यथा-

‘ अलिर्मृगो वा नेत्रं वा यत्र किंचिद्विभासते । अरविन्दं मृगाड्को वा मुख वेदं मृगीद्दश: ॥’

अत्र वक्तु: कवेस्तत्त्वज्ञतया संशयावाहार्यावेव ।

पतम्परितोऽपि चायं संभवति-

‘ विद्वदैन्यतमस्त्रिमूर्तिरथवा वैरीन्द्रवंशाटवी-दावाग्नि: किमहो महोज्ज्वलयश: शीतांशुदुग्धाम्बुधि: । किं वानड्रभुजड्रदष्टवनिताजीवातुरेवं नृ णां केषामेष नराधिपो न जनयत्यल्पेरा: कल्पना: ॥’

अत्राप्याहार्य: ।
क्कचित्परनिष्ठोऽपि  कविना निबध्यमान आहार्यो भवति ।

यथा-

‘ गगनाद्नलितो गभस्तिमानुत वाऽयं शिशिरो विभावसु: । मुनिरेवमरुन्धतीपति: सकलज्ञ: समशेत राघवे ॥’

अत्र मुनेर्वसिष्ठस्य सर्वज्ञत्वेनोपात्तस्य संशय आहार्य एव । यद्यप्यत्र ‘ मुनीनां च मतिभ्रम: ’ इत्युक्त्या तस्यानाहार्य एव संशयो वक्तुं शक्य: , तथापि कोटितावच्छेदकयो: शिशिरत्वगगनगलितत्वयोरग्निसूर्यरूपकोटि-द्वये आहार्यबोधस्यैवावश्यवाच्यतया पुरोवर्तिन्यभेदेन कोटिद्वयाभेदांशेऽपि तस्यैव न्याय्यत्वात्‍ । इह च कोटयोर्धर्मिसादृश्यदाढर्यायोष्णत्वगगनगतत्व-

रूपवैधर्म्यनिरासकमविद्यमानमपि गगनगलितत्वं शिशिरत्व्म चारोप्यते वक्त्रा । एवमादयोऽन्ये‍ऽपि प्रकारा: सुधीभि: स्वयमुन्नेया: ।

इति रसगड्राधरे ससंदेहप्रकरणम्‍ ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP