेशकथां निवेद्य नानाकथाभिरिह तेन निशामनैषीः ॥
चन्द्रागृहे किमुत चन्द्रभगागृहे नु राधागृहे नु भवने किमु मैत्रविन्दे ।
धूर्त्तो विलम्बत इति प्रमदाभिरुच्चैराशङ्कितो निशि मरुत्पुरनाथ पायाः ॥
मिशमय्य तवाथ यानवार्तां भृशमार्ताः पशुपालबालिकास्ताः ।
किमिदं किमिदं कथं न्वितीमाः समवेताः परिदेवितान्यकुर्वन् ॥
करुणानिधिरेषु नन्दसूनुः कथमस्मान्विसृजेदनन्यनाथाः ।
बत नः किमु दैवमेवमासीदिति तास्त्वद्गतमानसा विलेपुः ॥
चरमप्रहरे प्रतिष्ठमानः सह पित्रा निजमित्रमण्डलैश्च ।
परितापभरं नितम्बिनीनां शमयिष्यन्व्यमुचः सखायमेकम् ॥
अचिरादुपयामि सन्निधिं वो भविता साधु मयैव सङ्गमश्रीः ।
अमृताम्बुनिधौ निमज्जयिष्ये द्रुतमित्याश्वसिता वधूरकार्षीः ॥
सविषादभरं सयाञ्चमुच्चैरतिदूरं वनिताभिरीक्ष्यमाणः ।
मृदु तद्दिशि पातयन्नपाङ्गान्सबलोऽक्रूररथेन निर्गतोऽभूः ॥
अनसा बहुलेन वल्लवानां मनसा चनुगतोऽथ वल्लभानाम् ।
वनमार्तभृगं विषण्णवृक्षं समतीतो यमुनातटीमयासीः ॥
मियमाय निमज्ज्य वारिणि त्वमभिवीक्ष्याथ रथेऽपि गान्दिनेयः ।
विवशोऽजनि किन्न्विदं विभोस्ते ननु चित्रं त्ववलोकनं समन्तात् ॥
पुनरेष निमज्ज्य पुण्यशाली पुरुषं त्वां परमं भुमङ्गभोगे ।
अरिकम्बुगदाम्बुजैः स्फुरन्तं सुरसिद्धोघपरीतमालुलोके ॥
स तदा परमात्मसौख्यसिन्धौ विनिमग्नः प्रणुवन्प्रकारभेदैः ।
अविलोक्य पुनश्च हर्षसिन्धोरनुवृत्त्या पुलकावृतो ययौ त्वाम् ॥
किमु शीतलिमा महान्जले यत्पुलकोऽसाविति चोदितेन तेन ।
अतिहर्षनिरुत्तरेण सार्धं रथवासी पवनेश पाहि मां त्वम् ॥
सम्प्राप्तो मथुरां दिनार्धविगमे तत्रान्तरस्मिन्वसन्नारामे विहिताशनः सखिजनैर्यातः पुरीमीक्षितुम् ।
प्रापो राजपथं चिरश्रुतिधृतव्यालोककौतूहलस्त्रीपुंसोद्यदगण्यपुण्यनिगलैराकृष्यमाणो नु किम् ॥
त्वत्पादद्दुतिवत्सरागसुभगास्त्वन्मूर्तिवद्योषितः सम्प्राप्ता विलसत्पयोधररुचो लोला भवद्दृष्टिवत् ।
हारिण्यस्त्वदुरस्स्थलीवदयि ते मन्दस्मितप्रौढिवन्नैर्मल्योल्लसिताः कचौघरुचिवद्राजत्कलापाश्रिताः ॥
तासामाकलयन्नपाङ्गवलनैर्मोदं प्रहर्षाद्भुतव्यालोलेषु जनेषु तत्र रजकं कञ्चित्पटीं प्रार्थयन् ।
कस्ते दास्यति राजकीयवसनं याहीति तेनोदितः सद्यस्तस्य करेण शीर्षमहृथाः सोऽप्याप पुण्यां गतिम् ॥
भूयो वायकमेकमायतमतिं तोषेण वेषोचितं दाश्वांसं स्वपदं निनेथ सुकृतं को वेद जीवात्मनाम् ।
मालाभिः स्तबकैः स्तवैरपि पुनर्मालाकृता मानितो भक्तिं तेन वृतां दिदेशिथ परां लक्ष्मीं च लक्ष्मीपते ॥
कुब्जामब्जविलोचनां पथि पुनर्दृष्ट्वाङ्गरागे तया दत्ते साधु किलाङ्गरागमददास्तस्या महान्तं हृदि ।
चित्तस्थामृजुतामथ प्रथयितुं गात्रेऽपि तस्याः स्फुटं गृह्णन्मञ्जु करेण तामुदनयस्तावज्जगत्सुन्दरीम् ॥
तावन्निश्चितवैभवास्तव विभो नात्यन्तपापा जना यत्किञ्चिद्ददते स्म शक्त्यनुगुणं ताम्बुलमाल्यादिकम् ।
गृह्णानः कुसुमादि किञ्चन तदा मार्गे निबद्धाञ्जलिर्नातिष्ठं बत यतोऽद्य विपुलामार्तिं व्रजामि प्रभो ॥
एष्यामीति विमुक्तयापि भगवन्नालेपदात्र्या तया दूरात्कातरया निरीक्षितगतिस्त्वं प्राविशो गोपुरम् ।
आघोषानुमितत्वदागममहाहर्षोल्ललद्देवकीवक्षोजप्रगलत्पयोरसमिषात्त्वत्कीर्तिरन्तर्गता ॥
आविष्टो नगरीं महोत्सववतीं कोदण्डशालां व्रजन् माधुर्येण नु तेजसा नु पुरुषैर्दूरेण दत्तान्तरः ।
स्रग्भिर्भूषितमर्चितं वरधनुर्मा मेति वादात्पुरः प्रागृह्णाः समरोपयः किल समाक्राक्षीरभाङ्क्षीरपि ॥
श्वः कंसक्षपणोत्सवस्य पुरतः प्रारम्भतूर्योपमश्चापध्वंसमहाध्वनिस्तव विभो देवानरोमाञ्चयत् ।
कंसस्यापि च वेपथुस्तदुदितः कोदण्डखण्डद्वयीचण्डाभ्याहतरक्षिपूरुषरवैरुत्कूलितोऽभूत्त्वया ॥
शिष्टैर्दुष्टजनैश्च दृष्टमिहिमा प्रीत्या च भीत्या ततः संपश्यन्पुरसम्पदं प्रविवरन्सायं गतो वाटिकाम् ।
श्रीदाम्ना सह राधिकाविरहजं खेदं वदन्प्रस्वपन्नानन्दन्नवतारकार्यघटनाद्वातेश संरक्ष माम् ॥
प्रातः सन्त्रस्तभोजक्षितिपतिवचसा प्रस्तुते मल्लतूर्ये सङ्घे राज्ञां च मञ्चानभिययुषि गते नन्दगोपेऽपि हर्म्यम् ।
कंसे सौधाधिरूढे त्वमपि सहबलः सानुगश्चारुवेषो रङ्गद्वारं गतोऽभूः कुपितकुवलयापीडनागावलीढम् ॥
पापिष्ठापेहि मार्गाद्द्रुतमिति वचसा निष्टुरक्रुद्धबुद्धेरग्बष्ठस्य प्रणोदादधिकजवजुषा हस्तिना गृह्यमाणः ।
केलीमुक्तोऽथ गोपीकुचकलशचिरस्पर्धिनं कुम्भमस्य व्याहत्यालीयथास्त्वं चरणभुवि पुनर्निर्गतो वल्गुहासी ॥
हस्तप्राप्योऽप्यगम्यो झटिति मुनिजनस्येव धावन्गजेन्द्रं क्रीडन्नापत्य भूमौ पुनरभिपततस्तस्य दन्तं सजीवम् ।
मूलादुन्मूल्य तन्मूलगमहितमहामौक्तिकान्यात्ममित्रे प्रादास्त्वं हारमेभिर्ललितविरचितं राधिकायै दिशेति ॥
गृह्णानं दन्तमंसे युतमथ हलिना रङ्गमङ्गाविशन्तं त्वां मङ्गल्याङ्गभङ्गीरभसहृतमनोलोचना वीक्ष्य लोकाः ।
हंहो धन्यो नु नन्दो नहि नहि पशुपालाङ्गना नो यशोदा नो नो धन्येक्षणाः स्मस्त्रिजगति वयमेवेति सर्वे शशंसुः ॥
पूर्णं ब्रह्मैव साक्षान्निरवधिपरमानन्दसान्द्रप्रकाशं गोपेषु त्वं व्यलासीर्न खलु बहुजनैस्तावदावेदितोऽभूः ।
दृष्ट्वाथ त्वां तदेदंप्रथममुपगते पुण्यकाले जनौघाः पूर्णानन्दा विपापाः सरसमभिजगुस्त्वत्कृतानि स्मृतानि ॥
चाणूरो मल्लवीरस्तदनु नृपगिरा मुष्टिको मुष्टिशाली त्वां रामं चाभिपेदे झटझटिति मिथो मुष्टिपातातिरूक्षम् ।
उत्पातापातनाकर्षणविविधरणान्यासतां तत्र चित्रं मृत्योः प्रागेव मल्लप्रभुरगमदयं भूरिशो बन्धमोक्षान् ॥
हा धिक्कष्टं कुमआरौ सुललितवपुषौ मल्लवीरौ कठोरौ न द्रक्ष्यामो व्रजामस्त्वरितमिति जने भाषमाणे तदानीम् ।
चाणूरं तं कराद्भ्रामणविगलदसुं पोथयामासिथोर्व्यां पिष्टोऽभून्मुष्टिकोऽपि द्रुतमथ हलिना नष्टशिष्टैर्दधावे ॥
कंसः संवार्यं त्ङ्र्यं खलमतिरविदन्कार्यमार्यान्पित्ंस्ता नाहन्तुं व्याप्तमूर्तेस्तव च ।
समशिषद्मञ्चमञ्चन्नुदञ्चतखङ्गव्यावल्गदुस्संग्रहमपि च हठात्प्राग्रहीरौग्रसेनिम् ॥
सद्यो निष्पिष्टसन्धिं भुवि नरपतिमापात्य तस्योपरिष्टात् त्वय्यापात्ये तदैव त्वदुपरि पतिता नाकिनां पुष्पवृष्टिः ।
किं किं ब्रूमस्तदानीं सततमपि भिया त्वद्गतात्मा स भेजे सायुज्यं त्वद्वधोत्था परम परमियं वासना कालनेमेः ॥
तद्भ्रात्नष्ट पिष्ट्वा द्रुतमथ पितरौ सन्नमन्नुग्रसेनं कृत्वा राजानमुच्चैर्यदुकुलमखिलं मोदयन्कामदानैः ।
भक्तानामुत्तमं चोद्धवममरगुरोराप्तनीतिं सखायं लब्ध्वा तुष्टो नगर्यां पवनपुरपते रुन्धि मे सर्वरोगान् ॥
गत्वा सान्दीपनिमथ चतुष्षष्टिमात्रैरहोभिः सर्वज्ञस्त्वं सह मुसलिना सर्वविद्यां गृहीत्वा ।
पुत्रं नष्टं यमनिलयनादाहृतं दक्षिणार्थं दत्त्वा तस्मै निजपुरमगा नादयन्पाञ्चजन्यम् ॥
स्मृत्वा स्मृत्वा पशुपसुदृशः प्रेमभारप्रणुन्नाः कारुण्येन त्वमपि विवशः प्रहिणोरुद्धवं तम् ।
किञ्चामुष्मै परमसुहृदे भक्तवर्याय तासां भक्त्युद्रेकं सकलभुवने दुर्लभं दर्शयिष्यन् ॥
त्वन्माहात्म्यप्रथिमपिशुनं गोकुलं प्राप्य सायं त्वद्वार्ताभिर्बहु स रमयामास नन्दं यशोदाम् ।
प्रातर्दृष्ट्वा मणिमयरथं शङ्किताः पङ्कजाक्ष्यः श्रुत्वौ प्राप्तं भवदनुचरं त्यक्तकार्याः समीयुः ॥
दृष्ट्वा चैनं त्वदुपमलसद्वेषभूषाभिरामं स्मृत्वा स्मृत्वा तव विलसितान्युच्चकैस्तानि तानि ।
रुद्धालापाः कथमपि पुनर्गद्गदां वाचमूचुः सौजन्यादीन्निजपरभिदामप्यलं विस्मरन्त्यः ॥
श्रीमन् किं त्वं पितृजनकृते प्रेषितो निर्दयेन क्वासौ कान्तो नगरसुदृशां हा हरे नाथ पायाः ।
आश्लेषाणाममृतवपुषो हन्त ते चुम्बनानामुन्मादानां कुहकवचसां विस्मरेत्कान्त का वा ॥
रासक्रीडालुलितललितं विश्लथत्केशपाशं मन्दोद्भिन्नश्रमजलकणं लोभनीयं त्वदङ्गम् ।
कारुण्याब्धे सकृदपि समालिङ्गितुं दर्शयेति प्रेमोन्मादाद्भुवनमदन त्वत्प्रियास्त्वां विलेपुः ॥
एवम्प्रायैर्विवशवचनैराकुला गोपिकास्तास्त्वत्सन्देशैः प्रकृतिमनयत्सोऽथ विज्ञानगर्भैः ।
भूयस्ताभिर्मुदितमतिभिस्त्वन्मयीभिर्वधूभिस्तत्तद्वार्तासरसमनयत्कानिचिद्वासराणि ॥
त्वत्प्रोद्गाणैः सहितमनिशं सर्वतो गेहकृत्यं त्वद्वार्तैव प्रसरति मिथः सैव चोत्स्वापलापाः ।
चेष्टाः प्रायस्त्वदनुकृतयस्त्वन्मयं सर्वमेवं दृष्ट्वा तत्र व्यमुहदधिकं विस्मयादुद्धवोऽयम् ॥
राधाया मे प्रियतममिदं मत्प्रियैवं ब्रवीति त्वं किं मौनं कलयसि सखे मानिनी मत्प्रियेव ।
इत्याद्येव प्रवदति सखि त्वत्प्रियो निर्जने मामित्थंवादैररमयदयं त्वत्प्रियामुत्पलाक्षीम् ॥
एष्यामि द्रागनुपगमनं केवलं कार्यभाराद् विश्लेषेऽपि स्मरणदृढतासम्भवान्मास्तु खेदः ।
ब्रह्मानन्दे मिलति नचिरात्सङ्गमो वा वियोगस्तुल्यो वः स्यादिति तव गिरा सोऽकरोन्निर्व्यथास्ताः ॥
एवं भक्तिः सकलभुवने नेशिता न श्रुता वा किं शास्त्रौघैः किमिह तपसा गोपिकाभ्यो नमोऽस्तु ।
इत्यानन्दाकुलमुपगतं गोकुलादुद्धवं तं दृष्ट्वा हृष्टो गुरुपुरपते पाहि मामामयौघात् ॥
सैरन्ध्र्यास्तदनु चिरं स्मरातुराया यातोऽभूः सललितमुद्धवेन सार्धम् ।
आवासं त्वदुपगमोत्सवं सदैव ध्यायन्त्याः प्रतिदिनवाससज्जिकायाः ॥
उपगते त्वयि पूर्णमनोरथां प्रमदसम्भ्रमकम्प्रपयोधरा ।
विविधमाननमादधतीं मुदा रहसि तां रमयञ्चकृषे सुखम् ॥
पृष्टा वरं पुनरसाववृणोद्वराकी भूयस्त्वया सुरतमेव निशान्तरेषु ।
सायुज्यमस्त्विति वदेद्बुध एव कामं सामीप्यमस्त्वनिशामित्यपि नाब्रवीत्किम् ॥
ततो भवान्देव निशासु कासुचिन्मृगीदृशं तां निभृतं विनोदयन् ।
अदादुपश्लोक इति श्रुतं सुतं स नारदात्सात्त्वततन्त्रविद्बभौ ॥
अक्रूरमन्दिरमितोऽथ बलोद्धवाभ्यामभ्यर्चितो बहु नुतो मुदितेन तेन ।
एनं विसृज्य विपिनागतपाण्डवेय वृत्तं विवेदिथ तथा धृतराष्ट्रचेष्टाम् ॥
विघाताज्जामातुः परमसुहृदो भोजनृपतेर्जरासन्धे रुन्धत्यनवधिरुषान्धेऽथ मथुराम् ।
रथाद्यैर्द्योलब्धैः कतिपयबलस्त्वं बलयुतस्त्रयोविंशत्यक्षौहिणि तदुपनीतं समहृथाः ॥
बद्धं बलादथ बलेन बलोत्तरं त्वं भूयो बलोद्यमरसेन मुमोचिथैनम् ।
निश्शेषदिग्जयसमाहृतविश्वसैन्यात् कोऽन्यस्ततो हि बलपौरुषवांस्तदानीम् ॥
भग्नः स लग्नहृदयोऽपि नृपैः प्रणुन्नो युद्धं त्वया व्यधित षोडशकृत्व एवम् ।
अक्षौहिणीः शिव शिवास्य जघन्थ विष्णो सम्भूय सैकनवतित्रिशतं तदानीम् ॥
अष्टादशेऽस्य समरे समुपेयुषि त्वं दृष्ट्वा पुरोऽथ यवनं यवनत्रिकोट्या ।
त्वष्ट्रा विधाप्य पुरमाशु पयोधिमध्ये तत्राथ योगबलतः स्वजनाननैषीः ॥
पद्भ्यां त्वं पद्ममाली चकितिव पुरान्निर्गतो धावमानो म्लेच्छेशेनानुयातो वधसुकृतविहीनेन शैले न्यलैषीः ।
सुप्तेनाङ्घ्र्याहतेन द्रुतमथ मुचुकुन्देन भस्मीकृतेऽस्मिन् भूपायास्मै गुहान्ते सुललितवपुषा तस्थिषे भक्तिभाजे ॥
एक्ष्वाकोऽहं विरक्तोऽस्म्यखिलनृपसुखे त्वत्प्रसादैककाङ्क्षी हा देवेति स्तुवन्तं वरविततिषु तं निस्पृहं वीक्ष्य हृष्यन् ।
मुक्तेस्तुल्यां च भक्तिं धुतसकलमलं मोक्षमप्याशु दत्त्वा कार्यं हिंसाविशुद्ध्यै तप इति च तदा प्रार्थ लोकप्रतीत्यै ॥
तदनु मथुरां गत्वा हत्वा चमूं यवनाहृतां मगधपतिना मार्गे सैन्यैः पुरेव निवारितः ।
चरमविजयं दर्पायास्मै प्रदाय पलायितो जलधिनगरीं यातो वातालयेश्वर पाहि माम् ॥
त्रिदिववर्धकिवर्धितकौशलं त्रिदश्दत्तसमस्तविभूतिमत् ।
जलधिमध्यगतः त्वमभूषयो नवपुरं वपुरञ्चितरोचिषा ॥
ददुषि रेवतभुभृति रेवतीं हलभृते तनयां विधिशासनात् ।
महितमुत्सवघोषमपूपुषः समुदितैर्मुदितैः सह यादवैः ॥
अथ विदर्भसुतां खलु रुक्मिणीं प्रणयिणीं त्वयि देव सहोदरः ।
स्वयमदित्सत चेदिमहीभुजे स्वतमसा तमसाधुमुपाश्रयन् ॥
चिरधृतप्रणया त्वयि बालिका सपदि काङ्क्षितभङ्गसमाकुला ।
तव निवेदयितुं द्विजमादिशत्स्वकदनं कदनङ्गविनिर्मितम् ॥
द्विजसुतोऽपि च तूर्णमुपाययौ तव पुरं हि दुराशदुरासदम् ।
मुदमवाप च सादरपूजितः स भवता भवतापहृता स्वयम् ॥
स च भवन्तमवोचत कुण्डिने नृपसुता खलु राजति रुक्मिणी ।
त्वयि समुत्सुकया निजधीरतारहितया हि तया प्रहितोऽस्म्यहम् ॥
तव हृतास्मि पुरैव गुणैरहं हरति मां किल चेदिनृपोऽधुना ।
अयि कृपालय पालय मामिति प्रजगदे जगदेकपते तया ॥
अशरणां यदि मां त्वमुपेक्षसे सपदि जीवितमेव जाहाम्यहम् ।
इति गिरा सुतनोरतनोद्भृशं सुहृदयं हृदयं तव कातरम् ॥
अकथयस्त्वमथैनमये सखे तदधिका मम मन्मथवेदना ।
नृपसमक्षमुपेत्य हराम्यहं तदयि तां दयितामसितेक्षणाम् ॥
प्रमुदितेन च तेन समं तदा रथगतो लघु कुण्डिनमेयिवान् ।
गुरुमरुत्पुरनायक मे भवान्वितनुतां तनुतां निखिलापदाम् ॥
बलसमेतबलानुगतो भवान्पुरमगाहत भीष्मकमानितः ।
द्विजसुतं त्वदुपागमवादिनं धृतरसा तरसा प्रणनाम सा ॥
भुवनकान्तमवेक्ष्य भवद्वपुर्नृपसुतस्य निशम्य च चेष्टितम् ।
विपुलखेदजुषां पुरवासिनां सरुदितैरुदितैरगमन्निशा ॥
तदनु वन्दितुमिन्दुमुखी शिवां विहितमङ्गलभूषणभासुरा ।
निरगमद्भवदर्पितजीविता स्वपुरतः पुरतः सुभटावृता ॥
कुलवधूभिरुपेत्य कुमारिका गिरिसुतां परिपूज्य च सादरम् ।
मुहुरयाचत तत्पदपङ्कजे निपतिता पतितां तव केवलम् ॥
समवलोक्य कुतुहलसङ्कुले नृपकुले निभृतं त्वयि च स्थिते ।
नृपसुता निरगाद्गिरिजालयात्सुरुचिरं रुचिरञ्जितदिङ्मुखा ॥
भुवनमोहनरूपरुचा तदा विवशिताखिलराजकदम्बया ।
त्वमपि देव कटाक्षविमोक्षणैः प्रमदया मदयाञ्चकृषे मनाक् ॥
क्व तु गमिष्यसि चन्द्रमुखीति तां सरसमेत्य करेण हरन्क्षणात् ।
समधिरोप्य रथं त्वमपाहृथा भुवि ततो विततो निनदो द्विषाम् ॥
क्व नु गतः पशुपाल इति क्रुधा कृतरणा यदुभिश्च जिता नृपाः ।
न तु भवानुदचाल्यत तैरहो पिशुनकैः शुनकैरिव केसरी ॥
तदनु रुक्मिणमागतमाहवे वधमुपेक्ष्य निबध्य विरूपयन् ।
हृतमदं परिमुच्य बलोक्तिभिः पुरमया रमया सह कान्तया ॥
नवसमागमल्ज्जितमानसां प्रणयकौतुकजृम्भितमन्मथाम् ।
अरमयः खलु नाथ यथासुखं रहसि तां हसितांशुलसन्मुखीम् ॥
विविधनर्म भिरेवमहर्निशं प्रमदमाकलयन्पुनरेकदा ।
ऋजुमतेः किल वक्रागिरा भवान्वरतनोरतनोदतिलोलताम् ॥
तदधिकैरथ लालनकौशलैः प्रणयिनीमधिकं रमयन्निमाम् ।
अयि मुकुन्द भवच्चरितानि नः प्रगदतां गदतान्तिमपाकुरु ॥
सत्राजितस्त्वमथ लुब्धवदर्कलब्धं दिव्यं स्पमन्तकमणिं भगवन्नयाचीः ।
तत्कारणं बहुविधं मम भाति नूनं तस्यात्मजां त्वयि रतां छलतो विवोढुम् ॥
अदत्तं तं तुभ्यं मणिवरमनेनाल्पमनसा प्रसेनस्तद्भ्राता गलभुवि वहन्प्राप्मृगयाम् ।
अहन्नेनं सिंहो मणिमहसि मांसभ्रमवशा त् कपीन्द्रस्तं हत्वा मणिमपि च बालाय ददिवान् ॥
शशंसुः सत्राजिद्गिरमनु जनास्त्वां मणिहरं जनानां पीयूषं भवति गुणिनां दोषकणिका ।
ततः सर्वज्ञोऽपि स्वजनसहितो मार्गणपरः प्रसेनं तं दृष्ट्वा हरिमपि गतोऽभूः कपिगुहाम् ॥
भवन्तमवितर्कयन्नतिवयाः स्वयं जाम्बवान् मुकुन्दशरनं हि मां क इह रोद्धुमित्यालपन् ।
विभो रघुपते हरे जय जयेत्यलं मुष्टिभिश्चरंस्तव समर्चनं व्यधित भक्तचूडामणिः ॥
बुद्ध्वाथ तेन दत्तां नवरमणीं वरमणीं च परिगृह्णन् ।
अनुगृह्णन्नमुमागाः सपदि च सत्राजिते मणिं प्रादाः ॥
तदनु स खलु व्रीडालोलो विलोलविलोचनां दुहितरमहो धीमान्भामां गिरैव परार्पिताम् ।
अदित मणिना तुभ्यं लभ्यं समेत्य भवानपि प्रमुदितमनास्तस्यैवादान्मणीं गहनाशयः ॥
व्रीडाकुलां रमयति त्वयि सत्यभामां कौन्तेयदाहकथयाथ कुरून्प्रयाते ।
ही गान्दिनेयकृतवर्मगिरा निपात्य सत्राजितं शतधनुर्मणिमाजहार ॥
शोकात्कुरूनुपगतामवलोक्य कान्तां हत्वा द्रुतं शतधुनं समहर्षयस्ताम् ।
रत्ने सशङ्क इव मैथिलगेहमेत्य रामो गदां समशिशिक्षत धार्तराष्ट्रम् ॥
अक्रूर एष भगवन् भवदिच्छयैव सत्राजितः कुचरितस्य युयोज हिंसाम् ।
अक्रूरतो मणिमनाहृतवान्पुनस्त्वं तस्यैव भूतिमुपधातुमिति ब्रुवन्ति ॥
भक्तस्त्वयि स्थिरतरः स हि गान्दिनेयस्तस्यैव कापथमतिः कथमीश जाता ।
विज्ञानवान्प्रशमवानहमित्युदीर्णं गर्वं ध्रुवं शमयितुं भवता कृतैव ॥
यातं भयेन कृतवर्मयुतं पुनस्तमाहूय तद्विनिहितं च मणिं प्रकाश्य ।
तत्रिव सुवरतधरे विनिधाय तुष्यन् भामाकुचान्तरशयः पवनेश पायाः ॥
स्निग्धां मुग्धां सततमपि तां लालयन्सत्यभामां यातो भूयः सह खलु तया याज्ञसेनीविवाहम् ।
पार्थप्रीत्यै पुनरपि पनागास्थितो हस्तिपुर्यां शक्रप्रस्थं पुरमपि विभो संविधायागतोऽभूः ॥
भद्रां भद्रां भवदवरजां कौरवेणार्थ्यमानां त्वद्वाचा तामहृत कुहनामस्करी शक्रसूनुः ।
तत्र क्रुद्धं बलमनुनयन्प्रत्यगास्तेन सार्धं शक्रप्रस्थं प्रियसखमुदे सत्यभामासहायः ॥
तत्र क्रीडन्नपि च यमुनाकूलदृष्टां गृहीत्वा तां कालिन्दीं नगरमगमः खाण्डवप्रीणिताग्निः ।
भ्रातृत्रस्तां प्रणयविवशां देव पैतृष्वसेयीं राज्ञां मध्ये सपदि जह्रिषे मित्रविन्दामवन्तीम् ॥
सत्यां गत्वा पुनरुदवहो नग्नजिन्नन्दनां तां बद्ध्वा सप्तापि च वृषवरान्सप्तमूर्तिर्निमेषात् ।
भद्रां नाम प्रददुरथ ते देव सन्तर्दनाद्यास्तत्सोदर्यां वरद भवतः सापि पैतृष्वसेयी ॥
पार्थाद्यैरप्यकृतलवनं तोयमात्राभिलक्ष्यं लक्षं छित्वा शफरमवृथा लक्षणां मद्रकन्याम् ।
अष्टावेवं तव समभवन्वल्लभास्तत्र मध्ये शुश्रोथ त्वं सुरपतिगिरा भौमदुश्चेष्टितानि ॥
स्मृतायातं पक्षिप्रवरमधिरूढस्त्वमगमो वहन्नङ्के भामामुपवनमिवारातिनगरम् ।
विभिन्दन्दुर्गाणि त्रुटितपृतनाशोनितरसैः पुरं तावत्प्राग्ज्योतिषमकुरुथाः शोणितपूरम् ॥
मुरस्त्वां पञ्चास्यो जलधिवनमध्यादुदपतत् स चक्रे चक्रेण प्रदलितशिरा मङ्क्षु भवता ।
चतुदन्तैर्दन्तावलपतिभिरिन्धानसमरं रथाङ्गेनच्छित्वा नरकमकरोस्तीर्णरकम् ॥
स्तुतो भूम्या राज्यं सपदि भगदत्तेऽस्य तनये गजं चैकं दत्त्वा प्रजिघायिथ नागान्निजपुरीम् ।
खलेनाबद्धानां स्वगतमनसां षोडश पुनः सहस्राणि स्त्रीणामपि च धनराशिं च विपुलम् ॥
भौमापाहृतकुण्डलं तददितेर्दातुं प्रयातो दिवं शक्राद्यैर्महितः समं दयितया द्युस्त्रीषु दत्तह्विया ।
हृत्वा कल्पतरुं रुषाभिपतितं जित्वेन्द्रमभ्यागमस्तत्तु श्रीमददोष ईदृश इति व्याख्यातुमेवाकृथाः ॥
कल्पद्रुं सत्यभामाभवनभुवि सृजन्द्व्यष्टसाहस्रयोषाः स्वीकृत्य प्रत्यगारं विहितबहुवपुर्लालयन्केलिभेदैः ।
आश्चर्यान्नारदालोकितविविधगतिस्तत्र तत्रापि गेहे भूयः सर्वासु कुर्वन्दश दश तनयान्पाहि वातालयेश ॥
प्रद्युम्नो रौक्मिणेयः स खलु तव कला शम्बरेणाहृतस्तं हत्वा रत्या सहाप्तो निजपूरमहरद्रुक्मिकन्यां च धन्याम् ।
तत्पुत्रोऽथानिरुद्धो गुणनिधिरवहद्रोचनां रुक्मिपौत्रीं तत्रोद्वाहे गतस्त्वं न्यवधि मुसलिना रुक्म्यपि द्यूतवैरात् ॥
बाणस्य सा बलिसुतस्य सहस्रबाहोर्माहेश्वरस्य महिता दुहिता किलोषा ।
त्वत्पौत्रमेनमनिरुद्धमदृष्टपूर्वं स्वप्नेऽनुभूय भगवन् विरहातुराभूत् ॥
योगिन्यतीव कुशला खलु चित्रलेखा तस्याः सखी विलिखती तरुणानशेषान् ।
तत्रानिरुद्धमुष्या विदितं निशायामानेष्ट योगबलतो भवतो निकेतात् ॥
कन्यापुरे दयितया सुखमारमन्तं चैनं कथञ्चन बबन्धुषि शर्वबन्धौ ।
श्रीनारदोक्ततदुदन्तदुरन्तरोषैस्त्वं तस्य शोणितपुरं यदुभिर्न्यरुन्धाः ॥
पुरीपालः शैलप्रियदुहितृनाथोऽस्य भगवान् समं भूतव्रातैर्यदुबलमशङ्कं निरुरुधे ।
महाप्राणो बाणो जटिति युयुधानेन युयुधे गुहः प्रद्युम्नेन त्वमपि पुरहन्त्रा जघटिषे ॥
निरुद्धाशेषास्त्रे मुमुहुषि तवास्त्रेण गिरिशे द्रुता भूता भीताः प्रमथकुलवीराः प्रमथिताः ।
परास्कन्दत्स्कन्दः कुसुमशरबाणैश्च सचिवः स कुम्भाण्डो भाण्डं नवमिव बलेनाशु बिभिदे ॥
चापानां पञ्चशत्या प्रसभमुपगते छिन्नचापेऽथ बाणे व्यर्थे याते समेतो ज्वरपतिरशनैरज्वरि त्वज्ज्वरेण ।
ज्ञानी स्तुत्वाथ दत्त्वा तव चरितजुषां विज्वरं स ज्वरोऽगात् प्रायोऽन्तर्ज्ञानवन्तोऽपि च बहुतमसा रौद्रचेष्टा हि रौद्राः ॥
बाणं नानायुधोग्रं पुनरभिपतितं दुर्पदोषाद्वितन्वन् निर्लूनाशेषदोषं सपदि बुबुधुषा शङ्करेणोपगीतः ।
तद्वाचा शिष्टबाहुद्वितयमुभयतो निर्भयं तत्प्रियं तं मुक्त्वा तद्दत्तमानो निजपुरमगमः सानिरुद्धः सहोषः ॥
मुहुस्तावच्छक्रं वरुणमजयो नन्दहरणे यमं बालानीतौ दवदहनपानेऽनिलसखम् ।
विधिं वत्सस्तेये गिरिशामिह बाणस्य समरे विभो विश्वोत्कर्षी तदयमवतारो जयति ते ॥
द्विजरुषा कृकलासवपुर्धरं नृगनृपं त्रिदिवालयमापयन् ।
निजजने द्विजभक्तिमनुत्तमामुपदिशन्पवनेश्वर पाहि माम् ॥
रामेऽथगोकुलगते प्रमदाप्रसक्ते हूतानुपेतयमुनादमने मदान्धे ।
स्वैरं समारमति सेवकवादमूढो दूतं न्ययुङ्क्त तव पौण्ड्रकवासुदेवः ॥
नारायणोऽहमवतीर्ण इहास्मि भूमौ धत्से किल त्वमपि मामकलक्षणानि ।
उत्सृज्य तानि शरणं व्रज मामिति त्वां दूतो जगाद सकलैर्हसितः सभायाम् ॥
दूतेऽथ यातवति यादवसैनिकस्त्वं यातो ददर्शिथ वपुः किल पौण्ड्रकीयम् ।
तापेन वक्षसि कृताङ्कमनल्पमूल्यश्रीकौस्तुभं मकरकुण्डलपीतचेलम् ॥
कालायसं निजसुदर्शनमस्यतोऽस्य कालानलोत्करकिरेण सुदर्शनेन ।
शीर्षं चकर्तिथ ममर्दिथ चास्य सेनां तन्मित्रकाशिपशिरोऽपि चकर्थ काश्याम् ॥
जाड्येन बालकगिरापि किलाहमेव श्रीवासुदेव इति रूढमतिश्चिरं सः ।
सायुज्यमेव भवदैक्यधिया गतोऽभूत् को नाम कस्य सुकृतं कथमित्यवेयात् ॥
काशीश्वरस्य तनयोऽथ सुदक्षिणाख्यः शर्वं प्रपूज्य भवते विहिताभिचारः ।
कृत्यानलं कमपि बाणरणातिभीतैर्भूतैः कथञ्चन वृतैः सममभ्यमुञ्चत् ॥
तालप्रमाणचरणामखिलं दहन्तीं कृत्यां विलोक्य चकितैः कथितोऽपि पौरैः ।
द्यूतोत्सवे कमपि नो चलितो विभो त्वं पार्श्वस्थमाशु विससर्जिथ कालचक्रम् ॥
अभ्यापतत्यमितधाम्नि भवन्महास्त्रे हा हेति विद्रुतवती खलु घोरकृत्या ।
रोषात्सुदक्षिणमदक्षिणचेष्टितं तं पुप्लोष चक्रमपि काशिपुरामधाक्षीत् ॥
स खलु विविदो रक्षोघाते कृतोपकृतिः पुरा तव तु कलया मृत्युं प्राप्तुं तदा खलतां गतः ।
नरकसचिवो हलिना युध्यन्नद्धा पपात तलाहतः ॥
साम्बं कौरव्यपुत्रीहरणनियमितं सान्त्वनार्थी कुरूणां यातस्तद्वाक्यरोषोद्धृतकरिनगरो मोचयामास रामः ।
ते घात्याः पाण्डवेयैरिति यदुपृतनां नामुचस्त्वं तदानीं तं त्वां दुर्बोधलीलं पवनपुरपते तापशान्त्यै निषेवे ॥
क्वचिदथ तपनोपरागकाले पुरि निदधत्कृतवर्मकामसूनू ।
यदुकुलमहिलावृतः सुतीर्थं समुपगतोऽसि समन्तपञ्चकाख्यम् ॥
बहुतरजनताहिताय तत्र त्वमपि पुनन्विनिमज्ज्य तीर्थतोये ।
द्विजगणपरिमुक्तवित्तराशिः सममिलथाः कुरुपाण्डवादिमित्रैः ॥
तव खलु दयिताजनैः समेता द्रुपदसुता त्वयि गाढभक्तिभारा ।
तदुदितभवदाहृतिप्रकारैरतिमुमुदे सममन्यभामिनीभिः ॥
तदनु च भगवन् निरीक्ष्य गोपानतिकुतुकादुपगम्य मानयित्वा ।
चिरतरविरहातुराङ्गरेखाः पशुपवधूः सरसं त्वमन्वयासीः ॥
सपदि च भवदीक्षणोत्सवेन प्रमुषितमानहृदां नितम्बिनीनाम् ।
अतिरसपरिमुक्तकञ्चुलीके परिचयहृद्यतरे कुचे न्यलैषीः ॥
रिपुजनकलहैः पुनः पुनर्मे समुपगतैरियती विलम्बनाभूत् ।
इति कृतपरिरम्भणे त्वयि द्रागतिविवशा खलु राधिका निलिल्ये ॥
अपगतविरहव्यथास्तदा ता रहसि विधाय ददाथ तत्त्वबोधम् ।
परमसुखचिदात्मकोऽहमात्मेत्युदयतु वः स्फुटमेव चेतसीति ॥
सुखरसपरिमिश्रितो वियोगः किमपि पुराभवदुद्धवोपदेशैः ।
समभवदमुतः परं तु तासां परमसुकैक्यमयी भवद्विचिन्ता ॥
मुनिवरनिवहैस्तवाथ पित्रा दुरितशमाय शुभानि पृच्छ्यमानैः ।
त्वयि सति किमिदं शुभान्तरैरित्युरुहसितैरपि याजितस्तदासौ ॥
सुमहति यजने वितायमाने प्रमुदितमित्रजने सहैव गोपाः ।
यदुजनमहितास्त्रिमासमात्रं भवदनुषङ्गरसं पुरेव भेजुः ॥
व्यपगमसमये समेत्य राधां दृढमुपगूह्य निरीक्ष्य वीतखेदाम् ।
प्रमुदितहृदयः पुरं प्रयातः पवनपुरेश्वर पाहि मां गदेभ्यः ॥
ततो मगधभूमृता चिरनिरोधसंक्लेशितं शताष्टकयुतायुतद्वितयमीश भूमीभृताम् ।
अनाथशरणाय ते कमपि पूरुषं प्राहिणोदयाचत स मागधक्षपणमेव किं भूयसा ॥
यियासुरभिमागधं तदनु नारदोदीरिताद् युधिष्ठिरमखोद्यमादुभयकार्यपर्याकुलः ।
विरुद्धजयिनोऽध्वरादुभयसिद्धिरित्युद्धवे शशंसुषि निजैः समं पुरमियेथ यौधिष्ठिरीम् ॥
अशेषदयितायुते त्वयि समागते धर्मजो विजित्य सहजैर्महीं भवदपाङ्गसंवर्धितैः ।
श्रियं निरुपमां वहन्नहह भक्तदासायितं भवन्तमयि मागधे प्रहितवान्सभीमार्जुनम् ॥
गिरिव्रजपुरं गतास्तदनु देव यूयं त्रयो ययाच समरोत्सवं द्विजमिषेण तं मागधम् ।
अपूर्णसुकृतं त्वमुं पवनजेन संग्रामयन् निरीक्ष्य सह जिष्णुना त्वमपि राजयुध्वा स्थितः ॥
अशान्तसमरोद्धतं विटपपाटनासंज्ञया निपात्य जरसः सुतं पवनजेन निष्पाटितम् ।
विमुच्य नृपतीन्मुदा समनुगृह्य भक्तिं परां दिदेशिथ गतस्पृहानपि च धर्मगुप्त्यै भुवः ॥
प्रचक्रुषि युधिष्ठिरे तदनु राजसूयाध्वरं प्रसन्नभृतकीभवत्सकलराजकव्याकुलम् ।
त्वमप्ययि जगत्पते द्विजपदावनेजादिकं चकर्थ किमु कथ्यते नृपवरस्य भाग्योन्नतिः ॥
ततः सवनकर्मणि प्रवरमग्र्यपूजाविधिं विचार्य सहदेववागनुगतः स धर्मात्मजः ।
व्यधत्त भवते मुदा सदसि विश्वभूतात्मने तदा ससुरमानुषं भवनमेव तृप्तिः दधौ ॥
ततः सपदि चेदिपो मुनिनृपेषु तिष्ठत्स्वहो सभाजयति को जडः पशुपदुर्दुरूटं वटुम् ।
इति त्वयि स दुर्वचोविततिमुद्वमन्नासनादुदापतदुदायुधः समपतन्नमुं पाण्डवाः ॥
निवार्य निजपक्षगानभिमुखस्य विद्वेषिणस्त्वमेव जहिषे शिरो दनुजदारिणा स्वारिणा ।
जनुस्त्रितयलब्धया सततचिन्तया शुद्धधीस्त्वया स परमेकतामधृत योगिनां दुर्लभाम् ॥
ततः सुमाहितो त्वया क्रतुवरे निरूढे जनो ययौ जयति धर्मजो जयति कृष्ण इत्यालपन् ।
खलः स तु सुयोधनो धुतमनाः सपत्नश्रिया मयार्पितसभामुखे स्थलजलभ्रमादभ्रमीत् ॥
तदा हसितमुत्थितं द्रुपदन्दनाभीमयोरपाङ्गकलया विभो किमपि तावदुज्जृम्भयन् ।
धराभरनिराकृतौ सपदि नाम बीजं वपन् जनार्दन मरुत्पुरीनिलय पाहि मामामयात् ॥
साल्वो भैष्मीविवाहे यदुबलविजितश्चन्द्रचूडाद्विमानं विन्दन्सौभं स मायी त्वयि वसति कुरूंस्त्वत्पुरीमभ्यभाङ्क्षीत् ।
प्रद्युम्नस्तं निरुन्धन्नखिलयदुभटैर्न्यग्रहीदुग्रवीर्यं तस्यामात्यं द्युमन्तं व्यजनि च समरः सप्तविंशत्यहान्तम् ॥
तावत्त्वं रामशाली त्वरितमुपगतः खण्डितप्रायसैन्यं सौभेशं तं न्यरुन्धाः स च किल गदया शार्ङ्गमभ्रंशयत्ते ।
मायातातं व्यहिंसीदपि तव पुरतस्तत्त्वयापि क्षणार्धं नाज्ञायीत्याहुरेके तदिदमवमतं व्यास एव न्यषेधीत् ॥
क्षिप्त्वा सौभं गदाचूर्णितमुदकनिधौ मङ्क्षु साल्वेऽपि चक्रेणोत्कृत्ते दन्तवक्त्रः प्रसभमभिपतन्नभ्यमुञ्चद्गदां ते ।
कौमोदक्या हतोऽसावपि सुकृतनिधिश्चैद्यवत्प्रापदैक्यं सर्वेषामेष पूर्वं त्वयि धृतमनसां मोक्षणार्थोऽवतारः ॥
त्वय्यायातेऽथ जाते किल कुरुसदसि द्यूतके संयतायाः क्रन्दन्त्या याज्ञसेन्याः सकरुणमकृथाश्चेलमालामनन्ताम् ।
अन्नान्तप्राप्तशर्वांशजमुनिचकितद्रौपदीचिन्तितोऽथ प्राप्तः शाकान्नमश्नन्मुनिगणमकृथास्तृप्तिमन्तं वनान्ते ॥
युद्धोद्योगेऽथ मन्त्रे मिलति सति वृतः फल्गुनेन त्वमेकः कौरव्ये दत्तसैन्यः करिपुरमगमो दूत्यकृत्पाण्डवार्थम् ।
मीष्मद्रोणादिमान्ये तव खलु वचने धिक्कृते कौरवेण व्यावृण्वन्विश्वरूपं मुनिसदसि पुरीं क्षोभयित्वागतोऽभूः ॥
जिष्णोस्त्वं कृष्ण सूतः खलु समरमुखे बन्धुघाते दयालुं खिन्नं तं वीक्ष्य वीरं किमिदमयि सखे नित्य एकोऽयमात्मा ।
को वध्यः कोऽत्र हन्ता तदिह वधभियं प्रोज्झ्य मय्यर्पितात्मा धर्म्यं युद्धं चरेति प्रकृतिमनयथा दर्शयन्विश्वरूपम् ॥
भक्तोत्तंसेऽथ भीष्मे तव धरणिभरक्षेपकृत्यैकसक्ते नित्यं नित्यं विभिन्दत्यवनिभृदयुतं प्राप्तसादे च पार्थे ।
निश्शस्त्रत्वप्रतिज्ञां विजहदरिवरं धारयन्क्रोधशालीवाधावन्प्राञ्जलिं तं नतशिरसमथो वीक्ष्य मोदादपागाः ॥
युद्धे द्रोणस्य हस्तिस्थिररणभगदत्तेरितं वैष्णवास्त्रं वक्षस्याधत्त चक्रस्थगितरविमहाः प्रार्दयन्सिन्धुराजम् ।
नागास्त्रे कर्णमुक्ते क्षितिमवनमयन्केवलं कृत्तमौलिं तत्रे तत्रापि पार्थं किमिव न हि भवान्पाण्डवानामकार्षीत् ॥
युद्धादौ तीर्थगामि स खलु हलधरो नैमिशक्षेत्रमृच्छन्नप्रत्युत्थायिसूतक्षयकृदथ सुतं तत्पदे कल्पयित्वा ।
यज्ञघ्नं बल्वलं पर्वणि परिदलयम्स्नाततीर्थो रणान्ते सम्प्राप्तो भीमदुर्योधनरणमशमं वीक्ष्य यातः पुरीं ते ॥
संसुप्तद्रौपदेयक्षपणहतधियं द्रौणिमेत्य त्वदुक्त्या तन्मुक्तं ब्राह्ममस्त्रं समहृत विजयो मौलिरत्नं च जहे ।
उच्छित्त्यै पाण्डवानां पुनरपि च विशत्युत्तरागर्भमस्त्रे रक्षन्नङ्गुष्ठमात्रः किल जठरमगाश्चक्रपाणिर्विभो त्वम् ॥
धर्मौघं धर्मसूनोरभिदधदखिलं छन्दमृत्युः स भीष्मस्त्वां पश्यन्भक्तिभूम्नैव हि सपदि ययौ निष्कलब्रह्मभूयम् ।
संयाज्याथाश्वमेधैस्त्रिभिरतिमहितैर्धर्मजं पूर्णकामं सम्प्राप्तो द्वारकां त्वं पवनपुरपते पाहि मां सर्वरोगात् ॥
कुचेलनामा भवतः सतीर्थ्यतां गतः स सान्दीपनिमन्दिरे द्विजः ।
त्वदेकरागेण धनादिनिःस्पृहो दिनानि निन्ये प्रशमी गृहाश्रमी ॥
समानशीलापि तदायवल्लभा तथैव नो चित्तहयं समेयुसी ।
कदाचिदूचे बत वृत्तिलब्धये रमापतिः किं न सखा निषेव्यते ॥
इतीरितोऽयं प्रियया क्षुधार्तया जुगुप्समानोऽपि धने मदावहे ।
तदा त्वदालोकनकौतुकाद्ययौ वहन्पटान्ते पृथुकानुपायनम् ॥
गतोऽयमाश्चर्यमयीं भवत्पूरीं गृहेषु शैब्याभवनं समेयिवान् ।
प्रविश्य वैकुण्ठमिवाप निर्वृतिं तवातिसम्भावनया तु किं पुनः ॥
प्रपूजितं तं प्रियया च वीजितं करे गृहीत्वाकथयः पुरा कृतम् ।
यदिन्धनार्थं गुरुदारचोदितैरपर्तुवर्षं तदमर्षि कानने ॥
त्रपाजुषोऽस्मात्पृथुकं बलादथ प्रगृह्य मुष्टौ सकृदाशिते त्वया ।
कृतं कृतं नन्वियतेति सम्भ्रमाद्रमा किलोपेत्य करं रुरोध ते ॥
भक्तेषु भक्तेन स मानितस्त्वया पुरीं वसन्नेकनिशां महासुखम् ।
बतापरेद्युर्द्रविणं विना ययौ विचित्ररूपस्तव खल्वनुग्रहः ॥
यदि ह्ययाचिष्यमदास्यदच्युतो वदामि भार्यां किमिति व्रजन्नसौ ।
त्वदुक्तिलीलास्मितमग्नधीः पुनः क्रमादपश्यन्मणिदीप्रमालयम् ॥
किं मार्गविभ्रंश इति भ्रमन्क्षणं गृहं प्रविष्टः स ददर्श वल्लभाम् ।
सखीपरीतां मणिहेमभूषितां बुबोध च त्वत्करुणां महाद्भुताम् ॥
स रत्नशालासु वसन्नपि स्वयं समुन्नमद्भक्तिभरोऽमृतं ययौ ।
त्वमेवमापूरितभक्तवाञ्छितो मरुत्पुराधीश हरस्व मे गदान् ॥
प्रागेवाचार्यपुत्राहृतिनिशमनया स्वीयषट्सूनुवीक्षां काङ्क्षन्त्या मातुरुकत्या सुतलभुवि बलिं प्राप्य तेनार्चितस्त्वम् ।
धातुः शापाद्धिरण्यान्वितकशिपुभवान्शौरिजान्कंसभग्नानानीयैनान्प्रदर्श्य स्वपदमनयथाः पूर्वपुत्रान्मरीचेः ॥
श्रुतदेव इति श्रुतं द्विजेन्द्रं बहुलाश्वं नृपतिं च भक्तिपूर्णम् ।
युगपत्त्वमनुग्रहीतुकामो मिथिलां प्रापिथ तापसैः समेतः ॥
गच्छन्द्विमूर्तिरुभयोर्युगपन्निकेतमेकेन भूरिविभवैर्विहितोपचारः ।
अन्येन तद्दिनभृतैश्च फलौदनाद्यैस्तुल्यं प्रसेदिथ ददाथ च मुक्तिमाभ्याम् ॥
भूयोऽथ द्वारवत्यां द्विजतनयमृतिं तत्प्रलापानपि त्वं को वा दैवं निरुन्ध्यादिति किल कथयन्विश्ववोढाप्यसोढाः ।
जिष्णोर्गर्वं विनेतुं त्वयि मनुजधिया कुण्ठितां चास्य बुद्धिं तत्त्वारूढां विधातुं परमतमपदप्रेक्षणेनेति मन्ये ॥
नष्टा अष्टास्य पुत्राः पुनरपि तव तूपेक्षया कष्टवादः स्पष्टो जातो जनानामथ तदवसरे द्वारकामार पार्थः ।
मैत्र्या तत्रोषितोऽसौ नवमसुतभृतौ विप्रवर्यप्ररोदं श्रुत्वा चक्रे प्रतिज्ञामनुपहृतसुतः सन्निवेक्ष्ये कृशानुम् ॥
मानी स त्वामपृष्ट्वा द्विजनिलयगतो बाणजालैर्महास्त्रै रुन्धानः सूतिगेहं पुनरपि सहसा दृष्टनष्टे कुमारे ।
याम्यामैन्द्रींतथायाः सुरवरनगरीर्विद्ययासाद्य सद्यो मोघोद्योगः पतिष्यन्हुतभुजि भवता सस्मितं वारितोऽभूत् ॥
सार्धं तेन प्रतीचीं दिशमतिजविना स्यन्दनेनाभियातो लोकालोकं व्यतीतस्तिमिरभरमथो चक्रधाम्ना निरुन्धन् ।
चक्रांशुक्लिष्टदृष्टिं स्थितमथ विजयं पश्य पश्येति वारां पारे त्वं प्राददशः किमपि हि तमसां दूरदूरं पदं ते ॥
तत्रासीनं भुजङ्गाधिपशयनतले दिव्यभूषायुधाद्यैरावीतं पीतचेलं प्रतिनवजलदश्यामलं श्रीमदङ्गम् ।
मूर्तीनामीशितारं परमिह तिसृणामेकमर्थं श्रुतीनां त्वामेव त्वं परात्मन् प्रियसखसहितो नेमिथ क्षेमरूपम् ॥
युवां मामेवद्वावधिकविवृतान्तर्हिततया विभिन्नौ सुन्द्रष्टुं स्वयमहमहार्षं द्विजसुतान् ।
नयेतं द्रागेनानिति खलु वितीर्णान्पुनरमून् द्विजायादायादाः प्रणुतमहिमा पाण्डुजनुषा ॥
एवं नानाविहारैर्जगदभिरमयन्वृष्णिवंशं प्रपुष्णन्नीजानो यज्ञभैदैरतुलविहृतिभिः प्रीणयन्नेणनेत्राः ।
भूभारक्षेपदम्भात्पदकमलजुषां मोक्षणायावतीर्णः पूर्णं ब्रह्मैव साक्षाद्यदुषु मनुजतारूषितस्त्वं व्यलासीः ॥
प्रायेण द्वारवत्यामवृतदयि तदी नारदस्त्वद्रसार्द्रस्तस्माल्लेभे कदाचित्खलु सुकृतनिधिस्त्वत्पिता तत्त्वबोधम् ।
भक्तानामग्रयायी स च खलु मतिमानुद्धवस्त्वत्त एव प्राप्तो विज्ञानसारं स किल जनहितायाधुनास्ते वदर्याम् ॥
सोऽयं कृष्णावतारो जयति तव विभो यत्र सौहार्दभीतिस्नेहद्वेषानुरागप्रभृतिभिरतुलैरश्रमैर्योगभेदैः ।
आर्तिं तीर्वा समस्ताममृतपदमगुः सर्वतः सर्वलोकाः स त्वं विश्वार्तिशान्त्यै पवनपुरपते भक्तिपूर्त्यै च भूयाः ॥
रमाजाने जाने यदिह तव भक्तेषु विभवो न सम्पद्यः सद्यस्तदिह मदकृत्त्वादशमिनाम् ।
प्रशान्तिं कृत्वैव प्रदिशसि ततः काममखिलं प्रशान्तेषु क्षिप्रं न खलु भवदीये च्युतिकथा ॥
सद्यःप्रसादरुषितान्विधिशङ्करादीन् कचिद्विभो निजगुणानुगुणं भजन्तः ।
भ्रष्टा भवन्ति बत कष्टमदीर्घदृष्ट्या स्पष्टं वृकासर उदाहरणं किलास्मिन् ॥
शकुनिजः स हि नारदमेकदा त्वरिततोष्षमपृच्छदधीश्वरम् ।
स च दिदेश गिरीशमुपासितुं न तु भवन्तमबन्धुमसाधुषु ॥
तपस्तप्त्व् घोरं स खलु कुपितः सप्तमदिने शिरश्छित्त्वा सद्यः पुरहरमुपस्थाप्य पुरतः ।
अतिक्षुद्रं रौद्रं शिरसि करदानेन निधनं जगन्नाथाद्वव्रे भवति विमुखानां क्व शुभधूः ॥
मोक्तारं बन्धमुक्तो हरिणपतिरिव प्राद्रवत्सोऽथ रुद्रं दैत्याद्भीत्या स्म देवो दिशि दिशि वलते पृष्ठतो दत्तदृष्टिः ।
तूष्णीके सर्वलोके तव पदमधिरोक्ष्यन्तमुद्वीक्ष्य शर्वं दूरादेवाग्रतस्त्वं पटुवटुवपुषा तस्थिषे दानवाय ॥
भद्रं ते शाकुनेय भ्रमसि किमधुना त्वं पिशाचस्य वाचा सन्देहश्चेन्मदुक्तौ तव किमु न करोष्यङ्गुलीमङ्ग मौलौ ।
इत्थं त्वद्वाक्यमूढः शिरसि कृतकरः सोऽपतच्छिन्नपातं भ्रंशो ह्येवं परोपासितुरपि च गतिः शूलिनोऽपि त्वमेव ॥
भृगुं किल सरस्वतीनिकटवासिनस्तापसास्त्रिमुर्तिषु समादिशन्नधिकसत्त्वतां वेदितुम् ।
अयं पुनरनादरादुदितरुद्धरोषे विधौ हरेऽपि च जिहिंसिषौ गिरिजया धृते त्वामगात् ॥
सुप्तं रमाङ्कभुवि पङ्कजलोचनं त्वां विप्रे विनिघ्नति पदेन मुदोत्थितस्त्वम् ।
सर्वं क्षमस्व मुनिवर्य भवेत्सदा मे त्वत्पादचिह्नमिह भूषणमित्यवादीः ॥
निश्चित्य ते च सुदृढं त्वयि बद्धभावाः सारस्वता मुनिवरा दधिरे विमोक्षम् ।
त्वामेवमच्युत पुनश्च्युतिदोषहीनं सत्त्वोच्चयैकतनुमेव वयं भजामः ॥
जगत्सृष्ट्यादौ त्वां निगमनिवहैर्वन्दिभिरिव स्तुतं विष्णो सच्चित्परमरसनिर्द्वैतवपुषम् ।
परात्मानं भूमन् पशुपविनताभाग्यनिवहं परीतपश्रान्त्यै पवनपुरवासिन् परिभजे ॥
वृकभृगुसुनिमोहिन्यम्बरीषादिवृत्तेष्वयि तव हि महत्त्वं सर्वशर्वादिजैत्रम् ।
स्थितमिह परमात्मन् निष्कलार्वागभिन्नं किमपि यदवभातं तद्धि रूपं तवैव ॥
मूर्तित्रयेश्वरसदाशिवपञ्चकं यत् प्राहुः परात्मवपुरेव सदाशिवोऽस्मिन् ।
तत्रेश्वरस्तु स विकुण्ठपदस्त्वमेव त्रित्वं पुनर्भजसि सत्यपदे त्रिभागे ॥
तत्रापि सात्त्विकतनुं तव विष्णुमाहुर्धाता तु सत्त्वविरलो रजसैव पूर्णः ।
सत्त्त्वोत्कटत्वमपि चास्ति तमोविकारचेष्टादिकं च तव शङ्करनाम्नि मूर्तौ ॥
तं च त्रिमूर्त्यतिगतं पुरपूरुषं त्वां शर्वात्मनापि खलु सर्वमयत्वहेतोः ।
शंसन्त्युपासनाविधौ तदपि स्वतस्तु त्वद्रूपमित्यतिदृढं बहु नः प्रमाणम् ॥
श्रीशङ्करोऽपि भगवान्सकलेषु तावत् त्वामेव मानयति यो न हि पक्षपाती ।
त्वन्निष्ठमेव स हि नामसहस्रकादि व्याख्यद्भवत्स्तुतिपरश्च गतिं गतोऽन्ते ॥
मूर्तित्रयातिगमुवाच च मन्त्रशास्त्र यादौ कलायसुषमं सकलेश्वरं त्वाम् ।
ध्यानं च निष्कलमसौ प्रणवे खलूक्त्वा त्वामेव तत्र सकलं निजगाद नान्यम् ॥
समस्तसारे च पुराणसंग्रहे विसंशयं त्वन्महिमैव वर्ण्यते ।
त्रिमूर्तियुक्सत्यपदत्रिभागतः परं पदं ते कथितं न शूलिनः ॥
यद्ब्राह्मकल्प इह भागवतद्वितीयस्कन्धोदितं वपुरनावृतमीश धात्रे ।
तस्यैव नाम हरिशर्वमुखं जगाद श्रीमाधवं शिवपरोऽपि पुराणसारे ॥
ये स्वप्रकृत्यनुगुणा गिरिशं भजन्ते तेषां फलं हि दृढयैव तदीयभक्त्या ।
व्यासो हि तेन कृतवानधिकारिहेतोः स्कान्दादिकेषु तव हानिवचोऽर्थवादैः ॥
भूतार्थकीर्तिरनुवादविरुद्धवादौ त्रेधार्थवादगतयः खलु रोचनार्थाः ।
स्कान्दादिकेषु बहवोऽत्र विरुद्धवादास्त्वत्तामसत्वपरिभूत्युपशिक्षणाद्याः ॥
यत्किञ्चिदप्यविदुषापि विभो मयोक्तं तन्मन्त्रशास्त्रवचनाद्यभिदृष्टमेव ।
व्यासोक्तिसारमयभागवतोपगीत क्लेशान्विधूय कुरु भक्तिभरं परात्मन् ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP