ससंदेहालंकारः - लक्षण ३
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
तृतीया यथा-
‘ चपला जलदाच्च्युता लता वा तरुमुख्यादिति संशये निमग्न: ! गुरुनि:श्वसितै: कपिर्मनीषी निरणैषीदथ तां वियोगिनीति ॥’
एषु संशयेषु मञ्जूषादिगतकटकादिष्विवालंकारव्यपदेश: । एवं च-
‘ तं दृष्टवान्प्रथममद्भुतधैर्यवीर्य- गामभीर्यमक्षणविमुक्तसमीपजानिम् । वीक्ष्याथ दीनमबलविरहव्यथार्तं रामो न वायमिति संशयमाप लोक: ॥’
इत्यत्रापि सत्यपि चमत्कारे सादृश्यमूलत्वाभावान्न संशयस्यालंकार-त्वम् । एवभारोपमूलोऽयं संदेहालंकार: । अध्यवसानमूलोऽपि दृश्यते ।
यथा-
सिन्दूरै: परिपूरितं किमथवा लाक्षारसै: क्षालितं लिप्त्म वा किमु कुड्कुमद्रवभरैरेतन्महीमण्डलम् । संदेहं जनयन्नृणामिति परित्रातत्रिलोकस्त्विषां व्रात: प्रातरुपातनोतु भवतां भव्यानि भासां निधे: ॥’
अयं च संशय: सवितृविषयककविरतिपरिपोषकतया कामिनीकरगत-कड्कणादिरिव मुख्यतयालंकृतिव्यपदेश्य: । अत्र च विवक्षितविवेचने क्रिय-माणे किरणव्राते सिन्दूरत्वादिकोटिक: संशय: पर्यवस्यति । स च न सारोप: । विषयविषयिणोस्तदनुकूलविभक्तेरभावात् । अत: सिन्दूरत्वादिना संशयधर्मी किरणव्रातोऽध्यवसीयत इति । अत्र विचार्यते-सिन्दूरै: परि-पूरितं किमथवेति पद्ये तावत्सिन्दूरादिकरणकपरिपूरितत्वादिकोटिको जग-न्मण्डलधर्मिक: संशय: शब्दात्प्रतीयते । तस्मिंश्च संशये किमिदं सिन्दूररजो वा स्यात्, आहोस्विल्लाक्षारस: उताहो कुड्कुमद्रव इति सूर्यकिरणधर्मिकं संशयान्तरमानुगुण्यमाधत्ते । यथा पुरोवर्तिनी तुरगे स्थाणुर्वा पुरुषो वेति संशयो भूतलमिदं स्थाणुमत्पुरुषवद्वेति संशये । एवं च सूर्यकिरणधर्मिक:
संशयो गुणीभूतो व्यञ्जनागभ्यत्वाद्विषयविषयिणोरारोपानुकूलविभक्तिकतां नापेक्षते । अपेक्षते च साक्षाच्छब्दवेद्यतायामिति कुत्राध्ववसानमूलता संशयस्य ? एतेनाध्यवसानभूलतां संशयस्य निरूपयतो विमर्शिनीकार-स्योक्तिरपास्ता ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP