ससंदेहालंकारः - लक्षण ४
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
अप्पयदीक्षितास्तु-
‘ अस्या: सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रद: श्रृड्रारैकरस: स्वयं नु मदनो मासो नु पुष्पाकर: । वेदाभ्यासजड: कथं स विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनि: ॥’
इत्यत्र चन्द्रादीनां संदेहधर्मिणामेवानेकत्वम् । प्रकारम्तु वर्णनीयवनिता-स्रष्ट्टत्वमेकमेवेत्यनेककोटिकत्वाभावाद्विरोधेन परस्परप्रतिक्षेपकतया निब-द्धानेककोटयवगाहित्वरूपस्य संशयलक्षणस्याव्याप्तिमाहु: । तन्न । अत्र हि अस्या: सर्गविधौ य: प्रजापतिरभूत्स किं नु चन्द्र:, किं नु मदन:, किं वा नु वसन्त इति संशय: प्रजापतिधर्मिकश्चन्द्रत्वादिनानाकोटिक एवेति कुत्राव्याप्ति: । न चात्र चन्द्रादिधर्मिक : संशयो युक्तो वक्तुम् । एवं च प्रजापते: प्रथमोद्देशो न स्यात् । यदपि, ‘ साम्यादप्रकृतार्थस्य या धीर-
नवधारणा ’ इति प्राचां लक्षणं महता प्रबन्धेन त एव दूषितवन्त:, तदपि न । साम्यनिमित्ता निश्चयसंभावनान्यतरभिन्ना या धीरिति तदर्थ-करणे दोषाभावात् । निश्चयत्वं तु संशयाघटितमेव निर्वचनीयम् । उक्तेषूदाहरणेषु सोऽयं संशयालंकार: स्वशब्दवेद्यत्वाद्वाच्य: ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP