ससंदेहालंकारः - लक्षण ७
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
इति सूत्रयित्वा-
“ संकेतकालमनसं विटं ज्ञात्वा विदग्धया । हसन्नेत्रार्पिताकूतं लीलापद्मं निमीलितम् ॥”
अत्र संकेतकालमनस्म ज्ञात्वा लीलापद्मं निमीलितमिति वदता कविना लीलापद्मनिमीलनस्य प्रदोषाभिव्यञ्जकत्वं स्वोक्त्यैव निवेदितमिति ध्वनि-मार्गादयमपर एव गुणीभूतव्यड्रयस्य मार्ग: ।
यथा वा-
‘ अम्बा शेतेऽत्र वृद्धा परिणतवयसामणग्रीरत्र तातो नि:शेषागारकर्मश्रमशिथिलतनु: कुम्भदासी तथात्र । अस्मिन्पापाहमेका कतिपयदिवसप्रोषितप्राणनाथा पान्थायेत्थं तरुण्या कथितमवसरव्याह्लतिव्याजपूर्वम् ॥’
अत्र नि:शड्कं रन्तुमायाहीत्यर्थश्चरणत्रयव्यड्रयोऽप्यवसरव्याह्लतेर्व्या-जत्वं ब्रुवता कविना स्फुटं स्वोक्त्या निवेदित इत्ययमपि न ध्वनेर्मार्ग: ”
इत्याहुरानन्दवर्धनाचार्या: ।
तृतीयोद्दयोते च गुणीभूतव्यड्रयनिरूपणे ‘ व्यड्रयस्यार्थस्य यदि मना-गप्युक्त्या प्रकाशनं तदा गुणीभाव एव शोभते । तस्माद्यत्रोक्तिं विना व्यड्रयोऽर्थस्तात्पर्येण प्रतीयते तत्र तस्य प्राधान्याद्ध्वनित्वम् ’ इति तद्युक्ति-विवेचनेऽभिनवगुप्तपादाचार्या: ।
एवं चैवंविधेषु विषयेषु व्यञ्जकत्वस्य व्यड्रयस्य वा मनागुक्तिसंस्पर्श-मात्रेण ध्वनित्वं निराकुर्वाणा: ‘ कांचित्काञ्चनगौराड्रीं-’ इति पद्ये शब्दा-भिहितव्यड्रये ध्वनित्वं कथमिव स्वीकुर्वीरन् । एतेन ‘ दर्पणे च परिभोग-
दर्शिनी ’ इति प्रागुक्तपद्मे लज्जाध्वनित्वं यद्दीक्षितरैभ्यधीयत तदप्यपास्त मिति दिक् ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP