नारायणीय - अध्यायः ३
विष्णू हि सर्वोच्च शक्ती असून, त्रिमूर्ती ब्रह्मा, विष्णू आणि महेश यांपैकी, भगवान विष्णूचे कार्य विश्वाचा सांभाळ आणि प्रतिपाळ करणे आहे
Vishnu,also known as Narayana is the Supreme Being or Ultimate Reality
In the Trimurti, Vishnu is responsible for the maintenance or 'preservation' of the universe.
एवं तावत्प्राकृतप्रक्षयान्ते ब्राह्मे कल्पे ह्यादिमे लब्धजन्मा ।
ब्रह्मा भूयस्त्वत्त एवाप्य वेदान्सृष्टिं चक्रे पूर्वकल्पोपमानाम् ॥
सोऽयं चतुर्युगसहस्रमितान्यहानि तावन्मिताश्च रजनीर्बहुशो निनाय ।
निद्रात्यसौ त्वयि निलीय समं स्वसृष्टैर् नैमित्तिकप्रलयमाहुरतोऽस्य रात्रिम् ॥
अस्मादृशां पुनरहर्मुखकृत्यतुल्यां सृष्टिं करोत्यनुदिनं स भवत्प्रसादात् ।
प्राग्ब्राह्मकल्पजनुषां च परायुषां तु सुप्तप्रबोधनसमास्ति तदा विसृष्टिः ॥
पञ्चाशदब्दमधुना स्ववयोर्धरूपम् एकं परार्धमतिवृत्य हि वर्ततेऽसौ ।
तत्रान्त्यरात्रिजनितान्कथयामि भूमन् पश्चाद्दिनावतरणे च भवद्विलासान् ॥
दिनावसानेऽथ सरोजयोनिः सुषुप्तिकामस्त्वयि सन्निलिल्ये ।
जगन्ति च त्वज्जठरं समीयुस्तदेदमेकार्णवमास विश्वम् ॥
तवैव वेषे फणिराजि शेषे जलैकशेषे भुवने स्म शेषे ।
आनन्दसान्द्रानुभवस्वरूपः स्वयोगनिद्रापरिमुद्रितात्मा ॥
कालाख्यशक्तिं प्रलयावसाने प्रबोधयेत्यादिशता किलादौ ।
त्वया प्रसुप्तं परिसुप्तशक्तिव्रजेन तत्राखिलजीवधाम्ना ॥
चतुर्युगाणां च सहस्रमेवं त्वयि प्रसुप्ते पुनरद्वितीये ।
कालाख्यशक्तिः प्रथमप्रबुद्धा प्रावोधयत्त्वां किल विश्वनाथ ॥
विबुध्य च त्वं जलगर्भशायिन् विलोक्य लोकानखिलान्प्रलीनान् ।
तेष्वेव सूक्ष्मात्मतया निजान्तः स्थितेषु विश्वेषु ददाथ दृष्टिम् ॥
ततस्त्वदीयादयि नाभिरन्ध्रादुदञ्चितं किञ्चन दिव्यपद्मम् ।
निलीननिश्शेषपदार्थमालासङ्क्षेपरूपं मुकुलायमानम् ॥
तदेतदम्भोरुहकुड्मलं ते कलेबरात्तोयपथे प्ररूडःअम् ।
बहिर्निरीतं परितः स्फुरद्भिः स्वधामभिर्ध्वान्तमलं न्यकृन्तत् ॥
संफुल्लपत्रे नितरां विचित्रे तस्मिन्भवद्वीर्यधृते सरोजे ।
स पद्मजन्मा विधिराविरासीत्स्वयंप्रबुद्धाखिलवेदराशिः ॥
अस्मिन्परात्मन् ननु पाद्मकल्पे त्वमित्थमुत्थापितपद्मयोनिः ।
अनन्तभुमा मम रोगराशिं निरुन्धि वातालयवास् विष्णो ॥
स्थितः स कमलोद्भवस्तव हि नाभिपङ्केरुहे कुतः स्विदिदमम्बुधावुदितमित्यनालोकायन् ।
तदीक्षणकुतूहलात्प्रतिदिशं विवृत्ताननश् चतुर्वदनतामगाद्विकसदष्टदृष्ट्यम्बुजाम् ॥
महार्णवविघूर्ण्तं कमलमेव तत्केवलं विलोक्य तदुपाश्रयं तव तनुं तु नालोकयन् ।
क एष कमलोदरे महति निस्सहायो ह्यहं कुतः स्विदिदमम्बुजं समजनीति चिन्तामगात् ॥
अमुष्य हि सरोरुहः किमपि कारणं सम्भवेद् इतिस्म कृतनिश्चयः स खलु नालरन्ध्राध्वना ।
सयोगबलविद्यया समवरूढवान्प्रौढधीस् त्वदीयमतिमोहनं न तु कलेबरं दृष्टवान् ॥
ततः सकलनालिकाविवरमार्गगो मार्गयन् प्रय्स्य शतवत्सरं किमपि नैव सन्दृष्टवान् ।
निवृत्य कमलोदरे सुखनिषण्ण एकाग्रधीः समाधिबलमादधे भवदनुग्रहैकाग्रही ॥
शतेन परिवत्सरैर्दृढसमाधिबन्धोल्लसत् प्रबोधविश्दीकृतः स खलु पद्मिनीसम्भवः ।
अदृष्टचरमद्भुतं तव हि रूपमन्तर्दृशा व्यचष्ट परितुष्टधीर्भुजगभोगभागाश्रयम् ॥
किरीटमकृटोल्लसत्कटकहारकेयूरयुग् मणिस्फुरितमेखलं सुपरिवीतपीताम्बरम् ।
कलायकुसुमप्रभं गलतलोल्लसत्कौस्तुभं वपुस्तदयि भावये कमलजन्मने दर्शितम् ॥
श्रुतिप्रकरदर्शितप्रचुरवैभव श्रीपते हरे जय जय प्रभो पदमुपैषि दिष्ट्या दृशोः ।
कुरुष्व धियमाशु मे भुवननिर्मितौ कर्मठाम् इति द्रुहिणवर्णितस्वगुणबंहिमा पाहि माम् ॥
लभस्व भुवनत्रयीरचनदक्षतामक्षतां गृहाण मदनुग्रहं कुरु तपश्च भूयो विधे ।
भवत्वखिलसाधनी मयि च भक्तिरत्युत्कटेत्युदीर्य गिरमादधा मुदितचेतसं वेधसम् ॥
शतं कृततपास्ततः स खलु दिव्यसंवत्सरानवाप्य च तपोबलं मतिबलं च पूर्वाधिकम् ।
उदीक्ष्य किल कम्पितं पयसि पङ्कजं वायुना भवत्बलविजृम्भितः पवनपाथसी पीतवान् ॥
तवैव कृपया पुनः सरसिजेन तेनैव स प्रकल्प्य भुवनत्रयीं प्रववृते प्रजानिर्मितौ ।
तथाविधकृपाभरो गुरुमरुत्पुराधीश्वर त्वमाशु परिपाहि मां गुरुदयोक्षितैरीक्षितैः ॥
वैकुण्टःअ वर्धितबलोऽथ भवत्प्रसादादम्भोजयोनिरसृजत्किल जीवदेहान् ।
स्थास्नूनि भूरुहमयानि तथा तिरश्चां जातीर्मनुष्यनिवहानपि देवभेदान् ॥
मिथ्याग्रहास्मिमतिरागविकोपभीतिर् अज्ञानवृत्तिमिति पञ्चविधां स सृष्ट्वा ।
उद्दामतामसपदार्थविधानदूनस् तेने त्वदीयचरणस्मरणं विशुद्ध्यै ॥
तावत्ससर्ज मनसा सनकं सनन्दं भूयं सनातनमुनिं च सनत्कुमारम् ।
ते सृष्टिकर्मणि तु तेन नियुज्यमानास् त्वत्पादभक्तिरसिका जगृहुर्न वाणीम् ॥
तावत्प्रकोपमुदितं प्रतिरुन्धतोऽस्य भ्रूमध्यतोऽजनि मृडो भवदेकदेशः ।
नामानि मे कुरु पदानि च हा विरिञ्चेत् यदौ रुरोद्किल तेन स रुद्रनामा ॥
एकादशाह्वयतया च विभिन्नरूपं रुद्रं विधाय दयिता वनिताश्च दत्त्वा ।
तावन्त्यदत्त च पदानि भवत्प्रणुन्नः प्राह प्रजाविरचनाय च सदारं तम् ॥
रुद्राभिसृष्टभयदाकृतिरुद्रसङ्घसंपूर्यमाणाभुवनत्रयभीतचेताः ।
मा मा प्रजाः सृज तपश्चर मङ्गलायेत् याचष्ट तं कमलभूर्भवदीरितात्मा ॥
तस्याथ सर्गरसिकस्य मरीचिरत्रिस् तत्राङ्गिराः क्रतुमिनिः पुलहः पुलस्त्यः ।
अङ्गादजयत भृगुश्च वसिष्ठदक्षौ श्रीनारदश्च भगवान्भवदङ्घ्रिदासः ॥
धर्मादिकानभ्सृजन्नथ कर्दमं च वाणीं विधाय विधिरङ्गजसङ्कुलोऽभूत् ।
त्वद्बोधितैः सनकदक्षमुखैस्तनूजैर् उद्बोधितश्च विरराम तमो विमुञ्चन् ॥
देवान्पुराणनिवहानपि सर्वविद्याः कुर्वन्निजाननगणाच्चतुराननोऽसौ ।
पुत्रेषु तेषु विनिधाय स सर्गवृद्धिम् अप्राप्नुवंस्तव पदाम्बुजमाश्रितोऽभूत् ॥
जानन्नुपायमथ देहमजो विभज्य स्त्रीपुंसभावमभजन्मनुतद्वधूभ्याम् ।
ताभ्यां च मानुषकुलानि विवर्धयंस्त्वं गोविन्द मारुतपुराधिप रुन्धि रोगान् ॥
क्रमेण सर्गे परिवर्धमाने कदापि दिव्याः सनकादयस्ते ।
भवद्विलोकाय विकुण्ठलोकं प्रपेदिरे मारुतमन्दिरेश ॥
मनोज्ञनैः श्रेयसकाननाद्यैरनेकवापमिणिमन्दिरैश्च ।
अनोपमं तं भवतो निकेतं मुनीश्वराः प्रापुरतीतकक्ष्याः ॥
भवद्दिदृक्षून्भवनं विविक्षून्द्वाःस्थौ जयस्तान्विजयोऽप्यरुन्धाम् ।
तेषां च चित्ते पदमाप कोपः सर्वं भवत्प्रेरणयैव भूमन् ॥
वैकुण्ठलोकानुचितप्रचेष्टौ कष्टौ युवां दैत्यगतिं भजेतम् ।
इति प्रशप्तौ भवदाश्रयौ तौ हरिस्मृतिर्नोऽस्त्विति नेमतुस्तान् ॥
तेदेतदाज्ञाय भवानवाप्तः सहैव लक्ष्म्या बहिरम्बुजाक्ष ।
खगेश्वरांसार्पितचारुबाहुरानन्दयंस्तीनभिराममूर्त्या ॥
प्रसाद्य गीर्भिः स्तुवतो मुनीन्द्राननन्यनाथावथ पार्षदौ तौ ।
संरम्भयोगेन भवैस्त्रिभिर्मामुपेतमित्यात्तकृपां न्यगादीः ॥
त्वदीयभृत्यौ किल काश्यपात्तौ सुरारिवीरावुदितौ दितौ द्वौ ।
सन्ध्यासमुत्पादनकष्टचेष्टौ यमौ च लोकस्य यमाविवायौ ॥
हिरण्यपूर्वः कशिपुः किलैकः पुरो हिरण्याक्ष इति प्रतीतः ।
उभौ भवन्नाथमशेषलोकं रुषा न्यरुन्धां निजवासनान्धौ ॥
तयोर्हिरण्याक्षमहासुरेन्द्रो रणाय धावन्ननवाप्तवैरी ।
भवत्प्रियां क्ष्मां सलिले निमज्ज्य चचार गर्वाद्विनदन्गदावान् ॥
ततो जलेशात्सदृशं भवन्तं निशम्य बभ्राम गवेषयंस्त्वाम् ।
भक्तैकदृश्यः स कृपानिधे त्वं निरुन्धि रोगान्मरुदालयेश ॥
स्वायम्भुवो मनुरथो जनसर्गशीलो दृष्ट्वा महीमसमये सलिले निमघ्नाम् ।
स्रष्टारमाप शरणं भवदङ्घ्रिसेवातुष्टाशयं मुनिजनैः सह सत्यलोके ॥
कष्टं प्रजाः सृजति मय्यवनी निमग्ना स्थानं सरोजभव कल्पय तत्प्रजानाम् ।
इत्येवमेष कथितो मनुनि स्वयम्भूरम्भोरुहाक्ष तव पादयुगं व्यचिन्तीत् ॥
हा हा विभो जलमहं न्यपिबं पुरस्ताद् अद्यापि मज्जति मही किमहं करोमि ।
इत्थं त्वदङ्घ्रियुगलं शरणं यतोऽस्य नासापुटात्समभवः शिशुकोलरूपी ॥
अङ्गुष्टःअमात्रवपुरुत्पतितः पुरस्ताद् भूयोऽथ कुम्भिसदृशः समजृम्भथास्त्वम् ।
अभ्रे तथाविधमुदीक्ष्य भवन्तमुच्चैर् विस्मेरतां विधिरगात्सह सूनुभिः स्वैः ॥
कोऽसावचिन्त्यमहिमा किटिरुत्थितो मे घोणापुटात्किमु भवेदजितस्य माया ।
इत्थं विचिन्तयति धातरिशैलमात्रः सद्यो भवन्किल जगर्जिथ घोरघोरम् ॥
तं ते निनादमुपकर्ण्य जनस्तपःस्थाः सत्यस्थिताश्च मुनयो नुनुवुर्भवन्तम् ।
तत्स्तोत्रहर्षुलमनाः परिणद्य भूयस् तोयाशयं विपुलमूर्तिरवातरस्त्वम् ॥
ऊर्ध्वप्रसारिपरिधूम्राविधूतरोमा प्रोत्क्षिप्तवालधिरवाङ्मुखघोरघोणः ।
तूर्णप्रदीर्णजलदः परिघूर्णदक्ष्णा स्तोत्न्मुनीच्छिशिरयन्नवतेरिथ त्वम् ॥
अन्तर्जलं तदनु सङ्कुलनक्रचक्रं भ्राम्यत्तिमिङ्गिलकुलं कलुषोर्मिमालम् ।
आविश्य भीषणरवेण रसातलस्थानाकम्पयन्वसुमतीमगवेषयस्त्वम् ॥
दृष्ट्वाथ दैत्यहतकेन रसातलान्ते संवेशितां झटिति कूटकिटिर्विभो त्वम् ।
आपातुकानविगणय्य सुरारिखेटान् दंष्ट्राङ्कुरेण वसुधामदधाः सलीलम् ॥
अभ्युद्धरन्नथ धरां दशनाग्रलग्नमुस्ताङ्कुराङ्कित इवाधिकपीवरात्मा ।
उद्धातघोरसलिलाज्जलधेरुदञ्चन् क्तीडावराहवपुरीश्वर पाहि रोगात् ॥
हिरण्याक्षं तावद्वरद भवदन्वेषणपरं चरन्तं सांवर्ते पयसि निजजङ्घापरिमिते ।
भवद्भुक्तो गत्वा कपटपटुधीर्नारदमुनिः शनैरूचे नन्दन्दनुजमपि निन्दंस्तव बलम् ॥
स मायावी विष्णुर्हरति भवदीयं वसुमतीं प्रभो कष्टं कष्टं किमिदमिति तेनाभिगदितः ।
नदन्क्वासौ क्वासाविति स मुनिना दर्शितप्थो भवन्तं संप्रापद्धरणिधरमुद्यन्तमुदकात् ॥
अहो आरण्योऽयं मृग इति हसन्तं बहुतरैर् दुरुक्तैर्विध्यन्तं दितिसुतमवज्ञाय भगवन् ।
महीं दृष्ट्वा दंष्ट्राशिरसि चकितां स्वेन महसा पयोधावाधाय प्रसभमुदयुङ्क्था मृधविधौ ॥
गदापाणौ दैत्ये त्वमपि हि गृहीतोन्नतगदो नियुद्धेन क्रीडन्घटघटरवोद्घुष्टवियता ।
रणालोकैत्सुक्यान्मिलति सुरसङ्घे द्रुतममुं निरुन्ध्याः सन्ध्यातः प्रथममिति धात्रा जगदिषे ॥
गदोन्मर्दे तस्मिंस्तव खलु गदायां दितिभुवो गदाघाताद्भूमौ झटिति पतितायामहह भोः ।
मृदुस्मेरास्यस्त्वं दनुजकुलनिर्मूलनचणं महाचक्रं स्मृत्वा करभुवि दधानो रुरुचिषे ॥
ततः शूलं कालप्रतिमरुषि दैत्ये विसृजति त्वयिच्छिन्दत्येनत्करकलितचक्रप्रहरणात् ।
समारुष्टो मुष्ट्या स खलु वितुदंस्त्वां समतमोद् गलन्माये मायास्त्वयि किल जगन्मोहनकरीः ॥
भवच्चक्रज्योतिष्कणलवनिपातेन विधुते ततो मायाचक्रे विततघनरोषान्धमनसम् ।
गरिष्ठाभिर्मुष्टिप्रहृतिभिरभिघ्नन्तमसुरं कराग्रेण स्वेन श्रवणपदमूले निरवधीः ॥
महाकायः सोऽयं तव करसरोजप्रमथितो गलद्रक्तो वक्त्रादपतदृषिभिः श्लाघितहतिः ।
तदा त्वामुदामप्रमदभरविद्योतिहृदया मुनीन्द्राः सान्द्राभिः स्तुतिभिरनुवन्नध्वरतनम् ॥
त्वचि च्छन्दो रोमस्वपि कुशगणश्चक्षुषि घृतं चतुर्होतारोऽङ्घ्रौ स्रुगपि वदने चोदर इडा ।
ग्रहा जिह्वायां ते परपुरुष कर्णे च चमसा विभो सोमो वीर्यं वरद गलदेशेऽप्युपसन्दः ॥
मुनीन्द्रैरित्यादिस्तवनमुखरैर्मोदितमना महीयस्या मूर्त्या विमलतरकीर्त्या च विलसन् ।
स्वधिष्ण्यं संप्राप्तः सुखरसविहारी मधुरिपो निरुन्ध्या रोगं मे सकलमपि वातालयपते ॥
समनुस्मृततावकाङ्घ्रियुग्मः स मनुः पङ्कजसम्भवाङ्गजन्मा ।
निजमन्तरमन्तरायहीनं चरितं ते कथयन्सुखं निनाय ॥
समये खलु तत्र कर्दमाख्यो द्रुहिणच्छायभवस्तदीयवाचा ।
घृतसर्गरसो निसर्गरम्यं भगवंस्त्वामयुतं समाः सिषेवे ॥
गरुडोपरि कालमेघकम्रं विलसत्केलिसरोजपाणिपद्मम् ।
हसितोल्लसिताननं विभो त्वं वपुराविष्कुरुषे स्म कर्दमाय ॥
स्तुवते पुलकावृताय तस्मै मनुपुत्रीं दयितां नवापि पुत्रीः ।
कपिलं च सुतं स्वमेव पश्चात्स्वगतिं चाप्यनुगृह्य निर्गतोऽभूः ॥
स मनुः शतरूपया महिष्या गुणवत्या सुतया च देवहूत्या ।
भवदीरितनारदोपदिष्टः समगात्कर्दममागतिप्रतीक्षम् ॥
मनुनोपहृतां च देवहूतिं तरुणीरत्नमवाप्य कर्दमोऽसौ ।
भवदर्चननिर्वृतोऽपि तस्यां दृढशुश्रूषणया दधौ प्रसादम् ॥
सपुनस्त्वदुपासनप्रभावाद्दयिताकामकृते कृते विमाने ।
वनिताकुलसङ्कुले नवात्मा व्यहरद्देवपथेषु देवहूत्या ॥
शतवर्षमथ व्यतीत्य सोऽयं नव कन्याः समवाप्य धन्यरूपाः ।
वनयानसमुद्यतोऽपि कान्ताहितकृत्त्वज्जननोत्सुको न्यवात्सीत् ॥
निजभर्तृगिरा भवन्निषेवानिरतायामथ देव देवहूत्याम् ।
कपिलस्त्वमजायथा जनानां प्रथयिष्यन्परमात्मतत्त्वविद्याम् ॥
वनमेयुषि कर्दमे प्रसन्ने मतसर्वस्वमुपादिशञ्जनन्यै ।
कपिलात्मक वायुमदिरेश् त्वरितं त्वं परिपाहि मां गदौघात् ॥
मतिरिह गुणसक्ता बन्धकृत्तेष्वसक्ता त्वमृतकृदुपरुन्धे भक्तियोगस्तु सक्तिम् ।
महदनुगमलभ्या भक्तिरेवात्र साध्या कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥
प्रकृतिमहदहङ्काराश्च मात्राश्च भूतान्यपि हृदपि दशाक्षी पूरुषः पञ्चविंशः ।
इति विदितविभागो मुच्यतेऽसौ प्रकृत्यां कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥
प्रकृतिगतगुणौघैर्नाज्यते पूरुषोऽयं यदि तु सजति तस्यां तद्गुणास्तं भजेरन् ।
मदनुभजनतत्त्वालोचनैः साप्यपेयात् कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥
विमलमतिरुपात्तैरासनाद्यैर्मदङ्गं गुरुडसमधिरूढं दिव्यभूषायुधाङ्कम् ।
रुचितुलिततमालं शीलयेतानुवेलं कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥
मम गुणगुणलीलाकर्णनैः कीर्तिनाद्यैर् मयि सुरसरिदोघप्रख्यचित्तानुवृत्तिः ।
भवति परमभक्तिः सा हि मृत्योर्विजेत्री कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥
अहह बहुलहिंसासञ्चितार्थैः कुडुम्बं प्रतिदिनमनुपुष्णन्स्त्रीजितो बाललाली ।
विशति हि गृहसक्तो यातनां मय्यभक्तः कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥
युवतिजठरखिन्नो जातबोधोऽप्यकाण्डे प्रसवगलितबोधः पीडयोल्लङ्घ्य बाल्यम् ।
पुनरपि बत मुह्यत्येव तारुण्यकाले कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥
पितृसुरगणयाजी धार्मिको यो गृहस्थः स च निपतति काले दक्षिणाध्वोपगामी ।
मयि निहितमकां कर्म तूदक्पथार्थं कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥
इति सुविदितवेद्यां देव हे देवहूतिं कृतनुतिमनुगृह्य त्वं गतो योगिसङ्घैः ।
विमलमतिरथासौ भक्तियोगेन मुक्ता त्वमपि जनहितीर्थं वर्तसे प्रागुदीच्याम् ॥
परम किमु बहूक्त्या त्वत्पदाम्भोजभक्तिं सकलभयविनेत्रीं सर्वकामोपनेत्रीम् ।
वदसि खलु दृढं त्वं त्वद्विधूयामयान्मे गुरुपवनपुरेश् त्वय्युपाधत्स्व भक्तिम् ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP