नारायणीय - अध्यायः ८
विष्णू हि सर्वोच्च शक्ती असून, त्रिमूर्ती ब्रह्मा, विष्णू आणि महेश यांपैकी, भगवान विष्णूचे कार्य विश्वाचा सांभाळ आणि प्रतिपाळ करणे आहे
Vishnu,also known as Narayana is the Supreme Being or Ultimate Reality
In the Trimurti, Vishnu is responsible for the maintenance or 'preservation' of the universe.
इन्द्रद्यूम्नः पाण्ड्यखण्डाधिराजस्त्वद्भक्तात्मी चन्दनाद्रौ कदीचित् ।
त्वत्सेवायां मग्नधीरालुलोके नैवागस्त्यं प्राप्तमातिथ्यकामम् ॥
कुम्भोद्भूतः संभृतक्रोधभारः स्तब्धात्मा त्वं हस्तिभूयं भजेति ।
शप्त्वाथैनं प्रत्यगात्सोऽपि लेभे हस्तीन्द्रत्वं त्वत्स्मृतिव्यक्तिधन्यम् ॥
दुग्धाम्भोधेर्मध्यभाजि त्रिकूटे क्रोडञ्छैले यूथपोऽयं वशाभिः ।
सर्वान्जन्तूनत्यवर्तिष्ट शक्त्या त्वद्भक्तानां कुत्र नोत्कर्षलाभः ॥
स्तेन स्थेम्ना दिव्यदेहत्वशक्त्या सोऽयं खेदानप्रजानन्कदाचित् ।
शैलप्रान्ते घर्मतान्तः सरस्यां यूथैः सार्धं त्वत्प्रणुन्नोऽभिरेमे ॥
हूहूस्तावद्देवलस्यापि शापद्ग्राहीभूतस्तज्जले वर्तमानः ।
जग्राहैनं हस्तिनं पाददेशे शान्त्यर्थं हि श्रान्तिदोऽसि स्वकानाम् ॥
त्वत्सेवाया वैभवाद्दुर्निरोधं युध्यन्तं तं वत्सराणां सहस्रम् ।
प्राप्ते काले त्वत्पदैकाग्र्यसिद्ध्यै नक्राक्रान्तं हस्तिवीरं व्यधास्त्वम् ॥
आर्तिव्यक्तप्राक्तनज्ञानभक्तिः शुण्डोत्क्षिप्तैः समर्चन् ।
पूर्वाभ्यस्तं निर्विशेषात्मनिष्ठं स्तोत्रश्रेष्ठं सोऽन्दगादीत्परात्मन् ॥
श्रुत्वा स्तोत्रं निर्गुणस्थं समस्तं ब्रह्मेशाद्यैर्नाहमित्यप्रयाते ।
सर्वात्मा त्वं भूरिकारुण्यवेगात्तार्क्ष्यारूढः प्रेक्षितोऽभूः पुरस्तात् ॥
हस्तीन्द्रं तं हस्तपद्मेन धृत्वा चक्रेण त्वं नक्रवर्यं व्यदारीः ।
गन्धर्वेऽस्मिन्मुक्तशापे स हस्ती त्वत्सारूप्यं प्राप्य देदीप्यते स्म ॥
एतद्वृत्तं त्वां च मां च प्रगे यो गायेत्सोऽयं भूयसे श्रेयसे स्यात् ।
इत्युक्त्वैनं तेन सार्धं गतस्त्वं धिष्ण्यं विष्णो पाहि वातालयेश ॥
दुर्वासाः सुरवनिताप्तदिव्यमाल्यं शक्राय स्वयमुपदाय तत्र भूजः ।
नागेन्द्रप्रतिमृदिते शशाय शक्रं का क्षान्तिस्त्वदितरदेवतांशजानाम् ॥
शापेन प्रथितजरेऽथ निर्जरेन्द्रे देवेष्वप्यसुरजितेषु निष्प्रभेषु ।
शर्वाद्याः कमलजमेत्य सर्वदेवा निर्वाणप्रभव समं भवन्तमापुः ॥
ब्रह्माद्यैर्नुतमहिमा चिरं तदानीं प्रादुःषन्वरद पुरः परेण धाम्ना ।
हे देवा दितिजकुलैर्विधाय सन्धिं पीयूषं परिमथतेति पर्यशास्त्वम् ॥
सन्धानं कृतवति दानवैः सुरौधे मन्थानं नयति मदेन मन्दराद्रिम् ।
भ्रष्टेऽस्मिन्बदरमिवोद्वहन्खगेन्द्रे सद्य्स्त्वं विनिहितवान्पयः पयोधौ ॥
आधाय द्रुतमथ वासुकिं वरत्रां पाथोधौ विनिहितसर्वबीजजाले ।
प्रारब्धे मथनविधौ सुरासुरैस्तैर्व्याजात्त्वं भुजगमुखेऽकरोः सुरारीन् ॥
क्षुब्धाद्रौ क्षुभितजलोदरे तदानीं दुग्धाब्धौ गुरुतरभारतो निमग्ने ।
देवेषु व्यथिततमेषु तत्प्रियैषी प्राणैषीः कमठतनुं कठोरपृष्ठाम् ॥
वज्रातिस्थिरतरकर्परेण विष्णो विस्तारात्परिगतलक्षयोजनेन ।
अम्भोधेः कुहरगतेन वर्ष्मणा त्वं निर्मग्नं क्षितिधरनाथमुन्निनेथ ॥
उन्मग्ने झटिति तदा धराधरेन्द्रे निर्मेथुर्दृढमिह सम्मदेन सर्वे ।
आविश्य द्वितयगणेऽपि सर्पराजे वैवश्यं परिशमयन्नवीवृधस्तान् ॥
उद्दामभ्रमणजवोन्नमद्गिरीन्द्रन्यस्तैकस्थिरतरहस्तपङ्कजं त्वाम् ।
अभ्रान्ते विधिगिरिशादयः प्रमोदादुद्भ्रान्ता नुनुवुरुपात्तपुष्पवर्षाः ॥
दैत्यौधे भुजगमुखानिलेन तप्ते तेनैव त्रिदशकुलेऽपि किञ्चिदार्ते ।
कारुण्यात्तव किल देव वारिवाहाः प्रावर्षन्नमरगणान्न दैत्यसङ्घान् ॥
गरलं तरलानलं पुरस्ताज्जलधेरुद्विजगाल कालकूटम् ।
अमरस्तुतिवादमोदनिघ्नो निरिशस्तन्निपपौ भवत्प्रियार्थम् ॥
विमथत्सु सुरासुरेषु जाता सुरभिस्तामृषिषु न्यधास्त्रिधामन् ।
हयरत्नमभूदथेभरत्नं द्यूतरुश्चाप्सरसः सुरेषु तानि ॥
जगदीश भवत्परा तदानीं कमनीया कमला बभूव देवी ।
अमलामवलोक्य यां विलोकः सकलोऽपि स्पृहयाम्बभूव लोकः ॥
त्वयि दत्तहृद्दे तदैव देव्यै त्रिदशेन्द्रो मणिपीठिकां व्यतारीत् ।
सकलोपहृताभिषेचनीयैरृषयस्तां श्रुतिगीर्भिरभ्यषिञ्चन् ॥
अभिषेकजलानुपातिमुग्धत्वदपाङ्गैरवभूषिताङ्गवल्लीम् ।
मणिकुण्डलपीतचेलहारप्रमुखैस्ताममरादयोऽन्दभूषन् ॥
वरणस्रजमात्तभृङ्गनादां दधती सा कुचकुम्भमन्दयाना ।
पदशिञ्जितमञ्जुन्पुरा त्वां कलितव्रीलविलासमाससाद ॥
गिरिशद्रुहिणादिसर्वदेवान्गुणभाजोऽप्यविमुक्तदोषलेशान् ।
अवमृश्य सदैव सर्वरम्ये निहिता त्वय्यनयापि दिव्यमाला ॥
उरसा तरसा ममानिथैनां भुवनानां जननीमनन्यभावाम् ।
त्वदुरोविलसत्तदीक्षणश्रीपरिवृष्ट्या परिपुष्टमास विश्वम् ॥
अतिमोहनविभ्रमा तदानीं मदयन्ती खलु वारुणी निरागात् ।
तमसः पदवीमदास्त्वमेनामतिसम्माननया महासुरेभ्यः ॥
तरुणाम्बुदसुन्दरस्तदा त्वं ननु धन्वन्तरिरुत्थितोऽम्बुराशेः ।
अमृतं कलशे वहन्कराभ्यामखिलार्तिं हर मारुतालयेश ॥
उद्गच्छतस्तव करादमृतं हरत्सु दैत्येषु तानशरणाननुनीय देवान् ।
सधस्तिरोदधिथ देव भवत्प्रभावाद् उद्यत्सयूथ्यकलहा दितिजा बभूवुः ॥
श्यामां रुचापि वयसापि तनुं तदानीं प्राप्तोऽसि तुङ्गकुचमण्डलभङ्गुरां त्वम् ।
पीयुषकुम्भकलहं परिमुच्य सर्वे तृष्णाकुलाः प्रतिययुस्त्वदुरोजकुम्भे ॥
का त्वं मृगाक्षि विभजस्व सुधामिमामित्यारूढरागविवशानभियाचतोऽमून् ।
विश्वस्यते मयि कथं कुलटास्मि दैत्या इत्यालपन्नपि सुविश्वसितानतानीः ॥
मोदात्सुधाकलशमेषु ददत्सु सा त्वं दुश्चेष्टितं मम सहध्वमिति ब्रुवाणा ।
पङ्क्तिप्रभेदविनिवेशितदेवदैत्या लीलाविलासगतिभिः समदाः सुधां ताम् ॥
अस्मास्वियं प्रणयिनीत्युसुरेषु तेषु जोषं स्थितेष्वथ समाप्य सुधां सुरेषु ।
त्वं भक्तलोकवशगो मिजरूपमेत्य स्वर्भानुमर्धपरिपीतसुधं व्यलावीः ॥
त्वत्तं सुधाहरणयोग्यफलं परेषु दत्त्वा गते त्वयि सुरैः खलु ते व्यगृह्णन् ।
घोरेऽथ मूर्छति रणे बलिदैत्यमायाव्यामोहिते सुरगणे त्वमिहाविरासीः ॥
त्वं कालनेमिमथ मालिसुखाञ्जघन्थ शक्रो जघान बलिजम्भवलान्सपाकान् ।
शुष्कार्द्रदुष्करवधे नमुचौ च लूने फेनेन नारदगिरा न्यरुणो रणं तम् ॥
योषावपुर्दनुजमोहनमाहितं ते श्रुत्वं विलोकनकुतूहलवान्महेशः ।
भूतैः समं गिरिजया च गतः पदं ते स्तुत्वाब्रवीदभिमतं त्वमथो तिरोधाः ॥
आरामसीमनि च कन्दुकघातलीलालोलायमाननयनां कमनीं मनोज्ञाम् ।
त्वामेष वीक्ष्य विगलद्वसनां मनोभूवेगादनङ्गरिपुरङ्ग समालिलिङ्ग ॥
भूयोऽपि विद्रुतवतीमुपधाव्य देवो वीर्यप्रमोक्षविकसत्परमार्थबोधः ।
त्वन्मानितस्तव महत्त्वमुवाच देव्यै तत्तादृशस्त्वमव वातनिकेतनाथ ॥
शक्रेण संयति हतोऽपि बलिर्महात्मा शुक्रेण जीविततनुः क्रतुवर्धितोष्मा ।
विक्रान्तिमान्भयनिलीनसुरां त्रिलोकीं चक्रे वशे स तव चक्रमुखादभीतः ॥
पुत्रार्तिदर्शनवशाददितिर्विषण्णा तं काश्यपं निजपतिं शरणं प्रपन्ना ।
त्वत्पूजनं तदुदितं हि पयोव्रताख्यं सा द्वादशाहमचरत्त्वयि भक्तिपूर्णा ॥
तस्यावधौ त्वयि निलीनमतेरमुष्याः श्यामश्चतुर्भुजवपुः स्वयमाविरासीः ।
नम्रां च तामिह भवत्तनयो भवेयं गोप्यं मदीक्षणमिति प्रलपन्नयासीः ॥
त्वं काश्यपे तपसि सन्निदधत्तदानीं प्राप्तोऽसि गर्भमदितेः प्रणुतो विधात्रा ।
प्रासूत च प्रकटवैष्णवदिव्यरूपं सा द्वादशीश्रवणपुण्यदिने भवन्तम् ॥
पुण्याश्रमं तमभिवर्षति पुष्पवर्षैर्हर्षाकुले सुरकुले कृततूर्यघोषे ।
बद्ध्वाञ्जलिं जय जयेति तनुः पितृभ्यां त्वं तत्क्षणे पटुतमं वटुरूपमाधाः ॥
तावत्प्रजापतिमुखैरुपनीय मौञ्जीदण्डाजिनाक्षवलयादिभिरर्च्यमानः ।
देदीप्यमानवपुरीश कृताग्निकार्यस् त्वं प्रास्थिथा बलिगृहं प्रकृताश्वमेधम् ॥
गात्रेण भाविमहिमोचितगौरवं प्राग् व्यावृण्वतेव धरणीं चलयन्नयासीः ।
छत्रं परोष्मतिरणार्थमिवादधानो दण्डं च दानवजनेष्विवं सन्निधातुम् ॥
तां नर्मदित्तरतटे हयमेधशालामासेदुषि त्वयि रुचा तव रुद्धनेत्रैः ।
भास्वान्किमेष दहनो नु सनत्कुमारो योगी नु कोऽयमिति शुक्रमुखैः शशङ्के ॥
आनीतमाशु भृगुभिर्महसाभिभूतैस् त्वां रम्यरूपमसुरः पुलकावृताङ्गः ।
भक्त्या समेत्य सुकृती परिषिच्य पादौ तत्तोयमन्वधृत मूर्धति तीर्थतीर्थम् ॥
प्रह्लादवंशजतया क्रतुभिर्द्विजेषु विश्वासतो नु तदिदं दितिजोऽपि लेभे ।
यत्ते पदाम्बु गिरिशस्य शिरोभिलाल्यं स त्वं विभो गुरुपुरालय पालयेथाः ॥
प्रीत्या दैत्यस्तव तनुमहःप्रेक्षणीत्सर्वथापि त्वामाराध्यन्नजित रचयन्नञ्जलिं सञ्जगाद ।
मत्तः किं ते समभिलषितं विप्रसूनो वद त्वं वित्तं भक्तं भवनमवनीं वापि सर्वं प्रदास्ये ॥
तामक्षीणां बलिगिरमुपाकर्ण्य कारुण्यपूर्णो अप्यस्योत्सेकं शमयितुमना दैत्यवंशं प्रशंसन् ।
भूमिं पादत्रयपरिमितां प्रार्थयामासिथ त्वं सर्वं देहीति तु निगदिते कस्य हास्यं न वा स्यात् ॥
विश्वेशं मां त्रिपदमिह किं याचसे बालिशस्त्वं सर्वां भूमिं वृणु किममुनेत्यालपत्त्वां स दृप्यन् ।
यस्माद्दर्पात्त्रिपदपरिपूर्त्यक्षमः क्षेपवादान् बन्धं चासावगमदतदर्होऽपि गाढोपशान्त्यै ॥
पादत्रय्या यदि न मुदितो विष्टपैर्नापि तुष्येदित्युक्तेऽस्मिन्वरद भवते दातुकामेऽथ तोयम् ।
दैत्याचार्यस्तव खलु परीक्षार्थिनः प्रेरणात्तं मा मा देयं हरिरयमिति व्यक्तमेवाबभाषे ॥
याचत्येवं यदि स भगवान्पूर्णकामोऽस्मि सोऽहं दास्याम्येव स्थिरमिति वदन्काव्यशप्तोऽपि दैत्यः ।
विन्ध्यावल्या निजदयितया दत्तपाद्याय तुभ्यं चित्रं चित्रं सकलमपि स प्रार्पयत्तोयपूर्वम् ॥
निस्सन्देहं दितिकुलपतौ त्वय्यशेषार्पणं तद् व्यातन्वाने मुमुचुरृषयः सामराः पुष्पवर्षम् ।
दिव्यं रूपं तव च तदिदं पश्यतां विश्वभाजाम्उच्चैरुच्चैरवृधदवधीकृत्य विश्वाण्डभाण्डम् ॥
त्वत्पादाग्रं निजपदगतं पुण्डरीकोद्भवोऽसौ कुण्डीतोयैरसिचदपुनाद्यज्जलं विश्वलोकान् ।
हर्षोत्कर्षात्सुबहु खेचरैरुत्सवेऽस्मिन् भेरीं निघ्नन्भुवनमचरज्जाम्बवान्भक्तिशाली ॥
तावद्दैत्यास्त्वनुमतिमृते भर्तुरारब्धतुद्धा देवोपेतैर्भवदनुचरैः सङ्गता भङ्गमापन् ।
कालात्मायं वसति पुरतो यद्वशात्प्राग्जिताः स्मः किं वो युद्धैरिति बलिगिरा तेऽथ पातालमापुः ॥
पाशैर्बद्धं पतगपतिना दैत्यमुच्चैरवादीस्तार्तीयीकं दिश मम पदं किं न विश्वेश्वरोऽसि ।
पादं मूर्ध्नि प्रणय भगवन्नित्यकम्पं वदन्तं प्रह्लादस्तं स्वयमुपगतो मानयन्नस्तवीत्त्वाम् ॥
दर्पोच्छित्त्यै विहितमखिलं दैत्य सिद्धोऽसि पुण्यैर्लोकस्तेऽस्तु त्रिदिवविजयी वासवत्वं च पश्चात् ।
मत्सायुज्यं भज च पुनरित्यन्वगृह्णा बलिं तं विप्रैः सन्तानितमखवरः पाहि वातालयेश ॥
पुरा हयग्रीवमहासुरेण षष्ठान्तरान्तोद्यदकाण्डकल्पे ।
निद्रोन्मुखब्रह्ममुखाद्धृतेषु वेदेष्वधित्सः किल मत्स्यरूपम् ॥
सत्यव्रतस्य द्रमिलाधिभर्तुर्नदीजले तर्पयतस्तदानीम् ।
कराञ्जलौ स ज्वलिताकृतिस्त्वमदृश्यथाः कश्चन बालमीनः ॥
क्षिप्तं जले त्वां चकितं विलोक्य निन्येऽन्बुपात्रण मुनिः स्वगेहम् ।
स्वल्पैरहोभिः कलशीं च कूपं वापीं सरश्चानशिषे विभो त्वम् ॥
योगप्रभावाद्भवदाज्ञयैव नीतस्ततस्त्वं मुनिना पयोधिम् ।
पृष्टोऽमुना कल्पदिदृक्षुमेनं सप्ताहमास्स्वेति वदन्नयासीः ॥
प्राप्ते त्वदुक्तेऽहनि वारिधारापरिप्लुते भूमितले मुनीन्द्रः ।
सप्तर्षिभिः सार्धमपारवारिण्युद्घूर्णमानः शरणं ययौ त्वाम् ॥
धरां त्वदादेशकरीमवाप्तां नौरूपिणीमारुरुहुस्तदा ते ।
तत्कम्पकम्प्रेषु च तेषु भूयस्त्वमम्बुधेराविरभूर्महीयान् ॥
झषाकृतिं योजनलक्षदीर्घां दधानमुच्चैस्तरतेजसं त्वाम् ।
निरीक्ष्य तुष्टा मुनयस्त्वदुक्त्या त्वत्तुङ्गशृङ्गे तरणिं बबन्धुः ॥
आकृष्टनौको मुनिमण्डलाय प्रदर्शयन्विश्वजगद्विभागान् ।
संस्तूयमानो नृवरेण तेन ज्ङानं परं चोपदिशन्नचारीः ॥
कल्पावधौ सप्त मुनीन्पुरोवत्प्रस्ताप्य सत्यव्रतभूमिपं तम् ।
वैवस्वताख्यं मनुमादधानः क्रोधाद्धयग्रीवमभिद्रुतोऽभूः ॥
स्वतुङ्गशृङ्गक्षतवक्षसं तं निपात्य दैत्यं निगमान्गृहीत्वा ।
विरिञ्चये प्रीतहृदे ददानः प्रभञ्जनागारपते प्रपायाः ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP