ससंदेहालंकारः - लक्षण ९
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
यथा वा--
‘ सपल्लवा किं नु विभाति वल्लरी सफुल्लपद्मा किमियं नु पद्मिनी । सभुल्लसत्पाणिपदां स्मिताननामितीक्षमाणै: समलम्भि संशय; ॥’ अत्र पल्लवफुल्लपद्मे पाण्याननयो: प्रतिबिम्बकोटयो: पृथड् निर्दिष्टे ।
‘ इदमुदधेरुदरं वा नयनं वात्रेरुतेश्वरस्य मन: । दशरथगृहे तदानीमेवं संशेरते स्म कवयोऽपि ॥’
अत्र तदानीमिति प्रकरणसाहाय्यवशाहशरथगृहेण धर्मिणाक्षिप्तस्य तत्कालजातस्य भगवतो रामस्य जलघ्युदरादिसंशयकोटित्रयाक्षिप्त: साधारणश्चन्द: प्रतिबिम्ब: । इमौ च बिम्बप्रतिबिम्बावनिर्दिष्टावपि
प्रतीयमानौ सादृश्यं प्रयोजयत: । एतेन ‘ अनुगाम्येव धर्मो लुप्त: संभवति, न तु बिम्बित: ’ इति वदन्त: परास्ता: । इति दिक् ।
अयं च क्कचिदनाहार्य: , क्कचिदाहार्य: । यत्र हि कविना परनिष्ठ: संशयो निबध्यते प्रायशस्तत्रानाहार्य: । यथा ‘ तीरे तरुण्या: ’ , ‘ मरकत-मणिमेदिनीधरो वा ’ इत्यादिषु प्रागुदाह्लतेषु पद्येषु । तत्र भ्रमरादीनां संशयानानां ग्राह्यनिश्चयाभावात् । यत्र च स्वगत एव तत्राऽऽहार्य: ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP