‘ आज्ञा सुमेषोरविलड्घनीया किं वा तदीया नवचापयष्टि: । वनस्थिता किं वनदेवता वा शकुन्तला वा मुनिकन्यकेयम्‍ ॥’
यद्यप्यत्रापि वाचकशब्दाभावाव्द्यड्रय एव भवितुमर्हति संशय: , तथापि विषयनिरूपणेन स्फुटमावेदितत्वान्न ध्वनिव्यपदेशस्य हेतु: । अपि

तु गुणीभूतव्यड्रयप्रभेदव्यपदेशस्य । अनुगामी चात्र प्रतिप्रकारं पृथगेव निर्दिष्ट: । यत्तु चित्रमीमांसायां संशयघ्वन्युदाहरणप्रसड्रे अप्पयदीक्षिता:-

“-‘ कांचित्काञ्चनगौराड्रीं वीक्ष्य साक्षादिव श्रियम्‍ । वरद: संशयापन्नो वक्ष: स्थलमवैक्षत ॥’

अत्र संशयस्य शब्दोपात्तत्वेऽपि तावन्मात्रस्यानलंकारत्वात्तदलंकार-ताप्रयोजकस्य वक्ष:स्थले स्थितैव लक्ष्मीस्ततोऽवतीर्य पुरस्तिष्ठतीत्येवं संश-याकारस्य वक्ष:स्थलमवैक्षतेत्यनेन व्यड्रयत्वात्संदेहालंकारध्वनिरत्रेति ।

यथा-

‘ दर्पणे च परिभोगदर्शिनी पृष्ठत: प्रणयिनो निषेदुष: । वीक्ष्य बिम्ब मनु बिम्बमात्मन: कानि कान्यपि चकार लज्जया ॥’

इत्यत्र कानि कान्यपीति सामान्यतो निर्दिष्टानुभावविशेषप्रतीत्यर्थं लज्जाशब्दप्रयोगेऽपि तस्या: स्वविभावानुभावाभ्यां रसानुगुणाभिव्यक्ति-रूपो ध्वनि: ” इत्याहु: , तदेतद्‍ध्वनितत्त्वविज्ञैरुपहसनीयमेव ।

तथाहि । संशयाविष्ट इत्यत्र संशयपदेनैकस्मिन्पदार्थे विरुद्धनानापदार्थ-संबन्धावगाहि ज्ञानं साक्षा देव निवेद्यते । तत्र कोऽसौ विरुद्धो नानार्थ इति विशेषाकाड्क्षायां वक्ष:स्थलावेक्षणेन वक्ष:स्थलस्थैव लक्ष्मीस्ततो‍ऽवतीर्य

किं पुरस्तिष्ठतीत्यादिरर्थो व्यञ्जनाव्यापारेण बोध्यमान: शक्त्या संशयशब्द-निवेदितज्ञानविशेषणीभूतेन सामान्यार्थेन साकमभेदेन पर्यवस्यति । एवं च संशयमात्रस्य शक्त्या बोधनाद्वक्ष:स्थलस्थितैवेत्यादिविषयभागस्यापि विरुद्धनानार्थत्वेन सामान्याकारेणावलीढतया तयैव कवलीकरणाद्वाच्यार्थ-संशयपर्यवसायकत्वाच्च न कस्यापि ध्वनिव्यपदेशहेतुत्वं युक्तम्‍ । सर्वथा वाच्यवृत्त्यचुम्बितस्यैव तथात्वमिति ध्वनिमार्गप्रवर्तकै: सिद्धान्तितत्वात्‍ । तथा च द्वितीयोद्दयोते--
“ शब्दार्थशक्त्याक्षिप्तो‍ऽपि व्यड्रयोऽर्थ: कविना पुन: यताविक्तियते स्वोक्त्या सान्यैवालंकृतिर्ध्वने: ॥’’

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP