पूर्वत्रैकवाक्यगत:, इह तु भिन्नवाक्यगत: । पूर्वत्र वस्तुमात्रयोरौपम्य-मूलोऽभेद:, इह त्वौपम्ययोरौपम्यमूल: स इति विशेष: । एषा वाक्यार्थ-निदर्शनेत्युच्यते । विशिष्टार्थयो: प्रकृतैकधर्मिगतयोरार्थाभेदे वाक्यार्थ-निदर्शनाया इष्टे: । अस्यां च घटकपदार्थानां बिम्बप्रतिबिम्बभाव आवश्यक: ।
पदार्थनिदर्शना यथा-
‘ अगण्यैरिन्द्राद्यैरिह परमपुण्यै: परिचितो जगज्जन्मस्थानप्रलयरचनाशिल्पनिपुण: । प्रसर्पत्पीयूषाम्बुधिलहरिलीलविलसितो दृगन्तस्ते मन्दं मम कलुषवृन्दं दलयतु ॥ ’
अत्र दृगन्ताम्बुधिलहरिलीलयोराश्रयभेदाद्भिन्नयोरपि सादृश्यमूल-स्ताद्रूप्याभिमान: । आरोपो वा दृगन्ते लहरिलीलाया: ।
‘ पाणौ कृत: पाणिरिलासुताया: सस्वेदकम्पो रघुनन्दनेन । हिमाम्बुमन्दानिलविह्ललस्य प्रभातपद्मस्य बभार शोभाम्‍ ॥ ’
अत्र हिमाम्बुजनितविह्ललता हिमकणाकीर्णतारूपा वातजनितविह्ललता च विधुतिरूपा । एताभ्यां च सस्वेदता-सोक्तम्पितत्वयो: प्रतिबिम्बनमिति पूर्वस्मादुदाहरणाद्भेद: । प्रभातपदसांनिध्याच्च पद्मस्येषद्विकासमुद्रणयो: प्रत्ययात्पाणावपि तत्सिद्धि: । अस्यां चोपमानोपमेयगतधर्मयोरार्थाभेद-प्रतिपत्ति: । अत: पदार्थनिदर्शनोच्यते । बिम्बप्रतिबिम्बभावस्तूपमानोप-मेययो: सविशेषणत्वे भवति, अन्यथा तु न इति विवेक: ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP